विष्णुधर्म · भाग 261280
कृष्णार्पितमनोवृत्तिं__व्ध_072.047
जानुभ्याम् अवनिंगतम्__व्ध_072.047
ततः संशृण्वतां तेषां__व्ध_072.048
तुष्टाव मधुसूदनम्__व्ध_072.048
तन्नामस्मरणोद्भूत-__व्ध_072.048
पुलकश् चेदिपुङ्गवः__व्ध_072.048
जगाद यं स राजर्षिः__व्ध_072.049
स्तवं कृष्णस्य शौनक__व्ध_072.049
शृण्वतां दानवेन्द्राणां__व्ध_072.049
तन् मे पापहरं वद__व्ध_072.049
शृणु यद् देवदेवस्य__व्ध_072.050
विष्णोर् अद्भुतकर्मणः__व्ध_072.050
स्तोत्रं जगाद राजासौ__व्ध_072.050
रसातलतलं गतः__व्ध_072.050
स्तौमि देवम् अजं नित्यं__व्ध_072.051
परिणामविवर्जितम्__व्ध_072.051
अवृद्धिक्षयम् ईशानम्__व्ध_072.051
अच्युतं परतः परम्__व्ध_072.051
कल्पनाकृतनामानम्__व्ध_072.052
अनिर्देश्यम् अजं विभुम्__व्ध_072.052
मूलहेतुम् अहेतुं त्वां__व्ध_072.052
वासुदेवं नमाम्य् अहम्__व्ध_072.052
परमार्थपरैर् ईशश्__व्ध_072.053
चिन्त्यते यः प्रजाकरैः__व्ध_072.053
तं वासुदेवम् ईशेशं__व्ध_072.053
नमाम्य् अद्य गुणं परम्__व्ध_072.053
यस्माद् इदं यत्र चेदम्__व्ध_072.054
इदं यो विश्वम् अव्ययम्__व्ध_072.054
तं वासुदेवम् अमलं__व्ध_072.054
नमामि परमेश्वरम्__व्ध_072.054
ज्ञेयं ज्ञातारम् अजरं__व्ध_072.055
भोक्तारं प्रकृतेः प्रभुम्__व्ध_072.055
पुरुषस्वरूपिणं देवं__व्ध_072.055
नतो ऽस्मि पुरुषं परम्__व्ध_072.055
प्रधानादिविशेषान्त-__व्ध_072.056
स्वरूपम् अजम् अव्ययम्__व्ध_072.056
स्थूलसूक्ष्ममयं सर्वं-__व्ध_072.056
व्यापिनं तं नमाम्य् अहम्__व्ध_072.056
स्रष्टा पालयिता चान्ते__व्ध_072.057
यश् च संहारकारकः__व्ध_072.057
त्रयीमयं तं त्रिगुणं__व्ध_072.057
नतो ऽस्मि पुरुषोत्तमम्__व्ध_072.057
आब्रह्मस्थावरान्ते च__व्ध_072.058
यो जगत्य् अत्र संस्थितः__व्ध_072.058
व्यक्तरूपी च तं देवं__व्ध_072.058
नतो ऽहं विष्णुम् अव्ययम्__व्ध_072.058
नमो नमो ऽस्तु ते देव__व्ध_072.059
जगताम् ईश्वरेश्वर__व्ध_072.059
परमार्थ पराचिन्त्य__व्ध_072.059
विधातः परमेश्वर__व्ध_072.059
त्वम् आदिर् अन्तो मध्यं च__व्ध_072.060
जगतो ऽस्य जगत्पते__व्ध_072.060
जगत् त्वयि जगच् च त्वं__व्ध_072.060
जगत् त्वत्तो जगन्मय__व्ध_072.060
तवाग्निर् आसं वसुधाङ्घ्रियुग्मं__व्ध_072.061
नभः शिरश् चन्द्ररवी च नेत्रे__व्ध_072.061
समस्तलोका जठरं भुजाश् च__व्ध_072.061
दिशश् चतस्रो भगवन् नमस् ते__व्ध_072.061
यद् भूगतं यद् गगनान्तराले__व्ध_072.062
यद् वा नभस्य् अखिललोकगं च__व्ध_072.062
यत् स्थूलं सूक्ष्मं परतस् ततो ऽपि__व्ध_072.062
यद् अस्ति यन् नास्ति च तत् त्वम् ईश__व्ध_072.062
वेदाश् च वेद्यं च भगवान् अनन्तो__व्ध_072.063
वेदान्तवेद्यश् च समस्तहेतो__व्ध_072.063
वदन्ति तत् त्वा मुनयः परेशं__व्ध_072.063
त्वयि प्रसन्ने परमार्थदृश्ये__व्ध_072.063
नमो हृषीकेश तवाप्रमेय__व्ध_072.064
नमश् च तुभ्यं परमार्थसार__व्ध_072.064
विष्णो नमस् ते ऽस्तु परापरेश__व्ध_072.064
कृष्णाच्युतानन्त जगन्निवास__व्ध_072.064
नमो ऽस्तु तुभ्यं परमेश्वराय__व्ध_072.065
नमस् तथान्तःकारणस्थिताय__व्ध_072.065
प्रधानभूताय नमश् च तुभ्यम्__व्ध_072.065
व्यक्तस्वरूपेण च संस्थिताय__व्ध_072.065
संहृत्य विश्वं जलशायिने नमो__व्ध_072.066
नमश् च ते कैटभसूदनाय__व्ध_072.066
स्वनाभिपद्मोदरशायिने च__व्ध_072.066
ब्रह्मस्वरूपोपनताय चैव__व्ध_072.066
स्रष्ट्रे नमः पालयित्रे स्थितौ च__व्ध_072.067
सर्वेश तुभ्यं पुरुषोत्तमाय__व्ध_072.067
रुद्राय चान्ते क्षयहेतवे ते__व्ध_072.067
नतो ऽस्मि संहारकराय विष्णो__व्ध_072.067
जय प्रपन्नार्तिहराप्रमेय__व्ध_072.068
जयाग्निवस्वश्विमय प्रजेश__व्ध_072.068
रुद्रेन्द्रचन्द्रस्तुत देवदेव__व्ध_072.068
जयामराणाम् अरिशातनाय__व्ध_072.068
जितं त्वया सर्वग सर्वसारं__व्ध_072.069
सर्वात्मभूताखिल वेदवेद्य__व्ध_072.069
जितं जिताक्षामलचित्तदृश्य__व्ध_072.069
चराचराधार धराधरेड्य__व्ध_072.069
यज्ञाश्रयो यज्ञपुमान् अशेष__व्ध_072.070
देवेश मर्त्यासुरयज्ञभोक्तः__व्ध_072.070
त्वम् ईड्यमानो ऽभिमतं ददासि__व्ध_072.070
धराधरेशाच्युत वासुदेव__व्ध_072.070
नमस् ते देवदेव त्वं__व्ध_072.071
यथा पास्य् अखिलं जगत्__व्ध_072.071
स्थितौ तथा समस्तेभ्यो__व्ध_072.071
दोषेभ्यो मां समुद्धर__व्ध_072.071
कृष्णाच्युत हृषीकेश__व्ध_072.072
सर्वभूतेश केशव__व्ध_072.072
महात्मंस् त्राहि मां भक्तं__व्ध_072.072
वासुदेव प्रसीद मे__व्ध_072.072
इति स्तोत्रावसाने तं__व्ध_072.073
चेदिराजं ततो ऽसुराः__व्ध_072.073
जहसुः सतलाक्षेपं__व्ध_072.073
प्रोचुश् च द्विजरूपिणः__व्ध_072.073
प्राज्ञः किल प्रजापालश्__व्ध_072.074
चेदिराट् संश्रुतो भुवि__व्ध_072.074
तस् अस्य ज्ञानम् अखिलं__व्ध_072.074
विपरीतार्थम् ईदृशम्__व्ध_072.074
क्व वासुदेवः क्व भवान्__व्ध_072.075
इमाम् अन्त्यां दशां गतः__व्ध_072.075
यो भवान् विप्रशापेन__व्ध_072.075
रसातलतलाश्रयः__व्ध_072.075
भविष्यति स्मृतो देवस्__व्ध_072.076
त्राता किल तवाच्युतः__व्ध_072.076
यो ऽसाव् आप्याय्यते विप्रैर्__व्ध_072.076
अध्वरेषु हविःस्रवैः__व्ध_072.076
यो ऽन्यत्रस् त्राणकामो वा__व्ध_072.077
यज्ञभागम् अभीप्सते__व्ध_072.077
स त्राता तव गोविन्दो__व्ध_072.077
भविष्यत्य् अतिविस्मयः__व्ध_072.077
यदा त्वं भगवद्भक्तो__व्ध_072.078
विप्रशापान् निपातितः__व्ध_072.078
तदा स वासुदेवस् ते__व्ध_072.078
क्व गतो ऽल्पश्रुतो ऽव्ययः__व्ध_072.078
न वासुदेवो न हरिर्__व्ध_072.079
न गोविन्दो न केशवः__व्ध_072.079
शापं ददत्सु विप्रेषु__व्ध_072.079
परित्राणपरो भवेत्__व्ध_072.079
स त्वम् आर्तप्रलापेभ्यो__व्ध_072.080
विरमाद्य यदीच्छसि__व्ध_072.080
कुबुद्धिम् एतां संत्यज्य__व्ध_072.080
स्वपौरुषपरो भव__व्ध_072.080
न वयं पुण्डरीकाक्षं__व्ध_072.081
नानन्तं नाच्युतं हरिम्__व्ध_072.081
संश्रिता न च सीदामः__व्ध_072.081
स्वपौरुषम् उपाश्रिताः__व्ध_072.081
यद्य् अस्मद्वचनं वीर__व्ध_072.082
न मोहेन विशङ्कसे__व्ध_072.082
तदाश्रयस्व स्वं वीर्यं__व्ध_072.082
परित्यज्य विमूढताम्__व्ध_072.082
इत्य् उदीरितम् आकर्ण्य__व्ध_072.083
स तेषां चेदिपुङ्गवः__व्ध_072.083
अज्ञानपटलच्छन्नान्__व्ध_072.083
हृदयेन शुशोच तान्__व्ध_072.083
उवाच चेदिराजो वै हृदये कृतमत्सरः__व्ध_072.*(116)
अहो मोहो ऽयम् एतेषाम्__व्ध_072.084
अहंकारसमुद्भवः__व्ध_072.084
येन सर्वेश्वरे विष्णाव्__व्ध_072.084
एतेषाम् आवृता मतिः__व्ध_072.084
प्रकाशं च स तान् आह__व्ध_072.085
दानवान् प्रीतिपूर्वकम्__व्ध_072.085
पापतस् तत्परित्राणं__व्ध_072.085
चिकीर्षुर् वसुधाधिपः__व्ध_072.085
मैवं भो भगवद्भक्तिं__व्ध_072.086
कुरुध्वं द्विजसत्तमाः__व्ध_072.086
संसाराब्धौ मनुष्याणाम्__व्ध_072.086
एकः पोतो जनार्दनः__व्ध_072.086
यूयं वयं तथैवान्ये__व्ध_072.087
तस्य सर्वे विभूतयः__व्ध_072.087
ब्रह्मादिस्थावरान्तं हि__व्ध_072.087
तस्य देवस्य विस्तृतिः__व्ध_072.087
सुखदुःखमयो नॄणां__व्ध_072.088
विपाकः कर्मणां च यः__व्ध_072.088
संशुद्धिहेतुः स्वच्छन्दात्__व्ध_072.088
सो ऽपि विप्राः प्रवर्तते__व्ध_072.088
परीक्षां च जगन्नाथः__व्ध_072.089
करोत्य् अदृढचेतसाम्__व्ध_072.089
नराणाम् अर्थविध्वंस-__व्ध_072.089
निकाशेषु जनार्दनः__व्ध_072.089
अल्पयत्नेन चायान्ति__व्ध_072.090
विमुक्तिं केशवाश्रयात्__व्ध_072.090
तद्विघाताय शक्राद्या__व्ध_072.090
यतन्ते विघ्नहेतुभिः__व्ध_072.090
यदा जनार्दने भक्तिं__व्ध_072.091
वहन् सीदति मानवः__व्ध_072.091
निर्विण्णचेताः शैथिल्यं__व्ध_072.091
मनसः कुरुते तदा__व्ध_072.091
देवानां महती शङ्का__व्ध_072.092
भक्तियुक्ता जनार्दने__व्ध_072.092
मुक्तिभाजो भविष्यन्तीत्य्__व्ध_072.092
अतस् ते परिपन्थिनः__व्ध_072.092
प्रायो भवन्ति गोविन्दे__व्ध_072.093
भक्तिव्याघातहेतवः__व्ध_072.093
विघ्नाश् चित्तविघाता हि__व्ध_072.093
विमुक्तिपरिपन्थिनः__व्ध_072.093
सत्यं शतेन विघ्नानां__व्ध_072.094
सहस्रेण तथा तपः__व्ध_072.094
विघ्नायुतेन गोविन्दे__व्ध_072.094
नॄणां भक्तिर् निवार्यते__व्ध_072.094
स्वं चापि कर्म पुरुषः__व्ध_072.095
शुभाशुभम् उपागतम्__व्ध_072.095
भुङ्क्ते किम् अत्र देवस्य__व्ध_072.095
गर्ह्यते येन केशवः__व्ध_072.095
मर्यादां च कृतां तेन__व्ध_072.096
यो भिनत्ति स मानवः__व्ध_072.096
न विष्णुभक्तो मन्तव्यः__व्ध_072.096
साधु धर्मार्चनो हरिः__व्ध_072.096
न पुष्पैर् न च धूपेन__व्ध_072.097
नोपहारानुलेपनैः__व्ध_072.097
तोषं प्रयाति गोविन्दः__व्ध_072.097
स्वकर्माभ्यर्चितो यथा__व्ध_072.097
ब्राह्मणा देवदेवेन__व्ध_072.098
मुखात् सृष्टा महात्मना__व्ध_072.098
देवानाम् अपि संपूज्य__व्ध_072.098
भूमिदेवा द्विजोत्तमाः__व्ध_072.098
अनुवृत्तिः सदा कार्या__व्ध_072.098
तेषां वर्णैर् अनुव्रतैः__व्ध_072.098
ते पूज्यास् ते नमस्कार्यास्__व्ध_072.099
तोषणीयाश् च यत्नतः__व्ध_072.099
तेषु तुष्टेष्व् अशेषाणां__व्ध_072.099
देवानां प्रीतिर् उत्तमा__व्ध_072.099
तेषां मया यद् अज्ञानाज्__व्ध_072.100
ज्ञानाद् वा कृतम् अप्रियम्__व्ध_072.100
तेनापि तुष्ट एवाहं__व्ध_072.100
विष्णोर् अंशा द्विजोत्तमाः__व्ध_072.100
क्रियावान् मम पोतो ऽयं__व्ध_072.101
भूतलाद् यो रसातले__व्ध_072.101
पतितस्यातिभीमे ऽस्मिन्__व्ध_072.101
दुरुत्तारे भवार्णवे__व्ध_072.101
रसातलतलोत्तारं__व्ध_072.102
न हि वाञ्छाम्य् अहं द्विजाः__व्ध_072.102
संसारगर्ताद् उत्तारं__व्ध_072.102
वृणोम्य् आराधनाद् धरेः__व्ध_072.102
यथाहं नाभिवाञ्छामि__व्ध_072.103
भोगान् आराध्य केशवम्__व्ध_072.103
तेन सत्येन विष्णुर् मे__व्ध_072.103
सर्वदोषान् व्यपोहतु__व्ध_072.103
यथा न माता न पिता__व्ध_072.104
नात्मा न सुहृदः सुताः__व्ध_072.104
कृष्णालापात् प्रियतरास्__व्ध_072.104
तथा मां पातु केशवः__व्ध_072.104
यथा विष्णुमयं सर्वम्__व्ध_072.105
एतत् पश्याम्य् अहं जगत्__व्ध_072.105
तथा मम मनोदोषान्__व्ध_072.105
अशेषान् स व्यपोहतु__व्ध_072.105
जाता विष्णुविलोमेषु__व्ध_072.106
भवत्स्व् अपि दया मम__व्ध_072.106
यथा तेनाद्य सत्येन__व्ध_072.106
भवन्तः सन्तु तन्मयाः__व्ध_072.106
यथा नाहं भवद्द्वेषान्__व्ध_072.107
न संहर्षाद् ब्रवीम्य् अहम्__व्ध_072.107
कृपयैव तथा सर्वे__व्ध_072.107
भवन्तः सन्तु तन्मयाः__व्ध_072.107
यो यो न भक्तो गोविन्दे__व्ध_072.108
तत्र तत्र कृपा यथा__व्ध_072.108
ममारिवर्गे ऽपि तथा__व्ध_072.108
भक्तिर् वो ऽस्तु जनार्दने__व्ध_072.108
एवम् उच्चारिते तेषां__व्ध_072.109
दैत्यानां तत्क्षणात् तथा__व्ध_072.109
तस्मिन् राजन्य् अभून् मैत्री__व्ध_072.109
तथान्येषु च जन्तुषु__व्ध_072.109
देवदेवे ऽप्य् अभूद् भक्तिर्__व्ध_072.110
भावो नष्टस् तथासुरः__व्ध_072.110
स्वरूपधारिणश् चैनं__व्ध_072.110
प्रणम्यासुरपुङ्गवाः__व्ध_072.110
प्रत्यूचुः पार्थिवं विष्णु-__व्ध_072.110
भक्तं सद्ब्रह्मचारिणम्__व्ध_072.110
चेदिभूपाल भद्रं ते__व्ध_072.111
भवतो ऽतुलविक्रम__व्ध_072.111
संसारे त्वत्समैः सङ्गः__व्ध_072.111
पुण्यभाजां प्रवर्तते__व्ध_072.111
वयं स्वजातिदोषेण__व्ध_072.112
देवपक्षविरोधिनः__व्ध_072.112
भवन्तम् आगता हन्तुं__व्ध_072.112
देवप्रीणनतत्परम्__व्ध_072.112
यदा न शक्तितो हन्तुम्__व्ध_072.113
अस्माभिस् त्वं निरायुधः__व्ध_072.113
विष्णुध्यानमहारक्षा-__व्ध_072.113
कक्षान्तरगतः प्रभो__व्ध_072.113
त्याजयद्भिस् तथा भक्तिं__व्ध_072.114
केशवाद् इति दर्शितम्__व्ध_072.114
वैफल्यम् अतिपुण्येषु__व्ध_072.114
विष्णुशुश्रूषणा नृणाम्__व्ध_072.114
स त्वं देवातिदेवस्य__व्ध_072.115
विष्णोर् अमिततेजसः__व्ध_072.115
अनुग्राह्यो यथा तेयम्__व्ध_072.115
अच्युते निश्चला मतिः__व्ध_072.115
दिष्ट्या क्रोधाभिभूतानाम्__व्ध_072.116
अस्माकं त्वन्निवर्हणे__व्ध_072.116
मतिर् जाता यतः प्राप्ता__व्ध_072.116
त्वत्सङ्गाद् दुर्लभा मतिः__व्ध_072.116
कुरुष्व च प्रसादं त्वं__व्ध_072.117
प्रणतानां नरेश्वर__व्ध_072.117
शत्राव् अपि कृपाशीलं__व्ध_072.117
यन् नो दुष्टम् अभून् मनः__व्ध_072.117
दिशां वैमल्यं विमलं__व्ध_072.118
चक्षुषश् चोपपादितम्__व्ध_072.118
भवता दुष्टतां एताम्__व्ध_072.118
आसुरीम् अपमार्जता__व्ध_072.118
दुष्टाः स्म वर्षपूगानि__व्ध_072.119
यद् यातानि वृथैव नः__व्ध_072.119
विषयाक्षिप्तचित्तानां__व्ध_072.119
कृष्णे भक्तिम् अकुर्वताम्__व्ध_072.119
कर्मभूमौ मनुष्याणां__व्ध_072.120
तद् एव विफलं दिनम्__व्ध_072.120
यद् अच्युतकथालाप-__व्ध_072.120
ध्यानार्चारहितं गतम्__व्ध_072.120
इत्य् उक्त्वा ते ऽसुरा भूयः__व्ध_072.121
प्रसाद्य च तथा वसुम्__व्ध_072.121
विष्णौ भक्तिपरा यातास्__व्ध_072.121
तीव्रसंयोगिनो ऽलयन्__व्ध_072.121
स चापि चेदिराट् तस्माद्__व्ध_072.122
देवदेवेन चक्रिणा__व्ध_072.122
पातालाद् उद्धृतः पश्चात्__व्ध_072.122
संसारगहनाद् अपि__व्ध_072.122
इत्य् एतत् सर्वम् आख्यातं__व्ध_072.123
यन् मां त्वं परिपृच्छसि__व्ध_072.123
यथावसीदन्ति नरा__व्ध_072.123
भक्तिमन्तो ऽपि केशवे__व्ध_072.123
दृढा जनार्दने भक्तिर्__व्ध_072.124
यदैवाव्यभिचारिणी__व्ध_072.124
तदा कियत् स्वर्गसुखं__व्ध_072.124
सैव निर्वाणहेतुकी__व्ध_072.124
इत्य् एतद् असुरैः सार्धं__व्ध_072.125
संवादं यः पुरा वसोः__व्ध_072.125
पठिष्यत्य् अखिलं भक्त्या__व्ध_072.125
स तल्लोकम् उपैष्यति__व्ध_072.125
जगत्प्रभुं देवदेवम्__व्ध_073.001
अशेषेशम् जनार्दनम्__व्ध_073.001
प्रणिपत्याहम् एतं त्वां__व्ध_073.001
यत् पृच्छामि तद् उच्यताम्__व्ध_073.001
यैर् उपायैः प्रदानैर् वा__व्ध_073.002
नराणाम् अमरार्चितः__व्ध_073.002
प्रीतिमान् पुण्डरीकाक्षो__व्ध_073.002
भवत्य् आचक्ष्व तन् मम__व्ध_073.002
ये स्वधर्मे स्थिता वर्णा__व्ध_073.003
विप्राद्याः कुरुनन्दन__व्ध_073.003
विधर्मेषु न वर्तन्ते__व्ध_073.003
प्रीतिमांस् तेषु केशवः__व्ध_073.003
ब्रह्मचारिगृहस्थाद्या__व्ध_073.004
न च्यवन्त्य् आश्रमाच् च ये__व्ध_073.004
स्वधर्मतो हरिस् तेषां__व्ध_073.004
प्रीतिमान् एव सर्वदा__व्ध_073.004
ये न दम्भेन वर्तन्ते__व्ध_073.005
नरा भूतेष्व् अलोलुपाः__व्ध_073.005
त्यक्तग्राम्यादिसंगाश् च__व्ध_073.005
तेषु प्रीतिः परा हरेः__व्ध_073.005
दातारो नापहर्तारः__व्ध_073.006
परस्वानाम् अमायिनः__व्ध_073.006
ये नरास् तेषु गोविन्दः__व्ध_073.006
पुत्रेष्व् इव सदा हितः__व्ध_073.006
येषां नराणां न मतिर्__व्ध_073.007
जिह्वा वासत्यम् उज्झति__व्ध_073.007
ते प्रिया वासुदेवस्य__व्ध_073.007
ये च द्विजपरायणाः__व्ध_073.007
कर्मणा मनसा वाचा__व्ध_073.008
ये न हिंसानुवर्तिनः__व्ध_073.008
ते नरा वासुदेवस्य__व्ध_073.008
प्रियाः पाण्डुकुलोद्वह__व्ध_073.008
सर्वदेवेषु ये विष्णुं__व्ध_073.009
सर्वभूतेष्व् अवस्थितम्__व्ध_073.009
मन्यन्ते वासुदेवस्य__व्ध_073.009
ते प्रियाः पुत्रवत् सदा__व्ध_073.009
ब्रह्माद्यं स्थावरान्तं च__व्ध_073.010
भूतग्रामं जनार्दनात्__व्ध_073.010
ये च पश्यन्त्य् अभेदेन__व्ध_073.010
ते विष्णोः सततं प्रियाः__व्ध_073.010
देववेदद्विजातीनां__व्ध_073.011
निन्दायां ये न मानवाः__व्ध_073.011
प्रीतिभाजो भवन्तीष्टास्__व्ध_073.011
ते सदा शार्ङ्गधन्विनः__व्ध_073.011
प्रियाणाम् अथ सर्वेषां__व्ध_073.012
देवदेवस्य स प्रियः__व्ध_073.012
आपत्स्व् अपि सदा यस्य__व्ध_073.012
भक्तिर् अव्यभिचारिणी__व्ध_073.012
तस्मात् प्रियत्वं कृष्णस्य__व्ध_073.013
वाञ्छता निजधर्मजैः__व्ध_073.013
गुणैर् आत्मा सदा योज्यो__व्ध_073.013
न दूरे गुणिनो हरिः__व्ध_073.013
येषां न गृद्धिः पारक्ये__व्ध_073.014
दारे द्रव्ये च चेतसः__व्ध_073.014
हिंसायां च मनुष्याणां__व्ध_073.014
ते कृष्णेनावलोकिताः__व्ध_073.014
वेदाः प्रमाणं स्मृतयो__व्ध_073.015
येषां सन्मार्गसेविनाम्__व्ध_073.015
परोपकारसक्तानां__व्ध_073.015
ते कृष्णेनावलोकिताः__व्ध_073.015
कलिकल्मषदोषेण__व्ध_073.016
येषां नोपहता मतिः__व्ध_073.016
पाषण्डानुगता नैव__व्ध_073.016
ते कृष्णेनावलोकिताः__व्ध_073.016
येषां क्लेशो गुरोर् अर्थे__व्ध_073.017
देवविप्रोद्भवो ऽपि वा__व्ध_073.017
न विवित्सासमुद्भूतस्__व्ध_073.017
ते कृष्णेनावलोकिताः__व्ध_073.017
स्वपन्तः संस्थिता यान्तस्__व्ध_073.018
तिष्ठन्तश् च जनार्दनम्__व्ध_073.018
ये चिन्तयन्त्य् अविरतं__व्ध_073.018
ते कृष्णेनावलोकिताः__व्ध_073.018
यथात्मनि तथापत्ये__व्ध_073.019
येषां अद्रोहिणी मतिः__व्ध_073.019
समस्तसत्त्वजातेषु__व्ध_073.019
ते कृष्णेनावलोकिताः__व्ध_073.019
देवपूजाम् अनुदिनं__व्ध_073.020
गुरुविप्रार्थसत्क्रियाम्__व्ध_073.020
ये कुर्वन्ति नरा विद्धि__व्ध_073.020
ते कृष्णेनावलोकिताः__व्ध_073.020
सुवर्णं रत्नम् अथवा__व्ध_073.021
पारक्यं विजने वने__व्ध_073.021
विलोक्य नैति यो लोभं__व्ध_073.021
तं अवैहि हरेः प्रियम्__व्ध_073.021
देवान् पितॄंस् तथापन्नान्__व्ध_073.022
अतिथीञ् जामयो ऽध्वगान्__व्ध_073.022
यो बिभर्ति विजानीहि__व्ध_073.022
तं नरं भगवत्प्रियम्__व्ध_073.022
न क्रोधम् एति क्रुद्धेभ्यः__व्ध_073.023
सहते यो निराक्रियाम्__व्ध_073.023
तं विजानीहि भर्तव्यं__व्ध_073.023
देवदेवस्य शार्ङ्गिनः__व्ध_073.023
परलोकप्रतीकार-__व्ध_073.024
करणाय सदोद्यमम्__व्ध_073.024
कुर्वन्न् आलक्ष्यताम् एति__व्ध_073.024
केशवेनावलोकितः__व्ध_073.024
नात्मसंस्तवम् अन्येषां__व्ध_073.025
न निन्दां चार्थलिप्सया__व्ध_073.025
करोति पुरुषव्याघ्र__व्ध_073.025
यस्य नारायणो हृदि__व्ध_073.025
सर्वभूतदयां सत्यम्__व्ध_073.026
अक्रोधं धर्मशीलताम्__व्ध_073.026
भजन्ते पुरुषा देवे__व्ध_073.026
गोविन्दे हृदये स्थिते__व्ध_073.026
न कलौ न परद्रव्ये__व्ध_073.027
परदाराश्रिता मतिः__व्ध_073.027
नराणां जायते राजन्__व्ध_073.027
गोविन्दे हृदयस्थिते__व्ध_073.027
क्षमां करोति क्रुद्धेषु__व्ध_073.028
दयां मूढेषु मानवः__व्ध_073.028
मुदं च धर्मशीलेषु__व्ध_073.028
गोविन्दे हृदये स्थिते__व्ध_073.028
यदा बिभेत्य् अधर्मादेर्__व्ध_073.029
धर्मादींश् च यदेच्छति__व्ध_073.029
तदा कुरुवरश्रेष्ठ__व्ध_073.029
नरः कृष्णेन वीक्षितः__व्ध_073.029
पुत्रदारगृहक्षेत्र-__व्ध_073.030
द्रव्यादेर् ममतां नरः__व्ध_073.030
नायास्यति जगन्नाथे__व्ध_073.030
हृषीकेशे पराङ्मुखे__व्ध_073.030
कलौ कृतयुगं तेषां__व्ध_073.031
क्लेशास् तेषां सुखाधिकाः__व्ध_073.031
येषां शरीरग्रहणे__व्ध_073.031
हरिशुश्रूषणे मतिः__व्ध_073.031
यदा नेच्छति पापानि__व्ध_073.032
यदा पुण्यानि वाञ्छति__व्ध_073.032
ज्ञेयस् तदा मनुष्येण__व्ध_073.032
हृदये ऽस्य हरिः स्थितः__व्ध_073.032
परमार्थे मतिः पुंसाम्__व्ध_073.033
असारे तु भवार्णवे__व्ध_073.033
कथं भवति राजेन्द्र__व्ध_073.033
विष्वक्सेन पराङ्मुखे__व्ध_073.033
श्रद्दधानो दयाशीलः__व्ध_073.034
समलोष्टाश्मकाञ्चनः__व्ध_073.034
परार्थे मानवः कृष्णे__व्ध_073.034
प्रसन्ने नृप जायते__व्ध_073.034
वहतो ऽपि सदा कृष्णे__व्ध_073.035
भक्तिम् अव्यभिचारिणीम्__व्ध_073.035
पाणिष्व् असमदृग्बुद्धेः__व्ध_073.035
सुलभो नैव केशवः__व्ध_073.035
ये दाम्भिका भिन्नवृत्ता__व्ध_073.036
ये च धर्मध्वजोच्छ्रयाः__व्ध_073.036
दुर्लभो भगवान् देवस्__व्ध_073.036
तेषां सुयतताम् अपि__व्ध_073.036
कामलोभाश्रितं येषां__व्ध_073.037
चित्तं क्रोधादिदूषितम्__व्ध_073.037
तेषां जन्मसहस्रे ऽपि__व्ध_073.037
न मतिः केशवाश्रया__व्ध_073.037
हेयां कृष्णाश्रयां वृत्तिं__व्ध_073.038
मन्यन्ते हेतुसंश्रिताः__व्ध_073.038
अवियोपहतज्ञाना__व्ध_073.038
ये ऽज्ञाने ज्ञानमानिनः__व्ध_073.038
वेदवादविरोधेन__व्ध_073.039
कूटयुक्तिम् अपाश्रिताः__व्ध_073.039
ये केशवस् तद्धृदये__व्ध_073.039
न कदाचित् प्रियातिथिः__व्ध_073.039
मानुषं तं मनुष्यत्वे__व्ध_073.040
मन्यमानाः कुबुद्धयः__व्ध_073.040
कर्माणि ये ऽस्य निन्दन्ति__व्ध_073.040
न तेषां निष्कृतिर् नृणाम्__व्ध_073.040
केचिद् वदन्ति तं देवं__व्ध_073.041
मनुष्यं चाल्पमेधसः__व्ध_073.041
तिर्यक्त्वं चापरे विष्णुं__व्ध_073.041
मायया तस्य मोहिताः__व्ध_073.041
देवत्वम् अपि कृष्णस्य__व्ध_073.042
यस्य निन्दा महात्मनः__व्ध_073.042
स्तुतिं तस्य कथं शक्ताः__व्ध_073.042
कर्तुम् ईशस्य मानवाः__व्ध_073.042
व्यापित्वं शाश्वतत्वं च__व्ध_073.043
जन्मभावविवर्जितम्__व्ध_073.043
यदास्य प्रोच्यते कास्य__व्ध_073.043
स्तुतिर् अर्थे तथा स्थितौ__व्ध_073.043
सर्वेश्वरेश्वरः कृष्णः__व्ध_073.044
प्रोच्यते यदि पण्डितः__व्ध_073.044
तथापि स्वल्पम् एवोक्तं__व्ध_073.044
भूतार्थे कतमा स्तुतिः__व्ध_073.044
आब्रह्मस्तम्बपर्यन्ते__व्ध_073.045
संसारे यस्य संस्थितिः__व्ध_073.045
निन्दापि तस्य न नृभिः__व्ध_073.045
कर्तुम् ईशस्य शक्यते__व्ध_073.045
यदा काणाश् च कूण्ठाश् च__व्ध_073.046
मूढो दुर्बुद्धिर् आतुरः__व्ध_073.046
सर्वगत्वात् स एवैकस्__व्ध_073.046
तदासौ निन्द्यते कथम्__व्ध_073.046
स्रष्टा पालयिता हर्ता__व्ध_073.047
जगतो ऽस्य जगच् च सः__व्ध_073.047
यष्टा याजयिता याज्यः__व्ध_073.047
स एव भगवान् हरिः__व्ध_073.047
दाता दानं तथादाता__व्ध_073.048
कर्ता कार्यं तथा क्रियाः__व्ध_073.048
हन्ता घातयिता हिंस्यो__व्ध_073.048
हार्यं हर्ता च यः स्वयम्__व्ध_073.048
सर्वकारणभूतस्य__व्ध_073.049
तस्येशस्य महात्मनः__व्ध_073.049
कः करोति स्तुतिं विष्णोर्__व्ध_073.049
निन्दां वा पृथिवीपते__व्ध_073.049
तस्मात् सर्वेश्वरो विष्णुर्__व्ध_073.050
न स्तोतुं न च निन्दितुम्__व्ध_073.050
शक्यते सर्वभूतत्वाच्__व्ध_073.050
चोक्षाचोक्षस्वरूपिणा__व्ध_073.050
स्तुतेः पादाद् यतो नान्यद्__व्ध_073.051
उत्कृष्टम् उपलभ्यते__व्ध_073.051
तस्याप्य् उच्चारणेनेशो__व्ध_073.051
न स्तोतुं शक्यते हरिः__व्ध_073.051
भूतार्थवादस्तुतये__व्ध_073.052
न निन्दायै विधीयते__व्ध_073.052
यतो ऽतः सर्वभूतस्य__व्ध_073.052
का निन्दा तस्य का स्तुतिः__व्ध_073.052
येन सर्वात्मना तत्र__व्ध_073.053
हृदयं संनिवेशितम्__व्ध_073.053
अपि मौनवतस् तस्य__व्ध_073.053
सुलभो ऽयं जनार्दनः__व्ध_073.053
तस्मात् त्वं कुरुशार्दूल__व्ध_073.054
स्वधर्मपरिपालनम्__व्ध_073.054
कुरु विष्णुं च हृदये__व्ध_073.054
सर्वव्यापिनम् ईश्वरम्__व्ध_073.054
तन्मना भव तद्भक्तस्__व्ध_073.055
तद्याजी तं नमस्कुरु__व्ध_073.055
विष्णोर् एवं प्रियत्वं त्वम्__व्ध_073.055
आशु यास्यसि पार्थिव__व्ध_073.055
यं स्तुवन् स्तव्यताम् एति__व्ध_073.056
वन्द्यमानश् च वन्द्यताम्__व्ध_073.056
तम् ईश्वरेश्वरं विष्णुं__व्ध_073.056
हृदये संनिवेशय__व्ध_073.056
संपूज्य यं पूज्यतमो__व्ध_073.057
भवत्य् अत्र जगत्त्रये__व्ध_073.057
तम् ईश्वरेश्वरं विष्णुं__व्ध_073.057
हृदये कुरु पार्थिव__व्ध_073.057
स्ववर्णकर्माभिरतः__व्ध_073.058
कुरु चित्ते जनार्दनम्__व्ध_073.058
एष शास्त्रार्थसद्भावः__व्ध_073.058
किम् उक्तैर् बहुविस्तरैः__व्ध_073.058
यस्मिन् प्रसन्नचित्तस् त्वं__व्ध_073.059
यस्मिन् कोपम् उपैषि च__व्ध_073.059
ताव् उभाव् अपि तद्भूतौ__व्ध_073.059
चिन्तयन् सिद्धिम् एष्यसि__व्ध_073.059
यत्र यत्र स्थितं चेतः__व्ध_073.060
प्रीत्या स्नेहेन वा तव__व्ध_073.060
तं तं चिन्तय गोविन्दं__व्ध_073.060
मनसः स्थैर्यकारणात्__व्ध_073.060
स्वपन् विबुद्ध्यन्न् उत्तिष्ठन्__व्ध_073.061
स्थितो भुञ्जन् पिबन् व्रजन्__व्ध_073.061
सर्वगं सर्वकर्तारं__व्ध_073.061
विष्णुं सर्वत्र चिन्तय__व्ध_073.061
यथाग्निसंगात् कनकम्__व्ध_073.062
अपदोषं प्रजायते__व्ध_073.062
संश्लिष्टं वासुदेवेन__व्ध_073.062
मनुष्याणां तथा मनः__व्ध_073.062
यज्विनो यं नमस्यन्ति__व्ध_073.063
यं नमस्यन्ति देवताः__व्ध_073.063
योगिनो यं नमस्यन्ति__व्ध_073.063
तं नमस्यं नमाम्य् अहम्__व्ध_073.063
भूयश् च शृणु राजेन्द्र__व्ध_074.001
यज् जगाद जनार्दनः__व्ध_074.001
नागपर्यङ्कशयने__व्ध_074.001
पृष्टः क्षीराब्धिकन्यया__व्ध_074.001
पुरा शयानं गोविन्दं__व्ध_074.002
प्रावृट्काले महोदधौ__व्ध_074.002
शेषभोगिमहाभोगे__व्ध_074.002
वीच्यम्बुकणशीतले__व्ध_074.002
वक्षःस्थलस्थिता देवी__व्ध_074.003
जगन्माता जगत्पतिम्__व्ध_074.003
अनन्यासक्तदृष्टिं च__व्ध_074.*(117)
किम् अप्य् एकाग्रमानसम्__व्ध_074.*(117)
श्रीवत्सव्क्षसं लक्ष्मीः__व्ध_074.003
करसंवाहनादृता__व्ध_074.003
योगनिद्रावसानस्थम्__व्ध_074.004
अच्युतं जगतः पतिम्__व्ध_074.004
पप्रच्छ पुण्डरीकाक्षं__व्ध_074.004
पुण्डरीककरा हरिम्__व्ध_074.004
सृष्टं जगद् इदं सर्वं__व्ध_074.005
बहुशश् चोपसंहृतम्__व्ध_074.005
त्वया जगत्पते चात्र__व्ध_074.005
किं कश्चिद् दयितस् तव__व्ध_074.005
देवान् मनुष्यान् गन्धर्वान्__व्ध_074.006
यक्षविद्याधरासुरान्__व्ध_074.006
सृष्ट्वा सृष्टान् निर्घृणत्वाद्__व्ध_074.006
उपसंहरते भवान्__व्ध_074.006
कश्चिद् एतेषु भूतेषु__व्ध_074.007
देवादिषु तवाच्युत__व्ध_074.007
द्वेषो ऽस्ति प्रीतिर् अथवा__व्ध_074.007
समः सर्वत्र वा भवान्__व्ध_074.007
समो ऽस्मि सर्वभूतेषु__व्ध_074.008
न मे द्वेष्यो ऽस्ति न प्रियः__व्ध_074.008
तथापि गुणगृह्यो ऽहं__व्ध_074.008
प्रत्येकहृदयस्थितः__व्ध_074.008
अन्तरात्मनि सर्वस्य__व्ध_074.009
लोकस्याहम् अवस्थितः__व्ध_074.009
पुण्यापुण्यकृतौ तेषु__व्ध_074.009
प्रीतिद्वेषौ शुभे मम__व्ध_074.009
पुण्यं प्रीत्यनुभावेन__व्ध_074.010
साधु बुद्धिषु वर्तते__व्ध_074.010
द्वेषानुभावेनापुण्यं__व्ध_074.010
फलदं तेषु भामिनि__व्ध_074.010
श्रूयतां च महाभागे__व्ध_074.011
नरेषु शुभचारिषु__व्ध_074.011
सततं येषु मे प्रीतिस्__व्ध_074.011
तथाप्रीतिर् वरानने__व्ध_074.011
प्रलयोत्पत्तितत्त्वज्ञा__व्ध_074.012
आत्मज्ञानपराश् च ये__व्ध_074.012
एते स्वकर्मणा भद्रे__व्ध_074.012
मम प्रीतिपथं गताः__व्ध_074.012
वाङ्मनःकायिकीं हिंसां__व्ध_074.013
ये न कुर्वन्ति कुत्रचित्__व्ध_074.013
सर्वमैत्रा नरा लक्ष्मि__व्ध_074.013
दयितास् ते सदा मम__व्ध_074.013
स्वकीयद्रव्यसंतुष्टा__व्ध_074.014
निवृत्ताश् चौर्यकर्मणः__व्ध_074.014
सत्यशीलदयायुक्ता__व्ध_074.014
नरा मम सदा प्रियाः__व्ध_074.014
मातृस्वसृसुतातुल्यान्__व्ध_074.015
परदारांश् च ये नराः__व्ध_074.015
मन्यन्ते ते च मे लक्ष्मि__व्ध_074.015
दृढं प्रियतमाः सदा__व्ध_074.015
न कामान् न च संरम्भान्__व्ध_074.016
न द्वेषाद् ये च भामिनि__व्ध_074.016
संत्यजन्ति स्वकं कर्म__व्ध_074.016
ते ऽतीव दयिता मम__व्ध_074.016
विश्वास्याः सर्वभूतानाम्__व्ध_074.017
अहिंस्राश् च दयालवः__व्ध_074.017
त्यक्तानृतकथा देवि__व्ध_074.017
मनुष्या दयिता मम__व्ध_074.017
धर्मलब्धांस् तु ये भोगान्__व्ध_074.018
भुञ्जते नातिकीकटाः__व्ध_074.018
परलोकाविरोधेन__व्ध_074.018
ते ममातिप्रिया नराः__व्ध_074.018
न लोभे न च कार्पण्ये__व्ध_074.019
न स्तेये न च मत्सरे__व्ध_074.019
येषां मतिर् मनुष्याणां__व्ध_074.019
ते ऽतीव दयिता मम__व्ध_074.019
धर्मलब्धेषु दारेषु__व्ध_074.020
ऋतुकालाभिगामिनः__व्ध_074.020
गृहस्थकर्माभिरता__व्ध_074.020
नरास् ते दयिता मम__व्ध_074.020
पररन्ध्रेषु जात्यन्धाः__व्ध_074.021
परदारेष्व् अपुंसकाः__व्ध_074.021
परापवादे ये मूका__व्ध_074.021
दयितास् ते नरा मम__व्ध_074.021
परापवादं निन्दां च__व्ध_074.022
परमर्मावघट्टनम्__व्ध_074.022
ये न कुर्वन्ति पुरुषास्__व्ध_074.022
ते देवि मम वल्लभाः__व्ध_074.022
सत्यां श्लक्ष्णां निराबाधां__व्ध_074.023
मधुरां प्रीतिदायिनीम्__व्ध_074.023
ये वाचम् ईरयन्ति स्म__व्ध_074.023
ते मनुष्या मम प्रियाः__व्ध_074.023
ये ब्राह्मणार्थे संत्यज्य__व्ध_074.024
सद्यः स्वम् अपि जीवितम्__व्ध_074.024
यतन्ते परया भक्त्या__व्ध_074.024
ते देवि दयिता मम__व्ध_074.024
साक्षाद् देवम् इवायान्तं__व्ध_074.025
या पतिं नित्यम् अर्चति__व्ध_074.025
पादशौचादिभिर् नारी__व्ध_074.025
तस्या नाहं सुदुर्लभः__व्ध_074.025
पूर्णचन्द्रम् इवोद्यतं__व्ध_074.026
भर्तारं या गृहागतम्__व्ध_074.026
हृष्टा पश्यति तां विद्धि__व्ध_074.026
दयितां योषितं मम__व्ध_074.026
ते भक्ता ये सदा विप्रान्__व्ध_074.027
पूजयन्त्य् अब्धिसंभवे__व्ध_074.027
यथाविभवतो भक्त्या__व्ध_074.027
स्वकर्माभिरता नराः__व्ध_074.027
श्रुतिस्मृत्युदितं धर्मं__व्ध_074.028
मनसापि न ये नराः__व्ध_074.028
समुल्लङ्घ्य प्रवर्तन्ते__व्ध_074.028
ते भक्ता मम भामिनि__व्ध_074.028
ब्रह्मरूपधरस्यास्यान्__व्ध_074.029
मम वेदा विनिःसृताः__व्ध_074.029
मन्वादिरूपिणश् चैव__व्ध_074.029
समस्ताः स्मृतयः स्मृताः__व्ध_074.029
श्रुतिः स्मृतिर् ममैवाज्ञा__व्ध_074.030
ताम् उल्लङ्घ्य यजेच् छुभे__व्ध_074.030
सर्वस्वेनापि मां देवि__व्ध_074.030
नाप्नोत्य् आज्ञाविघातकृत्__व्ध_074.030
यः स्वधर्मान् न चलति__व्ध_074.031
हिंसाधौ यो न सज्यते__व्ध_074.031
वहतस् तस्य मद्भक्तिं__व्ध_074.031
सदैवाहं न दुर्लभः__व्ध_074.031
एतद् देवि मयाख्यातं__व्ध_074.032
यत् पृष्टो ऽहम् इह त्वया__व्ध_074.032
प्रियाणां मम सर्वेषां__व्ध_074.032
शृणु यो ऽतितरं प्रियः__व्ध_074.032
ब्राह्मणः क्षत्रियो वैश्यः__व्ध_074.033
शूद्रश् च वरवर्णिनि__व्ध_074.033
स्वधर्माद् अचलन् देवि__व्ध_074.033
दयावान् सर्वजन्तुषु__व्ध_074.033
सत्यवाच् छौचसंपन्नो__व्ध_074.034
न द्रोही न च मत्सरी__व्ध_074.034
वाङ्मनःकर्मभिः शान्तो__व्ध_074.034
दयितः सततं मम__व्ध_074.034
एवं श्रीर् देवदेवेन__व्ध_074.035
प्राग् उक्ता हरिमेधसा__व्ध_074.035
तवापि हि नरश्रेष्ठ__व्ध_074.035
यथावत् कथितं मया__व्ध_074.035
संवादम् एतद् देवस्य__व्ध_074.036
सह लक्ष्म्या जगत्पतेः__व्ध_074.036
यः शृणोति स पापेभ्यः__व्ध_074.036
समस्तेभ्यः प्रमुच्यते__व्ध_074.036
भूयो ऽखिलं जगद्धातुर्__व्ध_075.001
वासुदेवस्य भार्गव__व्ध_075.001
सम्यगाराधनायालं__व्ध_075.001
क्रियायोगं ब्रवीहि मे__व्ध_075.001
यत् फलं केशवस्यार्चां__व्ध_075.002
प्रतिष्ठाप्य लभेन् नरः__व्ध_075.002
यच् च देवकुलं विष्णोः__व्ध_075.002
कारयित्वा फलं लभेत्__व्ध_075.002
यद् दीपधूपपुष्पाणां__व्ध_075.003
गन्धानां च निवेदने__व्ध_075.003
ध्वजादिदाने यत् पुण्यं__व्ध_075.003
यत् पुण्यं गीतवादिते__व्ध_075.003
तथा पवित्रपठने__व्ध_075.004
जयशब्दाद्युदीरणे__व्ध_075.004
संमार्जनादौ यत् पुण्यं__व्ध_075.004
नमस्कारे प्रदक्षिणे__व्ध_075.004
शीर्णस्फुटितसंस्कार-__व्ध_075.005
करणे चापि यत् फलम्__व्ध_075.005
तन् मे विस्तरतः सर्वं__व्ध_075.005
भगवन् वक्तुम् अर्हसि__व्ध_075.005
यैश् चोपवासैर् भगवान्__व्ध_075.006
नरैर् आराध्यते हरिः__व्ध_075.006
तेषां फलं च यत् कृत्स्नं__व्ध_075.006
तन् ममाचक्ष्व विस्तरात्__व्ध_075.006
संक्षेपात् पूर्वम् एवैतद्__व्ध_075.007
भवतः कथितं मया__व्ध_075.007
विस्तरेण महाराज__व्ध_075.007
श्रूयतां ब्रुवतो मम__व्ध_075.007
अदितिर् नाम देवानां__व्ध_075.008
माता परमदुश्चरम्__व्ध_075.008
तपश् चचार वर्षाणां__व्ध_075.008
सहस्रं पृथिवीपते__व्ध_075.008
आराधनाय कृष्णस्य__व्ध_075.009
वाग्यता वायुभोजना__व्ध_075.009
दैत्यैर् निराकृतान् दृष्ट्वा__व्ध_075.009
तनयान् कुरुनन्दन__व्ध_075.009
वृथापुत्राहम् अस्मीति__व्ध_075.010
निर्वेदात् प्रणता हरिम्__व्ध_075.010
तुष्टाव वाग्भिर् इष्टाभिः__व्ध_075.010
परमार्थावबोधिनी__व्ध_075.010
शरण्यं शरणं विष्णुं__व्ध_075.*(118)
प्रणता भक्तवत्सलम्__व्ध_075.*(118)
देवदैत्यनृपश्वाप-__व्ध_075.010
व्योमवाय्वादिरूपिणम्__व्ध_075.010
नमः स्मृतार्तिनाशाय__व्ध_075.011
नमः पुष्करमालिने__व्ध_075.011
नमः परमकल्याण-__व्ध_075.011
कल्याणायादिवेधसे__व्ध_075.011
नमः पङ्कजनेत्राय__व्ध_075.012
नमः पङ्कजनाभये__व्ध_075.012
नमः पङ्कजसंभूति-__व्ध_075.012
संभवायात्मयोनये__व्ध_075.012
श्रियः कान्ताय दान्ताय__व्ध_075.013
दान्तदृश्याय चक्रिणे__व्ध_075.013
नमः शङ्खासिहस्ताय__व्ध_075.013
नमः कनकरेतसे__व्ध_075.013
तथात्मज्ञानविज्ञान-__व्ध_075.014
योगचित्तात्मयोगिने__व्ध_075.014
निर्गुणाय विशेषाय__व्ध_075.014
हरये ब्रह्मरूपिणे__व्ध_075.014
जगत् प्रतिष्ठितं यत्र__व्ध_075.015
जगता यो न दृश्यते__व्ध_075.015
नमः स्थूलातिसूक्ष्माय__व्ध_075.015
तस्मै देवाय शङ्खिने__व्ध_075.015
यं न पश्यन्ति पश्यन्तो__व्ध_075.016
जगद् अप्य् अखिलं नराः__व्ध_075.016
अपश्यद्भिर् जगद् यच् च__व्ध_075.016
दृश्यते स्वहृदि स्थितः__व्ध_075.016
बहिर्ज्योतिषि लक्ष्यो यो__व्ध_075.*(119)
लक्ष्यते ज्योतिषः परः__व्ध_075.*(119)
यस्मिन्न् एतद् यतश् चैतद्__व्ध_075.017
यश् चैतद् अखिलं जगत्__व्ध_075.017
तस्मै समस्तजगताम्__व्ध_075.017
आधाराय नमो नमः__व्ध_075.017
आद्यः प्रजापतिपतिर्__व्ध_075.018
यः पितॄणां परः पतिः__व्ध_075.018
पतिः सुराणां यस् तस्मै__व्ध_075.018
नमः कृष्णाय वेधसे__व्ध_075.018
यः प्रवृत्तैर् निवृत्तैश् च__व्ध_075.019
कर्मभिर् विभुर् इज्यते__व्ध_075.019
स्वर्गापवर्गफलदो__व्ध_075.019
नमस् तस्मै गदाधृते__व्ध_075.019
यश् चिन्त्यमानो मनसा__व्ध_075.020
मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0