भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 361380

देवदेवस्य शार्ङ्गिनः__व्ध_089.003
सदैवाराधने यत्नं__व्ध_089.003
भक्तियुक्तः करिष्यति__व्ध_089.003
पुरोधसं गौरमुखं__व्ध_089.004
प्रणिपत्य स पार्थिवः__व्ध_089.004
प्रक्ष्यत्य् आराधनार्थाय__व्ध_089.004
देवदेवस्य चक्रिणः__व्ध_089.004
भगवन् भवभीतो ऽहम्__व्ध_089.005
अभवाय ततो भवान्__व्ध_089.005
आराधयितुम् इच्छामि__व्ध_089.005
सर्वेच्छापूरकं हरिं__व्ध_089.005
संकुरुष्व महाभाग__व्ध_089.006
प्रसादं मम सुव्रत__व्ध_089.006
कृष्णाराधनकामस्य__व्ध_089.006
मनसो देशिको भव__व्ध_089.006
आराधनेन येनेशो__व्ध_089.007
जगताम् ईश्वरेश्वरः__व्ध_089.007
विष्णुर् आराध्यते पुंभिः__व्ध_089.007
संसाराब्धिपरिक्षतैः__व्ध_089.007
तन् ममोपदिश ब्रह्मन्__व्ध_089.008
प्रसादप्रवणं मनः__व्ध_089.008
कृत्वा सदैवार्तिमतां__व्ध_089.008
शरण्यं शरणं गुरुः__व्ध_089.008
एवं स तेन भूपाल__व्ध_089.009
भूपालेन र्षिपुङ्गवः__व्ध_089.009
केशवाराधनार्थाय__व्ध_089.009
सम्यक् पृष्टः प्रवक्ष्यति__व्ध_089.009
नमस्कृत्य जगद्धात्रे__व्ध_089.010
देवदेवाय शार्ङ्गिने__व्ध_089.010
परमेशसुरेशाय__व्ध_089.010
हृषीकेशाय वेधसे__व्ध_089.010
वरार्थिनाम् अमोघाय__व्ध_089.011
परस्मै हरिमेधसे__व्ध_089.011
सर्वकल्याणभूताय__व्ध_089.011
शङ्खचक्रगदाधृते__व्ध_089.011
वरासिचर्मावितते__व्ध_089.012
क्रूरशान्तात्ममूर्तये__व्ध_089.012
यद्यद्भूतोपकाराय__व्ध_089.012
तत्तद्रूपविकारिणे__व्ध_089.012
परमाण्वन्तपर्यन्त-__व्ध_089.013

सहस्रांशाणुमूर्तये__व्ध_089.013
जठरान्तायुताशान्त-__व्ध_089.013
स्थितब्रह्माण्डधारिणे__व्ध_089.013
श्वेतादिदीर्घह्रस्वादि-__व्ध_089.014
कठिनादिविकल्पना__व्ध_089.014
योगिचिन्त्ये जगद्धाम्नि__व्ध_089.014
यत्र नास्त्य् अखिलात्मनि__व्ध_089.014
तम् अजं शाश्वतं नित्यं__व्ध_089.015
परिणामविवर्जितम्__व्ध_089.015
योगिभिश् चिन्त्यते मूर्तिर्__व्ध_089.015
यत्र तत्राखिलात्मनि__व्ध_089.015
तत्र तत्रात्मनो नित्यं__व्ध_089.016
परिणामविवर्जितम्__व्ध_089.016
प्रणम्य जगताम् ईशम्__व्ध_089.016
अनन्तं परतः परम्__व्ध_089.016
परं पराणां स्रष्टारं__व्ध_089.017
पुराणं पुरुषं प्रभुम्__व्ध_089.017
वरं वरेण्यं वरदं__व्ध_089.017
स्थूलसूक्ष्मस्वरूपिणम्__व्ध_089.017
अशेषजगतां मूलम्__व्ध_089.018
अनादिनिधनस्थितिम्__व्ध_089.018
परापरस्वरूपस्थम्__व्ध_089.018
अविकारस्वरूपिणम्__व्ध_089.018
यस्योपचारतः स्वर्गं__व्ध_089.019
स्वरूपं व्यतिरिच्यते__व्ध_089.019
ज्ञानज्ञेयस्य मुनिभिर्__व्ध_089.019
ज्ञानविद्भिर् महात्मभिः__व्ध_089.019
तस्मै पार्थिवमुख्याय__व्ध_089.020
रघुवर्यमहात्मने__व्ध_089.020
श्रूयतां स मुनिश्रेष्ठो__व्ध_089.020
यद् वक्ष्यति परीक्षिते__व्ध_089.020
देवकी नाम राजेन्द्र__व्ध_089.021
देवकस्याभवत् सुता__व्ध_089.021
अनपत्या तपस् तेपे__व्ध_089.021
पुत्रार्थं किल भामिनी__व्ध_089.021
भार्या सा वसुदेवस्य__व्ध_089.022
सत्यधर्मपरायणा__व्ध_089.022
न चातुष्यत गोविन्दस्__व्ध_089.022
ततस् ताम् आह भार्गवः__व्ध_089.022
किमर्थं तप्यते भद्रे__व्ध_089.023

तपः परमदुश्चरम्__व्ध_089.023
को ऽर्थस् तवाभिलषितो__व्ध_089.023
गन्तुं कुत्र तवेप्सितम्__व्ध_089.023
अपुत्राहं द्विजश्रेष्ठ__व्ध_089.024
पत्युर् मे नास्ति संततिः__व्ध_089.024
साहम् आराध्य गोविन्दं__व्ध_089.024
पुत्रम् इच्छामि शोभनम्__व्ध_089.024
तपस् तावत् करिष्यामि__व्ध_089.025
परमेण समाधिना__व्ध_089.025
यावद् आराधितो विष्णुर्__व्ध_089.025
दास्यत्य् अभिमतं मम__व्ध_089.025
गोविन्दाराधने यत्नो__व्ध_089.026
यदि ते कुलनन्दिनि__व्ध_089.026
तद् इदं व्रतम् आस्थाय__व्ध_089.026
तोषयाशु जनार्दनम्__व्ध_089.026
प्रथमे कार्त्तिकस्याह्नि__व्ध_089.027
संप्राप्ते देवकात्मजे__व्ध_089.027
पञ्चगव्यजलस्नातः__व्ध_089.027
पञ्चगव्यकृताशनः__व्ध_089.027
बाणपुष्पैः समभ्यर्च्य__व्ध_089.028
वासुदेवम् अजं विभुम्__व्ध_089.028
दत्त्वा च चन्दनं धूपं__व्ध_089.028
परमान्नं निवेदयेत्__व्ध_089.028
घृतेन वाचयेद् विप्रं__व्ध_089.028
गृह्णीयाच् च ततो व्रतम्__व्ध_089.028
अद्यप्रभृत्य् अहं मासं__व्ध_089.029
विरतः प्राणिनां वधात्__व्ध_089.029
असत्यवचनात् स्तैन्यान्__व्ध_089.029
मधुमांसादिभक्षणात्__व्ध_089.029
स्वपन् विबुध्यन् गच्छंश् च__व्ध_089.030
स्मरिष्याम्य् अहम् अच्युतम्__व्ध_089.030
परापवादपैशून्यं__व्ध_089.030
परपीडाकरं तथा__व्ध_089.030
सच्छास्त्रदेवतायज्वि-__व्ध_089.031
निन्दाम् अन्यस्य वा भुवि__व्ध_089.031
न वक्ष्यामि जगत्य् अस्मिन्__व्ध_089.031
पश्यन् सर्वगत हरिम्__व्ध_089.031
इत्य् अन्यच् चापि शक्नोति__व्ध_089.032
यन् निर्वोढुं यशस्विनि__व्ध_089.032
कुर्वीत नियमं तस्य__व्ध_089.032

त्यागो धर्माय यस्य च__व्ध_089.032
कृत्वैवं पुरतो विष्णोर्__व्ध_089.033
निवृत्तिं पापतः शुभे__व्ध_089.033
नैवेद्यं स्वयम् अश्नीयान्__व्ध_089.033
मौनी नित्यम् उदङ्मुखः__व्ध_089.033
मार्गशीर्षे तथा मासि__व्ध_089.034
जातिपुष्पैर् जनार्दनम्__व्ध_089.034
समभ्यर्च्य शुभे धूपं__व्ध_089.034
चन्दनं संनिवेद्य च__व्ध_089.034
परमान्नं च देवाय__व्ध_089.035
विप्राय च पुनर् घृतम्__व्ध_089.035
दत्त्वा तथैव गृह्णीयान्__व्ध_089.035
नियमं चास्य रोचते__व्ध_089.035
तथैव नक्तं भुञ्जीत__व्ध_089.036
नैवेद्यं कुलनन्दिनि__व्ध_089.036
सर्वेष्व् एव तु मासेषु__व्ध_089.036
पञ्चगव्यादिकं समम्__व्ध_089.036
पुष्पधूपोपहारेषु__व्ध_089.037
विशेषो दक्षिणासु च__व्ध_089.037
स्नानप्राशनयोः साम्यं__व्ध_089.037
तथा वै नक्तभोजने__व्ध_089.037
अर्चयेत् प्रतिमासं च__व्ध_089.038
यैः पुष्पैस् तानि मे शृणु__व्ध_089.038
ये च धूपाः प्रदातव्या__व्ध_089.038
नैवेद्यान्नं च यद् यदा__व्ध_089.038
बाणस्य जातिकुसुमैस्__व्ध_089.039
तथैव च कुरुण्ठकैः__व्ध_089.039
कुन्दातिमुक्तकै रक्त-__व्ध_089.039
करवीरैश् च देवकि__व्ध_089.039
श्वेतैस् ततो मालिकया__व्ध_089.040
तथा मल्लिकया ततः__व्ध_089.040
दधिपिण्ड्याथ केतक्या__व्ध_089.040
पद्मरक्तोत्पलेन च__व्ध_089.040
क्रमेणाभ्यर्चितो विष्णुर्__व्ध_089.040
ददाति मनसेप्सितम्__व्ध_089.040
कार्त्तिके मार्गशीर्षे च__व्ध_089.041
धूपः पौषे च चन्दनम्__व्ध_089.041
माघफाल्गुनचैत्रेषु__व्ध_089.041
दद्याद् विष्णोस् तथागरुम्__व्ध_089.041
वैशाखादिषु मासेषु__व्ध_089.042

त्रिषु देवकि भक्तितः__व्ध_089.042
कर्पूरं देवदेवाय__व्ध_089.042
गुग्गुलं श्रावणादिषु__व्ध_089.042
कार्त्तिकादिषु मासेषु__व्ध_089.043
परमान्नं शुभे त्रिषु__व्ध_089.043
कासारं माघपूर्वेषु__व्ध_089.043
यवान्नं च ततस् त्रिषु__व्ध_089.043
घृतं तिलाञ् जलघटान्__व्ध_089.044
हिरण्यम् अथवाजिनम्__व्ध_089.044
प्रतिमासं तथा दद्याद्__व्ध_089.044
ब्राह्मणाय शुभव्रते__व्ध_089.044
यथोक्तं नियमानां च__व्ध_089.045
ग्रहणं प्रतिमासिकम्__व्ध_089.045
कुर्वञ् जगत्पतिर् विष्णुः__व्ध_089.045
प्रीयताम् इति मानवः__व्ध_089.045
योषिद् अप्य् अमलप्रज्ञे__व्ध_089.046
व्रतम् एतद् यथाविधि__व्ध_089.046
करोति या सा सकलान्__व्ध_089.046
अवाप्नोति मनोरथान्__व्ध_089.046
व्रतेनाराधितो विष्णुर्__व्ध_089.047
अनेन जगतः पतिः__व्ध_089.047
ददात्य् अभिमतान् कामान्__व्ध_089.047
अल्पकालेन भामिनि__व्ध_089.047
धन्यं यशस्यम् आयुष्यं__व्ध_089.048
सौभाग्यारोग्यदं तथा__व्ध_089.048
व्रतम् एतत् प्रियतमं__व्ध_089.048
व्रतेभ्यो ऽव्यक्तजन्मनः__व्ध_089.048
व्रतेनानेन शुद्धानाम्__व्ध_089.049
अब्देनैकेन केशवः__व्ध_089.049
सुखदृश्यो न संदेहो__व्ध_089.049
दीपेनैवाग्रतः स्थितः__व्ध_089.049
कायवाङ्मनसो शुद्धिं__व्ध_089.050
करोत्य् एतन् महाव्रतम्__व्ध_089.050
शुद्धानां चामलो देवो__व्ध_089.050
दृश्य एव जनार्दनः__व्ध_089.050
तस्मिन्न् एकाग्रचित्तानां__व्ध_089.051
प्राणिनां वरवर्णिनि__व्ध_089.051
विप्रा एव प्रयत्नेन__व्ध_089.051
मुक्तिभाजो विभूतयः__व्ध_089.051
यथा कल्पतरुं प्राप्य__व्ध_089.052

यद् यद् इच्छति चेतसा__व्ध_089.052
तत् तत् फलम् अवाप्नोति__व्ध_089.052
तथा संप्राप्य तं विभुम्__व्ध_089.052
शुद्धिव्रतम् इदं तस्मान्__व्ध_089.053
महापातकनाशनम्__व्ध_089.053
आराधनाय कृष्णस्य__व्ध_089.053
कुरु देवकि पावनम्__व्ध_089.053
तस्मिंश् चीर्णे हृषीकेशस्__व्ध_089.054
तुभ्यं दास्यति दर्शनम्__व्ध_089.054
दृष्टे चाभिमतं यत् ते__व्ध_089.054
तद् अशेषं भविष्यति__व्ध_089.054
देवकी भार्गवस्यैतच्__व्ध_090.001
श्रुत्वा वाक्यं नराधिप__व्ध_090.001
शुद्धिकामा चचाराथ__व्ध_090.001
सर्वकामप्रदं व्रतम्__व्ध_090.001
व्रतेनाराधितस् तेन__व्ध_090.002
तदा देव्या जनार्दनः__व्ध_090.002
ददौ दर्शनम् ईशेशः__व्ध_090.002
शङ्खचक्रगदाधरः__व्ध_090.002
दृष्टे तस्मिन्न् अशेषेशे__व्ध_090.003
जगद्धातरि केशवे__व्ध_090.003
कृत्वा प्रणामम् आहेदं__व्ध_090.003
भक्तिनम्राथ देवकी__व्ध_090.003
जगताम् ईश्वरेशेश__व्ध_090.004
ज्ञान ज्ञेय भवाव्यय__व्ध_090.004
समस्तदेवतादेव__व्ध_090.004
वासुदेव नमो ऽस्तु ते__व्ध_090.004
प्रधानपुंसोर् अजयोर्__व्ध_090.005
यः कारणम् अकारणम्__व्ध_090.005
अविशेष्यम् अजं रूपं__व्ध_090.005
तव तस्मै नमो ऽस्तु ते__व्ध_090.005
त्वं प्रधानं पुमांश् चैव__व्ध_090.006
कारणाकारणात्मकः__व्ध_090.006
सद् असच् चाखिलं देव__व्ध_090.006
केनोक्तेन तव स्तवः__व्ध_090.006
प्रसीद देव देवानाम्__व्ध_090.007
अरिशातन वामन__व्ध_090.007
लोभाभिभूता यद् अहं__व्ध_090.007
वरयामि प्रयच्छ तत्__व्ध_090.007
अदितिस् त्वं महाभागे__व्ध_090.008

भुवं प्राप्ता सुरारणि__व्ध_090.008
भर्ता च ते कश्यपो ऽयं__व्ध_090.008
देयस् तव वरो मया__व्ध_090.008
अपुत्रास्मि न मे भर्तुर्__व्ध_090.009
अस्ति केशव संततिः__व्ध_090.009
प्रसीद देहि मे पुत्रम्__व्ध_090.009
अरिदुर्धारपौरुषम्__व्ध_090.009
भविष्यत्य् अचिराद् देवि__व्ध_090.010
मदंशेन सुतस् तव__व्ध_090.010
हन्तव्या दानवास् तेन__व्ध_090.010
सद्धर्मपरिपन्थिनः__व्ध_090.010
त्वाम् अहं जगद्धातारम्__व्ध_090.011
उदारोरुपराक्रमम्__व्ध_090.011
धारयिष्यामि गर्भेण__व्ध_090.011
कथम् अच्युत शंस मे__व्ध_090.011
तवोदरे ऽवतारं वै__व्ध_090.012
पुरापि बलिबन्धने__व्ध_090.012
कुर्वता विधृताः सप्त__व्ध_090.012
लोकास् त्वं चात्ममायया__व्ध_090.012
तथा सांप्रतम् अप्य् एतांल्__व्ध_090.013
लोकान् सस्थाणुजङ्गमान्__व्ध_090.013
धारयिष्याम्य् अथात्मानं__व्ध_090.013
त्वां च देवकि लीलया__व्ध_090.013
इत्य् एवम् उक्त्वा तां देवीं__व्ध_090.014
देवकीं भगवान् प्रभुः__व्ध_090.014
तिरोबभूव गोविन्दो__व्ध_090.014
भूर्भुवःप्रभवो विभुः__व्ध_090.014
अवाप च ततो गर्भं__व्ध_090.015
देवकी वसुदेवतः__व्ध_090.051
अजायत च विश्वेशः__व्ध_090.015
स्वेनाङ्गेन जनार्दनः__व्ध_090.015
नीलोत्पलदलश्यामं__व्ध_090.016
ताम्रायतविलोचनम्__व्ध_090.016
चतुर्बाहुम् उदाराङ्गं__व्ध_090.016
श्रीवत्साङ्कितवक्षसम्__व्ध_090.016
तं जातं देवकी देवं__व्ध_090.017
निधानं सर्वतेजसाम्__व्ध_090.017
प्रणिपत्याभितुष्टाव__व्ध_090.017
संप्रस्तुतपयोधरा__व्ध_090.017
अबालो बालरूपेण__व्ध_090.018

येनेश त्वम् इहास्थितः__व्ध_090.018
त्वद्रूपं प्रणिपत्याहं__व्ध_090.018
यद् ब्रवीमि निबोध तत्__व्ध_090.018
नमस् ते सर्वभूतेश__व्ध_090.019
नमस् ते मधुसूदन__व्ध_090.019
नमस् ते पुण्डरीकाक्ष__व्ध_090.019
नमस् ते ऽस्तु जनार्दन__व्ध_090.019
नमस् ते शार्ङ्गचक्रासि-__व्ध_090.020
गदापरिघपाणये__व्ध_090.020
उपेन्द्रायाप्रमेयाय__व्ध_090.020
हृषीकेशाय वै नमः__व्ध_090.020
नमो ऽस्तु ते ऽणुरूपाय__व्ध_090.021
बृहद्रूपाय वै नमः__व्ध_090.021
अशेषभूतरूपाय__व्ध_090.021
तथारूपाय ते नमः__व्ध_090.021
अनिर्देश्यविशेषाय__व्ध_090.022
तुभ्यं सर्वात्मने नमः__व्ध_090.022
सर्वेश्वराय सर्वाय__व्ध_090.022
सर्वभूताय ते नमः__व्ध_090.022
नमो ऽस्तु ते वासुदेव__व्ध_090.023
नमो ऽस्तु कमलेक्षण__व्ध_090.023
अशेषभूतरूपाय__व्ध_090.*(144)
तथाभूताय ते नमः__व्ध_090.*(144)
नमो ऽस्तु ते ऽश्वरूपाय__व्ध_090.*(144)
तथारूपाय ते नमः__व्ध_090.*(144)
अनिर्देश्यविशेषाय__व्ध_090.*(144)
तुभ्यं सर्वात्मने नमः__व्ध_090.*(144)
नमो ऽस्तु ते वासुदेव__व्ध_090.*(144)
नमस् ते पुष्करेक्षण__व्ध_090.*(144)
नमो ऽस्तु ते सदाचिन्त्य__व्ध_090.023
योगिचिन्त्य जगत्पते__व्ध_090.023
विष्णो नमो ऽस्तु ते कृष्ण__व्ध_090.024
नमस् ते पुरुषोत्तम__व्ध_090.024
नमो नारायण हरे__व्ध_090.024
नमस् ते ऽस्तु सदाच्युत__व्ध_090.024
नमो नमस् ते गोविन्द__व्ध_090.025
नमस् ते गरुडध्वज__व्ध_090.025
श्रीश श्रीवत्स योगीश__व्ध_090.025
श्रीकान्तेश नमो ऽस्तु ते__व्ध_090.025
नीलोत्पलदलश्याम__व्ध_090.026

दंष्ट्रोद्धृतवसुंधर__व्ध_090.026
हिरण्याक्षरिपो देव__व्ध_090.026
नमस् ते यज्ञसूकर__व्ध_090.026
नृसिंह जय विश्वात्मन्__व्ध_090.027
दैत्योरःस्थलदारक__व्ध_090.027
नमो नमस् ते ऽस्तु सदा__व्ध_090.027
विक्षेपध्वस्ततारक__व्ध_090.027
मायावामनरूपाय__व्ध_090.028
तुभ्यं देव नमो नमः__व्ध_090.028
त्रिविक्रम नमस् तुभ्यं__व्ध_090.028
त्रैलोक्यक्रान्ति दुर्जय__व्ध_090.028
ऋग्यजुःसामभूताय__व्ध_090.029
वेदाहरणकर्मणे__व्ध_090.029
प्रणवोद्गीतवचसे__व्ध_090.029
महाश्वशिरसे नमः__व्ध_090.029
निःक्षत्रियोर्वीकरण__व्ध_090.030
विकरालपराक्रम__व्ध_090.030
जामदग्न्य नमस् तुभ्यं__व्ध_090.030
कार्तवीर्यासुतस्कर__व्ध_090.030
पौलस्त्यकुलनाशाय__व्ध_090.031
साधुमार्गविचारिणे__व्ध_090.031
नलसेतुकृते तुभ्यं__व्ध_090.031
नमो राघवरूपिणे__व्ध_090.031
सांप्रतं मत्प्रसन्नाय__व्ध_090.032
संभूताय ममोदरे__व्ध_090.032
स्वमायाबालरूपाय__व्ध_090.032
नमः कृष्णाय वै हरे__व्ध_090.032
यावन्ति तव रूपाणि__व्ध_090.033
यावत्यश् च विभूतयः__व्ध_090.033
नमामि कृष्ण सर्वेभ्यस्__व्ध_090.033
तेभ्यस् ताभ्यश् च सर्वदा__व्ध_090.033
स्वरूपचेष्टितं यत् ते__व्ध_090.034
यद् देवत्वे विचेष्टितम्__व्ध_090.034
यच् च तिर्यङ्मनुष्यत्वे__व्ध_090.034
चेष्टितं तन् नमाम्य् अहम्__व्ध_090.034
परमेश परेशेश__व्ध_090.035
तिर्यगीश नरेश्वर__व्ध_090.035
सर्वेश्वरेश्वरेशेश__व्ध_090.035
नमस् ते पुरुषोत्तम__व्ध_090.035
एवं स्तुतस् तया देव्या__व्ध_090.036

देवक्या मधुसूदनः__व्ध_090.036
बालरूपी जगादैवं__व्ध_090.036
वसुदेवस्य शृण्वतः__व्ध_090.036
सम्यग् आराधितेनोक्तं__व्ध_090.037
यत् प्रसन्नेन वै शुभे__व्ध_090.037
तत् कृतं सकलं भूयो__व्ध_090.037
यद् वृणोषि ददामि तत्__व्ध_090.037
अवतारे तथैवास्मिन्__व्ध_090.038
वर्षाणाम् अधिकं शतम्__व्ध_090.038
स्थास्यामि नरतां प्राप्तो__व्ध_090.038
दुष्टदैत्यनिबर्हणः__व्ध_090.038
तत् त्वं वरय भद्रं ते__व्ध_090.039
वरं यन् मनसेच्छसि__व्ध_090.039
दास्याम्य् अहम् असंदिग्धं__व्ध_090.039
यद्य् अपि स्यात् सुदुर्लभम्__व्ध_090.039
यदि देव प्रसन्नस् त्वं__व्ध_090.040
प्रददासि ममेप्सितम्__व्ध_090.040
वृणोमि तद् अहं नित्यं__व्ध_090.040
तव केशव दर्शनम्__व्ध_090.040
तवेदृग्रूपम् आलोक्य__व्ध_090.041
हार्दप्रस्रुतलोचना__व्ध_090.041
नालं वियोगं संसोढुं__व्ध_090.041
तवाहं मधुसूदन__व्ध_090.041
दाक्षायणी त्वम् अदितिः__व्ध_090.042
संभूता वसुधातले__व्ध_090.042
नित्यम् एव जगद्धात्रि__व्ध_090.042
प्रसादं ते करोम्य् अहम्__व्ध_090.042
षष्ठे षष्ठे तदा पक्षे__व्ध_090.043
दिने ऽस्मिन्न् एव भामिनि__व्ध_090.043
त्वं मां द्रक्ष्यस्य् असंदिग्धं__व्ध_090.043
प्रसादस् ते कृतो मया__व्ध_090.043
अनेनैव महाभागे__व्ध_090.044
बालरूपेण संवृतः__व्ध_090.044
तव दर्शनम् एष्यामि__व्ध_090.044
यत्र ते स्नेहवन् मनः__व्ध_090.044
तस्मिन् काले च लोकास् त्वां__व्ध_090.045
पूजयिष्यन्ति देवकि__व्ध_090.045
मां च पुष्पादिभिर् देवि__व्ध_090.045
तवोत्सङ्गव्यवस्थितम्__व्ध_090.045
संपूजितो ऽहं लोकानां__व्ध_090.046

तस्मिन् काले सुतोषितः__व्ध_090.046
प्रदास्यामि जगद्धात्रि__व्ध_090.046
यथाभिलषितं वरम्__व्ध_090.046
अपुत्राणां वरान् पुत्रान्__व्ध_090.047
अधनानां तथा धनम्__व्ध_090.047
शुभान् दारान् अदाराणां__व्ध_090.047
सरोगाणाम् अरोगताम्__व्ध_090.047
सुगतिं गतिकामानां__व्ध_090.048
विद्यां विद्यार्थिनाम् अपि__व्ध_090.048
प्रदास्यसि महाभागे__व्ध_090.048
मत्प्रसादोपवृंहिता__व्ध_090.048
प्रसादिता हि मर्त्यानां__व्ध_090.049
यत् त्वं दास्यसि शोभने__व्ध_090.049
तत् तेषां मत्प्रसादेन__व्ध_090.049
भविष्यति न दुर्लभम्__व्ध_090.049
त्वाम् अभ्यर्च्योपचारेण__व्ध_090.050
स्नापयित्वा घृतेन माम्__व्ध_090.050
सर्वकामान् अवाप्स्यन्ति__व्ध_090.050
काले षट्पक्षसंज्ञिते__व्ध_090.050
त्वदङ्कस्थं च मां बालं__व्ध_090.*(145)
संस्मरिष्यन्ति भक्तितः__व्ध_090.*(145)
प्रतिमासं च ते पूजाम्__व्ध_090.051
अष्टम्यां यः करिष्यति__व्ध_090.051
मम चैवाखिलान् कामान्__व्ध_090.051
संप्राप्नोत्य् अपकल्मषः__व्ध_090.051
एवं पूर्वं हृषीकेशो__व्ध_090.052
देवक्याः प्रददौ वरम्__व्ध_090.052
तस्मात् कृष्णाष्टमी पुंसाम्__व्ध_090.052
अशेषाघौघहारिणी__व्ध_090.052
तस्यां हि पूजितः कृष्णो__व्ध_090.053
देवकी च समाधिना__व्ध_090.053
पापापनोदं कुरुते__व्ध_090.053
ददाति च मनोरथान्__व्ध_090.053
तद् एष पुष्टिकामानां__व्ध_090.054
नॄणां पुण्यार्थिनाम् अपि__व्ध_090.054
उपवासो महीपाल__व्ध_090.054
शस्तः केशवतोषदः__व्ध_090.054
श्रावणे शुक्लपक्षे तु__व्ध_091.001
द्वादश्यां प्रीयते नृप__व्ध_091.001
गोप्रदानेन गोविन्दो__व्ध_091.001

यत् पूर्वं कथितं तव__व्ध_091.001
पौषशुक्ले तु तद्वच् च__व्ध_091.002
द्वादश्यां घृतधेनुकाम्__व्ध_091.002
घृतार्चिः प्रीणनायालं__व्ध_091.002
प्रदद्यात् फलदायिनीम्__व्ध_091.002
तथैव माघद्वादश्यां__व्ध_091.003
प्रदत्ता तिलगौर् नृप__व्ध_091.003
केशवं प्रीणयत्य् आशु__व्ध_091.003
सर्वकामान् प्रयच्छति__व्ध_091.003
ज्यैष्ठे मासि सिते पक्षे__व्ध_091.004
द्वादश्यां जलधेनुका__व्ध_091.004
दत्ता यथावद् विधिना__व्ध_091.004
प्रीणयत्य् अम्बुशायिनम्__व्ध_091.004
लवणं मार्गशीर्षे तु__व्ध_091.005
कृष्णम् अभ्यर्च्य यो नरः__व्ध_091.005
प्रयच्छति द्विजाग्र्याय__व्ध_091.005
स सर्वरसदायकः__व्ध_091.005
सर्वभोगमहाभोगान्__व्ध_091.006
भ्राजिष्मन्तो मनोरमान्__व्ध_091.006
लोकान् अवाप्नोति नृप__व्ध_091.006
प्रसन्ने गरुडध्वजे__व्ध_091.006
पौषमासे तु यो दद्याद्__व्ध_091.007
घृतं विप्राय पार्थिव__व्ध_091.007
समभ्यर्च्याच्युतं सो ऽपि__व्ध_091.007
सर्वकामान् अवाप्नुयात्__व्ध_091.007
माघमासे तु संपूज्य__व्ध_091.008
माधवं ब्राह्मणाय यः__व्ध_091.008
प्रयच्छति तिलांल् लोकान्__व्ध_091.008
संप्राप्नोत्य् अभिवाञ्छितान्__व्ध_091.008
फाल्गुने पुण्डरीकाक्षं__व्ध_091.009
यः समभ्यर्च्य यच्छति__व्ध_091.009
सप्तधान्यं नरश्रेष्ठ__व्ध_091.009
स सर्वस्येश्वरो भवेत्__व्ध_091.009
चैत्रे चित्राणि वस्त्राणि__व्ध_091.010
यः प्रयच्छति केशवम्__व्ध_091.010
पूजयित्वा स वै भोगान्__व्ध_091.010
विचित्रांल् लभते नरः__व्ध_091.010
वैशाखे विष्णुम् अभ्यर्च्य__व्ध_091.011
यवगोधूमदो नरः__व्ध_091.011
लोकान् ऐन्द्रान् समासाद्य__व्ध_091.011

मोदते विगतज्वरः__व्ध_091.011
दुर्निवर्त्यम् अहं मन्ये__व्ध_091.*(146)
चञ्चलं हि मनो यतः__व्ध_091.*(146)
ज्यैष्ठे ऽभ्यर्च्य हृषीकेशम्__व्ध_091.012
उदकुम्भप्रदो हि यः__व्ध_091.012
स परां निर्वृतिं याति__व्ध_091.012
सप्त जन्मान्तराणि वै__व्ध_091.012
आषाढमासे च हरिं__व्ध_091.013
यः समभ्यर्च्य यच्छति__व्ध_091.013
विप्राय चन्दनं सो ऽपि__व्ध_091.013
परमाह्लादभाजनम्__व्ध_091.013
यो नृसिंहं समभ्यर्च्य__व्ध_091.014
ब्राह्मणाय प्रयच्छति__व्ध_091.014
श्रावणे नवनीतं तु__व्ध_091.014
स स्वर्गं सुकृती व्रजेत्__व्ध_091.014
छत्त्रं च यो भाद्रपदे__व्ध_091.015
वासुदेवाभिपूजकः__व्ध_091.015
प्रयच्छति द्विजाग्र्याय__व्ध_091.015
स च्छत्त्राधिपतिर् भवेत्__व्ध_091.015
गुडशर्करया युक्तं__व्ध_091.016
मोदकं च प्रयच्छति__व्ध_091.016
तथैवाश्वयुजे ऽभ्यर्च्य__व्ध_091.016
यो ऽनन्तं सो ऽमरो भवेत्__व्ध_091.016
नारायणं समभ्यर्च्य__व्ध_091.017
यः प्रयच्छति कार्त्तिके__व्ध_091.017
दीपकं विप्रगेहेषु__व्ध_091.017
विमानं सो ऽधिरोहति__व्ध_091.017
काम्यान्य् एतान्य् अशेषाणि__व्ध_091.018
यः संपूज्य जगत्पतिम्__व्ध_091.018
दानानि यच्छति नरः__व्ध_091.018
स संपूर्णमनोरथः__व्ध_091.018
सर्वश्रेष्ठः समस्तानां__व्ध_091.018
बन्धूनाम् आश्रयो भवेत्__व्ध_091.018
एवं सर्वाणि दानानि__व्ध_091.019
प्रीणनायाच्युतस्य यः__व्ध_091.019
प्रयच्छति स सर्वेषां__व्ध_091.019
फलानां भुवि भाजनम्__व्ध_091.019
तस्मान् नरेन्द्र विप्रेभ्यः__व्ध_091.020
प्रीणनाय जगद्गुरोः__व्ध_091.020
प्रयच्छैतानि दानानि__व्ध_091.020

यच् चान्यद् दयितं तव__व्ध_091.020
यदीच्छसि पुनः प्राप्तुं__व्ध_091.021
भूतिम् अभ्रंशनीं नृप__व्ध_091.021
तदाराधय गोविन्दं__व्ध_091.021
नान्यथा स्युर् विभूतयः__व्ध_091.021
एवं वसिष्ठेन तदा__व्ध_091.022
मान्धाता नृप बोधितः__व्ध_091.022
सह पत्न्या महीपालः__व्ध_091.022
परितोषं परं ययौ__व्ध_091.022
जगाद च मुदा युक्तः__व्ध_091.023
प्रणिपत्य पुरोहितम्__व्ध_091.023
सह पत्न्या नरश्रेष्ठः__व्ध_091.023
समुत्थाय वरासनात्__व्ध_091.023
धिग् धिग् वृथैव यातानि__व्ध_091.024
ममैतानि दिनान्य् अहो__व्ध_091.024
अनासज्य मनः कृष्णे__व्ध_091.024
विषयासक्तचेतसः__व्ध_091.024
ता निशास् ते च दिवसास्__व्ध_091.025
ते र्तवस् ते च वत्सराः__व्ध_091.025
नराणां सफला येषु__व्ध_091.025
चिन्तितो भगवान् हरिः__व्ध_091.025
चिन्त्यमानः समस्तानां__व्ध_091.026
पापानां हाणिदो हि सः__व्ध_091.026
समुत्सृज्याखिलं चिन्त्यं__व्ध_091.026
सो ऽच्युतः किं न चिन्त्यते__व्ध_091.026
कष्टं मुष्टो ऽस्मि शिष्टेषु__व्ध_091.027
विद्यमानेषु मन्त्रिषु__व्ध_091.027
पराङ्मुखानां गोविन्दे__व्ध_091.027
यत् प्राप्तं परमं वयः__व्ध_091.027
एवं विनिन्द्य सो ऽत्मानां__व्ध_091.028
मान्धाता पृथिवीपतिः__व्ध_091.028
चकाराराधने यत्नं__व्ध_091.028
देवदेवस्य शार्ङ्गितिणः__व्ध_091.028
तम् आराध्य च विश्वेशम्__व्ध_091.029
उपेन्द्रम् असुरेश्वर__व्ध_091.029
प्राप सिद्धिं परां पूर्वं__व्ध_091.029
दक्षः प्राचेतसो यथा__व्ध_091.029
तथा त्वम् अपि राजेन्द्र__व्ध_091.030
सर्वभावेन केशवम्__व्ध_091.030
समाराधय गोविन्दं__व्ध_091.030

तम् आराध्य न सीदति__व्ध_091.030
एवं स दैत्यराजेन्द्रः__व्ध_091.031
प्रह्रादेनावबोधितः__व्ध_091.031
बलिर् आराधने यत्नं__व्ध_091.031
चक्रे चक्रभृतस् तदा__व्ध_091.031
पुष्पोपहारैर् धूपैश् च__व्ध_091.032
तथा चैवानुलेपनैः__व्ध_091.032
वासोभिर् भूषणैः सम्यग्__व्ध_091.032
ब्राह्मणानां च तर्पणैः__व्ध_091.032
जपैर् होमैर् व्रतैश् चैव__व्ध_091.033
यथोक्तं पुरुषर्षभ__व्ध_091.033
सह पत्न्या तथैव त्वं__व्ध_091.033
समाराधय केशवम्__व्ध_091.033
भगवंश् चञ्चलं चित्तं__व्ध_092.001
मनुष्याणाम् अहर्निशम्__व्ध_092.001
विषयासङ्गदुर्दुष्टं__व्ध_092.001
पापायैव प्रवर्तते__व्ध_092.001
मौनेन वाचिकं पापं__व्ध_092.002
पुंभिर् ब्रह्मन् निवर्त्यते__व्ध_092.002
शारीरम् अप्य् अकरणात्__व्ध_092.002
सुनिवर्त्यं मतं मम__व्ध_092.002
यत् त्व् एतन् मानसं पापं__व्ध_092.003
मनुष्यैस् तन् महामते__व्ध_092.003
दुर्निवर्त्यम् अहं मन्ये__व्ध_092.003
चञ्चलं हि मनो यतः__व्ध_092.003
तद् अहं श्रोतुम् इच्छामि__व्ध_092.004
मनुष्यैर् दुर्विचिन्तितैः__व्ध_092.004
यत् स्मर्तव्यं च जप्यं च__व्ध_092.004
मानसाघप्रशान्तये__व्ध_092.004
त्वद्युक्तो ऽयम् अनुप्रश्नः__व्ध_092.005
साध्व् एतद् भवतोदितम्__व्ध_092.005
चञ्चलत्वाद् धि चित्तानां__व्ध_092.005
मानसं बहु पातकम्__व्ध_092.005
भूमौ तृणम् असंख्यातं__व्ध_092.006
यथा च दिवि तारकाः__व्ध_092.006
तथा पापम् असंख्येयं__व्ध_092.006
चेतसा क्रियते तु यत्__व्ध_092.006
परदारपरद्रव्य-__व्ध_092.007
परहिंसासु मानसम्__व्ध_092.007
अहर्निशं मनुष्याणां__व्ध_092.007

सातत्येन प्रवर्तते__व्ध_092.007
यद्य् अस्योपशमो राजन्__व्ध_092.008
भुवि न क्रियते नृभिः__व्ध_092.008
तन् नास्ति नरकोत्तारो__व्ध_092.008
वर्षकोटीशतैर् अपि__व्ध_092.008
तद् अस्य प्रशमायालं__व्ध_092.009
प्रायश्चित्तं नराधिप__व्ध_092.009
शृणुष्व येन चित्तोत्थं__व्ध_092.009
सद्यः पापं व्यपोहति__व्ध_092.009
ओं नमो वासुदेवाय__व्ध_092.010
पुरुषाय महात्मने__व्ध_092.010
हिरण्यरेतसे ऽचिन्त्य-__व्ध_092.010
स्वरूपायातिवेधसे__व्ध_092.010
विष्णवे जिष्णवे नित्यं__व्ध_092.011
शान्तायानघरूपिणे__व्ध_092.011
सर्वस्थित्यन्तकरण-__व्ध_092.011
व्रतिने पीतवाससे__व्ध_092.011
नारायणाय विश्वाय__व्ध_092.012
विश्वेशायेश्वराय च__व्ध_092.012
नमः कमलकिञ्जल्क-__व्ध_092.012
सुवर्णमुकुटाय च__व्ध_092.012
केशवायातिसूक्ष्माय__व्ध_092.013
ब्रह्ममूर्तिमते नमः__व्ध_092.013
नमः परमकल्याण-__व्ध_092.013
कल्याणायात्मयोनये__व्ध_092.013
जनार्दनाय देवाय__व्ध_092.014
श्रीधराय सुमेधसे__व्ध_092.014
महात्मने वरेण्याय__व्ध_092.014
नमः पङ्कजनाभये__व्ध_092.014
स्मृतमात्राघघाताय__व्ध_092.015
कृष्णायाक्लिष्टकर्मणे__व्ध_092.015
नमो नताय नम्रेशैर्__व्ध_092.015
अशेषैर् वासवादिभिः__व्ध_092.015
नमो मायाविने तुभ्यं__व्ध_092.016
हरये हरिमेधसे__व्ध_092.016
हिरण्यगर्भगर्भाय__व्ध_092.016
जगतः कारणात्मने__व्ध_092.016
गोविन्दायादिभूताय__व्ध_092.017
श्रादीनां महात्मने__व्ध_092.017
नमो भूतात्मभूताय__व्ध_092.017

आत्मने परमात्मने__व्ध_092.017
अच्युताय नमो नित्यम्__व्ध_092.018
अनन्ताय नमो नमः__व्ध_092.018
दामोदराय शुचये__व्ध_092.018
यज्ञेशाय नमो नमः__व्ध_092.018
नमो मायापटच्छन्न-__व्ध_092.019
जगद्धाम्ने महात्मने__व्ध_092.019
हृषीकेशाय चेशाय__व्ध_092.019
सर्वभूतात्मरूपिणे__व्ध_092.019
दयालवे नमो नित्यं__व्ध_092.020
कपिलाय सुमेधसे__व्ध_092.020
संसारसागरोत्तार-__व्ध_092.020
ज्ञानपोतप्रदायिने__व्ध_092.020
अकुण्ठमतये धात्रे__व्ध_092.021
सर्गस्थित्यन्तकर्मणि__व्ध_092.021
करालसौम्यरूपाय__व्ध_092.021
वैकुण्ठाय नमो नमः__व्ध_092.021
यथा हि वासुदेवेति__व्ध_092.022
प्रोक्ते नश्यति पातकम्__व्ध_092.022
तथा विलयम् अभ्येतु__व्ध_092.022
ममैतद् दुर्विचिन्तितम्__व्ध_092.022
यथा न विष्णुभक्तेषु__व्ध_092.023
पापम् आप्नोति संस्थितिम्__व्ध_092.023
तथा विनाशम् अभ्येतु__व्ध_092.023
ममैतद् दुर्विचिन्तितम्__व्ध_092.023
स्मृतमात्रो यथा विष्णुः__व्ध_092.024
सर्वं पापं व्यपोहति__व्ध_092.024
तथा प्रणाशम् अभ्येतु__व्ध_092.024
ममैतद् दुर्विचिन्तितम्__व्ध_092.024
यथा सर्वत्रगो विष्णुस्__व्ध_092.025
तत्र सर्वं च संस्थितम्__व्ध_092.025
उपयातु तथा नाशं__व्ध_092.025
ममाघं चित्तसंभवम्__व्ध_092.025
पापं प्रणाशं मम संप्रयातु__व्ध_092.026
यन् मानसं यच् च करोमि वाचा__व्ध_092.026
शारीरम् अप्य् आचरितं च यन् मे__व्ध_092.026
स्मृते जगद्धातरि वासुदेवे__व्ध_092.026
प्रयान्तु दोषा मम नाशम् आशु__व्ध_092.027
रागादयः कारणकारणेशे__व्ध_092.027
विज्ञानदीपामलमार्गदृश्ये__व्ध_092.027

स्मृते जगद्धातरि वासुदेवे__व्ध_092.027
भवन्तु भद्राणि समस्तदोषाः__व्ध_092.028
प्रयान्तु नाशं जगतो ऽखिलस्य__व्ध_092.028
मयाद्य भक्त्या परमेश्वरेशे__व्ध_092.028
स्मृते जगद्धातरि वासुदेवे__व्ध_092.028
ये भूतले ये दिवि ये ऽन्तरिक्षे__व्ध_092.029
रसातले प्राणिगणाश् च केचित्__व्ध_092.029
भवन्तु ते सिद्धियुजो मयाद्य__व्ध_092.029
स्मृते जगद्धातरि वासुदेवे__व्ध_092.029
पुष्यन्तु मैत्रीं विरमन्तु रागाद्__व्ध_092.030
उज्झन्तु लोभं क्षमिणो भवन्तु__व्ध_092.030
आब्रह्मवृक्षान्तरगा मयाद्य__व्ध_092.030
स्मृते जगद्धातरि वासुदेवे__व्ध_092.030
ये प्राणिनः कुत्रचिद् अत्र सन्ति__व्ध_092.031
ब्रह्माण्डमध्ये परतश् च केचित्__व्ध_092.031
ते यान्तु सिद्धिं परमां मयाद्य__व्ध_092.031
स्मृते जगद्धातरि वासुदेवे__व्ध_092.031
अज्ञानिनो ज्ञानविदो भवन्तु__व्ध_092.032
प्रशान्तिभाजः सततोग्रचित्ताः__व्ध_092.032
कुर्वन्तु भक्तिं परमाम् अनन्ते__व्ध_092.032
मत्स्तोत्रतुष्टस्य हरेः प्रसादात्__व्ध_092.032
शृण्वन्ति ये मे पठतस् तथान्ये__व्ध_092.033
पश्यन्ति ये माम् इदम् ईरयन्तम्__व्ध_092.033
देवासुराद्या मनुजास् तिरश्चो__व्ध_092.033
भवन्तु ते ऽप्य् अच्युतयोगभाजः__व्ध_092.033
ये चापि मूका विकलेन्द्रियत्वाच्__व्ध_092.034
शृण्वन्ति नो नैव विलोकयन्ति__व्ध_092.034
पश्वादयः कीटपिपीलिकाश् च__व्ध_092.034
भवन्तु ते ऽप्य् अच्युतयोगभाजः__व्ध_092.034
नामस्व् अनन्तस्य च कीर्तितेषु__व्ध_092.035
यद् अत्र पुण्यं जगतः प्रसूतेः__व्ध_092.035
तेनाविवेकोपहतात्मबोधा__व्ध_092.035
भवन्तु पुंसां मतयः सुशीलाः__व्ध_092.035
ये दुःखितास् ते सुखिनो भवन्तु__व्ध_092.036
द्वेषान्विता मैत्रगुणोपपन्नाः__व्ध_092.036
सत्यार्जवाद्यास् त्व् अनृता विमाया__व्ध_092.036
मत्संस्तवाराधितकृष्णदृष्टाः__व्ध_092.036
नश्यन्तु दुःखानि जगत्य् अपैतु__व्ध_092.037
लोभादिको दोषगुणः प्रजाभ्यः__व्ध_092.037
यथात्मनि भ्रातरि चात्मजे च__व्ध_092.037

तथा जनस्यास्तु जने ऽपि हार्दम्__व्ध_092.037
संसारवैद्ये ऽखिलदोषहानि-__व्ध_092.038
विचक्षणे निर्वृतिहेतुभूते__व्ध_092.038
संसारबन्धाः शिथिलीभवन्तु__व्ध_092.038
हृदि स्थिते सर्वजनस्य विष्णौ__व्ध_092.038
एतत् पठन् पार्थिव सर्वपापैर्__व्ध_092.039
विमुच्यते विष्णुपरः सदैव__व्ध_092.039
प्राप्नोति सिद्धिं विपुलं महर्द्धिम्__व्ध_092.039
न चाप्य् अनर्थेषु मतिं करोति__व्ध_092.039
उद्दिश्य सत्त्वानि च यानि यानि__व्ध_092.040
स्तोत्रं पठन्ते कृपया मनुष्याः__व्ध_092.040
सर्वाणि तान्य् अप्रतिघा भवन्ति__व्ध_092.040
प्रयान्ति सिद्धिं भगवत्प्रसादात्__व्ध_092.040
तस्मात् त्वयैतत् सततं निशासु__व्ध_092.041
दिनेषु चैवेश्वर माधवस्य__व्ध_092.041
संकीर्तनं कार्यम् अशेषपाप-__व्ध_092.041
विमोक्षहेतोर् अभवाय चैव__व्ध_092.041
इति सकलजनोपकारकारी__व्ध_092.042
हरिचरणाब्जविनिष्टशुद्धबुद्धिः__व्ध_092.042
पठति खलु महीप यो मनुष्यः__व्ध_092.042
स लयम् उपैति हरौ हृताखिलाघः__व्ध_092.042
इदं च शृणु भूपाल__व्ध_093.001
नश्यते दुर्विचिन्तितम्__व्ध_093.001
येनोपायेन वै पुंसां__व्ध_093.001
योषितां वाप्य् असंशयम्__व्ध_093.001
परदारपरद्रव्य-__व्ध_093.002
जीवहिंसादिके सदा__व्ध_093.002
प्रवर्तते नृणां चित्तं__व्ध_093.002
तद् एतद् अभिसंस्मरेत्__व्ध_093.002
विष्णवे विष्णवे नित्यं__व्ध_093.003
विष्णवे विष्णवे नमः__व्ध_093.003
जिष्णवे जिष्णवे सर्वं__व्ध_093.003
जिष्णवे जिष्णवे नमः__व्ध_093.003
नमामि विष्णुं बुद्धिस्थम्__व्ध_093.004
अहंकार-गतं हरिम्__व्ध_093.004
चित्तस्थम् ईशम् अव्यक्तम्__व्ध_093.004
अनन्तम् अपराजितम्__व्ध_093.004
विष्णुम् ईड्यम् अशेषेशम्__व्ध_093.004
अनादिनिधनं विभुम्__व्ध_093.004
विष्णुश् चित्तगतो यन् मे__व्ध_093.005

विष्णुर् बुद्धिगतश् च यत्__व्ध_093.005
यच् चाहंकारगो विष्णुर्__व्ध_093.005
यद् विष्णुर् मयि संस्थितः__व्ध_093.005
करोति कर्तृभूतो ऽसौ__व्ध_093.006
स्थावरस्य चरस्य च__व्ध_093.006
तत् पापं नाशम् आयातु__व्ध_093.006
तस्मिन्न् एव विचिन्तिते__व्ध_093.006
ध्यातो हरति यः पापं__व्ध_093.007
स्वप्ने दृष्टः शुभावहः__व्ध_093.007
तम् उपेन्द्रम् अहं विष्णुं__व्ध_093.007
प्रणतो ऽर्तिहरं हरिम्__व्ध_093.007
जगत्य् अस्मिन् निराधारे__व्ध_093.008
मज्जमाने तमस्य् अधः__व्ध_093.008
हस्तावलम्बदं विष्णुं__व्ध_093.008
प्रणतो ऽस्मि परात्परम्__व्ध_093.008
सर्वेश्वरेश्वर विभो__व्ध_093.009
परमात्मन्न् अधोक्षज__व्ध_093.009
हृषीकेश हृषीकेश__व्ध_093.009
हृषीकेश नमो ऽस्तु ते__व्ध_093.009
नृसिंहानन्त गोविन्द__व्ध_093.010
भूतभावन केशव__व्ध_093.010
दुरुक्तं दुष्कृतं ध्यातं__व्ध_093.010
प्रशमाग्र्य नमो ऽस्तु ते__व्ध_093.010
यन् मया चिन्तितं दुष्टं__व्ध_093.011
स्वचित्तवशवर्तिना__व्ध_093.011
नरकावहम् अत्युग्रं__व्ध_093.011
तच् छमं नय केशव__व्ध_093.011
ब्रह्मण्यदेव गोविन्द__व्ध_093.012
परमार्थ परायण__व्ध_093.012
जगन्नाथ जगद्धातः__व्ध_093.012
पापं प्रशमयाच्युत__व्ध_093.012
यच् चापराह्ने पूर्वाह्ने__व्ध_093.013
मध्याह्ने च तथा निशि__व्ध_093.013
कायेन मनसा वाचा__व्ध_093.013
कृतं पापम् अजानता__व्ध_093.013
जानता वा हृषीकेश__व्ध_093.014
पुण्डरीकाक्ष माधव__व्ध_093.014
नामत्रयोच्चारणतस्__व्ध_093.014
तत् प्रयातु मम क्षयम्__व्ध_093.014
शारीरं मे हृषीकेश__व्ध_093.015

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc