भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 281300

सद्यः पापं व्यपोहति__व्ध_075.020
नमस् तस्मै विशुद्धाय__व्ध_075.020
परस्मै हरिमेधसे__व्ध_075.020
यं प्रविश्याखिलाधारम्__व्ध_075.021
ईशानम् अजम् अव्ययम्__व्ध_075.021
न पुनर् जन्ममरणे__व्ध_075.021
प्राप्नुवन्ति नमामि तम्__व्ध_075.021
यो यज्ञे यज्ञपरमैर्__व्ध_075.022
इज्यते यज्ञसंस्थितिः__व्ध_075.022
तं यज्ञपुरुषं विष्णुं__व्ध_075.022
नमामि प्रभुम् ईश्वरम्__व्ध_075.022
गीयते सर्ववेदेषु__व्ध_075.023
वेदविद्भिर् विदां गतिः__व्ध_075.023
यस् तस्मै वेदवेद्याय__व्ध_075.023
विष्णवे जिष्णवे नमः__व्ध_075.023
यतो विश्वं समुद्भूतं__व्ध_075.024
यस्मिंश् च लयम् एष्यति__व्ध_075.024
विश्वोद्भवप्रतिष्ठाय__व्ध_075.024
नमस् तस्मै महात्मने__व्ध_075.024
ब्रह्मादिस्तम्बपर्यन्तं__व्ध_075.025
विना येन तताम् इमाम्__व्ध_075.025
मायां नालं समुत्तर्तुं__व्ध_075.025
तम् उपेन्द्रं नमाम्य् अहम्__व्ध_075.025
यम् आराध्य विशुद्धेन__व्ध_075.*(120)
मनसा कर्मणा गिरा__व्ध_075.*(120)
हरत्य् अविद्याम् अखिलां__व्ध_075.*(120)
तम् उपेन्द्रं नमाम्य् अहम्__व्ध_075.*(120)
विषादतोषरोषाद्यैर्__व्ध_075.*(120)
यो ऽजस्रं सुखदुःखजैः__व्ध_075.*(120)
नृत्यत्य् अखिलभूतस्थस्__व्ध_075.*(120)
तम् उपेन्द्रं नमाम्य् अहम्__व्ध_075.*(120)
यो ऽन्नतोयस्वरूपस्थो__व्ध_075.026
बिभर्त्य् अखिलम् ईश्वरः__व्ध_075.026
विश्वं विश्वपतिं विष्णुं__व्ध_075.026
तं नमामि प्रजापतिम्__व्ध_075.026
मूर्तं तमो ऽसुरमयं__व्ध_075.027
तद्वधाद् विनिहन्ति यः__व्ध_075.027
रात्रिजं सूर्यरूपी च__व्ध_075.027
तम् उपेन्द्रं नमाम्य् अहम्__व्ध_075.027
कपिलादिस्वरूपस्थो__व्ध_075.028

यश् चाज्ञानमयं तमः__व्ध_075.028
हन्ति ज्ञानप्रदानेन__व्ध_075.028
तम् उपेन्द्रं नमाम्य् अहम्__व्ध_075.028
यस्याक्षिणी चन्द्रसूर्यौ__व्ध_075.029
सर्वलोकशुभाशुभम्__व्ध_075.029
पश्येते कर्म सततं__व्ध_075.029
तम् उपेन्द्रं नमाम्य् अहम्__व्ध_075.029
यस्मिन् सर्वेश्वरे सर्वं__व्ध_075.030
सत्यम् एतन् मयोदितम्__व्ध_075.030
नानृतं तम् अजं विष्णुं__व्ध_075.030
नमामि प्रभवाव्ययम्__व्ध_075.030
यथैतत् सत्यम् उक्तं मे__व्ध_075.031
भूयश् चातो जनार्दनः__व्ध_075.031
सत्येन तेन सकलाः__व्ध_075.031
पूर्यन्तां मे मनोरथाः__व्ध_075.031
एवं स्तुतो ऽथ भगवान्__व्ध_075.032
वासुदेव उवाच ताम्__व्ध_075.032
अदृश्यः सर्वभूतानां__व्ध_075.032
तस्याः संदर्शने स्थितः__व्ध_075.032
मनोरथांस् त्वम् अदिते__व्ध_075.033
यान् इच्छस्य् अभिपूरितान्__व्ध_075.033
तांस् तान् प्राप्स्यसि धर्मज्ञे__व्ध_075.033
मत्प्रसादाद् असंशयम्__व्ध_075.033
शृणुष्व च महाभागे__व्ध_075.034
वरं यस् ते हृदि स्थितः__व्ध_075.034
तं प्रयच्छामि नियतं__व्ध_075.*(122)
मात्र कार्या विचारणा__व्ध_075.*(122)
मद्दर्शनं हि विफलं__व्ध_075.034
न कदाचिद् भविष्यति__व्ध_075.034
यदि देव प्रसन्नस् त्वं__व्ध_075.035
भक्ताया भक्तवत्सल__व्ध_075.035
त्रैलोक्याधिपतिः पुत्रस्__व्ध_075.035
तद् अस्तु मम वासवः__व्ध_075.035
हृतराज्यो हृतश् चास्य__व्ध_075.036
यज्ञभागो महासुरैः__व्ध_075.036
त्वयि प्रसन्ने वरद__व्ध_075.036
तं प्राप्नोतु सुतो मम__व्ध_075.036
हृतं राज्यं न दुःखाय__व्ध_075.037
मम पुत्रस्य केशव__व्ध_075.037
सपत्नाद् आयतिभ्रंशो__व्ध_075.037

बाधां नः कुरुते हृदि__व्ध_075.037
कृतः प्रसादो हि मया__व्ध_075.038
तव देवि यथेप्सितः__व्ध_075.038
स्वांशेन चैव ते गर्भे__व्ध_075.038
संभविष्यामि कश्यपात्__व्ध_075.038
तव गर्भसमुद्भूतः__व्ध_075.039
सुतस् ते ये सुरारयः__व्ध_075.039
तान् अहं निहनिष्यामि__व्ध_075.039
निर्वृता भव नन्दिनि__व्ध_075.039
प्रसीद देवदेवेश__व्ध_075.040
नमस् ते विश्वभावन__व्ध_075.040
नाहं त्वाम् उदरेणेश__व्ध_075.040
वोढुं शक्ष्यामि केशव__व्ध_075.040
यस्मिन् प्रतिष्ठितं विश्वं__व्ध_075.041
यो विश्वं स्वयम् ईश्वर__व्ध_075.041
तद् अहं नोदरेण त्वां__व्ध_075.041
वोढुं शक्ष्यामि दुर्धरम्__व्ध_075.041
सत्यम् आत्थ महाभागे__व्ध_075.042
मयि सर्वम् इदं जगत्__व्ध_075.042
प्रतिष्ठितं न मां शक्ता__व्ध_075.042
वोढुं सेन्द्रा दिवौकसः__व्ध_075.042
किन्त्व् अहं सकलांल् लोकान्__व्ध_075.043
सदेवासुरमानुषान्__व्ध_075.043
जङ्गमाजङ्गमं सर्वं__व्ध_075.043
त्वां च देवि सकाश्यपाम्__व्ध_075.043
धारयिष्यामि भद्रं ते__व्ध_075.043
तव गर्भशयो ऽदिते__व्ध_075.043
न ते ग्लानिर् न ते खेदो__व्ध_075.044
गर्भस्थे भविता मयि__व्ध_075.044
दाक्षायणि प्रसादं ते__व्ध_075.044
करोम्य् अन्यैः सुदुर्लभम्__व्ध_075.044
गर्भस्थे मयि पुत्राणां__व्ध_075.045
तव यो ऽरिर् भविष्यति__व्ध_075.045
तेजसस् तस्य हानिं च__व्ध_075.045
करिष्ये मा व्यथां कृताः__व्ध_075.045
एवम् उक्त्वा ततः सद्यो__व्ध_075.046
गतो ऽन्तर्धानम् ईश्वरः__व्ध_075.046
सापि कालेन तं गर्भम्__व्ध_075.046
अवाप कुरुसत्तम__व्ध_075.046
गर्भस्थिते ततः कृष्णे__व्ध_075.047

चचाल सकला क्षितिः__व्ध_075.047
चकम्पिरे महाशैला__व्ध_075.047
जग्मुः क्षोभम् अथाब्धयः__व्ध_075.047
यतो यतो ऽदितिर् यान्ती__व्ध_075.048
ददाति ललितं पदम्__व्ध_075.048
ततस् ततः क्षितिः खेदान्__व्ध_075.048
ननाम वसुधाधिप__व्ध_075.048
दैत्यानाम् अपि सर्वेषां__व्ध_075.049
गर्भस्थे मधुसूदने__व्ध_075.049
बभूव तेजसो हानिर्__व्ध_075.049
यथोक्तं परमेष्ठिना__व्ध_075.049
निस्तेजसो ऽसुरान् दृष्ट्वा__व्ध_076.001
समस्तान् असुरेश्वरः__व्ध_076.001
प्रह्रादम् अथ पप्रच्छ__व्ध_076.001
बलिर् आत्मपितामहम्__व्ध_076.001
तात निस्तेजसो दैत्या__व्ध_076.002
निर्दग्धा इव वह्निना__व्ध_076.002
किम् एते सहसैवाद्य__व्ध_076.002
ब्रह्मदण्डहता इव__व्ध_076.002
दुरिष्टं किं नु दैत्यानां__व्ध_076.003
किं कृत्या वैरिनिर्मिता__व्ध_076.003
नाशायैषां समुद्भूता__व्ध_076.003
येन निस्तेजसो ऽसुराः__व्ध_076.003
इत्य् आसुरवरस् तेन__व्ध_076.004
पृष्टः पौत्रेण पार्थिव__व्ध_076.004
चिरं ध्यात्वा जगादेदम्__व्ध_076.004
असुरेन्द्रं तदा बलिम्__व्ध_076.004
चलन्ति गिरयो भूमिर्__व्ध_076.005
जहाति सहजां धृतिम्__व्ध_076.005
सद्यः समुद्राः क्षुभिता__व्ध_076.005
दैत्या निस्तेजसः कृताः__व्ध_076.005
सूर्यादयो यथा पूर्वं__व्ध_076.006
तथा गच्छन्ति न ग्रहाः__व्ध_076.006
देवानां च परा लक्ष्मीः__व्ध_076.006
कारणैर् अनुमीयते__व्ध_076.006
महद् एतन् महाबाहो__व्ध_076.007
कारणं दानवेश्वर__व्ध_076.007
न ह्य् अल्पम् इति मन्तव्यं__व्ध_076.007
त्वया कार्यं सुरार्दन__व्ध_076.007
इत्य् उक्त्वा दानवपतिं__व्ध_076.008

प्रह्रादः सो ऽसुरोत्तमः__व्ध_076.008
अत्यन्तभक्तो देवेशं__व्ध_076.008
जगाम मनसा हरिम्__व्ध_076.008
स ध्यानपथगं कृत्वा__व्ध_076.009
प्रह्रादः स्वं मनो ऽसुरः__व्ध_076.009
विचारयाम् आस ततो__व्ध_076.009
यतो देवो जनार्दनः__व्ध_076.009
स ददर्शोदरे ऽदित्याः__व्ध_076.010
प्रह्रादो वामनाकृतिम्__व्ध_076.010
अन्तःस्थान् बिभ्रतं सप्त__व्ध_076.010
लोकान् आदिप्रजापतिम्__व्ध_076.010
तद् अन्तश् च वसून् रुद्रान्__व्ध_076.011
अश्विनौ मरुतस् तथा__व्ध_076.011
साध्यान् विश्वे तथादित्यान्__व्ध_076.011
गन्धर्वोरगराक्षसान्__व्ध_076.011
विरोचनं सतनयं__व्ध_076.012
बलिं चासुरनायकम्__व्ध_076.012
जम्भं कुजम्भं नरकं__व्ध_076.012
बाणम् अन्यांस् तथासुरान्__व्ध_076.012
आत्मानम् उर्वीगगनं__व्ध_076.013
वायुम् अम्भो हुताशनम्__व्ध_076.013
समुद्राद्रिद्रुमसरित्-__व्ध_076.013
सरांसि पशवो मृगान्__व्ध_076.013
वयोमनुष्यान् अखिलांस्__व्ध_076.014
तथैव च सरीसृपान्__व्ध_076.014
समस्तलोकस्रष्टारं__व्ध_076.014
ब्रह्माणं भवम् एव च__व्ध_076.014
ग्रहनक्षत्रताराश् च__व्ध_076.015
दक्षाद्यांश् च प्रजापतीन्__व्ध_076.015
संपश्यन् विस्मयाविष्टः__व्ध_076.015
प्रकृतिस्थः क्षणात् पुनः__व्ध_076.015
प्रह्रादः प्राह दैत्येन्द्रं__व्ध_076.016
बलिं वैरोचनिं तदा__व्ध_076.016
वत्स ज्ञातं मया सर्वं__व्ध_076.017
यदर्थं भवताम् इयम्__व्ध_076.017
तेजसो हानिर् उत्पन्ना__व्ध_076.017
तच् छृणु त्वम् अशेषतः__व्ध_076.017
देवदेवो जगद्योनिर्__व्ध_076.018
अयोनिर् जगदादिकृत्__व्ध_076.018
अनादिर् आदिर् विश्वस्य__व्ध_076.018

वरेण्यो वरदो हरिः__व्ध_076.018
परापराणां परमः__व्ध_076.019
परः परवताम् अपि__व्ध_076.019
प्रभुः प्रमाणं मानानां__व्ध_076.019
सप्तलोकगुरोर् गुरुः__व्ध_076.019
स्थितिं कर्तुं जगन्नाथः__व्ध_076.*(123)
सो ऽदित्या गर्भतां गतः__व्ध_076.*(123)
प्रभुः प्रभूणाम् परमः पराणाम्__व्ध_076.020
अनादिमध्यो भगवान् अनन्तः__व्ध_076.020
त्रैलोक्यम् अंशेन सनाथम् एष__व्ध_076.020
कर्तुं महात्मादितिजो ऽवतीर्णः__व्ध_076.020
न यस्य रुद्रो न च पद्मयोनिर्__व्ध_076.021
नेन्द्रो न सूर्येन्दुमरीचिमिश्राः__व्ध_076.021
जानन्ति दैत्याधिप यत् स्वरूपं__व्ध_076.021
स वासुदेवः कलयावतीर्णः__व्ध_076.021
यो ऽसौ कलांशेन नृसिंहरूपी__व्ध_076.022
जघान पूर्वं पितरम् अशेषः__व्ध_076.022
यः सर्वयोगीशमनोनिवासः__व्ध_076.022
स वासुदेवः कलयावतीर्णः__व्ध_076.022
यम् अक्षरं वेदविदो विदित्वा__व्ध_076.023
विशन्ति तं ज्ञानविधूतपापाः__व्ध_076.023
यस्मिन् प्रविष्टा न पुनर् भवन्ति__व्ध_076.023
तं वासुदेवं प्रणमामि देवम्__व्ध_076.023
भूतान्य् अशेषाणि यतो भवन्ति__व्ध_076.024
यथोर्मयस् तोयनिधेर् अजस्रम्__व्ध_076.024
लयं च यस्मिन् प्रलये प्रयान्ति__व्ध_076.024
तं वासुदेवं प्रणमाम्य् अचिन्त्यम्__व्ध_076.024
न यस्य रूपं न बलं प्रभावो__व्ध_076.025
न च स्वभावः परमस्य पुंसः__व्ध_076.025
विज्ञायते सर्वपितामहाद्यैस्__व्ध_076.025
तं वासुदेवं प्रणमाम्य् अचिन्त्यम्__व्ध_076.025
रूपस्य चक्षुर् ग्रहणे त्वग् एषा__व्ध_076.026
स्पर्शग्रहीत्री रसना रसस्य__व्ध_076.026
श्रोत्रं च शब्दग्रहणे नराणां__व्ध_076.026
घ्राणं च गन्धग्रहणे नियुक्तम्__व्ध_076.026
न घ्राणचक्षुःश्रवणादिभिर् यः__व्ध_076.027
सर्वेश्वरो वेदितुम् अव्ययात्मा__व्ध_076.027
शक्यस् तम् ईड्यं मनसैव देवं__व्ध_076.027
ग्राह्यं नतो ऽहं हरिम् ईशितारम्__व्ध_076.027
येनैकदंष्ट्राग्रसमुद्धृतेयं__व्ध_076.028

धराचला धारयतीह सर्वम्__व्ध_076.028
ग्रस्त्वा स शेते सकलं जगद् यस्__व्ध_076.028
तम् ईड्यम् ईशं प्रणतो ऽस्मि विष्णुम्__व्ध_076.028
अंशावतीर्णेन च येन गर्भे__व्ध_076.029
हृतानि तेजांसि महासुराणाम्__व्ध_076.029
नमामि तं देवम् अनन्तम् ईशम्__व्ध_076.029
अशेषसंसारतरोः कुठारम्__व्ध_076.029
देवो जगद्योनिर् अयं महात्मा__व्ध_076.030
स षोडशांशेन महासुरेन्द्र__व्ध_076.030
सुरेन्द्रमातुर् जठरं प्रविष्टो__व्ध_076.030
हृतानि वस् तेन बले वपूंषि__व्ध_076.030
तात को ऽयं हरिर् नाम__व्ध_076.031
यतो न भयम् आगतम्__व्ध_076.031
सन्ति मे शतशो दैत्या__व्ध_076.031
वासुदेवबलाधिकाः__व्ध_076.031
विप्रचित्तिः शिबिः शङ्कुर्__व्ध_076.032
अयःशङ्कुस् तथैव च__व्ध_076.032
अयःशिरा अश्वशिरा__व्ध_076.032
भङ्गकारो महाहनुः__व्ध_076.032
प्रतापी प्रघसः शंभुः__व्ध_076.033
कुर्कुराक्षश् च दुर्जयः__व्ध_076.033
एते चान्ये च मे सन्ति__व्ध_076.033
दैतेया दानवास् तथा__व्ध_076.033
महाबला महावीर्या__व्ध_076.034
भूभारधरणक्षमाः__व्ध_076.034
येषाम् एकैकशः कृष्णो__व्ध_076.034
न वीर्यार्धेन संमितः__व्ध_076.034
पौत्रस्यैतद् वचः श्रुत्वा__व्ध_076.035
प्रह्रादो दैत्यपुङ्गवः__व्ध_076.035
धिग् धिग् इत्य् आह स बलिं__व्ध_076.035
वैकुण्ठाक्षेपवादिनम्__व्ध_076.035
विनाशम् उपयास्यन्ति__व्ध_076.036
मन्ये दैतेयदानवाः__व्ध_076.036
येषां त्वम् ईदृशो राजा__व्ध_076.036
दुर्बुद्धिर् अविवेकवान्__व्ध_076.036
देवदेवं महाभागं__व्ध_076.037
वासुदेवम् अजं विभुम्__व्ध_076.037
त्वाम् ऋते पापसंकल्पं__व्ध_076.037
को ऽन्य एवं वदिष्यति__व्ध_076.037
य एते भवता प्रोक्ताः__व्ध_076.038

समस्ता दैत्यदानवाः__व्ध_076.038
सब्रह्मकास् तथा देवाः__व्ध_076.038
स्थावरान्ताश् च भूतयः__व्ध_076.038
त्वं चाहं च जगच् चेदं__व्ध_076.039
साद्रिद्रुमनदीनदम्__व्ध_076.039
समुद्रद्वीपलोकाश् च__व्ध_076.039
यच् चेङ्गं यच् च नेङ्गति__व्ध_076.039
यस्यातिवन्द्यवन्द्यस्य__व्ध_076.040
व्यापिनः परमात्मनः__व्ध_076.040
एकांशांशकलाजन्म__व्ध_076.040
कस् तम् एवं प्रवक्ष्यति__व्ध_076.040
ऋते विनाशाभिमुखं__व्ध_076.041
त्वाम् एकम् अविवेकिनम्__व्ध_076.041
दुर्बुद्धिम् अजितात्मानं__व्ध_076.041
वृद्धानां शासनातिगम्__व्ध_076.041
शोच्यो ऽहं यस्य वै गेहे__व्ध_076.042
जातस् तव पिताधमः__व्ध_076.042
यस्य त्वम् ईदृशः पुत्रो__व्ध_076.042
देवदेवावमन्यकः__व्ध_076.042
तिष्ठत्व् अनेकसंसार-__व्ध_076.043
संहृताघविनाशनी__व्ध_076.043
कृष्णे भक्तिर् अहं तावद्__व्ध_076.043
अवेक्ष्यो भवतो न किम्__व्ध_076.043
न मे प्रियतरः कृष्णाद्__व्ध_076.044
अपि देहो ऽयम् आत्मनः__व्ध_076.044
इति जानात्य् अयं लोको__व्ध_076.044
भवांश् च दितिजाधमः__व्ध_076.044
जानन्न् अपि प्रियतरं__व्ध_076.045
प्राणेभ्यो ऽपि हरिं मम__व्ध_076.045
निन्दां करोषि च कथम्__व्ध_076.045
अकुर्वन् गौरवं मम__व्ध_076.045
विरोचनस् तव गुरुर्__व्ध_076.046
गुरुस् तस्याप्य् अहं बले__व्ध_076.046
ममापि सर्वजगतां__व्ध_076.046
गुरुर् नारायणो गुरुः__व्ध_076.046
निन्दां करोषि तस्मिंस् त्वं__व्ध_076.047
कृष्णे गुरुगुरोर् गुरौ__व्ध_076.047
यस्मात् तस्माद् इहैश्वर्याद्__व्ध_076.047
अचिराद् भ्रंशम् एष्यसि__व्ध_076.047
मा देवो मा जगन्नाथो__व्ध_076.048

बले मासौ जनार्दनः__व्ध_076.048
भवत्व् अहम् अवेक्ष्यस् ते__व्ध_076.048
प्रीतिमान् अत्र मे गुरुः__व्ध_076.048
एतावन्मात्रम् अप्य् अत्र__व्ध_076.049
निन्दता जगतो गुरुम्__व्ध_076.049
नापेक्षिता वयं यस्मात्__व्ध_076.049
तस्माच् छापं ददामि ते__व्ध_076.049
यथा मे शिरसश् छेदाद्__व्ध_076.050
इदं गुरुतरं बले__व्ध_076.050
त्वयोक्तम् अच्युताक्षेपि__व्ध_076.050
राज्यभ्रष्टस् तथा पत__व्ध_076.050
यथा न कृष्णाद् अपरं__व्ध_076.051
परित्राणं भवार्णवे__व्ध_076.051
तथाचिरेण पश्येयं__व्ध_076.051
भवन्तं राज्यविच्युतम्__व्ध_076.051
इति दैत्यपतिः श्रुत्वा__व्ध_076.052
गुरोर् वचनम् अप्रियम्__व्ध_076.052
प्रसादयाम् आस गुरुं__व्ध_076.052
प्रणिपत्य पुणः पुनः__व्ध_076.052
प्रसीद तात मा कोपं__व्ध_076.053
कुरु मोहहते मयि__व्ध_076.053
बलावलेपमत्तेन__व्ध_076.053
मयैतद् वाक्यम् ईरितम्__व्ध_076.053
मोहोपहतविज्ञानः__व्ध_076.054
पापो ऽहं दितिजोत्तम__व्ध_076.054
यच् छप्तो ऽस्मि दुराचारस्__व्ध_076.054
तत् साधु भवता कृतम्__व्ध_076.054
राज्यभ्रंशं वसुभ्रंशं__व्ध_076.055
संप्राप्स्यामीति न त्व् अहम्__व्ध_076.055
विषण्णो ऽस्मि यथा तात__व्ध_076.055
तवैवाविनये कृते__व्ध_076.055
त्रैलोक्यराज्यम् ऐश्वर्यम्__व्ध_076.056
अन्यद् वा नातिदुर्लभम्__व्ध_076.056
संसारे दुर्लभास् तात__व्ध_076.056
गुरवो ये भवद्विधाः__व्ध_076.056
तत् प्रसीद न मे कोपं__व्ध_076.057
कर्तुम् अर्हसि दैत्यप__व्ध_076.057
त्वत्कोपहेतुदुष्टो ऽहं__व्ध_076.057
परितप्ये न शापतः__व्ध_076.057
वत्स कोपेन मोहो मे__व्ध_076.058

जनितस् तेन ते मया__व्ध_076.058
शापो दत्तो विवेकश् च__व्ध_076.058
मोहेनापहृतो मम__व्ध_076.058
यदि मोहेन मे ज्ञानं__व्ध_076.059
नाक्षिप्तं स्यान् महासुर__व्ध_076.059
तत् कथं सर्वगं ज्ञानन्__व्ध_076.059
हरिं कंचिच् छापाम्य् अहम्__व्ध_076.059
यो ऽयं शापो मया दत्तो__व्ध_076.060
भवतो ऽसुरपुङ्गव__व्ध_076.060
भाव्यम् एतेन नूनं ते__व्ध_076.060
तस्मात् त्वं मा विषीदथाः__व्ध_076.060
अद्यप्रभृति देवेशे__व्ध_076.061
भगवत्य् अच्युते हरौ__व्ध_076.061
भवेथा भक्तिमान् ईशः__व्ध_076.061
स ते त्राता भविष्यति__व्ध_076.061
शापं प्राप्य च मां वीर__व्ध_076.062
संस्मरेथाः स्मृतस् त्वया__व्ध_076.062
तथा तथा यतिष्यामि__व्ध_076.062
श्रेयसा योक्ष्यते यथा__व्ध_076.062
एवम् उक्त्वा स दैत्येन्द्रो__व्ध_076.063
विरराम महामतिः__व्ध_076.063
अजायत स गोविन्दो__व्ध_076.063
भगवान् वामनाकृतिः__व्ध_076.063
अवतीर्णे जगन्नाथे__व्ध_076.064
तस्मिन् सर्वम् अशीशमत्__व्ध_076.064
यद् आसुरम् अभूद् दुःखं__व्ध_076.064
देवानाम् अदितेस् तथा__व्ध_076.064
ववुर् वाताः सुखस्पर्शा__व्ध_076.065
नीरजस्कम् अभून् नभः__व्ध_076.065
धर्मे च सर्वभूतानां__व्ध_076.065
तदा मतिर् अजायत__व्ध_076.065
नोद्वेगश् चाप्य् अभूद् देहे__व्ध_076.066
मनुजानां जनेश्वर__व्ध_076.066
तथा हि सर्वभूतानां__व्ध_076.066
भूम्यम्बरदिवौकसाम्__व्ध_076.066
तं जातमात्रं भगवान्__व्ध_076.067
ब्रह्मा लोकपितामहः__व्ध_076.067
जातकर्मादिकाः कृत्वा__व्ध_076.067
क्रियास् तुष्टाव पार्थिव__व्ध_076.067
जयाद्येश जयाजेय__व्ध_076.068

जय सर्वात्मकात्मक__व्ध_076.068
जय जन्मजरापेत__व्ध_076.068
जयानन्त जयाच्युत__व्ध_076.068
जयाजित जयाशेष__व्ध_076.069
जयाव्यक्त स्थिते जय__व्ध_076.069
परमार्थार्थ सर्वज्ञ__व्ध_076.069
ज्ञान ज्ञेयात्मनिःसृत__व्ध_076.069
जयाशेषजगत्साक्षिञ्__व्ध_076.070
जय कर्तर् जगद्गुरोः__व्ध_076.070
जगतो जगदन्ते ऽन्त__व्ध_076.070
स्थितौ पालयिता जय__व्ध_076.070
जयाखिल जयाशेष__व्ध_076.071
जयाखिलहृदि स्थित__व्ध_076.071
जयादिमध्यान्तमय__व्ध_076.071
सर्वज्ञानमयोत्तम__व्ध_076.071
मुमुक्षुभिर् अनिर्देश्य__व्ध_076.072
स्वयंदृष्ट जयेश्वर__व्ध_076.072
योगिभिर् मुक्तिफलद__व्ध_076.072
दमादिगुणभूषणैः__व्ध_076.072
जयातिसूक्ष्म दुर्ज्ञेय__व्ध_076.073
जगत् स्थूल जगन्मय__व्ध_076.073
जय स्थूलातिसूक्ष्म त्वं__व्ध_076.073
जयातीन्द्रिय सेन्द्रिय__व्ध_076.073
जय स्वमायायोगस्थ__व्ध_076.074
शेषभोगशयाक्षर__व्ध_076.074
जयैकदंष्ट्राप्रान्तान्त__व्ध_076.075
समुद्धृतवसुंधर__व्ध_076.074
नृकेसरिञ् जयाराति-__व्ध_076.075
वक्षःस्थलविदारण__व्ध_076.075
सांप्रतं जय विश्वात्मन्__व्ध_076.075
मायावामन केशव__व्ध_076.075
निजमायापटच्छन्न__व्ध_076.076
जगद्धातर् जनार्दन__व्ध_076.076
जयाचिन्त्य जयानेक-__व्ध_076.076
स्वरूपैकविध प्रभो__व्ध_076.076
वर्धस्व वर्धितानेक-__व्ध_076.077
विकारप्रकृते हरे__व्ध_076.077
त्वय्य् एषा जगताम् ईश__व्ध_076.077
संस्थिता धर्मपद्धतिः__व्ध_076.077
न त्वाम् अहं न चेशानो__व्ध_076.078

नेन्द्राद्यास् त्रिदशा हरे__व्ध_076.078
ज्ञातुम् ईशा न मुनयः__व्ध_076.078
सनकाद्या न योगिनः__व्ध_076.078
त्वन्मायापटसंवीते__व्ध_076.079
जगत्य् अत्र जगत्पते__व्ध_076.079
कस् त्वां वेत्स्यति सर्वेशं__व्ध_076.079
त्वत्प्रसादं विना नरः__व्ध_076.079
त्वम् एवाराधितो यस्य__व्ध_076.080
प्रसादसुमुखः प्रभो__व्ध_076.080
स एव केवलं देव__व्ध_076.080
वेत्ति त्वां नेतरो जनः__व्ध_076.080
तद् ईश्वरेश्वरेशान__व्ध_076.081
विभो वर्धस्व भावन__व्ध_076.081
प्रभावायास्य विश्वस्य__व्ध_076.081
विश्वात्मन् पृथुलोचन__व्ध_076.081
एवं स्तुतो हृषीकेशः__व्ध_076.082
स तदा वामनाकृतिः__व्ध_076.082
प्रहस्य भावगम्भीरम्__व्ध_076.082
उवाचाब्जसमुद्भवम्__व्ध_076.082
स्तुतो ऽहं भवता पूर्वम्__व्ध_076.083
इन्द्राद्यैः कश्यपेन च__व्ध_076.083
मया च वः प्रतिज्ञातम्__व्ध_076.083
इन्द्रस्य भुवनत्रयम्__व्ध_076.083
भूयश् चाहं स्तुतो ऽदित्या__व्ध_076.084
तस्याश् चापि प्रतिश्रुतम्__व्ध_076.084
यथा शक्राय दास्यामि__व्ध_076.084
त्रैलोक्यं हतकण्टकम्__व्ध_076.084
सो ऽहं तथा करिष्यामि__व्ध_076.085
यथेन्द्रो जगतः पतिः__व्ध_076.085
भविष्यति सहस्राक्षः__व्ध_076.085
सत्यम् एतद् ब्रवीमि ते__व्ध_076.085
ततः कृष्णाजिनं ब्रह्मा__व्ध_076.086
हृषीकेशाय दत्तवान्__व्ध_076.086
यज्ञोपवीतं भगवान्__व्ध_076.086
ददौ तस्मै बृहस्पतिः__व्ध_076.086
आषाढम् अददद् दण्डं__व्ध_076.087
मरीचिर् ब्रह्मणः सुतः__व्ध_076.087
कमण्डलुं वसिष्ठश् च__व्ध_076.087
कौश्यं वेदम् अथाङ्गिराः__व्ध_076.087
अक्षसूत्रं च पुलहः__व्ध_076.087

पुलस्त्यः सितवाससी__व्ध_076.087
उपतस्थुश् च तं वेदाः__व्ध_076.088
प्रणवस्वरभूषणाः__व्ध_076.088
शास्त्राण्य् अशेषाणि तथा__व्ध_076.088
सांख्ययोगोक्तयश् च याः__व्ध_076.088
स वामनो जटी दण्डी__व्ध_076.089
छत्त्री धृतकमण्डलुः__व्ध_076.089
सर्वदेवमयो भूप__व्ध_076.089
बलेर् अध्वरम् अभ्ययात्__व्ध_076.089
यत्र यत्र पदं भूप__व्ध_076.090
भूभागे वामनो ददौ__व्ध_076.090
ददाति भूमिर् विवरं__व्ध_076.090
तत्र तत्रातिपीडिता__व्ध_076.090
स वामनो जडगतिर्__व्ध_076.091
मृदु गच्छन् सपर्वताम्__व्ध_076.091
साब्धिद्वीपवतीं सर्वां__व्ध_076.091
चालयाम् आस मेदिनीम्__व्ध_076.091
ततः संशयम् आपन्नाः__व्ध_076.*(124)
सर्वे दैतेयदानवाः__व्ध_076.*(124)
सपर्वतवनाम् उर्वीं__व्ध_077.001
दृष्ट्वा संक्षुभितां बलिः__व्ध_077.001
पप्रच्छोशनसं शुक्रं__व्ध_077.001
प्रणिपत्य कृताञ्जलिः__व्ध_077.001
आचार्य क्षोभम् आयाति__व्ध_077.002
साब्धिभूभृद्धरा मही__व्ध_077.002
कस्माच् च नासुरान् भागान्__व्ध_077.002
प्रतिगृह्णन्ति वह्नयः__व्ध_077.002
इति पृष्टो ऽथ बलिना__व्ध_077.003
काव्यो वेदविदां वरः__व्ध_077.003
उवाच दैत्याधिपतिं__व्ध_077.003
चिरं ध्यात्वा महामतिः__व्ध_077.003
अवतीर्णो जगद्योनिः__व्ध_077.004
कश्यपस्य गृहे हरिः__व्ध_077.004
वामनेनेह रूपेण__व्ध_077.004
परमात्मा सनातनः__व्ध_077.004
स नूनं यज्ञम् आयाति__व्ध_077.005
तव दानवपुङ्गव__व्ध_077.005
तत्पदन्यासविक्षोभाद्__व्ध_077.005
इयं प्रचलिता मही__व्ध_077.005
कम्पन्ते गिरयश् चामी__व्ध_077.006

क्षुभिता मकरालयाः__व्ध_077.006
नैनं भूतपतिं भूमिः__व्ध_077.006
समर्था वोढुम् ईश्वरम्__व्ध_077.006
सदेवासुरगन्धर्व-__व्ध_077.007
यक्षराक्षसपन्नगा__व्ध_077.007
अनेनैव धृता भूमिर्__व्ध_077.007
आपो ऽग्निः पवनो नभः__व्ध_077.007
धारयत्य् अखिलान् देव-__व्ध_077.007
मनुष्यादीन् महासुर__व्ध_077.007
इयम् अस्य जगद्धातुर्__व्ध_077.008
माया कृष्णस्य गह्वरी__व्ध_077.008
धार्यधारकभावेन__व्ध_077.008
यया संपिण्डितं जगत्__व्ध_077.008
तत्संनिधानाद् असुरा__व्ध_077.009
न भागार्हाः सुरद्विषः__व्ध_077.009
भुञ्जते चासुरान् भागान्__व्ध_077.009
अमी ते न तवाग्नयः__व्ध_077.009
शुक्रस्य वचनं श्रुत्वा__व्ध_077.*(125)
हृष्टरोमाब्रवीद् बलिः__व्ध_077.*(125)
धन्यो ऽहं कृतपुण्यश् च__व्ध_077.010
यन् मे यज्ञपतिः स्वयम्__व्ध_077.010
यज्ञम् अभ्यागतो ब्रह्मन्__व्ध_077.010
मत्तः को ऽन्यो ऽधिकः पुमान्__व्ध_077.010
यं योगिनः सदोद्युक्ताः__व्ध_077.011
परमात्मानम् अव्ययम्__व्ध_077.011
द्रष्टुम् इच्छन्ति देवो ऽसौ__व्ध_077.011
मदध्वरम् उपैष्यति__व्ध_077.011
होता भागप्रदो यस्य__व्ध_077.012
यम् उद्गाता च गायति__व्ध_077.012
तम् अध्वरेश्वरं विष्णुं__व्ध_077.012
मत्तः को ऽन्य उपैष्यति__व्ध_077.012
सर्वेश्वरेश्वरे विष्णौ__व्ध_077.013
ममाध्वरम् उपागते__व्ध_077.013
यन् मया चार्य कर्तव्यं__व्ध_077.013
तन् ममादेष्टुम् अर्हसि__व्ध_077.013
यज्ञभागभुजो देवा__व्ध_077.014
वेदप्रामाण्यतो ऽसुर__व्ध_077.014
त्वया तु दानवा दैत्या__व्ध_077.014
यज्ञभागभुजः कृताः__व्ध_077.014
अयं च देवः सत्त्वस्थः__व्ध_077.015

करोति स्थितिपालनम्__व्ध_077.015
निसृष्टेश् चायम् अन्ते च__व्ध_077.015
स्वयम् अत्ति प्रजाः प्रभुः__व्ध_077.015
त्वयानुबन्धी भविता__व्ध_077.016
नूनं विष्णुः स्थितौ स्थितः__व्ध_077.016
विदित्वैतन् महाभाग__व्ध_077.016
कुरु यत् ते मनोगतम्__व्ध_077.016
त्वयास्य दैत्याधिपते__व्ध_077.017
स्वल्पके ऽपि हि वस्तुनि__व्ध_077.017
प्रतिज्ञा नैव वोढव्या__व्ध_077.017
वाच्यं साम तथाफलम्__व्ध_077.017
कृतकृत्यस्य देवस्य__व्ध_077.*(126)
देवार्थं चैव कुर्वतः__व्ध_077.*(126)
नालं दातुं धनं देवेत्य्__व्ध_077.018
एवं वाच्यं तु याचतः__व्ध_077.018
कृष्णस्य देवभूत्यर्थं__व्ध_077.018
प्रवृत्तस्य महासुर__व्ध_077.018
ब्रह्मन् कथम् अहं ब्रूयाम्__व्ध_077.019
अन्येनापि हि याचितः__व्ध_077.019
नास्तीति किमु देवेन__व्ध_077.019
संसाराघौघहारिणा__व्ध_077.019
व्रतोपवासैर् विविधैर्__व्ध_077.020
यः प्रतिग्राह्यते हरिः__व्ध_077.020
स चेद् वक्ष्यति देहीति__व्ध_077.020
गोविन्दः किम् अतो ऽधिकम्__व्ध_077.020
यदर्थम् उपहाराढ्या__व्ध_077.021
दमशौचगुणान्वितैः__व्ध_077.021
यज्ञाः क्रियन्ते देवेशः__व्ध_077.021
स मां देहीति वक्ष्यति__व्ध_077.021
तत् साधु सुकृतं कर्म__व्ध_077.022
तपः सुचरितं च नः__व्ध_077.022
यन् मया दत्तम् ईशेशः__व्ध_077.022
स्वयम् आदास्यते हरिः__व्ध_077.022
नास्तीत्य् अहं गुरो वक्ष्ये__व्ध_077.023
तम् अप्य् आगतम् ईश्वरम्__व्ध_077.023
यदि तद् वञ्च्यते प्राप्ते__व्ध_077.023
नूनम् अस्मद्विधः फलैः__व्ध_077.023
यज्ञे ऽस्मिन् यदि यज्ञेशो__व्ध_077.024
याचते मां जनार्दनः__व्ध_077.024
निजमूर्धानम् अप्य् अद्य__व्ध_077.024

तद् दास्याम्य् अविचारितम्__व्ध_077.024
नास्तीति यन् मया नोक्तम्__व्ध_077.025
अन्येषाम् अपि याचताम्__व्ध_077.025
वक्ष्यामि कथम् आयाते__व्ध_077.025
तद् अनभ्यस्तम् अच्युते__व्ध_077.025
श्लाघ्य एव हि धीराणां__व्ध_077.026
दानाद् आपत्समागमः__व्ध_077.026
नाबाधाकारि यद् दानं__व्ध_077.026
तद् अङ्गमलवत् कथम्__व्ध_077.026
मद्राज्ये नासुखी कश्चिन्__व्ध_077.027
न दरिद्रो न चातुरः__व्ध_077.027
नातृषितो न चोद्विग्नो__व्ध_077.027
न स्रगादिविवर्जितः__व्ध_077.027
हृष्टतुष्टः सुगन्धी च__व्ध_077.028
तृप्तः सर्वसुखान्वितः__व्ध_077.028
जनः सर्वो महाभाग__व्ध_077.028
किमुताहं सदा सुखी__व्ध_077.028
एतद् विशिष्टपात्रोत्थं__व्ध_077.029
दानबीजफलं मम__व्ध_077.029
विदितं भृगुशार्दूल__व्ध_077.029
मयैतत् त्वत्प्रसादतः__व्ध_077.029
एतद् विजानतो दान-__व्ध_077.030
बीजं पतति चेद् गुरो__व्ध_077.030
जनार्दने महापात्रे__व्ध_077.030
किं न प्राप्तं ततो मया__व्ध_077.030
मत्तो दानम् अवाप्येशो__व्ध_077.031
यदि पुष्णाति देवताः__व्ध_077.031
उपभोगान्वयगुणं__व्ध_077.031
दानं श्लाघ्यतरं ततः__व्ध_077.031
मत्प्रसादपरो नूनं__व्ध_077.032
यज्ञेनाराधितो हरिः__व्ध_077.032
तेनाभ्येति न संदेहो__व्ध_077.032
दर्शनाद् उपकारकृत्__व्ध_077.032
अथ कोपेन वाभ्येति__व्ध_077.033
देवभागोपरोधिनम्__व्ध_077.033
मां निहन्तुम् अतो ऽपि स्याद्__व्ध_077.033
वधः श्लाघ्यतरो ऽच्युतात्__व्ध_077.033
यन्मयं सर्वम् एवेदं__व्ध_077.034
नाप्राप्य यस्य विद्यते__व्ध_077.034
स मां याचितुम् अभ्येति__व्ध_077.034

नानुग्रहम् ऋते हरिः__व्ध_077.034
यः सृजत्य् आत्मभूः सर्वं__व्ध_077.035
चेतसैवापहन्ति च__व्ध_077.035
स मां हन्तुं हृषीकेशः__व्ध_077.035
कथं यत्नं करिष्यति__व्ध_077.035
एतद् विदित्वा तु गुरो__व्ध_077.036
दानविघ्नपरेण मे__व्ध_077.036
नैव भाव्यं जगन्नाथे__व्ध_077.036
गोविन्दे समुपस्थिते__व्ध_077.036
इत्य् एवं वदतस् तस्य__व्ध_077.037
प्राप्तस् तत्र जगपतिः__व्ध_077.037
सर्वदेवमयो ऽचिन्त्यो__व्ध_077.037
मायावामनरूपधृक्__व्ध_077.037
तं दृष्ट्वा यज्ञवाटान्तः-__व्ध_077.038
प्रविष्टम् असुराः प्रभुम्__व्ध_077.038
जग्मुः प्रभावतः क्षोभं__व्ध_077.038
तेजसा तस्य निष्प्रभाः__व्ध_077.038
जेपुश् च मुनयस् तत्र__व्ध_077.039
ये समेता महाध्वरे__व्ध_077.039
बलिश् चैवाखिलं जन्म__व्ध_077.039
मेने सफलम् आत्मनः__व्ध_077.039
ततः संक्षोभम् आपन्नो__व्ध_077.040
न कश्चित् किंचिद् उक्तवान्__व्ध_077.040
प्रत्येको देवदेवेशं__व्ध_077.040
पूजयाम् आस चेतसा__व्ध_077.040
अथासुरपतिं प्रह्वं__व्ध_077.041
दृष्ट्वा मुनिवरांश् च तान्__व्ध_077.041
देवदेवपतिः साक्षाद्__व्ध_077.041
विष्णुर् वामनरूपधृक्__व्ध_077.041
तुष्टाव यज्ञं वह्निंश् च__व्ध_077.042
यजमानम् अथ र्त्विजः__व्ध_077.042
यज्ञकराधिकारस्थान्__व्ध_077.042
सदस्यान् द्रव्यसंपदम्__व्ध_077.042
ततः प्रसन्नम् अखिलं__व्ध_077.043
वामनं प्रति तत्क्षणात्__व्ध_077.043
यज्ञवाटस्थितं वीरं__व्ध_077.043
साधु साध्व् इत्य् उदीरयन्__व्ध_077.043
स चार्घम् आदाय बलिः__व्ध_077.044
प्रोद्भूतपुलकस् तदा__व्ध_077.044
पूजयाम् आस गोविन्दं__व्ध_077.044

प्राह चेदं वचो ऽसुरः__व्ध_077.044
सुवर्णरत्नसंघातं__व्ध_077.045
गजाश्वम् अमितं तथा__व्ध_077.045
स्त्रियो वस्त्राण्य् अलंकारान्__व्ध_077.045
गावो ग्रामांश् च पुष्कलान्__व्ध_077.045
सर्वस्वं सकलाम् उर्वीं__व्ध_077.046
भवतो वा यद् ईप्सितम्__व्ध_077.046
तद् ददामि वृणुष्व त्वं__व्ध_077.046
ममार्थी सततं प्रियः__व्ध_077.046
इत्य् उक्तो दैत्यपतिना__व्ध_077.047
प्रीतिगर्वान्वितं वचः__व्ध_077.047
प्राह सस्मितगम्भीरं__व्ध_077.047
भगवान् वामनाकृतिः__व्ध_077.047
ममाग्निशरणार्थाय__व्ध_077.048
देहि राजन् पदत्रयम्__व्ध_077.048
सुवर्णग्रामरत्नादि__व्ध_077.048
तद् अर्थिभ्यः प्रदीयताम्__व्ध_077.048
त्रिभिः प्रयोजनं किं ते__व्ध_077.049
पदैः पदवतां वर__व्ध_077.049
शतं शतसहस्रं वा__व्ध_077.049
पदानां मार्गतां भवान्__व्ध_077.049
एतावता दैत्यपते__व्ध_077.050
कृतकृत्यो ऽस्मि मार्गताम्__व्ध_077.050
अन्येषाम् अर्थिनां वित्तम्__व्ध_077.050
इच्छया दास्यते भवान्__व्ध_077.050
एतच् छ्रुत्वा तु गदितं__व्ध_077.051
वामनस्य महात्मनः__व्ध_077.051
वाचयाम् आस तत् तस्मै__व्ध_077.051
वामनाय पदत्रयम्__व्ध_077.051
पाणौ तु पतिते तोये__व्ध_077.052
वामनो भूतभावनः__व्ध_077.052
सर्वदेवमयं रूपं__व्ध_077.052
दर्शयाम् आस तत्क्षणात्__व्ध_077.052
चन्द्रसूर्यौ च नयने__व्ध_077.053
द्यौः शिरश् चरणौ क्षितिः__व्ध_077.053
पादाङ्गुल्यः पिशाचाश् च__व्ध_077.053
हस्ताङ्गुल्यश् च गुह्यकाः__व्ध_077.053
विश्वेदेवाश् च जानुस्था__व्ध_077.054
जङ्घे साध्याः सुरोत्तमाः__व्ध_077.054
यक्षा नखेषु संभूता__व्ध_077.054

रेखास्व् अप्सरसः स्थिताः__व्ध_077.054
दृष्टिर् धिष्णान्य् अशेषाणि__व्ध_077.055
केशाः सूर्यांशवः प्रभो__व्ध_077.055
तारका रोमकूपाणि__व्ध_077.055
रोमाणि च महर्षयः__व्ध_077.055
बाहवो विदिशस् तस्य__व्ध_077.056
दिशः श्रोत्रं महात्मनः__व्ध_077.056
अश्विनौ श्रवणौ तस्य__व्ध_077.056
नासा वायुर् महाबलः__व्ध_077.056
प्रसादश् चन्द्रमा देवो__व्ध_077.057
मनो धर्मः समाश्रितः__व्ध_077.057
सत्यम् अस्याभवद् वाणी__व्ध_077.057
जिह्वा देवी सरस्वती__व्ध_077.057
ग्रीवादितिर् देवमाता__व्ध_077.058
विद्यास् तद्वलयस् तथा__व्ध_077.058
स्वर्गद्वारम् अभून् मैत्रं__व्ध_077.058
त्वष्टा पूषा च वै भ्रुवौ__व्ध_077.058
मुखं वैश्वानरश् चास्य__व्ध_077.059
वृषणौ तु प्रजापतिः__व्ध_077.059
हृदयं च परं ब्रह्म__व्ध_077.059
पुंस्त्वं वै कश्यपो मुनिः__व्ध_077.059
पृष्ठे ऽस्य वसवो देवा__व्ध_077.060
मरुतः सर्वसंधिषु__व्ध_077.060
सर्वसूक्तानि दशना__व्ध_077.060
ज्योतींषि विमलप्रभाः__व्ध_077.060
वक्षःस्थले तथा रुद्रो__व्ध_077.061
धैर्ये चास्य महार्णवः__व्ध_077.061
उदरे चास्य गन्धर्वा__व्ध_077.061
मरुतश् च महाबलाः__व्ध_077.061
लक्ष्मीर् मेधा धृतिः कान्तिः__व्ध_077.061
सर्वविद्याश् च वै कटिः__व्ध_077.061
सर्वज्योतींषि यानीह__व्ध_077.062
तपश् च परमं महत्__व्ध_077.062
तस्य देवातिदेवस्य__व्ध_077.062
तेजः प्रोद्भूतम् उत्तमम्__व्ध_077.062
स्तनौ कुक्षौ च वेदाश् च__व्ध_077.063
जानू चास्य महामखाः__व्ध_077.063
इष्टयः पशुबन्धाश् च__व्ध_077.063
द्विजानां चेष्टितानि च__व्ध_077.063
तस्य देवमयं रूपं__व्ध_077.064

दृष्ट्वा विष्णोर् महाबलाः__व्ध_077.064
उपसर्पन्ति दैतेयाः__व्ध_077.064
पतंगा इव पावकम्__व्ध_077.064
प्रमथ्य सर्वान् असुरान्__व्ध_077.065
पादहस्ततलैर् विभुः__व्ध_077.065
कृत्वा रूपं महाकायं__व्ध_077.065
स जहाराशु मेदिनीम्__व्ध_077.065
तस्य विक्रमतो भुमिं__व्ध_077.066
चन्द्रादित्यौ स्तनान्तरे__व्ध_077.066
नभो विक्रममाणस्य__व्ध_077.066
सक्थिदेशे स्थिताव् उभौ__व्ध_077.066
परं विक्रममाणस्य__व्ध_077.067
जानुमूले प्रभाकरौ__व्ध_077.067
विष्णोर् आस्ताम् महीपाल__व्ध_077.067
देवपालनकर्मणि__व्ध_077.067
जित्वा लोकत्रयं कृत्स्नं__व्ध_077.068
हत्वा चासुरपुङ्गवान्__व्ध_077.068
पुरंदराय त्रैलोक्यं__व्ध_077.068
ददौ विष्णुर् उरुक्रमः__व्ध_077.068
सुतलं नाम पातालम्__व्ध_077.069
अधस्ताद् वसुधातलात्__व्ध_077.069
बलेर् दत्तं भगवता__व्ध_077.069
विष्णुना प्रभविष्णुना__व्ध_077.069
अथ दैत्येश्वरं प्राह__व्ध_077.070
विष्णुः सर्वेश्वरेश्वरः__व्ध_077.070
यत् त्वया सलिलं दत्तं__व्ध_077.071
गृहीतं पाणिना मया__व्ध_077.071
कल्पप्रमाणं तस्मात् ते__व्ध_077.071
भविष्यत्य् आयुर् उत्तमम्__व्ध_077.071
वैवस्वते तथातीते__व्ध_077.072
बले मन्वन्तरे ततः__व्ध_077.072
सावर्णके च संप्राप्ते__व्ध_077.072
भवान् इन्द्रो भविष्यति__व्ध_077.072
सांप्रतं देवराजाय__व्ध_077.073
त्रैलोक्यम् अखिलं मया__व्ध_077.073
दत्तं चतुर्युगानां वै__व्ध_077.073
साधिका ह्य् एकसप्ततिः__व्ध_077.073
नियन्तव्या मया सर्वे__व्ध_077.074
ये तस्य परिपन्थिनः__व्ध_077.074
तेनाहं परया भक्त्या__व्ध_077.074

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc