भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 321340

प्राणिनः सन्तु निर्भयाः__व्ध_079.104
नभसि प्राणिनो ये तु__व्ध_079.105
ये जले ये च भूतले__व्ध_079.105
क्षितेर् अन्तरगा ये च__व्ध_079.105
ये च पाषाणसंपुटे__व्ध_079.105
ये धान्यादिषु वस्त्रेषु__व्ध_079.106
शयनेष्व् आसनेषु च__व्ध_079.106
ते स्वपन्तु विबुध्यन्तु__व्ध_079.106
सुखं मत्तो भयं विना__व्ध_079.106
न मे ऽस्ति बान्धवः कश्चिद्__व्ध_079.107
विष्णुं मुक्त्वा जगद्गुरुम्__व्ध_079.107
मित्रपक्षे च मे विष्णुर्__व्ध_079.107
अधश् चोर्ध्वं तथाग्रतः__व्ध_079.107
पार्श्वतो मूर्ध्नि पृष्ठे च__व्ध_079.108
हृदये वाचि चक्षुषि__व्ध_079.108
श्रोत्रादिषु च सर्वेषु__व्ध_079.108
मम विष्णुः प्रतिष्ठितः__व्ध_079.108
इति सर्वं समुत्सृज्य__व्ध_079.109
ध्यात्वा सर्वत्र चाच्युतम्__व्ध_079.109
वासुदेवेत्य् अविरतं__व्ध_079.109
नाम देवस्य कीर्तयन्__व्ध_079.109
दक्षिणाग्रेषु दर्भेषु__व्ध_079.110
शयीत प्राच्छिरास् ततः__व्ध_079.110
उदच्छिरा वा दैत्येन्द्र__व्ध_079.110
चिन्तयञ् जगतः पतिम्__व्ध_079.110
विष्णुं जिष्णुं हृषीकेशं__व्ध_079.111
केशवं मधुसूदनम्__व्ध_079.111
नारायणं नरं कृष्णं__व्ध_079.111
वासुदेवं जनार्दनम्__व्ध_079.111
वाराहं यज्ञपुरुषं__व्ध_079.112
पुण्डरीकाक्षम् अच्युतम्__व्ध_079.112
वामनं श्रीधरं श्रीशं__व्ध_079.112
नृसिंहम् अपराजितम्__व्ध_079.112
पद्मनाभम् अजं शौरिम्__व्ध_079.113
दामोदरम् अधोक्षजम्__व्ध_079.113
सर्वेश्वरेश्वरं शुद्धम्__व्ध_079.113
अनन्तं रामम् ईश्वरम्__व्ध_079.113
चक्रिणं गदिनं शार्ङ्गिं__व्ध_079.114
शङ्खिनं गरुडध्वजम्__व्ध_079.114
किरीटकौस्तुभधरं__व्ध_079.114

प्रणमाम्य् अहम् अव्ययम्__व्ध_079.114
अहम् अत्र जगन्नाथे__व्ध_079.115
मयि चास्तु जनार्दनः__व्ध_079.115
आवयोर् अन्तरं मास्तु__व्ध_079.115
समीरनभसोर् इव__व्ध_079.115
अयं विष्णुर् अयं शौरिर्__व्ध_079.116
अयं कृष्णः पुरो मम__व्ध_079.116
नीलोत्पलदलश्यामः__व्ध_079.116
पद्मपत्त्रोपमेक्षणः__व्ध_079.116
एष पश्यतु माम् ईशः__व्ध_079.117
पश्याम्य् अहम् अधोक्षजम्__व्ध_079.117
यतो न व्यतिरिक्तो ऽहं__व्ध_079.117
यन्मयो ऽहं यदाश्रयः__व्ध_079.117
इत्थं जपन्न् एकमनाः__व्ध_079.118
स्मरन् सर्वेश्वरं हरिम्__व्ध_079.118
आसीनः सुखदुःखेषु__व्ध_079.118
समो मित्राहितेषु च__व्ध_079.118
ओं नमो वासुदेवायेत्य्__व्ध_079.119
एतद् वा सततं वदन्__व्ध_079.119
यद् वोदीरयितुं नाम__व्ध_079.119
समर्थस् तद् उदीरयन्__व्ध_079.119
ध्यायेत देवदेवस्य__व्ध_079.119
रूपं विष्णोर् मनोरमम्__व्ध_079.119
प्रशान्तनेत्रभ्रूवक्त्रं__व्ध_079.120
शङ्खचक्रगदाधरम्__व्ध_079.120
श्रीवत्सवक्षसं चैव__व्ध_079.120
चतुर्बाहुं किरीटिनम्__व्ध_079.120
पीताम्बरधरं विष्णुं__व्ध_079.121
चारुकेयूरधारिणम्__व्ध_079.121
चिन्तयेच् च तदा रूपं__व्ध_079.121
मनः कृत्वैकनिश्चयम्__व्ध_079.121
यादृशे वा मनः स्थैर्यं__व्ध_079.122
रूपे बध्नाति चक्रिणः__व्ध_079.122
तद् एव चिन्तयन् नाम__व्ध_079.122
वासुदेवेति कीर्तयेत्__व्ध_079.122
इत्तं जपन् स्मरन् वेत्थं__व्ध_079.123
स्वरूपं परमात्मनः__व्ध_079.123
आ प्राणोपरमाद् वीरस्__व्ध_079.123
तच्चित्तस् तत्परायणः__व्ध_079.123
निर्विकल्पेन मनसा__व्ध_079.124

यः स्मरेत् पुरुषोत्तमम्__व्ध_079.124
सर्वपातकयुक्तो ऽपि__व्ध_079.124
पुरुषः पुरुषर्षभ__व्ध_079.124
प्रयाति देवदेवेशे__व्ध_079.124
लयम् ईड्यतमे ऽच्युते__व्ध_079.124
यथाग्निस् तृणजालानि__व्ध_079.125
दहत्य् अनिलसंगतः__व्ध_079.125
तथानशनसंकल्पः__व्ध_079.125
पुंसां पापम् असंशयम्__व्ध_079.125
विष्णोः संस्मरणे प्राप्य__व्ध_079.*(136)
लोकम् अनशने मृतः__व्ध_079.*(136)
एवम् अत्यन्तशस्तानां__व्ध_079.*(136)
कर्मणाम् असुरेश्वर__व्ध_079.*(136)
नास्ति सत्यात् परो धर्मो__व्ध_079.126
नास्त्य् अधर्म तथानृतात्__व्ध_079.126
नास्ति विद्यासमं चक्षुस्__व्ध_079.126
तपो नानशनात् परम्__व्ध_079.126
नास्ति ज्ञानसमं दानं__व्ध_079.127
न संतोषसमं सुखम्__व्ध_079.127
न चैवेर्ष्यासमं दुःखं__व्ध_079.127
तपो नानशनात् परम्__व्ध_079.127
नास्त्य् अरोगसमं धन्यं__व्ध_079.128
नास्ति गङ्गासमा सरित्__व्ध_079.128
नास्ति विष्णुसमं ध्येयं__व्ध_079.128
तपो नानशनात् परम्__व्ध_079.128
उत्क्रान्तिकाले भूतानां__व्ध_079.129
मुह्यन्ते चित्तवृत्तयः__व्ध_079.129
जराव्याधिविधीनानां__व्ध_079.129
किमु व्याध्यादिदोषतः__व्ध_079.129
अत्यन्तवयसा वृद्ध्या__व्ध_079.130
व्याधिना चातिपीडितः__व्ध_079.130
यदि स्थातुं न शक्नोति__व्ध_079.130
क्षितिस्थे दर्भसंस्तरे__व्ध_079.130
तत् किम् अन्यो ऽप्य् उपायो ऽस्ति__व्ध_079.131
न वानशनकर्मणि__व्ध_079.131
विफल्यं येन नाप्नोति__व्ध_079.131
तन् मे ब्रूहि पितामह__व्ध_079.131
नात्र भूमिर् न च कुशाः__व्ध_079.132
संस्तरश् च न कारणम्__व्ध_079.132
चित्तस्यालम्बनीभूतो__व्ध_079.132

विष्णुर् एवात्र कारणम्__व्ध_079.132
भुञ्जन्न् अभुञ्जन् गच्छंश् च__व्ध_079.133
स्वपंस् तिष्ठन्न् अथापि वा__व्ध_079.133
उत्क्रान्तिकाले गोविन्दं__व्ध_079.133
संस्मरंस् तन्मयो भवेत्__व्ध_079.133
किं जपैः किं भुवा कृत्यं__व्ध_079.134
किं कुशैर् दैत्यसत्तम__व्ध_079.134
तथापि कुर्वतो यस्य__व्ध_079.134
हृदये न जनार्दनः__व्ध_079.134
तस्मात् प्रधानमन्त्रोक्तं__व्ध_079.135
वासुदेवस्य कीर्तनम्__व्ध_079.135
तन्मयत्वेन दैत्येन्द्र__व्ध_079.135
तस्योपायश् च विस्तरः__व्ध_079.135
इत्य् एतत् कथितं सर्वं__व्ध_079.136
पृष्टो ऽहं यत् त्वया बले__व्ध_079.136
उत्क्रान्तिकाले स्मरणं__व्ध_079.136
किं भूयः कथयामि ते__व्ध_079.136
क्रियायोगस् त्वया पूर्वं__व्ध_080.001
ममोक्तो यः पितामह__व्ध_080.001
तम् अहं श्रोतुम् इच्छामि__व्ध_080.001
फलं चास्य यथातथम्__व्ध_080.001
देवार्चां देवतागारे__व्ध_080.002
तन्मयत्वेन पूजयम्__व्ध_080.002
यथावच् चेतसो भूमिं__व्ध_080.002
करोति नियतो हि सः__व्ध_080.002
तपसा ब्रह्मचर्येण__व्ध_080.003
पुण्यस्वाध्यायसंस्तवैः__व्ध_080.003
क्रियायोगः स विद्वद्भिर्__व्ध_080.003
योगिनां समुदाहृतः__व्ध_080.003
तत्राहं श्रोतुम् इच्छामि__व्ध_080.004
क्रियायोगस्थितो नरः__व्ध_080.004
यत् फलं समवाप्नोति__व्ध_080.004
कारयित्वा हरेर् गृहम्__व्ध_080.004
देवार्चां कारयित्वा वा__व्ध_080.005
यत् पुण्यं पुरुषो ऽश्नुते__व्ध_080.005
संपूजयित्वा विधिवद्__व्ध_080.005
अनुलिप्य च यत् फलम्__व्ध_080.005
कानि माल्यानि शस्तानि__व्ध_080.006
कानि नार्हन्ति केशवे__व्ध_080.006
के धूपाः कृष्णदयिताः__व्ध_080.006

के वर्ज्याश् च जगत्पतेः__व्ध_080.006
उपहारे फलं कीम् स्यात्__व्ध_080.007
किं फलं गीतवादिते__व्ध_080.007
घृतक्षीरादिना यच् च__व्ध_080.007
स्नापिते केशवे फलम्__व्ध_080.007
यच् चोपलेपने तात__व्ध_080.008
फलम् अभ्युक्षिते च यत्__व्ध_080.008
वासुदेवगृहे सर्वं__व्ध_080.008
तद् अशेषं वदस्व मे__व्ध_080.008
साधु वत्स यद् एतत् त्वं__व्ध_080.009
वासुदेवस्य पृच्छसि__व्ध_080.009
शुश्रूषणविधौ पुण्यं__व्ध_080.009
तद् इहैकमनाः शृणु__व्ध_080.009
ब्रह्मणा किल देवानाम्__व्ध_080.010
ऋषीणां च महात्मनाम्__व्ध_080.010
शुश्रूषणफलं विष्णोः__व्ध_080.010
प्रोक्तं दैत्यपते पुरा__व्ध_080.010
तेभ्यः सकाशान् मनुना__व्ध_080.011
प्राप्तं स्वारोचिषेण तु__व्ध_080.011
स्वारोचिषः स्वपुत्राय__व्ध_080.011
दत्तवान् ऋतचक्षुषे__व्ध_080.011
ऋतचक्षुश् च भर्गवे__व्ध_080.012
शुक्रस् तस्माद् अवाप च__व्ध_080.012
ममाख्यातं च शुक्रेण__व्ध_080.012
यथावत् सुमहात्मना__व्ध_080.012
शुश्रूषवे महाभाग__व्ध_080.013
दैत्याचार्येण धीमता__व्ध_080.013
तद् एतच् छ्रूयतां तात__व्ध_080.013
क्रियायोगाश्रितं फलम्__व्ध_080.013
ज्ञानयोगस् तु संयोगश्__व्ध_080.014
चित्तस्यैवात्मना तु यः__व्ध_080.014
यस् तु बाह्यार्थसापेक्षः__व्ध_080.014
स क्रियायोग उच्यते__व्ध_080.014
परमं कारणं योगो__व्ध_080.015
विमुक्तेर् दितिकेश्वर__व्ध_080.015
क्रियायोगश् च योगस्य__व्ध_080.015
परमं तात साधनम्__व्ध_080.015
यत् त्व् एतद् भवता पृष्टं__व्ध_080.016
फलम् अन्विच्छता फलम्__व्ध_080.016
देवालयादिकरणे__व्ध_080.016

तद् इहैकमनाः शृणु__व्ध_080.016
यस् तु देवालयं विष्णोर्__व्ध_080.017
दार्वं शैलमयं तथा__व्ध_080.017
कारयेन् मृन्मयं वापि__व्ध_080.017
शृणु तस्य बले फलं__व्ध_080.017
अहन्य् अहनि यज्ञेन__व्ध_080.018
यजतो यन् महाफलम्__व्ध_080.018
प्राप्नोति तत् फलं विष्णोर्__व्ध_080.018
यः कारयति मन्दिरम्__व्ध_080.018
कुलानां शतम् आगामि__व्ध_080.019
समतीतं तथा शतम्__व्ध_080.019
कारयन् भगवद्धाम__व्ध_080.019
नयत्य् अच्युतलोकताम्__व्ध_080.019
सप्तजन्मकृतं पापं__व्ध_080.020
स्वल्पं वा यदि वा बहु__व्ध_080.020
विष्णोर् आलयविन्यास-__व्ध_080.020
प्रारम्भाद् एव नश्यति__व्ध_080.020
सप्तलोकमयो विष्णुस्__व्ध_080.021
तस्य यः कुरुते गृहम्__व्ध_080.021
प्रतिष्ठां समवाप्नोति__व्ध_080.021
स नरः सप्तलौकिकीम्__व्ध_080.021
प्रशस्तदेशभूभागे__व्ध_080.022
यः शस्तं भवनं हरेः__व्ध_080.022
कारयत्य् अक्षयांल् लोकान्__व्ध_080.022
स नरः प्रतिपद्यते__व्ध_080.022
इष्टकाचयविन्यासो__व्ध_080.023
यावन्त्य् ऋक्षाणि तिष्ठति__व्ध_080.023
तावद्वर्षसहस्राणि__व्ध_080.023
तत्कर्तुर् दिवि संस्थितिः__व्ध_080.023
प्रतिमां लक्षणवतीं__व्ध_080.024
यः कारयति मानवः__व्ध_080.024
केशवस्य स तल्लोकम्__व्ध_080.024
अक्षयं प्रतिपद्यते__व्ध_080.024
षष्टिं वर्षसहस्राणां__व्ध_080.025
सहस्राणि स मोदते__व्ध_080.025
स्वर्गौकसां निवासेषु__व्ध_080.025
प्रत्येकम् अरिसूदन__व्ध_080.025
प्रतिष्ठाप्य हरेर् अर्चां__व्ध_080.026
सुप्रशस्ते निवेशने__व्ध_080.026
पुरुषः कृतकृत्यत्वान्__व्ध_080.026

नैनं श्वोमरणं तपेत्__व्ध_080.026
ये भविष्यन्ति ये ऽतीता__व्ध_080.027
आकल्पात् पुरुषाः कुले__व्ध_080.027
तांस् तारयति संस्थाप्य__व्ध_080.027
देवस्य प्रतिमां हरेः__व्ध_080.027
अनुशस्ताः किल पुरा__व्ध_080.028
यमेन यमकिंकराः__व्ध_080.028
पाशोद्यतायुधा दैत्य__व्ध_080.028
प्रजासंयमने रताः__व्ध_080.028
विहरध्वं यथान्यायं__व्ध_080.029
नियोगो मे ऽनुपाल्यताम्__व्ध_080.029
नाज्ञाभङ्गं करिष्यन्ति__व्ध_080.029
भवतां जन्तवः क्वचित्__व्ध_080.029
केवलं ये जगद्धातुम्__व्ध_080.030
अनन्तं समुपाश्रिताः__व्ध_080.030
भवद्भिः परिहर्तव्यास्__व्ध_080.030
तेषां नास्त्य् अत्र संस्थितिः__व्ध_080.030
ये तु भागवता लोके__व्ध_080.031
तच्चित्तास् तत्परायणाः__व्ध_080.031
पूजयन्ति सदा विष्णुं__व्ध_080.031
ते वस् त्याज्याः सुदूरतः__व्ध_080.031
यस् तिष्ठन् प्रस्वपन् गच्छंस्__व्ध_080.032
तत्तिष्ठन् स्खलिते क्षुते__व्ध_080.032
संकीर्तयति गोविन्दं__व्ध_080.032
ते वस् त्याज्याः सुदूरतः__व्ध_080.032
नित्यनैमित्तिकैर् देवं__व्ध_080.033
ये यजन्ति जनार्दनम्__व्ध_080.033
नावलोक्य भवद्भिस् ते__व्ध_080.033
तत्तेजो हन्ति वो गतिम्__व्ध_080.033
ये धूपपुष्पवासोभिर्__व्ध_080.034
भूषणैश् चापि वल्लभैः__व्ध_080.034
अर्चयन्ति न ते ग्राह्या__व्ध_080.034
नराः कृष्णाश्रयोद्धताः__व्ध_080.034
उपलेपनकर्तारः__व्ध_080.035
संमार्जनपराश् च ये__व्ध_080.035
कृष्णालये परित्याज्यं__व्ध_080.035
तेषां त्रिपुरुषं कुलम्__व्ध_080.035
येन चायतनं विष्णोः__व्ध_080.036
कारितं तत्कुलोद्भवम्__व्ध_080.036
पुंसां शतं नावलोक्यं__व्ध_080.036

भवद्भिर् दुष्टचक्षुषा__व्ध_080.036
येनार्चा भगवद्भक्त्या__व्ध_080.037
वासुदेवस्य कारिता__व्ध_080.037
नरायुतं तत्कुलजं__व्ध_080.037
भवतां शासनातिगम्__व्ध_080.037
भवतां भ्रमताम् अत्र__व्ध_080.038
विष्णुसंश्रयमुद्रया__व्ध_080.038
विनाज्ञाभङ्गकृन् नैव__व्ध_080.038
भविष्यति नरः क्वचित्__व्ध_080.038
वत्स वैवस्वतस्यैताः__व्ध_080.039
श्रुत्वा गाथा मरीचिना__व्ध_080.039
पुरुकुत्साय कथिताः__व्ध_080.039
पार्थिवेन्द्राय धीमते__व्ध_080.039
एतां महाफलां यो ऽर्चां__व्ध_080.040
विष्णोह् कारयते नरः__व्ध_080.040
तवाख्यातं महाबाहो__व्ध_080.040
गृहकारयितुश् च यत्__व्ध_080.040
यज्ञा नराणां पापौघ-__व्ध_080.041
क्षालकाः सर्वकामदाः__व्ध_080.041
तथैवेज्यो जगद्धातुः__व्ध_080.041
सर्वयज्ञमयो हरिः__व्ध_080.041
स्थापितां प्रतिमां विष्णोः__व्ध_081.001
सम्यक् संपूज्य मानवः__व्ध_081.001
यं यं प्रार्थयते कामं__व्ध_081.001
तं तम् आप्नोत्य् असंशयम्__व्ध_081.001
यः स्नापयति देवस्य__व्ध_081.002
घृतेन प्रतिमां हरेः__व्ध_081.002
प्रस्थे प्रस्थे द्विजाग्र्याणां__व्ध_081.002
स ददाति गवां शतम्__व्ध_081.002
गवां शतस्य विप्राणां__व्ध_081.003
यद् दत्तस्य भवेत् फलम्__व्ध_081.003
घृतप्रस्थेन तद् विष्णोर्__व्ध_081.003
लभेत् स्नानोपयोगिना__व्ध_081.003
भूरिद्युम्नेन संप्राप्ता__व्ध_081.004
सप्तद्वीपा वसुंधरा__व्ध_081.004
घृताढकेन गोविन्द-__व्ध_081.004
प्रतिमास्नापनात् किल__व्ध_081.004
प्रतिमासं सिताष्टम्यां__व्ध_081.005
घृतेन जगतः पतिम्__व्ध_081.005
स्नापयित्वा समस्तेभ्यः__व्ध_081.005

पापेभ्यो विप्रमुच्यते__व्ध_081.005
द्वादश्यां पञ्चदश्यां च__व्ध_081.006
गव्येन हविषा हरेः__व्ध_081.006
स्नापनं दैत्यशार्दूल__व्ध_081.006
महापातकनाशनम्__व्ध_081.006
ज्ञानतो ऽज्ञानतो वापि__व्ध_081.007
यत् पापं कुरुते नरः__व्ध_081.007
तत् क्षालयति संध्यायां__व्ध_081.007
घृतेन स्नापयन् हरिम्__व्ध_081.007
सर्वयज्ञमयो विष्णुर्__व्ध_081.008
हव्यानां परमं घृतम्__व्ध_081.008
तयोर् अशेषपापानां__व्ध_081.008
क्षालकः संगमो ऽसुर__व्ध_081.008
येषु क्षीरवहा नद्यो__व्ध_081.009
ह्रदाः पायसकर्दमाः__व्ध_081.009
तांल् लोकान् पुरुषा यान्ति__व्ध_081.009
क्षीरस्नानकरा हरेः__व्ध_081.009
आह्लादं निर्वृतिं स्वास्थ्यम्__व्ध_081.010
आरोग्यं चारुरूपताम्__व्ध_081.010
सप्त जन्मान्य् अवाप्नोति__व्ध_081.010
क्षीरस्नानकरो हरेः__व्ध_081.010
दध्यादीनां विकाराणां__व्ध_081.011
क्षीरतः संभवो यथा__व्ध_081.011
तथैवाशेषकामानां__व्ध_081.011
क्षीरस्नापनतो हरेः__व्ध_081.011
यथा च विमलं ज्ञानं__व्ध_081.012
यथा निर्वृतिकारकम्__व्ध_081.012
तथास्य निर्मलं ज्ञानं__व्ध_081.012
भवत्य् अतिफलप्रदम्__व्ध_081.012
ग्रहानुकूलतां पुष्टिं__व्ध_081.013
प्रियत्वं चाखिले जने__व्ध_081.013
करोति भगवान् विष्णुः__व्ध_081.013
क्षीरस्नापनतोषितः__व्ध_081.013
सर्वो ऽस्य स्निग्धताम् एति__व्ध_081.014
दृष्टमात्रः प्रसीदति__व्ध_081.014
घृतक्षीरेण देवेशे__व्ध_081.014
स्नापिते मधुसूदने__व्ध_081.014
अत्राप्य् उदाहरन्तीमं__व्ध_081.015
संवादं केशवाश्रितम्__व्ध_081.015
शाण्डिल्या सह कैकेय्याः__व्ध_081.015

सुमनायाः सुरालये__व्ध_081.015
स्वर्गे ऽतिशोभनां दृष्ट्वा__व्ध_081.016
कैकेयीं पतिना सह__व्ध_081.016
ब्राह्मणी शाण्डिली नाम__व्ध_081.016
पर्यपृच्छत विस्मिता__व्ध_081.016
शतशः सन्ति कैकेयि__व्ध_081.017
देवाः स्वर्गनिवासिनः__व्ध_081.017
देवपत्न्यस् तथैवैताः__व्ध_081.017
सिद्धाः सिद्धाङ्गनास् तथा__व्ध_081.017
न तेषाम् ईदृशो गन्धो__व्ध_081.018
न कान्तिर् न सुरूपता__व्ध_081.018
न वाससां च शोभेयं__व्ध_081.018
यथा ते पतिना सह__व्ध_081.018
नैवाभरणजातानि__व्ध_081.019
तेषां भ्राजन्ति वै तथा__व्ध_081.019
यथा तव यथा पत्युस्__व्ध_081.019
तव स्वर्गनिवासिनः__व्ध_081.019
स्वस्थता चेतसश् चेयं__व्ध_081.020
युवयोर् अतिरिच्यते__व्ध_081.020
शक्राद्यानाम् अपीसानां__व्ध_081.020
क्षयातिशयवर्जितः__व्ध_081.020
तपःप्रभावो दानं वा__व्ध_081.021
कर्म वा होमसंज्ञितम्__व्ध_081.021
युवयोर् यन् ममाचक्ष्व__व्ध_081.021
तत् सर्वं वरवर्णिनि__व्ध_081.021
यज्ञैर् यज्ञेश्वरो विष्णुर्__व्ध_081.022
आवाभ्यां यत् तु तोषितः__व्ध_081.022
स्वर्गप्राप्तिर् इयं तस्य__व्ध_081.022
कर्मणः फलम् उत्तमम्__व्ध_081.022
सुरूपतां मनःप्रीति__व्ध_081.023
पश्यतां चारुवेषताम्__व्ध_081.023
यत् पृच्छसि महाभागे__व्ध_081.023
तद् अप्य् एषा वदामि ते__व्ध_081.023
तीर्थोदकैस् तथा स्नानैः__व्ध_081.024
स्नापितो ऽयं जनार्दनः__व्ध_081.024
तेन कान्तिर् अतीत्यैतान्__व्ध_081.024
देवांस् त्रिभुवनेश्वरान्__व्ध_081.024
मनःप्रसादः सौम्यत्वं__व्ध_081.025
शारीरा या च निर्वृतिः__व्ध_081.025
यत् प्रियत्वं च सर्वस्य__व्ध_081.025

तद् घृतस्नानजं फलम्__व्ध_081.025
यान्य् अभीष्टानि वासांसि__व्ध_081.026
यच् चाभीष्टं विभूषणम्__व्ध_081.026
रत्नानि यान्य् अभीष्टानि__व्ध_081.026
यत् प्रियं चानुलेपनम्__व्ध_081.026
ये धूपा यानि माल्यानि__व्ध_081.027
दयितान्य् अभवंस् तदा__व्ध_081.027
मम भर्तुस् तथैवास्य__व्ध_081.027
मम राज्यं प्रशासतः__व्ध_081.027
तानि सर्वाणि सर्वज्ञे__व्ध_081.028
सर्वकर्तरि केशवे__व्ध_081.028
दत्तानि तत्समुत्थो ऽयं__व्ध_081.028
गन्धभूषात्मको गुणः__व्ध_081.028
आहारा दयिता ये च__व्ध_081.029
पवित्राश् च निवेदिताः__व्ध_081.029
ते लोककर्त्रे क्षृणाय__व्ध_081.029
तृप्तिस् तद्गुणसंभवा__व्ध_081.029
स्वर्गकामेन मे भर्त्रा__व्ध_081.030
मया च शुभदर्शने__व्ध_081.030
कृतम् एतद् अतो नाभूद्__व्ध_081.030
आवयोर् भवसंक्षयः__व्ध_081.030
ये त्व् अकामां नराः सम्यग्__व्ध_081.031
एतत् कुर्वन्ति शोभने__व्ध_081.031
तेषां ददाति विश्वेशो__व्ध_081.031
भगवान् मुक्तिम् अच्युतः__व्ध_081.031
एवम् अभ्यर्च्य गोविन्दं__व्ध_081.032
सर्वभूतेश्वरेश्वरम्__व्ध_081.032
प्राप्नोत्य् अभिमतान् कामान्__व्ध_081.032
दैत्याह सुमना यथा__व्ध_081.032
चन्दनागरुकर्पूर-__व्ध_081.033
कुङ्कुमोशीरपद्मकैः__व्ध_081.033
अनुलिप्तो हरिर् भक्त्या__व्ध_081.033
वरान् भोगान् प्रयच्छति__व्ध_081.033
कालेयकं तुङ्गकं च__व्ध_081.034
पद्मचन्दनम् एव च__व्ध_081.034
नॄणां भवन्ति रोगाय__व्ध_081.034
दत्तानि पुरुषोत्तमे__व्ध_081.034
तस्माद् एभिर् न गोविन्दः__व्ध_081.035
पूजनीयो महासुर__व्ध_081.035
यान्य् आत्मनः सदेष्टानि__व्ध_081.035

तानि शस्तान्य् उपाकुरु__व्ध_081.035
तथैव शुभगन्धा ये__व्ध_081.036
धूपास् ते जगतः पतेः__व्ध_081.036
वासुदेवस्य धर्मज्ञैर्__व्ध_081.036
निवेद्या दानवेश्वर__व्ध_081.036
न शल्लकीजं नाक्षौलं__व्ध_081.037
न शुक्तासवसंभृतम्__व्ध_081.037
दद्यात् कृष्णाय धर्मज्ञो__व्ध_081.037
धूपान् आराधनोद्यतः__व्ध_081.037
मालती मल्लिका चैव__व्ध_081.038
यूथिकाथातिमुक्तका__व्ध_081.038
पाटला करवीरश् च__व्ध_081.038
जवा पारन्तिर् एव च__व्ध_081.038
कुब्जकस् तगरश् चैव__व्ध_081.039
कर्णिकारः कुरण्टकः__व्ध_081.039
चम्पको रोतकः कुन्दो__व्ध_081.039
बाणो वर्वरमालिकाः__व्ध_081.039
अशोकतिलका रोध्रास्__व्ध_081.040
तथा चैवाटरूषकः__व्ध_081.040
अमी पुष्पप्रकारास् तु__व्ध_081.040
शस्ताः केशवपूजने__व्ध_081.040
बिल्वपत्रं शमीपत्रं__व्ध_081.041
पत्रं भृङ्गारकस्य च__व्ध_081.041
तमालपत्रं च बले__व्ध_081.041
सदैव भगवत्प्रियम्__व्ध_081.041
तुलसीकालतुलसी-__व्ध_081.042
पत्रं भृङ्गरजस्य च__व्ध_081.042
केतकीपत्रपुष्पं च__व्ध_081.042
सद्यस् तुष्टिकरं हरेः__व्ध_081.042
पद्मान्य् अम्बुसमुत्थानां__व्ध_081.043
रक्तनीले तथोत्पले__व्ध_081.043
सितोत्पलं च कृष्णस्य__व्ध_081.043
दयितानि सदासुर__व्ध_081.043
नार्कं नोन्मत्तकं कांचित्__व्ध_081.044
तथैव गिरिकर्णिकाम्__व्ध_081.044
न कण्टकारिकापुष्पम्__व्ध_081.044
अच्युताय निवेदयेत्__व्ध_081.044
कौटजं शाल्मलीपुष्पं__व्ध_081.045
शैरीषं च जनार्दने__व्ध_081.045
निवेदिते भयं रोगं__व्ध_081.045

निःस्वतां च प्रयच्छति__व्ध_081.045
येषां न प्रतिषेधो ऽस्ति__व्ध_081.046
गन्धवर्णान्वितानि च__व्ध_081.046
तानि पुष्पाणि देयानि__व्ध_081.046
विष्णवे प्रभविष्णवे__व्ध_081.046
सुगन्धैश् च सुरामांसी-__व्ध_081.047
कर्पूरागरुचन्दनैः__व्ध_081.047
तथान्यैश् च शुभैर् द्रव्यैर्__व्ध_081.047
अर्चयेज् जगतः पतिम्__व्ध_081.047
दुकूलपटुकौशेय-__व्ध_081.048
वार्क्षकर्पासिकादिभिः__व्ध_081.048
वासोभिः पूजयेद् विष्णुं__व्ध_081.048
दैतेयेन्द्रात्मनः प्रियैः__व्ध_081.048
भक्ष्याणि यान्य् अभीष्टानि__व्ध_081.049
भोज्यान्य् अभिमतानि च__व्ध_081.049
फलं च वल्लभं यत् स्यात्__व्ध_081.049
तत् तद् देयं जनार्दने__व्ध_081.049
सुवर्णमणिमुक्तादि__व्ध_081.050
यच् चान्यद् अतिवल्लभम्__व्ध_081.050
तत् तद् देवातिदेवाय__व्ध_081.050
केशवाय निवेदयेत्__व्ध_081.050
आत्मानं केशवं मत्वा__व्ध_081.051
यद् यत् तस्यैव रोचते__व्ध_081.051
तत् तद् अव्यक्तरूपाय__व्ध_081.051
केशवाय निवेदयेत्__व्ध_081.051
चक्रवर्ती महावीर्यो__व्ध_082.001
मान्धाता युवनाश्वजः__व्ध_082.001
शशास स महाबाहुः__व्ध_082.001
सप्तद्वीपां वसुंधराम्__व्ध_082.001
अगायन्त च या गाथा__व्ध_082.002
ये पुराणविदो जनाः__व्ध_082.002
मान्धातरि महाबाहो__व्ध_082.002
यौवनाश्वे समाश्रिताः__व्ध_082.002
यावत् सूर्य उदेति स्म__व्ध_082.003
यावच् च प्रतितिष्ठति__व्ध_082.003
सर्वं तद् यौवनाश्वस्य__व्ध_082.003
मान्धातुः क्षेत्रम् उच्यते__व्ध_082.003
स यौवनगतः संराट्__व्ध_082.004
सप्तद्वीपवतीं महीम्__व्ध_082.004
शशास धर्मेण पुरा__व्ध_082.004

चक्रवर्ती महाबलः__व्ध_082.004
नान्यायकृन् न चाशक्तो__व्ध_082.005
न दरिद्रो न कीकटः__व्ध_082.005
तस्याभूत् पुरुषो राज्ये__व्ध_082.005
सम्यग्धर्मानुशासिनः__व्ध_082.005
चतस्रो गतयस् तस्य__व्ध_082.006
यौवनाश्वस्य धीमतः__व्ध_082.006
बभूवुर् अप्रतिहता__व्ध_082.006
हतारातिबलस्य वै__व्ध_082.006
तस्य भक्तिर् अतीवाभून्__व्ध_082.007
निसर्गाद् एव भूपतेः__व्ध_082.007
वासुदेवे जगद्धाम्नि__व्ध_082.007
सर्वकारणकारणे__व्ध_082.007
तस्य र्द्धिं महिमानं च__व्ध_082.008
विलोक्य पृथिवीपतेः__व्ध_082.008
न केवलं जनस्याभूत्__व्ध_082.008
तस्याप्य् अत्यन्तविस्मयः__व्ध_082.008
स चिन्तयाम् आस नृपः__व्ध_082.009
समृद्ध्या विस्मितस् तया__व्ध_082.009
कथं स्यात् सम्पद् एषा मे__व्ध_082.009
पुनर् अप्य् अन्यजन्मनि__व्ध_082.009
एवं सुबहुशो राजा__व्ध_082.010
दैत्येन्द्र सुमहाबलः__व्ध_082.010
चिन्तयन्न् अपि तन्मूलं__व्ध_082.010
न चासीन् निश्चयान्वितः__व्ध_082.010
यदा न निश्चयं राजा__व्ध_082.011
स ययौ युवनाश्वजः__व्ध_082.011
तदा पप्रच्छ धर्मज्ञान्__व्ध_082.011
स विप्रान् समुपागतान्__व्ध_082.011
वसिष्ठप्रमुखान् वत्स__व्ध_082.012
विविक्तान्तःपुरस्थितः__व्ध_082.012
प्रणिपत्य महाबाहुर्__व्ध_082.012
गृहीतासनसत्क्रियान्__व्ध_082.012
यदि सानुग्रहा बुद्धिर्__व्ध_082.013
भवतां मयि सत्तमाः__व्ध_082.013
तद् अहं प्रष्टुम् इच्छामि__व्ध_082.013
किंचित् तद् वक्तुम् अर्हथ__व्ध_082.013
समेत्याखिलविज्ञानं__व्ध_082.014
सम्यग्धौतान्तरात्मभिः__व्ध_082.014
भवद्भिर् यद्य् अहं न स्यां__व्ध_082.014

विमलस् तन् महाद्भुतम्__व्ध_082.014
यद् यथा तन् मया पृष्टा__व्ध_082.015
भवन्तो मत्प्रसाधिताः__व्ध_082.015
वक्तुम् अर्हन्ति विद्वांसः__व्ध_082.015
सर्वस्यैवोपकारिणः__व्ध_082.015
यस् ते मनसि संदेहस्__व्ध_082.016
तं पृच्छाद्य महीपते__व्ध_082.016
गदिष्यामो यथान्यायं__व्ध_082.016
यत् ते सांशयिकं हृदि__व्ध_082.016
वयं हि नरशार्दूल__व्ध_082.017
भवता परितोषिताः__व्ध_082.017
सम्यक् प्रजाः पालयता__व्ध_082.017
सप्तद्वीपे महीतले__व्ध_082.017
सुतुष्टो ब्राह्मणो ऽश्नीयाच्__व्ध_082.018
छिन्द्याद् वा धर्मसंशयम्__व्ध_082.018
हितं वोपदिशेद् धर्मम्__व्ध_082.018
अहिताद् वा निवर्तयेत्__व्ध_082.018
विवक्षुम् अथ भूपालं__व्ध_082.019
भार्या तस्यैव धीमतः__व्ध_082.019
प्रणामपूर्वम् आहेदं__व्ध_082.019
विनयात् प्रणयान्वितम्__व्ध_082.019
न स्त्रीणाम् अवनीपाल__व्ध_082.020
वक्तुम् ईदृग् इहेश्यते__व्ध_082.020
तथापि भूपते वक्ष्ये__व्ध_082.020
संपद् ईदृक् सुदुर्लभा__व्ध_082.020
भूयो ऽपि संशयं प्रष्टुम्__व्ध_082.021
अलम् ईश भवान् ऋषीन्__व्ध_082.021
न त्व् अहं पुरुषव्याघ्र__व्ध_082.021
सदान्तःपुरचारिणी__व्ध_082.021
स प्रसादं यदि भवान्__व्ध_082.022
करोति मम पार्थिव__व्ध_082.022
तन् मदीयम् ऋषीन् प्रष्टुं__व्ध_082.022
संशयं पार्थिवार्हसि__व्ध_082.022
ब्रूहि सुभ्रु मतं यत् ते__व्ध_082.023
प्रष्टव्या यन् मया द्विजाः__व्ध_082.023
भूयो ऽहम् आत्मसंदेहं__व्ध_082.023
प्रक्ष्याम्य् एतान् द्विजोत्तमान्__व्ध_082.023
श्रूयन्ते पृथिवीपाल__व्ध_082.024
नृप ये च पुरातनाः__व्ध_082.024
तेषां न संपद् भूपाल__व्ध_082.024

यथा तव किलाभवत्__व्ध_082.024
तद् ईदृक्संपदां धाम__व्ध_082.025
त्वम् अशेषक्षितीश्वरः__व्ध_082.025
येन कर्मविपाकेन__व्ध_082.025
तद् वदन्तु महर्षयः__व्ध_082.025
अहं च भवतो भार्या__व्ध_082.026
सर्वसीमन्तिनी भुवि__व्ध_082.026
विधिना केन तपसा__व्ध_082.026
नियुक्ता भवतो गृहे__व्ध_082.026
अतीव कर्मणा येन__व्ध_082.026
तद्विज्ञाने कुतूहलम्__व्ध_082.026
तारतम्यतयेशित्वम्__व्ध_082.027
अन्येष्व् अपि हि विद्यते__व्ध_082.027
निरस्तातिशयत्वेन__व्ध_082.027
नूनं नाल्पेन कर्मणा__व्ध_082.027
तद् अन्यजन्मचरितं__व्ध_082.028
नरनाथ निजं भवान्__व्ध_082.028
मुनीन् पृच्छतु या चाहं__व्ध_082.028
यन् मया च पुरा कृतम्__व्ध_082.028
स तथोक्तस् तया राजा__व्ध_082.029
पत्न्या विस्मितमानसः__व्ध_082.029
मुनीनां पुरतो भार्यां__व्ध_082.029
प्रशंसन् वाक्यम् अब्रवीत्__व्ध_082.029
साधु देवि मतं यन् मे__व्ध_082.030
त्वया तद् इदम् ईरितम्__व्ध_082.030
सत्यं मुनिवचः पुंसाम्__व्ध_082.030
अर्धं वै गृहिणी यथा__व्ध_082.030
ममाप्य् एतद् अभिप्रेतम्__व्ध_082.031
इमान् प्रष्टुं महामुनीन्__व्ध_082.031
यत् त्वयाभिहितं भद्रे__व्ध_082.031
मत्स्वभावानुयातया__व्ध_082.031
सो ऽहम् एतन् महाभागे__व्ध_082.032
प्रक्ष्याम्य् एतान् महामुनीन्__व्ध_082.032
नैषाम् अविदितं किंचित्__व्ध_082.032
त्रिषु लोकेषु विद्यते__व्ध_082.032
एवम् उक्त्वा प्रियां भार्यां__व्ध_082.033
प्रणिपत्य च तान् ऋषीन्__व्ध_082.033
यथावद् एतद् अखिलं__व्ध_082.033
पप्रच्छासुरसत्तम__व्ध_082.033
भगवन्तो ममाशेषं__व्ध_082.034

प्रसादाहृतचेतसः__व्ध_082.034
कथयन्तु यथावृत्तं__व्ध_082.034
यन् मया सुकृतं कृतम्__व्ध_082.034
को ऽहम् आसं पुरा विप्राः__व्ध_082.035
किं च कर्म मया कृतम्__व्ध_082.035
किं वानया सुचार्वङ्ग्या__व्ध_082.035
मम पत्न्या कृतं द्विजाः__व्ध_082.035
येनावयोर् इयं स्फीतिर्__व्ध_082.036
मर्त्यलोके सुदुर्लभा__व्ध_082.036
चत्वारश् चाप्रतिहता__व्ध_082.036
गतयो मम गच्छतः__व्ध_082.036
अशेषा भूभृतो वश्याः__व्ध_082.037
कोशस्यान्तो न विद्यते__व्ध_082.037
बलं चैवाप्रतिहतं__व्ध_082.037
शरीरारोग्यम् उत्तमम्__व्ध_082.037
अतिभाति च मे कान्त्या__व्ध_082.038
भार्येयम् अखिलं जगत्__व्ध_082.038
ममापि वपुषस् तेजो__व्ध_082.038
न कश्चित् सहते द्विजाः__व्ध_082.038
सो ऽहम् इच्छामि विज्ञातुं__व्ध_082.039
तथैवेयम् अनिन्दिता__व्ध_082.039
निजानुष्ठानम् अखिलं__व्ध_082.039
यस्याशेषम् इदं फलम्__व्ध_082.039
इति प्रष्टा नरेन्द्रेण__व्ध_082.040
समस्तास् ते तपोधनाः__व्ध_082.040
वसिष्ठं चोदयाम् आसुः__व्ध_082.040
कथ्यताम् इति भूभृतः__व्ध_082.040
चोदितः सो ऽपि धर्मज्ञैर्__व्ध_082.041
मैत्रावरुणिर् आत्मवान्__व्ध_082.041
योगम् आस्थाय सुचिरं__व्ध_082.041
यथावद् यतमानसः__व्ध_082.041
ज्ञातवान् नृपतेस् तस्य__व्ध_082.041
पूर्वदेहविचेष्टितम्__व्ध_082.041
स तम् आह मुनिर् भूपं__व्ध_082.042
विदितार्थो महासुर__व्ध_082.042
मान्धातारं महाबुद्धिं__व्ध_082.042
सपत्नीकम् इदं वचः__व्ध_082.042
शृणु भूपाल सकलं__व्ध_082.043
यस्येदं कर्मणः फलम्__व्ध_082.043
तव राज्यादिकं सुभ्रूर्__व्ध_082.043

येयं चासीन् महीपते__व्ध_082.043
त्वम् आसीः शूद्रजातीयः__व्ध_082.044
परहिंसापरायणः__व्ध_082.044
वाक्क्रूरो दण्डपारुष्यो__व्ध_082.044
निःस्नेहः सर्वजन्तुषु__व्ध_082.044
तथेयं भवतो भार्या__व्ध_082.045
पूर्वम् अप्य् आयतेक्षणा__व्ध_082.045
द्वेष्या बभूव तच्चित्ता__व्ध_082.045
तव शुश्रूषणे रता__व्ध_082.045
पतिव्रता महाभागा__व्ध_082.046
भर्त्स्यमानाप्य् अनिष्ठुरा__व्ध_082.046
त्वद्वाक्याद् अनु सर्वेषु__व्ध_082.046
वीरकर्मसु चोद्यता__व्ध_082.046
नैष्ठुर्याद् असहायस्य__व्ध_082.047
त्यज्यमानस्य बन्धुभिः__व्ध_082.047
क्षयं जगाम यो ऽर्थो ऽभूत्__व्ध_082.047
संचितः प्रपितामहैः__व्ध_082.047
तस्मिन् क्षीणे कृषिपरस्__व्ध_082.048
त्वम् आसीः पृथिवीपते__व्ध_082.048
सापि कर्मविपाकेन__व्ध_082.048
कृषिर् विफलतां गता__व्ध_082.048
ततो निःस्वं परिक्षीणं__व्ध_082.049
परेषां भृत्यतां गतम्__व्ध_082.049
तत्याज साध्वी वेयं त्वां__व्ध_082.049
त्यज्यमानापि पार्थिव__व्ध_082.049
अनया च समं साध्व्या__व्ध_082.050
विष्णोर् आवसथे त्वया__व्ध_082.050
कृतं शुश्रूषणं वीर__व्ध_082.050
परिव्राड्ब्रह्मचारिणाम्__व्ध_082.050
भग्नेहः सर्वकामेभ्यस्__व्ध_082.051
तन्मयस् त्वं तदर्पणः__व्ध_082.051
अनन्यगतिर् एकस्थस्__व्ध_082.051
तस्मिन्न् आयतने हरेः__व्ध_082.051
तद्वृत्तिलिप्सुः शुश्रूषां__व्ध_082.052
जनरञ्जनहेतुकः__व्ध_082.052
कृतवान् योगिनां वीर__व्ध_082.052
कृष्णस्य जगतः पतेः__व्ध_082.052
वासुदेवाजिरे नित्यं__व्ध_082.053
कृतं संमार्जनं त्वया__व्ध_082.053
तथैवाभ्युक्षणं वीर__व्ध_082.053

नित्यं चैवानुलेपनम्__व्ध_082.053
पत्न्यानया च धर्मज्ञ__व्ध_082.053
यष्मच्चित्तानुवृत्तया__व्ध_082.053
अहन्य् अहनि तत् कर्म__व्ध_082.054
युवयोर् नृप कुर्वतोः__व्ध_082.054
तत्र चैतन्मयत्वेन__व्ध_082.054
पापहानिर् अजायत__व्ध_082.054
विष्णोः कार्यं मया कार्यं__व्ध_082.055
योगिशुश्रूषणं तथा__व्ध_082.055
न प्रभातं प्रभातं तु__व्ध_082.055
चिन्तेयम् अभवन् निशि__व्ध_082.055
एवम् आयतनं रम्यम्__व्ध_082.056
इत्य् एवं च सुखावहम्__व्ध_082.056
स्थैर्यं न चैवम् एतत् स्याद्__व्ध_082.056
इत्य् आसीत् ते मनः सदा__व्ध_082.056
योगिनां सुखदं त्व् एवं__व्ध_082.057
कर्मैवं नैवम् इत्य् अपि__व्ध_082.057
तव चित्तम् अभूत् तत्र__व्ध_082.057
योगिकर्मण्य् अहर्निशम्__व्ध_082.057
एवं तन्मनसस् तत्र__व्ध_082.058
कृतोद्योगस्य पार्थिव__व्ध_082.058
भृत्यावसायिनः सम्यग्__व्ध_082.058
यथोक्ताधिककारिणः__व्ध_082.058
स्मरतः पुण्डरीकाक्षं__व्ध_082.059
कार्येणातिदृढात्मनः__व्ध_082.059
निःशेषम् उपशान्तं तत्__व्ध_082.059
पापं योगिनिषेवणात्__व्ध_082.059
ततो ऽधिकं पुरस् तस्माद्__व्ध_082.060
आदराद् अनुलेपनम्__व्ध_082.060
संमार्जनं च बहुशः__व्ध_082.060
सपत्निकेन ते कृतम्__व्ध_082.060
तत्रागतश् च सौवीरः__व्ध_082.061
पुरुजिन् नाम भूपतिः__व्ध_082.061
महासैन्यपरीवारः__व्ध_082.061
प्रभूतगजवाहनः__व्ध_082.061
सर्वसंपदुपेतं तं__व्ध_082.062
सर्वाभरणभूषितम्__व्ध_082.062
वृतं भार्यासहस्रेण__व्ध_082.062
दृष्ट्वा स्रक्चन्दनोज्ज्वलम्__व्ध_082.062
स्पृहा कृता त्वया तत्र__व्ध_082.062

चारुमौलिनि पार्थिवे__व्ध_082.062
सर्वकामप्रदं कर्म__व्ध_082.063
देवदेवस्य कुर्वता__व्ध_082.063
तेनैतद् अखिलं राज्यम्__व्ध_082.063
अशेषद्वीपवत् तव__व्ध_082.063
तेजश् चैवाधिकं यत् ते__व्ध_082.064
तथैतच् छृणु पार्थिव__व्ध_082.064
योगप्रभावोपलब्धं__व्ध_082.064
कथयाम्य् अखिलं तव__व्ध_082.064
तत्रैवावसथे दीपः__व्ध_082.065
प्रशान्तः स्नेहसंक्षयात्__व्ध_082.065
निजभोजनतैलेन__व्ध_082.065
पुनः प्रज्वालितस् त्वया__व्ध_082.065
अनया चोत्तरीयान्त-__व्ध_082.066
चीरवर्त्युपवृंहितः__व्ध_082.066
तव पत्न्या स जज्वाल__व्ध_082.066
कान्तिर् अस्यास् ततो ऽधिका__व्ध_082.066
तवाप्य् अखिलभूपाल-__व्ध_082.067
मनःक्षोभकरं ततः__व्ध_082.067
तेजो नरेन्द्र न स्याच् च__व्ध_082.067
किम् आराध्य जनार्दनम्__व्ध_082.067
एवं नरेन्द्र शूद्रत्वाद्__व्ध_082.068
विष्णुकर्मपरायणः__व्ध_082.068
तन्मयत्वेन संप्राप्तो__व्ध_082.068
महिमानम् अनुत्तमम्__व्ध_082.068
किं पुनर् यो नरो भक्त्या__व्ध_082.069
विष्णुशुश्रूषणादृतः__व्ध_082.069
करोति सततं पूजां__व्ध_082.069
निष्कामो नान्यमानसः__व्ध_082.069
स त्वम् ऋद्धिम् इमां लब्ध्वा__व्ध_082.070
सर्वलोकेश्वरेश्वरम्__व्ध_082.070
पूजयाच्युतम् ईशेशं__व्ध_082.070
तम् आराध्य न सीदति__व्ध_082.070
पुष्पैर् धूपैस् तथा गन्धैर्__व्ध_082.071
दीपवस्त्रानुलेपनैः__व्ध_082.071
आराधयाच्युतं तद्वद्__व्ध_082.071
वेश्मसंमार्जनादिभिः__व्ध_082.071
यद् यद् इष्टतमं किंचिद्__व्ध_082.072
यद् यद् अत्यन्तदुर्लभम्__व्ध_082.072
तत् तद् दात्त्वा जगद्धात्रे__व्ध_082.072

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc