भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 241260

यो दद्याद् भगवज्ज्ञानं__व्ध_068.056
कुर्याद् वा धर्मदेशनाम्__व्ध_068.056
कृत्स्नां वा पृथिवीं दद्यान्__व्ध_068.056
न तु तुल्यं कथंचन__व्ध_068.056
कान्तारवनदुर्गेषु__व्ध_068.057
कृच्छ्रेष्व् आपत्सु संभ्रमे__व्ध_068.057
दस्युभिः संनिरुद्धश् च__व्ध_068.057
नामभिर् मां प्रकीर्तयेत्__व्ध_068.057
वराहो रक्षतु जले__व्ध_068.058
विषमेषु च वामनः__व्ध_068.058
रामो रामश् च रामश् च__व्ध_068.*(111)
त्रायन्तां दस्युदोषतः__व्ध_068.*(111)
अटव्यां नारसिंहस् तु__व्ध_068.058
सर्वतः पातु केशवः__व्ध_068.058
बद्धः परिकरस् तेन__व्ध_068.059
मोक्षाय गमनं प्रति__व्ध_068.059
सकृद् उच्चारितं येन__व्ध_068.059
हरिर् इत्य् अक्षरद्वयम्__व्ध_068.059
जन्मान्तरसहस्राणि__व्ध_068.*(112)
तपोज्ञानसमाधिभिः__व्ध_068.*(112)
नराणां क्षीणपापानां__व्ध_068.*(112)
कृष्णे भक्तिः प्रजायते__व्ध_068.*(112)
गत्वा गत्वा निवर्तने__व्ध_068.*(112)
चन्द्रसूर्यादयो ग्रहाः__व्ध_068.*(112)
अद्यापि न निवर्तन्ते__व्ध_068.*(112)
द्वादशाक्षरचिन्तकाः__व्ध_068.*(112)
न वासुदेवात् परम् अस्ति मङ्गलं__व्ध_068.*(112)
न वासुदेवात् परमं पवित्रम्__व्ध_068.*(112)
न वासुदेवात् परम् अस्ति दैवतं__व्ध_068.*(112)
न वासुदेवं प्रणिपत्य सीदति__व्ध_068.*(112)
तस्मान् माम् एव देवर्षे__व्ध_068.060
ध्यायस्वातन्द्रितः सदा__व्ध_068.060
अवाप्स्यसि ततः सिद्धिं__व्ध_068.060
पदं द्रक्ष्यसि च ध्रुवम्__व्ध_068.060
एवं स देवदेवेन__व्ध_068.061
नारदः प्रतिबोधितः__व्ध_068.061
चकार केशवे भक्तिं__व्ध_068.061
तस्मात् त्वं कुरु भूपते__व्ध_068.061
यः पठेत् परया भक्त्या__व्ध_068.*(113)
स गच्छेद् विष्णुसाम्यताम्__व्ध_068.*(113)

एतत् पुण्यं पापहरं__व्ध_068.*(113)
धन्यं दुःस्वप्ननाशनम्__व्ध_068.*(113)
पापं प्रणश्यते येन__व्ध_069.001
पुण्यं येन विवर्धते__व्ध_069.001
यज् जपन् सुगतिं याति__व्ध_069.001
शृण्वंश् च मम तद् वद__व्ध_069.001
कश्चिद् आसीद् द्विजद्रोग्धा__व्ध_069.002
पिशुनः क्षत्रियाधमः__व्ध_069.002
परपीडारुचिर् दुष्टः__व्ध_069.002
स्वभावाद् एव निर्घृणः__व्ध_069.002
परिभूताः सदा तेन__व्ध_069.003
पितृदेवद्विजातयः__व्ध_069.003
परदारेषु चैवास्य__व्ध_069.003
बभूवाभिरतं मनः__व्ध_069.003
स त्व् आयुषि परिक्षीणे__व्ध_069.004
जज्ञे घोरो निशाचरः__व्ध_069.004
तेन वै कर्मदोषेण__व्ध_069.004
स्वेन पापकृतां वरः__व्ध_069.004
क्रूरैर् एव ततो वृत्तिं__व्ध_069.005
राक्षसत्वे विशेषतः__व्ध_069.005
चकार कर्मभिः पापः__व्ध_069.005
सर्वप्राणिविहिंसकः__व्ध_069.005
तस्य पापरतस्यैवं__व्ध_069.006
जग्मुर् वर्षशतानि वै__व्ध_069.006
तेन वै कर्मदोषेण__व्ध_069.006
नान्या वृत्तिर् अरोचत__व्ध_069.006
यद् यत् पश्यति सत्त्वं स__व्ध_069.007
तत् तद् आदाय राक्षसः__व्ध_069.007
चखाद पुरुषव्याघ्र__व्ध_069.007
बाहुगोचरम् आगतम्__व्ध_069.007
एवं तस्यातिदुष्टस्य__व्ध_069.008
कुर्वतः प्राणिनां वधम्__व्ध_069.008
जगाम सुमहान् कालः__व्ध_069.008
परिणामं तथा वयः__व्ध_069.008
स ददर्श तपस्यन्तं__व्ध_069.009
तापसं संश्रितव्रतम्__व्ध_069.009
ऊर्ध्वबाहुं महाभागं__व्ध_069.009
कृतरक्षं समन्ततः__व्ध_069.009
तं दृष्ट्वा स तु दुर्बुद्धिर्__व्ध_069.010
ब्राह्मणं राक्षसाधमः__व्ध_069.010

समभ्यधावद् वेगेन__व्ध_069.010
समादातुं चिखादिषुः__व्ध_069.010
तेन रक्षा च या दिक्षु__व्ध_069.011
ब्राह्मणेनाभवत् कृता__व्ध_069.011
तया निरस्तं तद् रक्षो__व्ध_069.011
निपपाताविदूरतः__व्ध_069.011
भगवन् कीदृशीं रक्षां__व्ध_069.012
स चकार द्विजोत्तमः__व्ध_069.012
यया निर्धूतवीर्यो ऽसौ__व्ध_069.012
निरस्तो रजनीचरः__व्ध_069.012
एकाग्रचित्तो गोविन्दे__व्ध_069.013
तज् जपंस् तत्परायणः__व्ध_069.013
तपश् चचार विप्रो ऽसौ__व्ध_069.013
प्रविष्टो विष्णुपञ्जरम्__व्ध_069.013
विष्णुपञ्जरम् इच्छामि__व्ध_069.014
श्रोतुं धर्मभृतां वर__व्ध_069.014
सदा सर्वभयेभ्यस् तु__व्ध_069.014
रक्षा या परमाभवत्__व्ध_069.014
त्रिपुरं जघ्नुषः पूर्वं__व्ध_069.015
ब्रह्मणा विष्णुपञ्जरः__व्ध_069.015
शंकरस्य कुरुश्रेष्ठ__व्ध_069.015
रक्षणाय निरूपितः__व्ध_069.015
वागीशेन तु शक्रस्य__व्ध_069.016
बलं हन्तुं प्रयास्यतः__व्ध_069.016
तस्य रूपं प्रवक्ष्यामि__व्ध_069.016
तन् निबोध महीपते__व्ध_069.016
विष्णुः प्राच्यां स्थितश् चक्री__व्ध_069.017
विष्णुर् दक्षिणतो गदी__व्ध_069.017
प्रतीच्यां शार्ङ्गधृग् विष्णुर्__व्ध_069.017
विष्णुः खड्गी ममोत्तरे__व्ध_069.017
हृषीकेशो विकोणेषु__व्ध_069.018
तच्छिद्रेषु जनार्दनः__व्ध_069.018
क्रोडरूपी हरिर् भूमौ__व्ध_069.018
नरसिंहो ऽम्बरे मम__व्ध_069.018
क्षुरान्तम् अमलं चक्रं__व्ध_069.019
भ्रमत्य् एतत् सुदर्शनम्__व्ध_069.019
अस्यांशुमाला दुःप्रेक्षा__व्ध_069.019
हन्तु प्रेतनिशाचरान्__व्ध_069.019
गदा चेयं सहस्रार्चिर्__व्ध_069.020
उद्वमत्पावकोल्वणा__व्ध_069.020

रक्षोभूतपिशाचानां__व्ध_069.020
डाकिणीनां च नाशनी__व्ध_069.020
शार्ङ्गविस्फूर्जितं चैव__व्ध_069.021
वासुदेवस्य मद्रिपून्__व्ध_069.021
तिर्यङ्मनुष्यकूष्माण्ड-__व्ध_069.021
प्रेतादीन् हन्त्व् अशेषतः__व्ध_069.021
खड्गधाराज्वलज्ज्योत्स्ना-__व्ध_069.022
निर्धूता ये समाहताः__व्ध_069.022
ते यान्तु सौम्यतं सद्यो__व्ध_069.022
गरुडेनेव पन्नगाः__व्ध_069.022
ये कूष्माण्डास् तथा यक्षा__व्ध_069.023
ये दैत्या ये निशाचराः__व्ध_069.023
प्रेता विनायकाः क्रूरा__व्ध_069.023
मनुष्या जम्भकाः खगाः__व्ध_069.023
सिंहादयो ये पशवो__व्ध_069.024
दन्दसूकाश् च पन्नगाः__व्ध_069.024
सर्वे भवन्तु ते सौम्याः__व्ध_069.024
कृष्णशङ्खरवाहताः__व्ध_069.024
चित्तवृत्तिहरा ये मे__व्ध_069.025
ये जनाः स्मृतिहारकाः__व्ध_069.025
बलौजसां च हर्तारश्__व्ध_069.025
छायाविभ्रंशकाश् च ये__व्ध_069.025
ये चोपभोगहर्तारो__व्ध_069.026
ये च लक्षणनाशकाः__व्ध_069.026
कूष्माण्डास् ते प्रणश्यन्तु__व्ध_069.026
विष्णुचक्ररयाहताः__व्ध_069.026
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं__व्ध_069.027
स्वास्थ्यम् ऐन्द्रियकं तथा__व्ध_069.027
ममास्तु देवदेवस्य__व्ध_069.027
वासुदेवस्य कीर्तनात्__व्ध_069.027
पृष्ठे पुरस्तान् मम दक्षिणोत्तरे__व्ध_069.028
विकोणगश् चास्तु जनार्दनो हरिः__व्ध_069.028
तद् ईड्यम् ईशानम् अनन्तम् ईश्वरं__व्ध_069.028
जनार्दनं प्रणिपतितो न सीदति__व्ध_069.028
यथा परं ब्रह्म हरिस् तथा परं__व्ध_069.029
जगत्स्वरूपश् च स एव केशवः__व्ध_069.029
ऋतेन तेनाच्युतनामकीर्तनात्__व्ध_069.029
प्रणाशम् एतु त्रिविधं ममाशुभम्__व्ध_069.029
इत्य् असाव् आत्मरक्षार्थं__व्ध_070.001
न्यस्तवान् विष्णुपञ्जरम्__व्ध_070.001

तेनासाध्यः स दुष्टानां__व्ध_070.001
बभूव नृप रक्षसाम्__व्ध_070.001
एतयारक्षया रक्षो__व्ध_070.002
निर्धूतं भुवि पातितम्__व्ध_070.002
जप्यावसाने विप्रो ऽसौ__व्ध_070.002
ददर्श विगतौजसम्__व्ध_070.002
दृष्ट्वा च कृपयाविष्टः__व्ध_070.003
समाश्वास्य निशाचरम्__व्ध_070.003
पप्रच्छागमने हेतुं__व्ध_070.003
तं चाचष्ट यथातथम्__व्ध_070.003
कथयित्वा च तत् सर्वं__व्ध_070.003
राक्षसः पुनर् अब्रवीत्__व्ध_070.003
प्रसीद विप्रवर्य त्वं__व्ध_070.004
निर्विण्णस्यातिपापिनः__व्ध_070.004
पापप्रशमनायालम्__व्ध_070.004
उपदेशं प्रयच्छ मे__व्ध_070.004
बहूनि पापानि मया__व्ध_070.005
कृतानि बहवो हताः__व्ध_070.005
कृताः स्त्रियश् च मे बह्व्यो__व्ध_070.005
विधवा हतपुत्रिकाः__व्ध_070.005
अनागसां च सत्त्वानाम्__व्ध_070.005
अनेकानां क्षयः कृतः__व्ध_070.005
सो ऽहम् इच्छामि विप्रर्षे__व्ध_070.006
प्रसादात् तव सुव्रत__व्ध_070.006
पापस्यास्य क्षयं कर्तुं__व्ध_070.006
कुरु मे धर्मदेशनाम्__व्ध_070.006
कथं क्रूरस्वभावस्य__व्ध_070.007
सतस् तव निशाचर__व्ध_070.007
सहसैव समायाता__व्ध_070.007
जिज्ञासा धर्मवर्त्मनि__व्ध_070.007
त्वाम् अत्तुम् आगतः क्षिप्तो__व्ध_070.008
रक्षया कृतया त्वया__व्ध_070.008
तत्संस्पर्शाच् च मे ब्रह्मन्__व्ध_070.008
साध्व् एतन् मनसि स्थितम्__व्ध_070.008
का सा रक्षा न तां वेद्मि__व्ध_070.009
वेद्मि नास्याः परायणम्__व्ध_070.009
किंत्व् अस्याः संगम् आसाद्य__व्ध_070.009
निर्वेदं प्रापितं परम्__व्ध_070.009
स कृपां कुरु धर्मज्ञ__व्ध_070.010
मय्य् अनुक्रोशम् आवह__व्ध_070.010

यथा पापापनोदो मे__व्ध_070.010
भवत्य् आर्य तथा कुरु__व्ध_070.010
इत्य् एवम् उक्तः स मुनिः__व्ध_070.011
सदयस् तेन रक्षसा__व्ध_070.011
प्रत्युवाच महाभाग__व्ध_070.011
विमृश्य सुचिरं तदा__व्ध_070.011
यत् त्वम् आत्थोपदेशार्थं__व्ध_070.012
निर्विण्णः स्वेन कर्मणा__व्ध_070.012
युक्तम् एतन् न पापानां__व्ध_070.012
निवृत्तेर् उपकारकम्__व्ध_070.012
करिष्ये यातुधानानां__व्ध_070.013
न त्व् अहं धर्मदेशनाम्__व्ध_070.013
तांस् त्वं पृच्छ द्विजान् सौम्य__व्ध_070.013
ये वै प्रवचने रताः__व्ध_070.013
एवम् उक्त्वा ययौ विप्रश्__व्ध_070.014
चिन्ताम् आप च राक्षसः__व्ध_070.014
कथं पापापनोदः स्याद्__व्ध_070.014
इत्य् असौ व्याकुलेन्द्रियः__व्ध_070.014
न तदा खादते सत्त्वान्__व्ध_070.015
क्षुधा संपीडितो ऽपि सन्__व्ध_070.015
षष्ठे षष्ठे तदा काले__व्ध_070.015
जन्तुम् एकम् अभक्षयत्__व्ध_070.015
स कदाचित् क्षुधाविष्टः__व्ध_070.016
पर्यटन् विपिने वने__व्ध_070.016
ददर्शाथ फलाहारम्__व्ध_070.016
अग्रतः कौशिकं द्विजम्__व्ध_070.016
तं जग्राह च भक्षार्थं__व्ध_070.017
षष्ठे काले बुभुक्षितः__व्ध_070.017
गुरोर् अर्थे फलाहारम्__व्ध_070.017
आगतं ब्रह्मचारिणम्__व्ध_070.017
गृहीतो रक्षसा तेन__व्ध_070.018
स तदा मुनिदारकः__व्ध_070.018
निराशो जीविते प्राह__व्ध_070.018
सामपूर्वं निशाचरम्__व्ध_070.018
भो भद्रमुख यत्कार्यं__व्ध_070.019
गृहीतो ऽहम् इह त्वया__व्ध_070.019
तद् ब्रवीहि यथातत्त्वम्__व्ध_070.019
अयम् अस्म्य् अनुशाधि माम्__व्ध_070.019
षष्ठे काले ममाहारः__व्ध_070.020
क्षुधितस्य त्वम् आगतः__व्ध_070.020

निःशूकस्यातिपापस्य__व्ध_070.020
निर्घृणस्य द्विजद्रुहः__व्ध_070.020
यद्य् अवश्यं त्वयाध्याहं__व्ध_070.021
भक्षणीयो निशाचर__व्ध_070.021
आयास्यामि तद् अद्यैव__व्ध_070.021
निवेद्य गुरवे फलम्__व्ध_070.021
गुरुमूले तद् आगत्य__व्ध_070.022
यत् फलग्रहणं कृतम्__व्ध_070.022
ममात्र निष्ठां प्राप्तस्य__व्ध_070.022
तत् पापाय निवेदितम्__व्ध_070.022
स त्वं मुहूर्तमात्रं माम्__व्ध_070.023
अत्रैव प्रतिपालय__व्ध_070.023
निवेद्य गुरवे यावद्__व्ध_070.023
इहागच्छाम्य् अहं फलम्__व्ध_070.023
षष्ठे काले न मे ब्रह्मन्__व्ध_070.024
कश्चिद् ग्रहणम् आगतः__व्ध_070.024
प्रमुच्यते निबोधैतद्__व्ध_070.024
इति मे पापजीविकाम्__व्ध_070.024
एक एवात्र मोक्षस्य__व्ध_070.025
तव हेतुः शृणुष्व तम्__व्ध_070.025
मुञ्चाम्य् अहम् असंदिग्धं__व्ध_070.025
यदि तत् कुरुते भवान्__व्ध_070.025
गुरोर् यन् न विरोधाय__व्ध_070.026
यन् न धर्मोपरोधकम्__व्ध_070.026
तत् करिष्याम्य् अहं रक्षो__व्ध_070.026
यन् न व्रतहरं मम__व्ध_070.026
मया निसर्गतो ब्रह्मञ्__व्ध_070.027
जातिदोषाद् विशेषतः__व्ध_070.027
निर्विवेकेन पापेन__व्ध_070.027
पापं कर्म सदा कृतम्__व्ध_070.027
आ बाल्यान् मम पापेषु__व्ध_070.028
न पुण्येषु रतं मनः__व्ध_070.028
तत्पापसंचयान् मोक्षं__व्ध_070.028
प्राप्नुयां येन तद् वद__व्ध_070.028
यानि पापानि कर्माणि__व्ध_070.029
बालत्वाच् चरितानि मे__व्ध_070.029
दुष्टां योनिम् इमां प्राप्य__व्ध_070.029
तन्मुक्तिं कथय द्विज__व्ध_070.029
यद्य् एतद् द्विजपुत्र त्वं__व्ध_070.030
ममाख्यास्यस्य् अशेषतः__व्ध_070.030

तत् क्षुधार्तात् समार्तस् त्वं__व्ध_070.030
नियतं मोक्षम् आप्स्यसि__व्ध_070.030
न चैतत् पापशीलो ऽहम्__व्ध_070.031
अद्य त्वां क्षुत्पिपासितः__व्ध_070.031
षष्ठे काले नृशंसात्मा__व्ध_070.031
भक्षयिष्यामि निर्घृणः__व्ध_070.031
एवम् उक्तो मुनिसुतस्__व्ध_070.032
तेन घोरेण रक्षसा__व्ध_070.032
चिन्ताम् अवाप महतीम्__व्ध_070.032
अशक्तस् तद् उदीरितुम्__व्ध_070.032
विमृश्य सुचिरं विप्रः__व्ध_070.033
शरणं जातवेदसम्__व्ध_070.033
जगाम ज्ञानदानाय__व्ध_070.033
संशयं परमं गतः__व्ध_070.033
यदि शुश्रूषितो वह्निर्__व्ध_070.034
गुरोः शुश्रूषणाद् अनु__व्ध_070.034
व्रतानि वा सुचीर्णानि__व्ध_070.034
सप्तार्चिः पातु मां ततः__व्ध_070.034
न मातरं न पितरं__व्ध_070.035
गौरवेण यथा गुरुम्__व्ध_070.035
यथाहम् अवगच्छामि__व्ध_070.035
तथा मां पातु पावकः__व्ध_070.035
यथा गुरुं न मनसा__व्ध_070.036
कर्मणा वचसापि वा__व्ध_070.036
अवजानाम्य् अहं तेन__व्ध_070.036
पातु सत्येन पावकः__व्ध_070.036
इत्य् एवं शपथान् सत्यान्__व्ध_070.037
कुर्वतस् तस्य तत् पुनः__व्ध_070.037
सप्तार्चिषा समादिष्टा__व्ध_070.037
प्रादुरासीत् सरस्वती__व्ध_070.037
सा चोवाच द्विजसुतं__व्ध_070.037
राक्षसग्रहणाकुलम्__व्ध_070.037
मा भैर् द्विजसुताहं त्वां__व्ध_070.038
मोक्षयाम्य् अतिसंकटात्__व्ध_070.038
यद् अस्य रक्षसः श्रेयो__व्ध_070.039
जिह्वाग्रे ऽहं स्थिता तव__व्ध_070.039
तत् सर्वं कथयिष्यामि__व्ध_070.039
ततो मोक्षम् अवाप्स्यसि__व्ध_070.039
अदृश्या रक्षसा तेन__व्ध_070.040
प्रोक्त्वेत्थं तं सरस्वती__व्ध_070.040

अदर्शनम् इता सो ऽपि__व्ध_070.040
द्विजः प्राह निशाचरम्__व्ध_070.040
श्रूयतां तव यच् छ्रेयस्__व्ध_070.041
तथान्येषां च पापिनाम्__व्ध_070.041
समस्तपापशुद्ध्यर्थं__व्ध_070.041
पुण्योपचयदं च यत्__व्ध_070.041
प्रातर् उत्थाय सततं__व्ध_070.042
मध्याह्ने ऽह्नः क्षये ऽपि वा__व्ध_070.042
अयं शस्तः सदा जापः__व्ध_070.042
सर्वपापोपशान्तिदः__व्ध_070.042
हरिं कृष्णं हृषीकेशं__व्ध_070.043
वासुदेवं जनार्दनम्__व्ध_070.043
प्रणतो ऽस्मि जगन्नाथं__व्ध_070.043
स मे पापं व्यपोहतु__व्ध_070.043
विश्वेश्वरम् अजं विष्णुम्__व्ध_070.044
अप्रमेयपराक्रमम्__व्ध_070.044
प्रणतो ऽस्मि प्रजापालं__व्ध_070.044
स मे पापं व्यपोहतु__व्ध_070.044
विष्णुम् अच्युतम् ईशानम्__व्ध_070.045
अनन्तम् अपराजितम्__व्ध_070.045
प्रणतो ऽस्मि महात्मानं__व्ध_070.045
स मे पापं व्यपोहतु__व्ध_070.045
चराचरगुरुं नाथं__व्ध_070.046
गोविन्दं शेषशायिनम्__व्ध_070.046
प्रणतो ऽस्मि परं देवं__व्ध_070.046
स मे पापं व्यपोहतु__व्ध_070.046
गोवर्धनधरं धीरं__व्ध_070.047
गोब्राह्मणहिते स्थितम्__व्ध_070.047
प्रणतो ऽस्मि गदापाणिं__व्ध_070.047
स मे पापं व्यपोहतु__व्ध_070.047
शङ्खिनं चक्रिणं शान्तं__व्ध_070.048
शार्ङ्गिणं स्रग्धरं परम्__व्ध_070.048
प्रणतो ऽस्मि पतिं लक्ष्म्याः__व्ध_070.048
स मे पापं व्यपोहतु__व्ध_070.048
दामोदरम् उदाराक्षं__व्ध_070.049
पुण्डरीकाक्षम् अव्ययम्__व्ध_070.049
प्रणतो ऽस्मि स्तुतं स्तुत्यैः__व्ध_070.049
स मे पापं व्यपोहतु__व्ध_070.049
नारायणं नरं शौरिं__व्ध_070.050
माधवं मधुसूदनम्__व्ध_070.050

प्रणतो ऽस्मि धराधारं__व्ध_070.050
स मे पापं व्यपोहतु__व्ध_070.050
केशवं केशिहन्तारं__व्ध_070.051
कंसारिष्टनिसूदनम्__व्ध_070.051
प्रणतो ऽस्मि चतुर्बाहुं__व्ध_070.051
स मे पापं व्यपोहतु__व्ध_070.051
श्रीवत्सवक्षसं श्रीशं__व्ध_070.052
श्रीधरं श्रीनिकेतनम्__व्ध_070.052
प्रणतो ऽस्मि श्रियः कान्तं__व्ध_070.052
स मे पापं व्यपोहतु__व्ध_070.052
यम् ईशं सर्वभूतानां__व्ध_070.053
ध्यायन्ति यतयो ऽक्षरम्__व्ध_070.053
वासुदेवम् अनिर्देश्यं__व्ध_070.053
तम् अस्मि शरणं गतः__व्ध_070.053
समस्तालम्बनेभ्यो ऽयं__व्ध_070.054
संहृत्य मनसो गतिम्__व्ध_070.054
ध्यायन्ति वासुदेवाख्यं__व्ध_070.054
तम् अस्मि शरणं गतः__व्ध_070.054
सर्वगं सर्वभूतं च__व्ध_070.055
सर्वस्याधातम् ईश्वरम्__व्ध_070.055
वासुदेवं परं ब्रह्म__व्ध_070.055
तम् अस्मि शरणं गतः__व्ध_070.055
परमात्मानम् अव्यक्तं__व्ध_070.056
यं प्रयान्ति सुमेधसः__व्ध_070.056
कर्मक्षये ऽक्षयं देवं__व्ध_070.056
तम् अस्मि शरणं गतः__व्ध_070.056
पुण्यपापविनिर्मुक्ता__व्ध_070.057
यं प्रविश्य पुनर्भवम्__व्ध_070.057
न योगिनः प्राप्नुवन्ति__व्ध_070.057
तम् अस्मि शरणं गतः__व्ध_070.057
ब्रह्मा भूत्वा जगत् सर्वं__व्ध_070.058
सदेवासुरमानुषम्__व्ध_070.058
यः सृजत्य् अच्युतो देवस्__व्ध_070.058
तम् अस्मि शरणं गतः__व्ध_070.058
ब्रह्मत्वे यस्य वक्त्रेभ्यश्__व्ध_070.059
चतुर्वेदमयं वपुः__व्ध_070.059
सूतं प्रभो पुरा जज्ञे__व्ध_070.059
तम् अस्मि शरणं गतः__व्ध_070.059
ब्रह्मरूपधरं देवं__व्ध_070.060
जगद्योनिं जनार्दनम्__व्ध_070.060

स्रष्टृत्वे संस्थितं सृष्टौ__व्ध_070.060
प्रणतो ऽस्मि सनातनम्__व्ध_070.060
यः पाति सृष्टं च विभुः__व्ध_070.061
स्थिताव् असुरसूदनः__व्ध_070.061
तम् आदिपुरुषं विष्णुं__व्ध_070.061
प्रणतो ऽस्मि सनातनम्__व्ध_070.061
धृता मही हता दैत्याः__व्ध_070.062
परित्रातास् तथामराः__व्ध_070.062
येन तं विष्णुम् आद्येशं__व्ध_070.062
प्रणतो ऽस्मि सनातनम्__व्ध_070.062
यज्ञैर् यजन्ति यं विप्रा__व्ध_070.063
यज्ञेशं यज्ञभावनम्__व्ध_070.063
तं यज्ञपुरुषं विष्णुं__व्ध_070.063
प्रणतो ऽस्मि सनातनम्__व्ध_070.063
वर्णाश्रमान् स्थिताव् आद्यो__व्ध_070.064
यः स्थापयति वर्त्मनि__व्ध_070.064
तम् आदिपुरुषं विष्णुं__व्ध_070.064
प्रणतो ऽस्मि सनातनम्__व्ध_070.064
कल्पान्ते रुद्ररूपो यः__व्ध_070.065
संहरत्य् अखिलं जगत्__व्ध_070.065
तम् आदिपुरुषं विष्णुं__व्ध_070.065
प्रणतो ऽस्मि जनार्दनम्__व्ध_070.065
पातालवीथीभूरादींस्__व्ध_070.066
तथा लोकान् बिभर्ति यः__व्ध_070.066
तम् अन्तपुरुषं विष्णुं__व्ध_070.066
प्रणतो ऽस्मि जनार्दनम्__व्ध_070.066
संभक्षयित्वा सकलं__व्ध_070.067
यथा सृष्टम् इदं जगत्__व्ध_070.067
यो नृत्यत्य् अतिरौद्रात्मा__व्ध_070.067
प्रणतो ऽस्मि जनार्दनम्__व्ध_070.067
सुरासुराः पितृगणा__व्ध_070.068
यक्षगन्धर्वराक्षसाः__व्ध_070.068
यस्यांशभूता देवस्य__व्ध_070.068
सर्वगं तं नमाम्य् अहम्__व्ध_070.068
समस्तदेवाः सकला__व्ध_070.069
मानुषाणां च जातयः__व्ध_070.069
यस्यांशभूता देवस्य__व्ध_070.069
सर्वगं तं नमाम्य् अहम्__व्ध_070.069
वृक्षगुल्मादयो यस्य__व्ध_070.070
तथा पशुमृगादयः__व्ध_070.070

एकांशभूता देवस्य__व्ध_070.070
सर्वगं तं नमाम्य् अहम्__व्ध_070.070
यस्मान् नान्यत् परं किंचिद्__व्ध_070.071
यस्मिन् सर्वं महात्मनि__व्ध_070.071
यः सर्वम् अव्ययो ऽनन्तः__व्ध_070.071
सर्वगं तं नमाम्य् अहम्__व्ध_070.071
यथा सर्वेषु भूतेषु__व्ध_070.072
स्थावरेषु चरेषु च__व्ध_070.072
विष्णुर् एव तथा पापं__व्ध_070.072
ममाशेषं प्रणश्यतु__व्ध_070.072
यथा विष्णुमयं सर्वं__व्ध_070.073
यत् सर्वेन्द्रियगोचरम्__व्ध_070.073
यच् च ज्ञानपरिच्छेद्यं__व्ध_070.073
पापं नश्यतु मे तथा__व्ध_070.073
प्रवृत्तं च निवृत्तं च__व्ध_070.074
कर्म विष्णुमयं यथा__व्ध_070.074
अनेकजन्मकर्मोत्थं__व्ध_070.074
पापं नश्यतु मे तथा__व्ध_070.074
यन् निशायां तथा प्रातर्__व्ध_070.075
यच् च मध्यापराह्णयोः__व्ध_070.075
संध्ययोश् च कृतं पापं__व्ध_070.075
कर्मणा मनसा गिरा__व्ध_070.075
तिष्ठता व्रजता यच् च__व्ध_070.076
शय्यासनगतेन च__व्ध_070.076
कृतं यद् अशुभं कर्म__व्ध_070.076
कायेन मनसा गिरा__व्ध_070.076
अज्ञानतो ज्ञानतो वा__व्ध_070.077
वासुदेवस्य कीर्तनात्__व्ध_070.077
तत् सर्वं विलयं यातु__व्ध_070.077
तोयस्थं लवणं यथा__व्ध_070.077
परदारपरद्रव्य-__व्ध_070.078
वाञ्छाद्रोहोद्भवं च यत्__व्ध_070.078
परिपीडोद्भवं निन्दां__व्ध_070.078
कुर्वतो यन् महात्मनाम्__व्ध_070.078
यच् च भोज्ये तथा पेये__व्ध_070.079
यच् च कण्डूयनादिषु__व्ध_070.079
तद् यातु विलयं तोये__व्ध_070.079
यथा लवणभाजनम्__व्ध_070.079
यद् बाल्ये यच् च कौमारे__व्ध_070.080
यत् पापं यौवने मम__व्ध_070.080

वयःपरिणतौ यच् च__व्ध_070.080
यच् च जन्मान्तरेषु मे__व्ध_070.080
तन् नारायणगोविन्द-__व्ध_070.081
हरिकृष्णेशकीर्तनात्__व्ध_070.081
प्रयातु विलयं तोये__व्ध_070.081
यथा लवणभाजनम्__व्ध_070.081
विष्णवे वासुदेवाय__व्ध_070.082
हरये केशवाय च__व्ध_070.082
जनार्दनाय कृष्णाय__व्ध_070.082
नमो भूयो नमो नमः__व्ध_070.082
इदं सारस्वतं स्तोत्रम्__व्ध_070.083
अशेषाघविनाशनम्__व्ध_070.083
पठतां शृण्वतां चैव__व्ध_070.083
सर्वपापविनाशनम्__व्ध_070.083
इदं यः प्रातर् उत्थाय__व्ध_070.084
प्रणिपत्य जनार्दनम्__व्ध_070.084
जपत्य् एकमनाः पापं__व्ध_070.084
समस्तं स व्यपोहति__व्ध_070.084
यस् तु संवत्सरं पूर्णं__व्ध_070.085
सायं प्रातः समाहितः__व्ध_070.085
जपत्य् एतन् नरः पुण्यं__व्ध_070.085
कृत्वा मनसि केशवम्__व्ध_070.085
शारीरं मानसं वाग्जं__व्ध_070.086
ज्ञानतो ऽज्ञानतो ऽपि वा__व्ध_070.086
कृतं तेन तु यत् पापं__व्ध_070.086
सप्त जन्मान्तराणि वै__व्ध_070.086
महापातकम् अल्पं वा__व्ध_070.087
तथा यच् चोपपातकम्__व्ध_070.087
सकलं नाशयत्य् एतत्__व्ध_070.087
तथान्यत् पुण्यम् ऋच्छति__व्ध_070.087
विप्राय सुविशिष्टाय__व्ध_070.088
तिलपात्राणि षोडश__व्ध_070.088
अहन्य् अहनि यो दद्यात्__व्ध_070.088
पठत्य् एतच् च तत् समम्__व्ध_070.088
अविप्लुतमतिश् चान्ते__व्ध_070.089
संप्राप्य स्मरणं हरेः__व्ध_070.089
विष्णुलोकम् अवाप्नोति__व्ध_070.089
सत्यम् एतन् मयोदितम्__व्ध_070.089
यथैनं पठति नित्यं__व्ध_070.*(114)
स्तवं सारस्वतं पुमान्__व्ध_070.*(114)

अपि पापसमायुक्तो__व्ध_070.*(114)
मोक्षं प्राप्नोत्य् असाव् अपि__व्ध_070.*(114)
यथैतत् सत्यम् उक्तं मे__व्ध_070.090
नात्राल्पम् अपि वै मृषा__व्ध_070.090
राक्षसग्रस्तसर्वाङ्गं__व्ध_070.090
तथा माम् एष मुञ्चतु__व्ध_070.090
एवम् उच्चारिते मुक्तः__व्ध_070.091
स तदा तेन रक्षसा__व्ध_070.091
अकामेन द्विजो भूयस्__व्ध_070.091
तम् आह रजनीचरम्__व्ध_070.091
एतद् भद्रमुखाख्यातं__व्ध_070.092
तव पातकनाशनम्__व्ध_070.092
विष्णोः सारस्वतं स्तोत्रं__व्ध_070.092
यज् जगाद सरस्वती__व्ध_070.092
हुताशनेन प्रहिता__व्ध_070.093
मम जिह्वाग्रसंस्थिता__व्ध_070.093
जगादेमं स्तवं विष्णोः__व्ध_070.093
सर्वपापप्रशान्तिदम्__व्ध_070.093
अनेनैव जगन्नाथं__व्ध_070.094
त्वम् आराधय केशवम्__व्ध_070.094
ततः पापापनोदं तु__व्ध_070.094
स्तुते प्राप्स्यसि केशवे__व्ध_070.094
अहर्निशं हृषीकेशं__व्ध_070.095
स्तवेनानेन राक्षस__व्ध_070.095
स्तौहि भक्तिं परां कृत्वा__व्ध_070.095
ततः पापाद् विमोक्ष्यसे__व्ध_070.095
स्तुतो हि सर्वपापानि__व्ध_070.096
नाशयिष्यत्य् असंशयम्__व्ध_070.096
भक्त्या राक्षसशार्दूल__व्ध_070.096
सर्वपापहरो हरिः__व्ध_070.096
ततः प्रणम्य तं विप्रं__व्ध_070.097
प्रसाद्य च निशाचरः__व्ध_070.097
शालग्रामं महाराज__व्ध_070.097
तदैव तपसे ययौ__व्ध_070.097
तत्राहर्निशम् एवैतज्__व्ध_070.098
जपञ् जप्यं नराधिप__व्ध_070.098
देवक्रियारतिर् भूत्वा__व्ध_070.098
तपस् तेपे स राक्षसः__व्ध_070.098
आराध्य च जगन्नाथं__व्ध_070.099
स तत्र पुरुषोत्तमम्__व्ध_070.099

सर्वपापविनिर्मुक्तो__व्ध_070.099
विष्णुलोकम् अवाप्तवान्__व्ध_070.099
तथा त्वम् अपि राजर्षे__व्ध_070.100
सर्वपापप्रशान्तिदम्__व्ध_070.100
आराधय हृषीकेशं__व्ध_070.100
जपन् सारस्वतं स्तवम्__व्ध_070.100
य एतत् परमं स्तोत्रं__व्ध_070.101
वासुदेवस्य मानवः__व्ध_070.101
पठिष्यति स सर्वेभ्यः__व्ध_070.101
पापेभ्यो मोक्षम् आप्स्यति__व्ध_070.101
ब्रह्मन्न् असारे संसारे__व्ध_071.001
रोगादिव्याप्तमानसः__व्ध_071.001
शब्दादिलुब्धः पुरुषः__व्ध_071.001
किं कुर्वन् नावसीदति__व्ध_071.001
स्वे महिम्नि स्थितं देवम्__व्ध_071.002
अप्रमेयम् अजं विभुम्__व्ध_071.002
शोकमोहविनिर्मुक्तं__व्ध_071.002
विष्णुं ध्यायन् न सीदति__व्ध_071.002
अप्राणचितिकं ब्रह्म__व्ध_071.003
वेदान्तेषु प्रकाशितम्__व्ध_071.003
आद्यं पुरुषम् ईशानं__व्ध_071.003
विष्णुं ध्यायन् न सीदति__व्ध_071.003
अशनाद्यैर् असंस्पृष्टं__व्ध_071.004
सेवितं योगिभिः सदा__व्ध_071.004
सर्वदोषविनिर्मुक्तं__व्ध_071.004
विष्णुं ध्यायन् न सीदति__व्ध_071.004
धामत्रयविनिर्मुक्तं__व्ध_071.005
सुप्रभातं सुनिर्मलम्__व्ध_071.005
निष्कलं शाश्वतं देवं__व्ध_071.005
विष्णुं ध्यायन् न सीदति__व्ध_071.005
क्षराक्षरविनिर्मुक्तं__व्ध_071.006
जन्ममृत्युविवर्जितम्__व्ध_071.006
अभयं सत्यसंकल्पं__व्ध_071.006
विष्णुं ध्यायन् न सीदति__व्ध_071.006
अमृतं साधनं साध्यं__व्ध_071.007
यं पश्यन्ति मनीषिणः__व्ध_071.007
ज्ञेयाख्यं परमात्मानं__व्ध_071.007
विष्णुं ध्यायन् न सीदति__व्ध_071.007
अतुलं सुखधर्माणं__व्ध_071.008,*(115)
व्योमदेहं सनातनम्__व्ध_071.008,*(115)

धर्माधर्मविनिर्मुक्तं__व्ध_071.008,*(115)
विष्णुं ध्यायन् न सीदति__व्ध_071.008,*(115)
व्यासाद्यैर् मुनिभिः सर्वैर्__व्ध_071.009
ध्यानयोगपरायणैः__व्ध_071.009
अर्चितं भावकुसुमैर्__व्ध_071.009
विष्णुं ध्यायन् न सीदति__व्ध_071.009
विष्ण्वष्टकम् इदं पुण्यं__व्ध_071.010
योगिनां प्रीतिवर्धनम्__व्ध_071.010
यः पठेत् परया प्रीत्या__व्ध_071.010
स गच्छेद् विष्णुसात्म्यताम्__व्ध_071.010
एतत् पुण्यं पापहरं__व्ध_071.011
धन्यं दुःस्वप्ननाशनम्__व्ध_071.011
पठतां शृण्वतां चैव__व्ध_071.011
विष्णोर् माहात्म्यम् उत्तमम्__व्ध_071.011
कुर्वन् भक्तिं हृषीकेशे__व्ध_072.001
मानवो भृगुनन्दन__व्ध_072.001
निर्वाणं समवाप्नोति__व्ध_072.001
यादृशं तद् वदस्व मे__व्ध_072.001
दृश्यन्ते पुरुषा भक्तिम्__व्ध_072.002
उद्वहन्तो जनार्दने__व्ध_072.002
तथाप्य् अनेकदेहार्ति-__व्ध_072.002
मनस्तापातुरा मुने__व्ध_072.002
स्मृतमात्रः सुरेन्द्रस्य__व्ध_072.003
यो ऽर्तिहा मधुसूदनः__व्ध_072.003
तस्यापि कर्माभिरता__व्ध_072.003
दुःखभाजः कथं नराः__व्ध_072.003
कैश् च दानैर् जगत्स्वामी__व्ध_072.004
स्वामी नारायणो नृणाम्__व्ध_072.004
उपकाराय भक्तानां__व्ध_072.004
जायते स महामुने__व्ध_072.004
त्वद्युक्तो ऽयम् अनुप्रश्नो__व्ध_072.005
महाराज शृणुष्व तम्__व्ध_072.005
यथा पृष्टम् इदं सम्यक्__व्ध_072.005
कथ्यमानं यथाखिलम्__व्ध_072.005
पृथिवीं रत्नसंपूर्णां__व्ध_072.006
यः कृष्णाय प्रयच्छति__व्ध_072.006
तस्याप्य् अन्यमनस्कस्य__व्ध_072.006
सुलभो न जनार्दनः__व्ध_072.006
नाराध्यते ऽच्युतो दानैर्__व्ध_072.007
न होमैर् भाववर्जितैः__व्ध_072.007

ऐकात्म्यं पुरुषैर् याति__व्ध_072.007
तन्मयैर् एव माधवः__व्ध_072.007
श्रूयते च पुराख्यातो__व्ध_072.008
राजोपरिचरो वसुः__व्ध_072.008
इयाज सुबहून् यज्ञाञ्__व्ध_072.008
श्रद्धापूतेन चेतसा__व्ध_072.008
स विप्रशापाद् राजर्षिः__व्ध_072.009
कस्मिंश्चित् कारणान्तरे__व्ध_072.009
आकाशचारी सहसा__व्ध_072.009
प्रविवेश रसातलम्__व्ध_072.009
रसातलम् अनुप्राप्तस्__व्ध_072.010
तथापि जगतः प्रभुम्__व्ध_072.010
तुष्टाव तन्मयो भूत्वा__व्ध_072.010
दिव्यैर् मन्त्रैर् जनार्दनम्__व्ध_072.010
देवानाम् एष यज्ञांशैर्__व्ध_072.011
यज्वी पक्षविवर्धनः__व्ध_072.011
चेदिराड् इति दैत्यानां__व्ध_072.011
मतिर् आसीद् रसातले__व्ध_072.011
अनेन विविधैर् यज्ञैस्__व्ध_072.012
तर्पितस् त्रिदशेश्वरः__व्ध_072.012
जघान दैत्यान् वध्यो ऽयं__व्ध_072.012
प्राप्तो ऽस्मद्गोचरं रिपुः__व्ध_072.012
इति संमन्त्र्य ते दैत्याश्__व्ध_072.013
चेदिराजजिघांसवः__व्ध_072.013
तत्समीपम् अनुप्राप्ता__व्ध_072.013
गृहीतविविधायुधाः__व्ध_072.013
परमामर्षसंयुक्तास्__व्ध_072.014
ततस् ते चेदिपुङ्गवम्__व्ध_072.014
हन्तुं न शेकुः शस्त्रैस् तु__व्ध_072.014
यत्नवन्तो ऽपि पार्थिवम्__व्ध_072.014
स चापि वसुर् आसीनः__व्ध_072.015
केशवार्पितमानसः__व्ध_072.015
जजाप मन्त्रम् ओंकारं__व्ध_072.015
प्रणवं द्वादशाक्षरम्__व्ध_072.015
ददर्श च स विश्वेशं__व्ध_072.016
ध्यानावस्थितमानसः__व्ध_072.016
कृत्वान्यविषयत्यागि__व्ध_072.016
चित्तम् अत्यन्तनिश्चलम्__व्ध_072.016
प्राग् ईशम् अक्षरं ध्यानं__व्ध_072.017
ज्ञानं ज्ञेयं जगद्गुरुम्__व्ध_072.017

संचिन्त्य वासुदेवाख्यम्__व्ध_072.017
अनिर्देश्यं परायणम्__व्ध_072.017
ततो ऽन्तर्यामिरुपेण__व्ध_072.018
प्राकृतेन च संस्थितम्__व्ध_072.018
ब्रह्मविष्णुशिवानां च__व्ध_072.018
स्वरूपैः संस्थितं त्रिधा__व्ध_072.018
पुनश् च देवगन्धर्व-__व्ध_072.019
सिद्धादिमनुजादिषु__व्ध_072.019
स्थावरान्तेषु भूतेषु__व्ध_072.019
सर्वेष्व् एव समास्थितम्__व्ध_072.019
दिक्ष्व् अम्बरधराभूभृत्-__व्ध_072.020
तोयवाय्वनलादिषु__व्ध_072.020
दृश्यादृश्येषु चैवेशं__व्ध_072.020
चिन्तयाम् आस पार्थिवः__व्ध_072.020
सर्वत्र दृष्ट्वा तं देवम्__व्ध_072.021
आत्मन्य् अपि च सर्वगम्__व्ध_072.021
सर्वं च तन्मयं दृष्ट्वा__व्ध_072.021
विरराम समाधितः__व्ध_072.021
इन्द्रियाणीन्द्रियार्थेषु__व्ध_072.022
पूर्ववत् स नराधिपः__व्ध_072.022
विनिवेश्य ततो ऽपश्यद्__व्ध_072.022
असुरान् उद्यतायुधान्__व्ध_072.022
तान् स दृष्ट्वा गृहीतार्घ्य__व्ध_072.023
एकैकस्यैव पार्थिवः__व्ध_072.023
पाद्यपूर्वेण विधिना__व्ध_072.023
पूजयाम् आस भक्तिमान्__व्ध_072.023
प्रसादं कुरु भद्रं वो__व्ध_072.024
भगवाञ् जगतः पतिः__व्ध_072.024
वासुदेवो भवान् प्राप्तो__व्ध_072.024
ममानुग्रहकाम्यया__व्ध_072.024
इत्य् एवं चेदिराजो ऽसाव्__व्ध_072.025
एकैकस्य च दानवान्__व्ध_072.025
पूजयाम् आस पाद्यादि__व्ध_072.025
निवेद्य वचसा तथा__व्ध_072.025
ते ऽपि तं चेदिराजानं__व्ध_072.026
पप्रच्छुर् असुरास् तदा__व्ध_072.026
क्व वासुदेवो ऽत्र वयं__व्ध_072.026
प्राप्ता दाक्षायणीसुताः__व्ध_072.026
इत्य् एवं वदतो दैत्यान्__व्ध_072.027
स जगाद पुनर् वसुः__व्ध_072.027

प्रणामनम्रो राजेन्द्र__व्ध_072.027
सर्वदर्शी महामतिः__व्ध_072.027
वासुदेवो जगत् सर्वं__व्ध_072.028
यच् चेङ्गं यच् च नेङ्गति__व्ध_072.028
ब्रह्मादिषु तृणान्तेषु__व्ध_072.028
स एवैको जगद्गुरुः__व्ध_072.028
अहं भवन्तो देवाद्या__व्ध_072.029
मनुष्याः पशवश् च ये__व्ध_072.029
ते ऽपि देवा जगद्धातुर्__व्ध_072.029
व्यतिरिक्ता न केशवात्__व्ध_072.029
तेनैव माया वितता__व्ध_072.030
वैष्णवी भिन्नदर्शनी__व्ध_072.030
तया स्वाङ्गेषु देवो ऽसौ__व्ध_072.030
प्रदर्शयति सर्वशः__व्ध_072.030
तद् यूयम् अहम् अन्ये च__व्ध_072.031
यच् च स्थावरजङ्गमम्__व्ध_072.031
वासुदेवात्मकं सर्वम्__व्ध_072.031
इति मत्वा नमो ऽस्तु वः__व्ध_072.031
इत्य् उक्तास् तेन ते दैत्या__व्ध_072.032
न शक्ता मनुजेश्वरम्__व्ध_072.032
यत्नवन्तो ऽपि तं हन्तुं__व्ध_072.032
प्रययुः स्वान् अथालयान्__व्ध_072.032
ततः पुरोहितं सर्वे__व्ध_072.033
काव्यं नीतिविशारदम्__व्ध_072.033
समेत्य ते यथावृत्तं__व्ध_072.033
सर्वम् अस्मै न्यवेदयन्__व्ध_072.033
अस्माकम् अत्यन्तरिपुर्__व्ध_072.034
अयं प्राप्तो रसातलम्__व्ध_072.034
देवानाम् उपकृद् ब्रह्मन्__व्ध_072.034
यज्वा चेदिपतिर् वसुः__व्ध_072.034
अस्मत्पक्षक्षयायैष__व्ध_072.035
देवानां पक्षवर्धनः__व्ध_072.035
तत्र यत् प्रतिपत्तव्यं__व्ध_072.035
तन् नो ब्रूहि महामते__व्ध_072.035
स्वगोचरम् अरिः प्राप्तः__व्ध_072.036
शत्रुपक्षोपकारकः__व्ध_072.036
न हन्तव्य इतीदं को__व्ध_072.036
नीतिमान् प्रवदिष्यति__व्ध_072.036
तस्मात् प्रगृह्य दिव्यानि__व्ध_072.037
सर्वास्त्राण्य् अमरार्दनाः__व्ध_072.037

निपातयत तं गत्वा__व्ध_072.037
चेदिराजं स्वगोचरे__व्ध_072.037
सर्वम् एतन् महाभाग__व्ध_072.038
तस्मिन्न् अस्माभिर् उद्यतैः__व्ध_072.038
कृतं न शकितो हन्तुं__व्ध_072.038
निर्यत्नो ऽपि हि पार्थिवः__व्ध_072.038
किं तद् योगफलं तस्य__व्ध_072.039
किं वा जपफलं मुने__व्ध_072.039
तपसो वा मुनिश्रेष्ठ__व्ध_072.039
विस्तरात् तद् वदस्व नः__व्ध_072.039
नित्यं संचिन्तयत्य् एष__व्ध_072.040
योगयुक्तो जनार्दनम्__व्ध_072.040
सास्य रक्षा परा मन्ये__व्ध_072.040
को हिनस्त्य् अच्युताश्रयम्__व्ध_072.040
कीर्तितः संस्मृतो ध्यातः__व्ध_072.041
पूजितः संस्तुतस् तथा__व्ध_072.041
ऐहिकामुष्मिकीं रक्षां__व्ध_072.041
करोति भगवान् हरिः__व्ध_072.041
यद् दुर्लभं यद् अप्राप्यं__व्ध_072.042
मनसो यन् न गोचरे__व्ध_072.042
तद् अप्य् अप्रार्थितं ध्यातो__व्ध_072.042
ददाति मधुसूदनः__व्ध_072.042
शरीरारोग्यम् अर्थांश् च__व्ध_072.043
भोगांश् चैवानुषङ्गिकान्__व्ध_072.043
ददाति ध्यायतां नित्यम्__व्ध_072.043
अपवर्गप्रदो हरिः__व्ध_072.043
यद् इदं चेदिराजानं__व्ध_072.044
हन्तुम् इच्छथ दानवाः__व्ध_072.044
तद् अस्य केशवाच् चित्तम्__व्ध_072.044
उपायेनापनीयताम्__व्ध_072.044
ततस् ते तद्वचः श्रुत्वा__व्ध_072.045
दानवाः कुरुपुङ्गव__व्ध_072.045
ब्रह्मरूपप्रतिच्छन्ना__व्ध_072.045
जग्मुर् यत्र स्थितो वसुः__व्ध_072.045
ददृशुस् ते महात्मानं__व्ध_072.046
प्रणतं चेदिपुङ्गवम्__व्ध_072.046
कृतपूजं जगद्धातुर्__व्ध_072.046
वासुदेवस्य पार्थिवम्__व्ध_072.046
संस्तुताव् उद्यतं शान्तं__व्ध_072.047
सर्वत्र समदर्शिनम्__व्ध_072.047

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc