भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 341360

वैकुण्ठाय न सीदति__व्ध_082.072
सुगन्धागरुकर्पूर-__व्ध_082.073
चन्दनाक्षोदकुंकुमैः__व्ध_082.073
वासोभिर् विविधैर् धूपैः__व्ध_082.073
पुष्पस्रग्चामरैर् ध्वजैः__व्ध_082.073
अन्नोपहारैर् विविधैर्__व्ध_082.074
घृतक्षीराभिषेचनैः__व्ध_082.074
गीतवादितनृत्याद्यैस्__व्ध_082.074
तोषयस्वाच्युतं नृप__व्ध_082.074
पुण्यरात्रिषु गोविन्दं__व्ध_082.075
नृत्यगीतरवोज्ज्वलैः__व्ध_082.075
भूप जागरणैर् भक्त्या__व्ध_082.075
तोषयाच्युतम् अव्ययम्__व्ध_082.075
एवं संतोष्यते भक्त्या__व्ध_082.076
भगवान् भवभङ्गकृत्__व्ध_082.076
भूप भागवतैर् भूत-__व्ध_082.076
भव्यकृत् केशवो नरैः__व्ध_082.076
येषां न वित्तं तैर् भक्त्या__व्ध_082.077
मार्जनाद्युपलेपनैः__व्ध_082.077
तोषितो भगवान् विष्णुर्__व्ध_082.077
ददात्य् अभिमतं फलम्__व्ध_082.077
देवकर्मासमर्थाणां__व्ध_082.078
प्राणिनां स्मृतिसंस्तवैः__व्ध_082.078
तोषितो ऽभिमतान् कामान्__व्ध_082.078
प्रयच्छति जनार्दनः__व्ध_082.078
नैष वित्तैर् न रत्नौघैः__व्ध_082.079
पुष्पधूपानुलेपनैः__व्ध_082.079
सद्भावेनैव गोविन्दस्__व्ध_082.079
तोषम् आयाति संस्मृतः__व्ध_082.079
त्वयैकाग्रमनस्केन__व्ध_082.080
गृहसंमार्जनादिकम्__व्ध_082.080
कृत्वाल्पम् ईदृशं प्राप्तं__व्ध_082.080
राज्यम् अत्यन्तदुर्लभम्__व्ध_082.080
प्राप्तोपकरणो यस् त्वम्__व्ध_082.081
एकाग्रमतिर् अच्युतम्__व्ध_082.081
तोषयिष्यसि नेन्द्रो ऽपि__व्ध_082.081
भविता तेन ते समः__व्ध_082.081
तस्मात् त्वम् अनया देव्या__व्ध_082.082
सहात्यन्तविनीतया__व्ध_082.082
केशवाराधने यत्नं__व्ध_082.082

कुरु धर्मभृतां वर__व्ध_082.082
ततः प्राप्स्यसि भक्त्यैव__व्ध_082.*(137)
यत् तपोभिः सुदुर्लभम्__व्ध_082.*(137)
एतन् मुनेर् वसिष्ठस्य__व्ध_083.001
निशाम्य वचनं नृपः__व्ध_083.001
भार्यासहायः स तदा__व्ध_083.001
संप्रहृष्टतनूरुहः__व्ध_083.001
कृतकार्यम् इवात्मानं__व्ध_083.002
मन्यमानो ऽसुरोत्तम__व्ध_083.002
उवाच प्रणतो भूत्वा__व्ध_083.002
मान्धाता वारुणिं वचः__व्ध_083.002
यथामरत्वं संप्राप्य__व्ध_083.003
यथा वा ब्रह्म शाश्वतम्__व्ध_083.003
परं निर्वाणम् आप्नोति__व्ध_083.003
तथाहं वचसा तव__व्ध_083.003
कृतकृत्यः सुखी चास्मि__व्ध_083.004
निर्वृतिं परमां गतः__व्ध_083.004
अज्ञानतमसाछन्ने__व्ध_083.004
यत् प्रदीपस् त्वयैधितः__व्ध_083.004
अहम् एषा च तन्वङ्गी__व्ध_083.005
विभूतिभ्रंसभीरुकौ__व्ध_083.005
आढ्याव् आपादितौ ब्रह्मन्न्__व्ध_083.005
इहाद्य वचसा तव__व्ध_083.005
संपदां कथितं बीजम्__व्ध_083.006
आवयोर् भवता मुने__व्ध_083.006
तदुप्ताव् उद्यताव् आवां__व्ध_083.006
विजानीहि द्विजोत्तम__व्ध_083.006
न रत्नैर् न च वित्तौघैर्__व्ध_083.007
न च पुष्पानुलेपनैः__व्ध_083.007
आराध्यते जगन्नाथो__व्ध_083.007
भावशून्यैर् जनार्दनः__व्ध_083.007
बाह्यार्थनिरपेक्षैश् च__व्ध_083.008
मनसैव मनोगतिः__व्ध_083.008
निःस्वैर् आराध्यते देवो__व्ध_083.008
विष्णुः सर्वेश्वरेश्वरः__व्ध_083.008
सर्वम् एतन् मया ज्ञातं__व्ध_083.009
यत् त्वम् आत्थ महामुने__व्ध_083.009
यत् त्वां पृच्छामि तन् मे त्वं__व्ध_083.009
प्रसादसुमुखो वद__व्ध_083.009
कानि व्रतानि यैर् देवो__व्ध_083.010

नरैः स्त्रीभिश् च केशवः__व्ध_083.010
तोषम् आराधितो ऽभ्येति__व्ध_083.010
कैश् च दानैर् महामुने__व्ध_083.010
रहस्यानि च देवस्य__व्ध_083.011
प्रीतये यानि चक्रिणः__व्ध_083.011
तान्य् अशेषाणि मे ब्रूहि__व्ध_083.011
कृष्णाराधनकाङ्क्षिणः__व्ध_083.011
शृणु भूपाल यैर् विष्णुर्__व्ध_083.012
नरैर् आराध्यते व्रतैः__व्ध_083.012
नारीभिश् चातिघोरे ऽस्मिन्__व्ध_083.012
पतिताभिर् भवार्णवे__व्ध_083.012
समभ्यर्च्य जगन्नाथं__व्ध_083.013
वासुदेवं समाधिना__व्ध_083.013
एकम् अश्नाति यो भक्तं__व्ध_083.013
द्वितीयं ब्राह्मणात्मकम्__व्ध_083.013
करोति केशवप्रीत्यै__व्ध_083.013
कार्त्तिकं मासम् आत्मवान्__व्ध_083.013
पूर्वे वयसि यत् तेन__व्ध_083.014
ज्ञानतो ऽज्ञानतो ऽपि वा__व्ध_083.014
पापम् आचरितं तस्मान्__व्ध_083.014
मुच्यते नात्र संशयः__व्ध_083.014
अनेनैव विधानेन__व्ध_083.015
मार्गशीर्षे ऽपि माधवम्__व्ध_083.015
समभ्यर्च्यैकभक्तं वै__व्ध_083.015
वर्णिभ्यो यः प्रयच्छति__व्ध_083.015
भगवत्प्रीणनार्थाय__व्ध_083.015
फलं तस्य शृणुष्व मे__व्ध_083.015
मध्ये वयसि यत् पापं__व्ध_083.016
योषिता पुरुषेण वा__व्ध_083.016
कृतं तस्माच् च तेनोक्तो__व्ध_083.016
विमोक्षः परमात्मना__व्ध_083.016
तथा चैवैकभक्तं वै__व्ध_083.017
वर्णाग्रेभ्यः प्रयच्छति__व्ध_083.017
पुण्डरीकाक्षम् अभ्यर्च्य__व्ध_083.017
पौषमासे महीपते__व्ध_083.017
तत्प्रीणनाय यत् पापं__व्ध_083.018
वार्द्धिके तेन वै कृतम्__व्ध_083.018
स तस्मान् मुच्यते राजन्__व्ध_083.018
पुमान् योषिद् अथापि वा__व्ध_083.018
त्रैमासिकव्रतम् इदं__व्ध_083.019

यः करोति नरेश्वर__व्ध_083.019
स विष्णुप्रीणनात् पापैर्__व्ध_083.019
लघुभिर् विप्रमुच्यते__व्ध_083.019
द्वितीये वत्सरे राजन्__व्ध_083.020
मुच्यते चोपपातकैः__व्ध_083.020
तद्वत् तृतीये ऽपि कृतं__व्ध_083.020
महापातकनाशनम्__व्ध_083.020
व्रतम् एतन् नरैः स्त्रीभिस्__व्ध_083.021
त्रिभिर् मासैर् अनुष्ठितम्__व्ध_083.021
त्रिभिः संवत्सरैर् एव__व्ध_083.021
प्रददाति फलं नृणाम्__व्ध_083.021
त्रिभिर् मासैस् त्रिर् अवस्थास्__व्ध_083.022
त्रिविधात् पातकान् नृप__व्ध_083.022
त्रीणि नामानि देवस्य__व्ध_083.022
मोचयन्ति त्रिवार्षिकैः__व्ध_083.022
यतस् ततो व्रतम् इदं__व्ध_083.023
त्रिक्रमं समुदाहृतम्__व्ध_083.023
सर्वपापप्रशमनं__व्ध_083.023
केशवाराधनं परम्__व्ध_083.023
शृणुष्व च महीपाल__व्ध_084.001
व्रतं विष्णुपदत्रयम्__व्ध_084.001
सर्वपापप्रशमनं__व्ध_084.001
यज् जगाद पुरा हरिः__व्ध_084.001
प्राचेतसाय दक्षाय__व्ध_084.002
दक्षश् चाह विवस्वते__व्ध_084.002
विवस्वान् अलसिध्राय__व्ध_084.002
अलसिध्रो ऽसिताय च__व्ध_084.002
असितेन समाख्यातम्__व्ध_084.003
अल्पायासं महाफलम्__व्ध_084.003
तद् इदं श्रूयतां सम्यग्__व्ध_084.003
व्रतं विष्णुपदत्रयम्__व्ध_084.003
दक्षः प्रजापतिः पूर्वं__व्ध_084.004
विष्णुम् आराध्य पृष्टवान्__व्ध_084.004
बहुशस् तु विपन्नायां__व्ध_084.004
सृष्टाव् अरिनिसूदन__व्ध_084.004
भगवन् सर्वकऋत्वं__व्ध_084.005
ममादिष्टं स्वयंभुवा__व्ध_084.005
ब्रह्मणा देवदेवेश__व्ध_084.005
तवादेशेन केशव__व्ध_084.005
विपन्ना च जगन्नाथ__व्ध_084.006

मम सृष्टिः कृता कृता__व्ध_084.006
पूर्वकर्मविपाकेन__व्ध_084.006
व्याकुलश् चास्मि चेतसा__व्ध_084.006
यथा च देव मुच्येय__व्ध_084.007
अस्मात् संसारसंकटात्__व्ध_084.007
विषयासङ्गविषमात्__व्ध_084.007
तन् ममाज्ञापयाच्युत__व्ध_084.007
इत्य् एवम् उक्तो दक्षेण__व्ध_084.008
देवदेवो जनार्दनः__व्ध_084.008
आचष्ट दुःखक्षयदं__व्ध_084.008
व्रतं विष्णुपदत्रयम्__व्ध_084.008
सर्वारम्भविनिष्पत्ति-__व्ध_084.009
कारकं पापनाशनम्__व्ध_084.009
संसारोच्छेदकं धीरैर्__व्ध_084.009
आचीर्णं स्थिरबुद्धिभिः__व्ध_084.009
तद् अहं तव राजेन्द्र__व्ध_084.010
व्रतानाम् उत्तमोत्तमम्__व्ध_084.010
कथयामि समाचष्ट__व्ध_084.010
यथा पूर्वं ममासितः__व्ध_084.010
आषाढे मासि पूर्वासु__व्ध_084.011
तथाषाढासु पार्थिव__व्ध_084.011
समभ्यर्च्य जगन्नाथम्__व्ध_084.011
अच्युतं नियतः शुचिः__व्ध_084.011
पुष्पैर् हृद्यैस् तथा धूपैर्__व्ध_084.012
गन्धैः सागरुचन्दनैः__व्ध_084.012
यथाविभवतश् चान्यैर्__व्ध_084.012
अन्नैर् वासोभिर् एव च__व्ध_084.012
क्षीरस्नेहस्थितं तद्वत्__व्ध_084.013
पैष्टं विष्णुपदद्वयम्__व्ध_084.013
समभ्यर्च्य यथान्यायं__व्ध_084.013
केशवस्याग्रतो न्यसेत्__व्ध_084.013
यवांश् च दद्याद् विप्राय__व्ध_084.014
भूगतिः प्रीयताम् इति__व्ध_084.014
नक्तं भुञ्जीत राजेन्द्र__व्ध_084.014
हविष्यान्नं सुसंस्कृतम्__व्ध_084.014
तथोत्तरास्व् आषाढासु__व्ध_084.015
श्रावणे मासि मानवः__व्ध_084.015
तथैवाभ्यर्च्य गोविन्दं__व्ध_084.015
तद्वद् विष्णुपदद्वयम्__व्ध_084.015
विप्राय च यवान् दद्यात्__व्ध_084.016

प्रीणयित्वा च भूगतिम्__व्ध_084.016
नक्तं भूञ्जीत राजेन्द्र__व्ध_084.016
नरो योषिद् अथापि वा__व्ध_084.016
प्राप्ते भाद्रपदे मासि__व्ध_084.017
पूर्वभद्रपदासु च__व्ध_084.017
तथैवाभ्यर्च्य गोविन्दं__व्ध_084.017
तद्वद् विष्णुपदद्वयम्__व्ध_084.017
विप्राय च यवान् दत्त्वा__व्ध_084.018
प्रीणयित्वा भुवोगतिम्__व्ध_084.018
भुञ्जीत गोरसप्रायं__व्ध_084.018
नरो योषिद् अथापि वा__व्ध_084.018
तद्वद् आश्वयुजे दानं__व्ध_084.019
तद्वद् गोविन्दपूजनम्__व्ध_084.019
पदद्वयस्य पूजां च__व्ध_084.019
प्रीणनं च भुवोगतेः__व्ध_084.019
तथैव नक्तं भुञ्जीत__व्ध_084.020
गोरसं मौनम् आस्थितः__व्ध_084.020
स्त्री वा राजेन्द्र पूर्वासु__व्ध_084.020
तथा भद्रपदासु वै__व्ध_084.020
फाल्गुने फल्गुनी पूर्वा__व्ध_084.021
भवती ह यदा नृप__व्ध_084.021
त्रिविक्रमं तदा देवं__व्ध_084.021
पूर्वोक्तविधिनार्चयेत्__व्ध_084.021
पदद्वयं च देवस्य__व्ध_084.022
सम्यग् अभ्यर्च्य पार्थिव__व्ध_084.022
हिरण्यं दक्षिणां दत्त्वा__व्ध_084.022
स्वर्गतिः प्रीयताम् इति__व्ध_084.022
नक्तं भुञ्जीत राजेन्द्र__व्ध_084.023
वह्निपाकविवर्जितम्__व्ध_084.023
एष एवोत्तरायोगे__व्ध_084.023
चैत्रे मासे विधिः स्मृतः__व्ध_084.023
एतज् जगाद गोविन्दः__व्ध_084.024
पुरा दक्षाय पृच्छते__व्ध_084.024
सर्वपापहरं पुण्यं__व्ध_084.024
व्रतं विष्णुपदत्रयम्__व्ध_084.024
यथोक्तम् एतद् यो भक्तो__व्ध_084.025
करोति नृपसत्तम__व्ध_084.025
सर्वकामान् अवाप्नोति__व्ध_084.025
केशवस्य वचो यथा__व्ध_084.025
अपुत्रो लभते पुत्रम्__व्ध_084.026

अपतिर् लभते पतिम्__व्ध_084.026
समागमं प्रोषितैश् च__व्ध_084.026
तथा प्राप्नोति बान्धवैः__व्ध_084.026
द्रव्यम् ऐश्वर्यम् आरोग्यं__व्ध_084.027
सौभाग्यं चारुरूपताम्__व्ध_084.027
प्राप्नुवन्त्य् अखिलान् एतान्__व्ध_084.027
पूजयित्वा पदत्रयम्__व्ध_084.027
यान् यान् कामान् नरः स्त्री वा__व्ध_084.028
हृदयेनाभिवाञ्छन्ति__व्ध_084.028
तांस् तांश् चाप्नोति निष्कामो__व्ध_084.028
विष्णुलोकं च गच्छति__व्ध_084.028
पूर्वं कृत्वापि पापानि__व्ध_084.029
नरः स्त्री वा नराधिप__व्ध_084.029
पदत्रयव्रतं चीर्त्वा__व्ध_084.029
मुच्यते सर्वकिल्बिषैः__व्ध_084.029
विष्णोर् आराधनार्थाय__व्ध_085.001
यानि दानानि सत्तम__व्ध_085.001
देयानि तान्य् अशेषाणि__व्ध_085.001
ममाचक्ष्व द्विजोत्तम__व्ध_085.001
येन चैव विधानेन__व्ध_085.002
दानं पुंसः सुखावहम्__व्ध_085.002
प्रीणनाय च कृष्णस्य__व्ध_085.002
तन् ममाख्याहि विस्तरात्__व्ध_085.002
कृतोपवासः संप्राश्य__व्ध_085.003
पञ्चगव्यं नरेश्वर__व्ध_085.003
घृतक्षीराभिषेकं च__व्ध_085.003
कृत्वा विष्णोः समाहितः__व्ध_085.003
समभ्यर्च्य च गोविन्दं__व्ध_085.004
पुष्पादिभिर् अरिंदम__व्ध_085.004
उदङ्मुखीम् अर्चयित्वा__व्ध_085.004
तथा गृष्टिं पयस्विनीम्__व्ध_085.004
सपुत्रां वस्त्रसंवीतां__व्ध_085.005
सितयज्ञोपवीतिनीम्__व्ध_085.005
स्वर्णशृङ्गीं शुभाकारां__व्ध_085.005
हिरण्योपरिसंस्थिताम्__व्ध_085.005
हिरण्यं वाचयित्वाग्रे__व्ध_085.006
ब्राह्मणायोपपादयेत्__व्ध_085.006
इमां त्वं प्रतिगृह्णीष्व__व्ध_085.006
गोविन्दः प्रीयताम् इति__व्ध_085.006
सम्यग् उच्चार्य तं विप्रं__व्ध_085.007

गोविन्दं नृप कल्पयेत्__व्ध_085.007
अनुव्रजेच् च गच्छन्तं__व्ध_085.007
पदान्य् अष्टौ नराधिप__व्ध_085.007
अनेन विधिना धेनुं__व्ध_085.008
यो विप्राय प्रयच्छति__व्ध_085.008
गोविन्दप्रीणनाद् राजन्__व्ध_085.008
विष्णुलोकं च गच्छति__व्ध_085.008
सप्तावरांस् तथा पूर्वान्__व्ध_085.009
सप्तात्मानं च मानवः__व्ध_085.009
सप्तजन्मकृतात् पापान्__व्ध_085.009
मोचयत्य् अवनीपते__व्ध_085.009
पदे पदे च यज्ञस्य__व्ध_085.010
गोसवस्य स मानवः__व्ध_085.010
फलम् आप्नोति राजेन्द्र__व्ध_085.010
दक्षायैवं जगौ हरिः__व्ध_085.010
सर्वकामसमृद्धस्य__व्ध_085.011
सर्वकालेषु पार्थिव__व्ध_085.011
भवत्य् अघौघापहरा__व्ध_085.011
यावद् इन्द्राश् चतुर्दश__व्ध_085.011
सर्वेषाम् एव पापानां__व्ध_085.012
कृतानाम् अविजानता__व्ध_085.012
प्रायश्चित्तम् इदं शस्तम्__व्ध_085.012
अनुतापोपवृंहितम्__व्ध_085.012
इक्ष्वाकुनैषा राजेन्द्र__व्ध_085.013
पूर्वं दत्ता महात्मना__व्ध_085.013
ततः स लोकान् अमलान्__व्ध_085.013
प्राप्तवान् अवनीपतिः__व्ध_085.013
तथैवान्यैर् महीपालैर्__व्ध_085.014
द्विजवैश्यादिभिस् तथा__व्ध_085.014
लोकाः कामदुघाः प्राप्ता__व्ध_085.014
दत्त्वेदृग्विधिना नृप__व्ध_085.014
तिलधेनुं प्रवक्ष्यामि__व्ध_086.001
केशवप्रीणनाय या__व्ध_086.001
दत्ता भवति यश् चास्या__व्ध_086.001
नरेन्द्र विधिर् उत्तमः__व्ध_086.001
फलम् आप्नोति राजेन्द्र__व्ध_086.*(139)
तद्वद् वा विधिवत् तदा__व्ध_086.*(139)
यां दत्त्वा ब्रह्महा गोघ्नः__व्ध_086.002
पितृघ्नो गुरुतल्पगः__व्ध_086.002
आगारदाही गरदः__व्ध_086.002

सर्वपापरतो ऽपि वा__व्ध_086.002
महापातकयुक्तो यो__व्ध_086.003
युक्तो यश् चोपपातकैः__व्ध_086.003
स मुच्यते ऽखिलैः पापैर्__व्ध_086.003
विष्णुलोकं स गच्छति__व्ध_086.003
स्वनुलिप्ते महीपृष्टे__व्ध_086.004
वस्त्राजिनसमावृते__व्ध_086.004
धेनुं तिलमयीं कृत्वा__व्ध_086.004
सर्वरत्नैः समन्विताम्__व्ध_086.004
सुवर्णशृङ्गीं रौप्यखुरां__व्ध_086.005
गन्धघ्राणवतीं शुभाम्__व्ध_086.005
मृष्टान्नजिह्वां कुर्वीत__व्ध_086.005
गुडास्यां सूत्रकम्बलाम्__व्ध_086.005
इक्षुपादां ताम्रपृष्ठां__व्ध_086.006
कुर्यान् मुक्ताफलेक्षणाम्__व्ध_086.006
प्रशस्तपत्रश्रवणां__व्ध_086.006
फलदन्तवतीं शुभाम्__व्ध_086.006
स्रग्दामपुच्छां कुर्वीत__व्ध_086.007
नवनीतस्तनान्विताम्__व्ध_086.007
फलैर् मनोहरैर् भक्षैर्__व्ध_086.007
मणिमुक्ताफलान्विताम्__व्ध_086.007
तिलद्रोणेन कुर्वीत__व्ध_086.007
आढकेन तु वत्सकम्__व्ध_086.007
शुभवस्त्रयुगच्छन्नां__व्ध_086.008
चारुच्छत्त्रसमन्विताम्__व्ध_086.008
ईदृक्संस्थानसंपन्नां__व्ध_086.008
कृत्वा श्राद्धसमन्वितः__व्ध_086.008
कांस्योपदोहनां दद्यात्__व्ध_086.008
केशवः प्रीयताम् इति__व्ध_086.008
सम्यग् उच्चार्य विधिना__व्ध_086.009
दत्त्वैतेन नराधिप__व्ध_086.009
सर्वपापविनिर्मुक्तः__व्ध_086.009
पितरं सपितामहम्__व्ध_086.009
प्रपितामहं तथा पूर्वं__व्ध_086.010
पुरुषाणां चतुष्टयम्__व्ध_086.010
आत्मानं तनयं पौत्रं__व्ध_086.010
तदधस् तु चतुष्टयम्__व्ध_086.010
तारयत्य् अवनीपाल__व्ध_086.010
तिलधेनुप्रदो नरः__व्ध_086.010
यश् च गृह्णाति विधिवत्__व्ध_086.011

तस्याप्य् एवंविधान् कुलान्__व्ध_086.011
चतुर्दश तथा चैव__व्ध_086.011
ददतश् चानुमोदकाः__व्ध_086.011
दीयमानां प्रपश्यन्ति__व्ध_086.012
तिलधेनुं च ये नराः__व्ध_086.012
ते ऽप्य् अशेषाघनिर्मुक्ताः__व्ध_086.012
प्रयान्ति परमां गतिम्__व्ध_086.012
प्रशान्ताय सुशीलाय__व्ध_086.013
तथामत्सरिणे बुधः__व्ध_086.013
तिलधेनुं नरो दद्याद्__व्ध_086.013
वेदस्नाताय धर्मिणे__व्ध_086.013
त्रिरात्रं यस् तिलाहारस्__व्ध_086.014
तिलधेनुं प्रयच्छति__व्ध_086.014
दत्त्वैकरात्रं च पुनस्__व्ध_086.014
तिलान् अत्ति नरेश्वर__व्ध_086.014
दातुर् विशुद्धपापस्य__व्ध_086.015
तस्य पुण्यवतो नृप__व्ध_086.015
चान्द्रायणाद् अभ्यधिकं__व्ध_086.015
शस्तं तत् तिलभक्षणम्__व्ध_086.015
तिलाभावे तथा दद्याद्__व्ध_087.001
घृतधेनुं यतव्रतः__व्ध_087.001
कल्पयित्वा यथान्यायं__व्ध_087.001
तिलधेन्वा यतव्रतः__व्ध_087.001
येन भूप विधानेन__व्ध_087.001
तद् इहैकमनाः शृणु__व्ध_087.001
वासुदेवं जगन्नाथं__व्ध_087.002
पुरुषेशम् अजं विधुम्__व्ध_087.002
सर्वपापनिहन्तारं__व्ध_087.002
घृतक्षीराभिषेचनात्__व्ध_087.002
संपूज्य पूर्ववत् पुष्प-__व्ध_087.002
गन्धधूपादिभिर् नरः__व्ध_087.002
अहोरात्रोषितो भूत्वा__व्ध_087.003
तत्परः प्रयतः शुचिः__व्ध_087.003
परमेशम् अथो नाम्ना__व्ध_087.003
अभिष्टूय घृतार्चिषा__व्ध_087.003
गव्यस्य सर्पिषः कुम्भं__व्ध_087.004
पुष्पमाल्यादिभूषितम्__व्ध_087.004
कांस्योपधानसंयुक्तं__व्ध_087.004
सितवस्त्रयुगेन च__व्ध_087.004
हिरण्यगर्भसहितं__व्ध_087.004

मणिविद्रुममुक्तिकैः__व्ध_087.004
इक्षुयष्टिमयान् पादान्__व्ध_087.005
खुरान् रौप्यमयांस् तथा__व्ध_087.005
सौवर्णे चाक्षिणी कुर्याच्__व्ध_087.005
शृङ्गे चागरुकाष्ठजे__व्ध_087.005
सप्तधान्यमये पार्श्वे__व्ध_087.006
पत्त्रोर्णानि च कम्बलम्__व्ध_087.006
कुर्यात् तुरुष्ककर्पूरौ__व्ध_087.006
घ्राणं फलमयान् स्तनान्__व्ध_087.006
मणिरत्नसुवर्णानां__व्ध_087.*(140)
सम्यक्कल्पनया कृताम्__व्ध_087.*(140)
तद्वच् छर्करया जिह्वां__व्ध_087.007
गुडक्षीरमयं मुखम्__व्ध_087.007
क्षौमसूत्रेण लाङ्गूलं__व्ध_087.007
रोमाणि सितसर्षपैः__व्ध_087.007
ताम्रपात्रमयं पृष्ठं__व्ध_087.007
कुर्याच् छ्रद्धासमन्वितः__व्ध_087.007
ईदृक्स्वरूपां संकल्प्य__व्ध_087.008
घृतधेनुं नराधिप__व्ध_087.008
तद्वत्कल्पनया धेन्वा__व्ध_087.008
घृतवत्सं प्रकल्पयेत्__व्ध_087.008
तं च विप्रं महाभाग__व्ध_087.009
मनसैव घृतार्चिषम्__व्ध_087.009
कल्पयित्वा ततस् तस्मै__व्ध_087.009
प्रयतः प्रतिपादयेत्__व्ध_087.009
एतां ममोपकाराय__व्ध_087.010
घृह्णीष्व त्वं द्विजोत्तम__व्ध_087.010
प्रीयतां मम देवेशो__व्ध_087.010
घृताऋचिः पुरुषोत्तमः__व्ध_087.010
इत्य् उदाहृत्य विप्राय__व्ध_087.010
दद्याद् धेनुं नरोत्तम__व्ध_087.010
मणिमुक्तासुवर्णानां__व्ध_087.*(141)
सम्यक्कल्पनया कृताम्__व्ध_087.*(141)
दत्त्वैकरात्रं स्थित्वा च__व्ध_087.011
घृताहारो नराधिप__व्ध_087.011
मुच्यते सर्वपापेभ्यस्__व्ध_087.011
तथा दानफलं शृणु__व्ध_087.011
घृतक्षीरवहा नद्यो__व्ध_087.012
यत्र पायसकर्दमाः__व्ध_087.012
तेषु लोकेषु लोकेश__व्ध_087.012

स पुण्येषूपजायते__व्ध_087.012
पितुर् ऊर्ध्वेन ये सप्त__व्ध_087.013
पुरुषाः सप्त ये ऽप्य् अधः__व्ध_087.013
तांस् तेषु नृप लोकेषु__व्ध_087.013
स नयत्य् अस्तकल्मषः__व्ध_087.013
सकामानाम् इयं व्युष्टिः__व्ध_087.014
कथिता नृपसत्तम__व्ध_087.014
विष्णुलोकं नरा यान्ति__व्ध_087.014
निष्कामा घृतधेनुदाः__व्ध_087.014
घृतम् अग्निर् घृतं सोमस्__व्ध_087.015
तन्मयाः सर्वदेवताः__व्ध_087.015
घृतं प्रयच्छता दत्ता__व्ध_087.015
भवन्त्य् अखिलदेवताः__व्ध_087.015
जलधेनुं प्रवक्ष्यामि__व्ध_088.001
प्रीयते दत्तया यया__व्ध_088.001
देवदेवो हृषीकेशः__व्ध_088.001
सर्वेशः सर्वभावनः__व्ध_088.001
जलकुम्भं नरव्याघ्र__व्ध_088.002
सुवर्णरजतान्वितम्__व्ध_088.002
रत्नगर्भम् अशेषैस् तु__व्ध_088.002
ग्राम्यैर् धान्यैः समन्वितम्__व्ध_088.002
सितवस्त्रयुगच्छन्नं__व्ध_088.003
दूर्वापल्लवशोभितम्__व्ध_088.003
कुष्ठं मांसीम् उशीरं च__व्ध_088.003
वालकामलकैर् युतम्__व्ध_088.003
प्रियङ्गुपात्रसहितं__व्ध_088.004
सितयज्ञोपवीतिनम्__व्ध_088.004
सच्छत्त्रं सौपानत्कं__व्ध_088.004
दर्भविस्तरसंस्थितम्__व्ध_088.004
चतुर्भिः संवृतं भूप__व्ध_088.005
तिलपात्रैश् चतुर्दिशम्__व्ध_088.005
स्थगितं दधिपात्रेण__व्ध_088.005
घृतक्षौद्रवता मुखे__व्ध_088.005
उपोषितः समभ्यर्च्य__व्ध_088.006
वासुदेवं जनेश्वरम्__व्ध_088.006
पुष्पधूपोपहारैस् तु__व्ध_088.006
यथाविभवम् आदृतः__व्ध_088.006
संकल्प्य जलधेनुं च__व्ध_088.007
कुम्भं समभिपूज्य च__व्ध_088.007
पूजयेद् वत्सकं तद्वत्__व्ध_088.007

कृतं जलमयं बुधः__व्ध_088.007
एवं संपूज्य गोविन्दं__व्ध_088.008
जलधेनुं सवत्सकाम्__व्ध_088.008
सितवस्त्रधरः शान्तो__व्ध_088.008
वीतरागो विमत्सरः__व्ध_088.008
दद्याद् विप्राय राजेन्द्र__व्ध_088.009
प्रीत्यर्थं जलशायिनः__व्ध_088.009
जलशायी जगद्योनिः__व्ध_088.009
प्रीयतां मम केशवः__व्ध_088.009
इति चोच्चार्य भूनाथ__व्ध_088.010
विप्राय प्रतिपाद्यताम्__व्ध_088.010
अपक्वान्नाशिना स्थेयम्__व्ध_088.010
अहोरात्रम् अतःपरम्__व्ध_088.010
अनेन विधिना दत्त्वा__व्ध_088.011
जलधेनुं जनाधिप__व्ध_088.011
सर्वाह्लादान् अवाप्नोति__व्ध_088.011
ये दिव्या ये च मानुषाः__व्ध_088.011
शरीरारोग्यम् आबाधा-__व्ध_088.012
प्रशमः सार्वकामिकः__व्ध_088.012
नृणां भवति दत्तायां__व्ध_088.012
जलधेन्वां न संशयः__व्ध_088.012
अत्रापि श्रूयते भूप__व्ध_088.013
पुद्गलेन महात्मना__व्ध_088.013
जातिस्मरेण यद् गीतम्__व्ध_088.013
इहाभ्येत्य पुरा किल__व्ध_088.013
स पुद्गलः पुरा विप्रो__व्ध_088.014
यमलोकगतो मुनिः__व्ध_088.014
ददर्श यातना घोराः__व्ध_088.014
पापकर्मकृतां किल__व्ध_088.014
दीप्ताग्नितीक्ष्णशस्त्रोत्थाः__व्ध_088.015
क्वाथतैलगतास् तथा__व्ध_088.015
उष्णक्षारनदीपाता__व्ध_088.015
भैरवाः पुरुषर्षभ__व्ध_088.015
व्रणाः क्षारनिपातोग्राः__व्ध_088.016
कुम्भीपाकमहाभयाः__व्ध_088.016
ता दृष्ट्वा यातना विप्रश्__व्ध_088.016
चकार परमां कृपाम्__व्ध_088.016
आह्लादं ते तदा जग्मुः__व्ध_088.017
पापास् तदनुकम्पिताः__व्ध_088.017
तं दृष्ट्वा नारकाः केचित्__व्ध_088.017

केचित् तदवलोकिनः__व्ध_088.017
तदा स्वस्थं विलोक्यैव__व्ध_088.018
मुनिर् नारकमण्डलम्__व्ध_088.018
धर्मराजं स पप्रच्छ__व्ध_088.018
तेषां प्रशमकारणम्__व्ध_088.018
तस्मै चाचष्ट राजेन्द्र__व्ध_088.019
तदा वैवस्वतो यमः__व्ध_088.019
आह्लादहेतुं विप्राय__व्ध_088.019
पृच्छते पृथिवीपते__व्ध_088.019
तवानुभावाद् एतेषां__व्ध_088.020
नारकाणां द्विजोत्तम्__व्ध_088.020
संप्रवृत्तो ऽयम् आह्लादः__व्ध_088.020
कारणं यच् छृणुष्व तत्__व्ध_088.020
त्वयाभ्यर्च्य जगन्नाथं__व्ध_088.021
सर्वेशं जलशायिनम्__व्ध_088.021
जलधेनुः पुरा दत्ता__व्ध_088.021
विधिवन् मुनिपुङ्गव__व्ध_088.021
अस्मात् तु जन्मनो ऽतीते__व्ध_088.022
तृतीये द्विज जन्मनि__व्ध_088.022
तस्य दानस्य ते व्युष्टिर्__व्ध_088.022
इयम् आह्लाददायिनी__व्ध_088.022
येन त्वं तपसा युक्तो__व्ध_088.023
मानवानाम् अगोचरम्__व्ध_088.023
संप्राप्तो ऽसि महाप्रज्ञ__व्ध_088.023
सर्वशास्त्रविशारद__व्ध_088.023
ये त्वां पश्यन्ति शृण्वन्ति__व्ध_088.024
ये च ध्यायन्ति पापिनः__व्ध_088.024
शृणोषि यांस् त्वं विप्रेन्द्र__व्ध_088.024
यांश् च ध्यायसि पश्यसि__व्ध_088.024
निर्वृतिः परमा तेषां__व्ध_088.025
सर्वाह्लादप्रदायिनी__व्ध_088.025
सद्यो भवति मात्र त्वं__व्ध_088.025
द्विजेन्द्र कुरु विस्मयम्__व्ध_088.025
आह्लादहेतुजननं__व्ध_088.026
नास्ति विप्रेन्द्र तादृशम्__व्ध_088.026
जलधेनुर् यथा नॄणां__व्ध_088.026
जन्मान्य् एकोनसप्ततिः__व्ध_088.026
न दाघो न क्लमो नार्तिर्__व्ध_088.027
न मोहो विप्र जायते__व्ध_088.027
अपि जन्मसहस्रेषु__व्ध_088.027

जलधेनुप्रदायिनाम्__व्ध_088.027
एकजन्मकृतं वाञ्छा__व्ध_088.028
त्रिजन्मोत्थं समाहृता__व्ध_088.028
सप्तजन्मकृतं पापं__व्ध_088.028
हन्ति दत्ताम्बुगौर् नृणाम्__व्ध_088.028
स त्वं गच्छ गृहीत्वार्घम्__व्ध_088.029
अस्मत्तो द्विजसत्तम__व्ध_088.029
येषां समाश्रयः कृष्णो__व्ध_088.029
न नियम्या हि ते मया__व्ध_088.029
कृष्णः संपूजितो यैस् तु__व्ध_088.030
ये कृष्णार्थम् उपोषिताः__व्ध_088.030
यैश् च नित्यं स्मृतः कृष्णो__व्ध_088.030
न ते मद्विषयोपगाः__व्ध_088.030
नमः कृष्णाच्युतानन्त__व्ध_088.031
वासुदेवेत्य् उदीरितम्__व्ध_088.031
यैर् भावभावितैर् विप्र__व्ध_088.031
न ते मद्विषयोपगाः__व्ध_088.031
दानं ददद्भिर् यैर् उक्तम्__व्ध_088.032
अच्युतः प्रीयताम् इति__व्ध_088.032
श्रद्धापुरःसरैर् विप्र__व्ध_088.032
न ते मद्विषयोपगाः__व्ध_088.032
उत्तिष्ठद्भिः स्वपद्भिश् च__व्ध_088.033
व्रजद्भिश् च जनार्दनः__व्ध_088.033
यैः संस्मृतो द्विजश्रेष्ठ__व्ध_088.033
न ते मद्विषयोपगाः__व्ध_088.033
क्षुतस्खलितभीत्यादाव्__व्ध_088.034
असहद्भिश् च वेदनाम्__व्ध_088.034
कृष्णेत्य् उदीरितं यैश् च__व्ध_088.034
न ते मद्विषयोपगाः__व्ध_088.034
सर्वाबाधासु ये कृष्णं__व्ध_088.035
स्मरन्त्य् उच्चारयन्ति च__व्ध_088.035
तद्भावभाविता विप्र__व्ध_088.035
न ते मद्विषयोपगाः__व्ध_088.035
स एव धाता सर्वस्य__व्ध_088.036
तन्नियोगकरा वयम्__व्ध_088.036
जनसंयमनोद्युक्ताः__व्ध_088.036
सो ऽस्मत्संयमनो हरिः__व्ध_088.036
इत्थं निशाम्य वचनं__व्ध_088.037
यमस्य वदतो मुनिम्__व्ध_088.037
ऊचुस् ते नारकाः सर्वे__व्ध_088.037

वह्निशस्त्रास्त्रभीरवः__व्ध_088.037
नमः कृष्णाय हरये__व्ध_088.038
विष्णवे जिष्णवे नमः__व्ध_088.038
हृषीकेशाय देवाय__व्ध_088.038
जगद्धात्रे ऽच्युताय च__व्ध_088.038
नमः पङ्कजनेत्राय__व्ध_088.039
नमः पङ्कजनाभये__व्ध_088.039
जनार्दनाय श्रीशाय__व्ध_088.039
श्रीपते पीतवाससे__व्ध_088.039
गोविन्दाय नमो नित्यं__व्ध_088.040
नमश् चोदधिशायिने__व्ध_088.040
नमः करालवक्त्राय__व्ध_088.040
नृसिंहायातिनादिने__व्ध_088.040
शार्ङ्गिणे सितखड्गाय__व्ध_088.041
शङ्खचक्रगदाधृते__व्ध_088.041
नमो वामनरूपाय__व्ध_088.041
क्रान्तलोकत्रयाय च__व्ध_088.041
वराहरूपाय तथा__व्ध_088.042
नमो यज्ञाङ्गधारिणे__व्ध_088.042
व्याप्ताशेषदिगन्ताय__व्ध_088.042
शान्ताय परमात्मने__व्ध_088.042
वासुदेव नमस् तुभ्यं__व्ध_088.043
नमः कैटभसूदन__व्ध_088.043
केशवाय नमो व्यापिन्__व्ध_088.043
नमस् ते ऽस्तु महीधर__व्ध_088.043
नमो ऽस्तु वासुदेवायेत्य्__व्ध_088.044
एवम् उच्चारिते ततः__व्ध_088.044
शस्त्राणि कुण्ठतां जग्मुर्__व्ध_088.044
अनलश् चाप्य् अशीशमत्__व्ध_088.044
अभज्यन्त च यन्त्राणि__व्ध_088.045
समुत्पेतुर् अयोमुखाः__व्ध_088.045
संशुष्काः क्षारसरितः__व्ध_088.045
पतितः कूटशाल्मलिः__व्ध_088.045
प्रकाशतामसीतत्त्वं__व्ध_088.046
नरकश् चागतस् तु सः__व्ध_088.046
विवान् बभञ्ज पवनो ऽप्य्__व्ध_088.046
असिपत्रवनं ततः__व्ध_088.046
निरुत्साहा जडधियो__व्ध_088.047
बभूवुर् यमकिंकराः__व्ध_088.047
आसन् गन्धाम्बुवाहिन्यः__व्ध_088.047

पूयशोणितनिम्नगाः__व्ध_088.047
ववौ सुगन्धी पवनो__व्ध_088.048
मनःप्रीतिकरस् ततः__व्ध_088.048
वेणुवीणास्वनयुतान्__व्ध_088.048
गीतशब्दांश् च शुश्रुवुः__व्ध_088.048
तं तादृशम् अथालक्ष्य__व्ध_088.049
नृप वैवस्वतो यमः__व्ध_088.049
नरकस्य विपर्यासं__व्ध_088.049
संक्षुद्धहृदयस् ततः__व्ध_088.049
ददर्श नारकान् सद्यो__व्ध_088.050
दिव्यस्रगनुलेपनान्__व्ध_088.050
जाज्वल्यमानांस् तेजोभिर्__व्ध_088.050
अमलाम्बरवाससः__व्ध_088.050
नमो नमो ऽस्तु कृष्णाय__व्ध_088.051
गोविन्दायाव्ययात्मने__व्ध_088.051
वासुदेवाय देवाय__व्ध_088.051
विष्णवे प्रभविष्णवे__व्ध_088.051
इत्य् एवं वादिनस् तत्र__व्ध_088.052
प्रजासंयमनो यमः__व्ध_088.052
क्षीणपापचयांस् तांस् तु__व्ध_088.052
पाद्यार्घ्यादिभिर् अर्चयन्__व्ध_088.052
पूजयित्वा च तान् आह__व्ध_088.053
स कृष्णाय कृताञ्जलिः__व्ध_088.053
समाहितमना भूत्वा__व्ध_088.053
धर्मराजो नरेश्वर__व्ध_088.053
विष्णोर् देवातिदेवस्य__व्ध_088.054
जगद्धातुः प्रजापतेः__व्ध_088.054
प्रणामं ये ऽपि कुर्वन्ति__व्ध_088.054
तेषाम् अपि नमो नमः__व्ध_088.054
सर्वस्य सर्वसंस्थस्य__व्ध_088.055
सर्वाधारस्य योगिनः__व्ध_088.055
ये विष्णोः प्रणतास् तेभ्यो__व्ध_088.055
नमः सद्यः पुनः पुनः__व्ध_088.055
तस्य यज्ञवराहस्य__व्ध_088.056
विष्णोर् अमिततेजसः__व्ध_088.056
प्रणामं ये ऽपि कुर्वन्ति__व्ध_088.056
तेषाम् अपि नमो नमः__व्ध_088.056
एवं ते संस्तुतास् तेन__व्ध_088.057
धर्मराजेन नारकाः__व्ध_088.057
विमानानि समारूढा__व्ध_088.057

नृत्तगान्धर्ववन्ति वै__व्ध_088.057
पुद्गलो ऽपि महाबुद्धिर्__व्ध_088.058
दृष्ट्वैतद् अखिलं नृप__व्ध_088.058
जातिस्मरो ऽभवद् भूप__व्ध_088.058
कण्वगोत्रे महामुनिः__व्ध_088.058
संस्मृत्य यमवाक्यानि__व्ध_088.059
विष्णोर् माहात्म्यम् एव च__व्ध_088.059
जलधेन्वाश् च माहात्म्यं__व्ध_088.059
संस्मृत्यैतद् अगायत__व्ध_088.059
अहो दुरुत्तरा विष्णोर्__व्ध_088.060
मायेयम् अतिगह्वरी__व्ध_088.060
यया मोहितचित्तस् तं__व्ध_088.060
न वेत्ति परमेश्वरम्__व्ध_088.060
जीवो वाञ्छति कीटत्वं__व्ध_088.061
यूकामत्कुणयोनितः__व्ध_088.061
तस्माच् च शलभादीनां__व्ध_088.061
योनिं तस्माच् च पक्षिणाम्__व्ध_088.061
ततश् च पशुतां प्राप्य__व्ध_088.062
नरत्वम् अभिवाञ्छति__व्ध_088.062
विमुक्तिहेतुकी धन्या__व्ध_088.062
नरयोनिः कृतात्मनाम्__व्ध_088.062
न प्राप्नुवन्ति संसारे__व्ध_088.063
विभ्रान्तमनसो गतिम्__व्ध_088.063
जीवा मानुष्यताम् अन्ये__व्ध_088.063
जन्मनाम् अयुतैर् अपि__व्ध_088.063
विष्णुमायापरीतास् ते__व्ध_088.*(142)
प्राप्यापि न तरन्ति ये__व्ध_088.*(142)
तद् ईदृग्दुर्लभं प्राप्य__व्ध_088.064
मुक्तिद्वारम् अचेतसः__व्ध_088.064
पतन्ति भूयः संसारे__व्ध_088.064
विष्णुमायाविमोहिताः__व्ध_088.064
दुस्तरापि तु साध्यासौ__व्ध_088.065
माया कृष्णस्य मोहनी__व्ध_088.065
छिद्यते यामनोन्यस्ते__व्ध_088.065
मुधैव हि जनार्दने__व्ध_088.065
असंत्यज्य च गार्हस्थ्यम्__व्ध_088.066
अतप्त्वैव तथा तपः__व्ध_088.066
छिन्दन्ति वैष्णवीं मायां__व्ध_088.066
केशवार्पितमानसाः__व्ध_088.066
अविरोधेन विषयाम्__व्ध_088.067

भुञ्जन् विष्णुव्यपाश्रयः__व्ध_088.067
कृत्वा मनस् तरत्य् एतां__व्ध_088.067
विष्णोर् मायां सुदुस्तराम्__व्ध_088.067
ईदृग्बहुफलां भक्तिं__व्ध_088.068
सर्वधातरि केशवे__व्ध_088.068
मायया तस्य देवस्य__व्ध_088.068
न कुर्वन्ति विमोहिताः__व्ध_088.068
मुधैवोक्तं मुधायातं__व्ध_088.069
मुधा तद् विधिचेष्टितम्__व्ध_088.069
मुधैव जन्म तन् नष्टं__व्ध_088.069
यत्र नाराधितो हरिः__व्ध_088.069
आराधितो हि यः पुंसाम्__व्ध_088.070
ऐहिकामुष्मिकं फलम्__व्ध_088.070
ददाति भगवान् देवः__व्ध_088.070
कस् तं न प्रतिपूजयेत्__व्ध_088.070
संवत्सरास् तथा मासा__व्ध_088.071
विफला दिवसाश् च ते__व्ध_088.071
नराणां विषयान्धानां__व्ध_088.071
येषु नाराधितो हरिः__व्ध_088.071
यो न वित्तर्द्धिविभवैर्__व्ध_088.072
न वसोभिर् न भूषणैः__व्ध_088.072
तुष्यते हृदयेनैव__व्ध_088.072
कस् तम् ईशं न पूजयेत्__व्ध_088.072
जलधेन्वाश् च माहात्म्यं__व्ध_088.073
निशाम्यापीदृशं नराः__व्ध_088.073
तां न यच्छन्ति ये तेषां__व्ध_088.073
विवेकः कुत्र तिष्ठति__व्ध_088.073
कर्मभूमौ हि मानुष्यं__व्ध_088.074
जन्मनाम् अयुतैर् अपि__व्ध_088.074
स्वर्गापवर्गफलदं__व्ध_088.074
कदाचित् प्राप्यते नरैः__व्ध_088.074
संप्राप्य तन् न यैर् विष्णुस्__व्ध_088.075
तोषितो नाम्बुधेनुका__व्ध_088.075
दत्ता च सम्यक् ते मुष्टा__व्ध_088.075
जन्मनि सुबहूनि भोः__व्ध_088.075
ऊर्ध्वबाहुर् विरौम्य् एष__व्ध_088.076
दृष्टलोकद्वयो ऽस्मि भोः__व्ध_088.076
आराधयत गोविन्दं__व्ध_088.076
जलधेनुं प्रयच्छत__व्ध_088.076
दुःसहो नारको वह्निर्__व्ध_088.077

अविषह्याश् च यातनाः__व्ध_088.077
ज्ञानं ममैतद् आलम्ब्य__व्ध_088.077
कृष्णे भवत सुस्थिराः__व्ध_088.077
अदेशिके देशिको ऽहम्__व्ध_088.078
अत्र मार्गे मयोदितम्__व्ध_088.078
विमृष्य सत्यम् इत्य् एतन्__व्ध_088.078
मनः कृष्णे निवेश्यताम्__व्ध_088.078
प्रातः कृष्णेति देवेति__व्ध_088.079
गोविन्देति च जल्पताम्__व्ध_088.079
मध्याह्ने चापराह्ने च__व्ध_088.079
यो ऽवसादः स उच्यताम्__व्ध_088.079
अनेकविषयालम्बि__व्ध_088.080
यच् चित्तं तज् जनार्दने__व्ध_088.080
कुरुध्वम् आलम्बनवत्__व्ध_088.080
संस्मृतः पुण्यदो हि सः__व्ध_088.080
मुधैव जिह्वा कृष्णेति__व्ध_088.081
केशवेति च वक्ष्यति__व्ध_088.081
मुधा च चित्तं तद्गामि__व्ध_088.081
यदि स्यात् किम् अतो ऽधिकम्__व्ध_088.081
मयोक्तम् एतद् बहुशो__व्ध_088.082
विनष्टे तु शरीरके__व्ध_088.082
मनुष्यत्वं विना विष्णुर्__व्ध_088.082
दुर्लभो वो भविष्यति__व्ध_088.082
एताः पुद्गलगाथास् ते__व्ध_088.083
यमवाक्यं तवोदितम्__व्ध_088.083
जलधेन्वाश् च माहात्म्यं__व्ध_088.083
विष्णुसंपूजनस्य च__व्ध_088.083
व्रतानि सोपवासानि__व्ध_088.084
सर्वकामप्रदानि ते__व्ध_088.084
व्रतम् अन्यन् महाभाग__व्ध_088.084
सर्वकामप्रदं शृणु__व्ध_088.084
भविष्यं चापरं भूप__व्ध_089.001
ममैतच् छ्रोतुम् अर्हसि__व्ध_089.001
यत् प्रक्ष्यति महीपालः__व्ध_089.001
परिक्षित् स्वपुरोहितम्__व्ध_089.001
परीक्षितः पुरोधास् तु__व्ध_089.002
द्विजो गौरमुखो नृप__व्ध_089.002
भविष्यति शमीकस्य__व्ध_089.002
शिष्यः परमसंमतः__व्ध_089.002
स च राजा जगद्धातुर्__व्ध_089.003

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc