विष्णुधर्म · भाग 221240
निहंस्यामि तथासुरान्__व्ध_066.057
सत्त्वानाम् उपकाराय__व्ध_066.058
प्रधानपुरुषान्तरम्__व्ध_066.058
दर्शयिष्यामि लोकेषु__व्ध_066.058
कापिलं रूपम् आस्थितः__व्ध_066.058
कार्तवीर्यादिभिश् चान्यैश्__व्ध_066.059
चतुर्दशभिर् अन्विताः__व्ध_066.059
भविष्यन्ति मदंशेन__व्ध_066.059
त्रेतायां चक्रवर्तिनः__व्ध_066.059
ततश् च भार्गवो रामो__व्ध_066.060
गृहीतपरशुर् द्विजः__व्ध_066.060
भूत्वा क्षत्रियहीनां च__व्ध_066.060
करिष्यामि वसुंधराम्__व्ध_066.060
पुनश् च राघवो रामो__व्ध_066.061
भूत्वा दशरथात्मजः__व्ध_066.061
बद्ध्वा महोदधिं कर्ता__व्ध_066.061
राक्षसानां कुलक्षयम्__व्ध_066.061
उत्तीर्य च परं पारं__व्ध_066.*(89)
लङ्काम् आसाद्य दुर्जयाम्__व्ध_066.*(89)
निहत्य रावणं वीरं__व्ध_066.*(89)
वरदानेन दर्पितम्__व्ध_066.*(89)
मायाविनां महावीर्यं__व्ध_066.*(89)
रक्षसां वनशायिनाम्__व्ध_066.*(89)
लक्ष्मणानुचरो रामः__व्ध_066.*(89)
करिष्यामि कुलक्षयम्__व्ध_066.*(89)
अष्टाविंशतिमे प्राप्ते__व्ध_066.062
द्वापरे कंसम् उच्छ्रितम्__व्ध_066.062
केशिनं धेनुकं चैव__व्ध_066.062
शकुनिं पूतनां तथा__व्ध_066.062
अरिष्टं च हनिष्यामि__व्ध_066.062
मुरुं नरकम् एव च__व्ध_066.062
निशुम्भं सहयग्रीवण्__व्ध_066.063
तथान्यांश् चासुरेश्वरान्__व्ध_066.063
हनिष्यामि सुदुर्वृत्तांल्__व्ध_066.063
लोकानां हितकाम्यया__व्ध_066.063
प्रवर्षति स देवेन्द्रे__व्ध_066.064
महोभङ्गविरोधिते__व्ध_066.064
गोवर्धनं गिरिवरं__व्ध_066.064
धारयिष्यामि बाहुना__व्ध_066.064
भाराक्रान्ताम् इमाम् उर्वीं__व्ध_066.065
धनंजयसहायवान्__व्ध_066.065
घातयित्वाखिलान् भूपांल्__व्ध_066.065
लघ्वीं कर्तास्मि सत्तम__व्ध_066.065
प्राप्ते कलियुगे कृत्स्नम्__व्ध_066.066
उपसंहृत्य वै कुलम्__व्ध_066.066
द्वारकां प्लावयिष्यामि__व्ध_066.066
उत्स्रक्ष्यामि मनुष्यताम्__व्ध_066.066
द्वितीयो यो ममांशस् तु__व्ध_066.067
रामो ऽनन्तः स लाङ्गली__व्ध_066.067
सो ऽपि संत्यज्य वसुधां__व्ध_066.067
रसातलम् उपेष्यति__व्ध_066.067
ततः कलियुगे घोरे__व्ध_066.068
संप्राप्ते ऽब्जसमुद्भव__व्ध_066.068
शुद्धोदनसुतो बुद्धो__व्ध_066.068
भविष्यामि विमत्सरः__व्ध_066.068
बौद्धं धर्मम् उपाश्रित्य__व्ध_066.069
करिष्ये धर्मदेशनाम्__व्ध_066.069
नराणाम् अथ नारीणां__व्ध_066.069
दयां भूतेषु दर्शयन्__व्ध_066.069
रक्ताम्बरा ह्य् आञ्जिताक्षाः__व्ध_066.070
प्रशान्तमनसस् ततः__व्ध_066.070
शूद्रा धर्मं प्रवक्ष्यन्ति__व्ध_066.070
मयि बुद्धत्वम् आगते__व्ध_066.070
एडूकचिह्ना पृथिवी__व्ध_066.071
न देवगृहभूषिता__व्ध_066.071
भवित्री प्रायशो ब्रह्मन्__व्ध_066.071
मयि बुद्धत्वम् आगते__व्ध_066.071
स्कन्धदर्शनमात्रं हि__व्ध_066.072
पश्यन्तः सकलं जगत्__व्ध_066.072
शूद्राः शूद्रेषु दास्यन्ति__व्ध_066.072
मयि बुद्धत्वम् आगते__व्ध_066.072
अल्पायुषस् ततो मर्त्या__व्ध_066.073
मोहोपहतचेतसः__व्ध_066.073
नरकार्हाणि कर्माणि__व्ध_066.073
करिष्यन्ति प्रजापते__व्ध_066.073
स्वाध्यायेष्व् अवसीदन्तो__व्ध_066.074
ब्राह्मणाः शौचवर्जिताः__व्ध_066.074
अन्त्यप्रतिग्रहादानं__व्ध_066.074
करिष्यन्त्य् अल्पमेधसः__व्ध_066.074
न श्रोष्यन्ति पितुः पुत्राः__व्ध_066.075
श्वश्रूश्वशुरयोः स्नुषाः__व्ध_066.075
न भार्या भर्तुर् ईशस्य__व्ध_066.075
न भृत्या विनयस्थिताः__व्ध_066.075
वर्णसंकरतां प्राप्ते__व्ध_066.076
लोके ऽस्मिन् दस्युतां गते__व्ध_066.076
ब्राह्मणादिषु वर्णेषु__व्ध_066.076
भविष्यत्य् अधरोत्तरम्__व्ध_066.076
धर्मकञ्चुकसंवीता__व्ध_066.077
विधर्मरुचयस् तथा__व्ध_066.077
मानुषान् भक्षयिष्यन्ति__व्ध_066.077
म्लेच्छाः पार्थिवरूपिणः__व्ध_066.077
ततः कलियुगस्यान्ते__व्ध_066.078
वेदो वाजसनेयकः__व्ध_066.078
दश पञ्च च वै शाखाः__व्ध_066.078
प्रमाणेन भविष्यति__व्ध_066.078
ततो ऽहं संभविष्यामि__व्ध_066.079
ब्राह्मणो हरिपिङ्गलः__व्ध_066.079
कल्की विष्णुयशःपुत्रो__व्ध_066.079
याज्ञवल्क्यपुरोहितः__व्ध_066.079
म्लेच्छान् उत्सादयिष्यामि__व्ध_066.080
गृहीतास्त्रः कुशायुधः__व्ध_066.080
स्थापयिष्यामि मर्यादाश्__व्ध_066.080
चातुर्वर्ण्ये यथोदिताः__व्ध_066.080
तथाश्रमेषु सर्वेषु__व्ध_066.081
ब्रह्मचारिव्रतादिकाः__व्ध_066.081
स्थापयित्वा ततः सर्वाः__व्ध_066.081
प्रजाः सद्धर्मवर्त्मनि__व्ध_066.081
कल्किरूपं परित्यज्य__व्ध_066.081
दिवम् एष्याम्य् अहं पुनः__व्ध_066.081
ततः कृतयुगं भूयः__व्ध_066.082
पूर्ववत् संप्रवर्त्स्यते__व्ध_066.082
वर्णाश्रमाश् च धर्मेषु__व्ध_066.082
द्वेषु स्थास्यन्ति सत्तम__व्ध_066.082
एवं सर्वेषु कल्पेषु__व्ध_066.083
सर्वमन्वन्तरेषु च__व्ध_066.083
ममावताराः शतशो__व्ध_066.083
ये भवन्ति जगद्धिताः__व्ध_066.083
संकर्षणात्मजश् चैव__व्ध_066.084
कल्पान्ते च रसातलात्__व्ध_066.084
समुत्पत्स्येत् तदा रुद्रः__व्ध_066.084
कालाग्निर् इति यः श्रुतः__व्ध_066.084
ततः क्षयं करिष्यामि__व्ध_066.085
जगत् स्थावरजङ्गमम्__व्ध_066.085
भूयश् चैव हि स्वप्स्यामि__व्ध_066.085
जगत्य् एकार्णवे स्थिते__व्ध_066.085
त्वद्रूपी च ततो भूत्वा__व्ध_066.085
जगत् स्रक्ष्याम्य् अहं पुनः__व्ध_066.085
एतत् संक्षेपतो ब्रह्मन्__व्ध_066.086
मयाख्यातं यथातथम्__व्ध_066.086
अंशावतरणं सर्वं__व्ध_066.086
मत्तः संक्षेपतः शृणु__व्ध_066.086
यद् दृश्यं यच् च वै स्पृश्यं__व्ध_066.087
यद् घ्रेयं रस्यते च यत्__व्ध_066.087
यच् छ्रव्यं यच् च मन्तव्यं__व्ध_066.087
बोधव्यं चाहम् अंशगः__व्ध_066.087
यत् तु बुद्धेः परतरम्__व्ध_066.088
अनाख्येयम् अनोपमम्__व्ध_066.088
तद् अहं ब्रह्म निर्द्वन्द्वं__व्ध_066.088
यद् वै पश्यन्ति सूरयः__व्ध_066.088
इदं जन्मरहस्यं मे__व्ध_066.089
यो नरः कीर्तयिष्यति__व्ध_066.089
सुलभो ऽहं भविष्यामि__व्ध_066.089
तस्य जन्मनि जन्मनि__व्ध_066.089
पठन्न् एतद् ब्रह्महा तु__व्ध_066.090
सुरापो गुरुतल्पगः__व्ध_066.090
स्तेयी कृतघ्नो गोघ्नश् च__व्ध_066.090
सर्वपापैः प्रमुच्यते__व्ध_066.090
गर्भिणी जनयेत् पुत्रं__व्ध_066.091
कन्या विन्दति सत्पतिम्__व्ध_066.091
लभन्ते ऽभिमतान् कामान्__व्ध_066.091
नरास् तांस् तान् यथेप्सितान्__व्ध_066.091
इति देवातिदेवेन__व्ध_066.092
ब्रह्मणो व्यक्तजन्मनः__व्ध_066.092
रहस्यम् इदम् आख्यातं__व्ध_066.092
तवापि कथितं मया__व्ध_066.092
विष्णुः सर्वगतो ऽनन्तः__व्ध_066.093
सर्वं तत्र प्रतिष्ठितम्__व्ध_066.093
स च सर्वम् इदं राजन्__व्ध_066.093
न ततो विद्यते परम्__व्ध_066.093
एतत् पवित्रं पठितं__व्ध_066.094
तथा दुःस्वप्ननाशनम्__व्ध_066.094
जातिस्मरत्वं प्रज्ञां च__व्ध_066.094
ददाति पठतां नृणाम्__व्ध_066.094
मया हि देवदेवस्य__व्ध_067.001
विष्णोर् अमिततेजसः__व्ध_067.001
श्रुताः संभूतयः सर्वा__व्ध_067.001
गदतस् तव सुव्रत__व्ध_067.001
यदि प्रसन्नो भगवान्__व्ध_067.002
अनुग्राह्यो ऽस्मि वा यदि__व्ध_067.002
तद् अहं श्रोतुम् इच्छामि__व्ध_067.002
नॄणां दुःस्वप्ननाशनम्__व्ध_067.002
स्वप्ना हि सुमहाभाग__व्ध_067.003
दृश्यन्ते ये शुभाशुभाः__व्ध_067.003
फलानि ते प्रयच्छन्ति__व्ध_067.003
तद्गुणान्य् एव भार्गव__व्ध_067.003
यद् यत् पुण्यं पवित्रं च__व्ध_067.004
नॄणाम् अतिशुभप्रदम्__व्ध_067.004
दुःस्वप्नोपशमायालं__व्ध_067.004
तन् मे विस्तरतो वद__व्ध_067.004
इदम् एव महाराज__व्ध_067.005
पृष्टवांस् ते पितामहः__व्ध_067.005
भीष्मं धर्मभृतां श्रेष्ठं__व्ध_067.005
धर्मपुत्रो युधिष्ठिरः__व्ध_067.005
देवव्रतं महाप्राज्ञं__व्ध_067.006
सर्वशास्त्रविशारदम्__व्ध_067.006
विनयेनोपसंगम्य__व्ध_067.006
पर्यपृच्छद् युधिष्ठिरः__व्ध_067.006
दुःस्वप्नदर्शनं घोरम्__व्ध_067.007
अवेक्ष्य भरतर्षभ__व्ध_067.007
प्रयतः किं जपेज् जप्यं__व्ध_067.007
विबुद्धः किम् अनुस्मरेत्__व्ध_067.007
पितामह महाबुद्धे__व्ध_067.008
बुद्धेर् भेदो महान् अयम्__व्ध_067.008
तद् अहं श्रोतुम् इच्छामि__व्ध_067.008
ब्रूहि मे वदतां वर__व्ध_067.008
शृणु राजन् महाबाहो__व्ध_067.009
वर्तयिष्यामि ते ऽखिलम्__व्ध_067.009
दुःस्वप्नदर्शने जप्यं__व्ध_067.009
यद् वै नित्यं समाहितैः__व्ध_067.009
अत्राप्य् उदाहरन्तीमम्__व्ध_067.010
इतिहासं पुरातनम्__व्ध_067.010
गजेन्द्रमोक्षणं पुण्यं__व्ध_067.010
कृष्णस्याक्लिष्टकर्मणः__व्ध_067.010
सर्वरत्नमयः श्रीमांस्__व्ध_067.011
त्रिकूटो नाम पर्वतः__व्ध_067.011
सुतः पर्वतराजस्य__व्ध_067.011
सुमेरोर् भास्करद्युतेः__व्ध_067.011
क्षीरोदजलवीच्यग्रैर्__व्ध_067.012
धौतामलशिलातलः__व्ध_067.012
उत्थितः सागरं भित्त्वा__व्ध_067.012
देवर्षिगणसेवितः__व्ध_067.012
अप्सरोभिः समाकीर्णः__व्ध_067.013
श्रीमान् प्रस्रवणाकुलः__व्ध_067.013
गन्धर्वैः किंनरैर् यक्षैः__व्ध_067.013
सिद्धचारणपन्नगैः__व्ध_067.013
विद्याधरैः सपत्निकैः__व्ध_067.*(92)
संयतैश् च तपस्विभिः__व्ध_067.*(92)
मृगैर् द्वीपैर् द्विजैश् चैव__व्ध_067.014
वृतः सौवर्णराजतैः__व्ध_067.014
पुंनागैः कर्णिकारैश् च__व्ध_067.014
पुष्पितैर् उपशोभितः__व्ध_067.014
चूतनीपकदम्बैश् च__व्ध_067.015
चन्दनागरुचम्पकैः__व्ध_067.015
शालैस् तालैस् तमालैश् च__व्ध_067.015
कुटजैश् चार्जुनैस् तथा__व्ध_067.015
एवं बहुविधैर् वृक्षैः__व्ध_067.016
सर्वतः समलंकृतः__व्ध_067.016
नानाधातूज्ज्वलैः शृङ्गैः__व्ध_067.016
प्रस्रवद्भिः समन्ततः__व्ध_067.016
मृगैः शाखामृगैः सिंहैर्__व्ध_067.017
मातंगैश् च सदामदैः__व्ध_067.017
जीवंजीवकसंघुष्टं__व्ध_067.017
चकोरशिखिनादितम्__व्ध_067.017
तस्यैकं काञ्चनं शृङ्गं__व्ध_067.018
सेवते यद् दिवादरः__व्ध_067.018
नानापुष्पसमाकीर्णं__व्ध_067.018
नानागन्धसमाकुलम्__व्ध_067.018
द्वितीयं राजतं शृङ्गं__व्ध_067.019
सेवते यन् निशाकरः__व्ध_067.019
पाण्डुराम्बुदसंकाशं__व्ध_067.019
तुषारचयसंनिभम्__व्ध_067.019
वज्रेन्द्रनीलवैडूर्य-__व्ध_067.020
तेजोभिर् भासयन् नभः__व्ध_067.020
तृतीयं ब्रह्मसदनं__व्ध_067.020
प्रकृष्टं शृङ्गम् उत्तमम्__व्ध_067.020
न तत् कृतघ्नाः पश्यन्ति__व्ध_067.021
न नृशंसा न नास्तिकाः__व्ध_067.021
नातप्ततपसः शैलं__व्ध_067.021
तं वै पश्यन्ति मानवाः__व्ध_067.021
तस्य सानुमतः पृष्ठे__व्ध_067.022
सरः काञ्चनपङ्कजम्__व्ध_067.022
कारण्डवसमाकीर्णं__व्ध_067.022
राजहंसोपशोभितम्__व्ध_067.022
मत्तभ्रमरसंघुष्टं__व्ध_067.023
फुल्लपङ्कजशोभितम्__व्ध_067.023
कुमुदोत्पलकल्हार-__व्ध_067.023
पुण्डरीकोपशोभितम्__व्ध_067.023
उत्पलैः शतपत्त्रैश् च__व्ध_067.024
काञ्चनैः समलंकृतम्__व्ध_067.024
पत्त्रैर् मणिदलप्रख्यैः__व्ध_067.024
पुष्पैः काञ्चनसंनिभैः__व्ध_067.024
गुल्मैः कीचकवेणूनां__व्ध_067.024
समन्तात् परिवारितम्__व्ध_067.024
तस्मिन् सरसि दुष्टात्मा__व्ध_067.025
विरूपो ऽन्तर्जलाशयः__व्ध_067.025
आसीद् ग्राहो गजेन्द्राणां__व्ध_067.025
दुराधर्षो महाबलः__व्ध_067.025
अथ दन्तोज्ज्वलमुखः__व्ध_067.026
कदाचिद् गजयूथपः__व्ध_067.026
आजगामासिताभ्राभः__व्ध_067.026
करेणुपरिवारितः__व्ध_067.026
मदस्रावी महारौद्रः__व्ध_067.027
पादचारीव पर्वतः__व्ध_067.027
वासयन् मदगन्धेन__व्ध_067.027
गिरिम् ऐरावतोपमः__व्ध_067.027
स गजो ऽञ्जनसंकाशो__व्ध_067.028
मदाच् चलितमानसः__व्ध_067.028
गन्धहस्तीति विख्यातः__व्ध_067.*(94)
सरः समभिगम्य तत्__व्ध_067.*(94)
तृषितः स जलं प्राप्य__व्ध_067.*(94)
कुसुमाकरशीतलम्__व्ध_067.*(94)
अपिबत् सहसा राजन्__व्ध_067.*(94)
करेणुपरिवारितः__व्ध_067.*(94)
सलीलं पङ्कजवने__व्ध_067.028
यूथमध्यगतो ऽव्रजत्__व्ध_067.028
गृहीतस् तेन रौद्रेण__व्ध_067.029
ग्राहेणाव्यक्तमूर्तिना__व्ध_067.029
पश्यन्तीनां करेणूनां__व्ध_067.029
क्रोशन्तीनां च दारुणम्__व्ध_067.029
क्रियते पङ्कजवने__व्ध_067.*(95)
ग्राहेणातिबलीयसा__व्ध_067.*(95)
गजश् चाकर्षते तीरं__व्ध_067.*(96)
ग्राहश् चाकर्षते जलम्__व्ध_067.*(96)
तयोर् द्वन्द्व महायुद्धं__व्ध_067.*(96)
दिव्यवर्षसहस्रिकम्__व्ध_067.*(96)
वारुणैः संयतः पाशैर्__व्ध_067.030
निःप्रयत्नगतिः कृतः__व्ध_067.030
वेष्ट्यमानः सुघोरैस् तु__व्ध_067.030
पाशैर् नागो दृढैस् तथा__व्ध_067.030
विस्फुर्ज्य च यथाशक्ति__व्ध_067.031
विक्रुश्य च महारवान्__व्ध_067.031
व्यथितः संनिरुत्साहो__व्ध_067.031
गृहीतो घोरकर्मणा__व्ध_067.031
परमापदम् आपन्नो__व्ध_067.032
मनसाचिन्तयद् धरिम्__व्ध_067.032
स तु नागवरः श्रीमान्__व्ध_067.032
नारायणपरायणः__व्ध_067.032
तम् एव परमं देवं__व्ध_067.033
गतः सर्वात्मना तदा__व्ध_067.033
एकाग्रं चिन्तयाम् आस__व्ध_067.033
विशुद्धेनान्तरात्मना__व्ध_067.033
जन्मजन्मान्तराभ्यासाद्__व्ध_067.034
भक्तिमान् गरुडध्वजे__व्ध_067.034
आद्यं देवं महात्मानं__व्ध_067.034
पूजयाम् आस केशवम्__व्ध_067.034
नवमेघप्रतीकाशं__व्ध_067.035
शङ्खचक्रगदाधरम्__व्ध_067.035
सहस्रशुभनामानम्__व्ध_067.035
आदिदेवम् अजं परम्__व्ध_067.035
दिग्बाहुं सर्वमूर्धानं__व्ध_067.*(98)
भूपादं गगनोदरम्__व्ध_067.*(98)
आदित्यचन्द्रनयनं__व्ध_067.*(98)
समग्रं लोकसाक्षिणम्__व्ध_067.*(98)
भगवन्तं प्रसन्नो ऽहं__व्ध_067.*(99)
विष्णुम् अप्रतिमौजसम्__व्ध_067.*(99)
प्रगृह्य पुष्कराग्रेण__व्ध_067.036
काञ्चनं कमलोत्तमम्__व्ध_067.036
आपद्विमोक्षम् अन्विच्छन्__व्ध_067.036
गजः स्तोत्रम् उदैरयत्__व्ध_067.036
ओं नमो मूलप्रकृतये__व्ध_067.*(100),001
अजिताय महात्मने__व्ध_067.*(100),001
अनाश्रिताय देवाय__व्ध_067.*(100),002
निःस्पृहाय नमो नमः__व्ध_067.*(100),002
नम आद्याय बीजाय__व्ध_067.*(100),003
शिवाय च प्रशान्ताय__व्ध_067.*(100),003
आर्षेयाय प्रवर्तिने__व्ध_067.*(100),004
निश्चलाय यशस्विने__व्ध_067.*(100),004
अनन्तराय चैकाय__व्ध_067.*(100),005
सनातनाय पूर्वाय__व्ध_067.*(100),005
अव्यक्ताय नमो नमः__व्ध_067.*(100),006
पुराणाय नमो नमः__व्ध_067.*(100),006
नमो गुह्याय गूढाय__व्ध_067.*(100),007
गुणायागुणवर्तिने__व्ध_067.*(100),008
अतर्क्यायाप्रमेयाय__व्ध_067.*(100),009
अनन्ताय नमो नमः__व्ध_067.*(100),010
नमो देवातिदेवाय__व्ध_067.*(100),011
अप्रभाय नमो नमः__व्ध_067.*(100),012
नमो जगत्प्रस्थिताय__व्ध_067.*(100),013
गोविन्दाय नमो नमः__व्ध_067.*(100),013
नमो ऽस्तु पद्मनाभाय__व्ध_067.*(100),014
सांख्ययोगोद्भवाय च__व्ध_067.*(100),014
विश्वेश्वराय देवाय__व्ध_067.*(100),015
शिवाय हरये नमः__व्ध_067.*(100),015
नमो ऽस्तु तस्मै देवाय__व्ध_067.*(100),016
निर्गुणाय गुणात्मने__व्ध_067.*(100),016
नारायणाय विश्वाय__व्ध_067.*(100),017
देवानां परमात्मने__व्ध_067.*(100),017
नमो नमः कारणवामनाय__व्ध_067.037
नारायणायामितविक्रमाय__व्ध_067.037
श्रीशार्ङ्गचक्रासिगदाधराय__व्ध_067.037
नमो ऽस्तु तस्मै पुरुषोत्तमाय__व्ध_067.037
आद्याय वेदनिलयाय महोदराय__व्ध_067.038
सिंहाय दैत्यनिधनाय चतुर्भुजाय__व्ध_067.038
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय__व्ध_067.038
देवोत्तमाय वरदाय नमो ऽच्युताय__व्ध_067.038
नागेन्द्रभोगशयनासनसुप्रियाय__व्ध_067.039
गोक्षीरहेमशुकनीलघनोपमाय__व्ध_067.039
पीताम्बराय मधुकैटभनाशनाय__व्ध_067.039
विश्वाय चारुमुकुटाय नमो ऽक्षराय__व्ध_067.*(101)
भक्तिप्रियाय वरदीप्तसुदर्शनाय__व्ध_067.039
नाभिप्रजातकमलस्थचतुर्मुखाय__व्ध_067.040
क्षीरोदकार्णवनिकेतयशोधनाय__व्ध_067.040
नानाविचित्रमुकुटाङ्गदभूषणाय__व्ध_067.040
सर्वेश्वराय वरदाय नमो वराय__व्ध_067.040
विश्वात्मने परमकारणकारणाय__व्ध_067.041
फुल्लारविन्दविमलायतलोचनाय__व्ध_067.041
देवेन्द्रदानवपरीक्षितपौरुषाय__व्ध_067.041
योगेश्वराय विजयाय नमो वराय__व्ध_067.041
लोकायनाय त्रिदशायनाय__व्ध_067.042
ब्रह्मायनायात्मभवायनाय__व्ध_067.042
धर्मायनायैकजलायनाय__व्ध_067.042
महावराहाय सदा नतो ऽस्मि__व्ध_067.042
अचिन्त्यम् अव्यक्तम् अनन्तरूपं__व्ध_067.043
नारायणं कारणम् आदिदेवम्__व्ध_067.043
युगान्तशेषं पुरुषं पुराणं__व्ध_067.043
तं वासुदेवं शरणं प्रपद्ये__व्ध_067.043
योगेश्वरं चारुविचित्रमौलिम्__व्ध_067.*(104)
आज्ञेयमौख्यं प्रकृतेः परस्थम्__व्ध_067.*(104)
क्षेत्रज्ञम् आत्मप्रभवं वरेण्यं__व्ध_067.*(104)
तं वासुदेवं शरणं प्रपद्ये__व्ध_067.*(104)
अदृश्यम् अच्छेद्यम् अनादिमध्यं__व्ध_067.044
महर्षयो ब्रह्मविदः सुरेशम्__व्ध_067.044
वदन्ति यं वै पुरुषं सनातनं__व्ध_067.044
तं वासुदेवं शरणं प्रपद्ये__व्ध_067.044
यद् अक्षरं ब्रह्म वदन्ति सर्वगं__व्ध_067.045
निशाम्य यं मृत्युमुखात् प्रमुच्यते__व्ध_067.045
तम् ईश्वरं तृप्तम् अनोपमैर् गुणैः__व्ध_067.045
परायणं विष्णुम् उपैमि शाश्वतम्__व्ध_067.045
कार्यं क्रियाकारणम् अप्रमेयं__व्ध_067.046
हिरण्यनाभं वरपद्मनाभम्__व्ध_067.046
महाबलं वेदनिधिं सुरोत्तमं__व्ध_067.046
व्रजामि विष्णुं शरणं जनार्दनम्__व्ध_067.046
विचित्रकेयूरमहार्हनिष्कं__व्ध_067.047
रत्नोत्तमालंकृतसर्वगात्रम्__व्ध_067.047
पीताम्बरं काञ्चनभक्तिचित्रं__व्ध_067.047
मालाधरं केशवम् अभ्युपैमि__व्ध_067.047
भवोद्भवं वेदविदां वरिष्ठं__व्ध_067.048
योगात्मानं सांख्यविदां वरिष्ठम्__व्ध_067.048
आदित्यचन्द्राश्विवसुप्रभावं__व्ध_067.048
प्रभुं प्रपद्ये ऽच्युतम् आत्मभूतम्__व्ध_067.048
श्रीवत्साङ्कं महादेवं__व्ध_067.049
वेदगुह्यम् अनुत्तमम्__व्ध_067.049
प्रपद्ये सूक्ष्मम् अचलं__व्ध_067.049
भक्तानाम् अभयप्रदम्__व्ध_067.049
प्रभवं सर्वलोकानां__व्ध_067.050
निर्गुणं परमेश्वरम्__व्ध_067.050
प्रपद्ये मुक्तसंगानां__व्ध_067.050
यतीनां परमां गतिम्__व्ध_067.050
भगवन्तं सुराध्यक्षम्__व्ध_067.051
अक्षरं पुष्करेक्षणम्__व्ध_067.051
शरण्यं शरणं भक्त्या__व्ध_067.051
प्रपद्ये ब्राह्मणप्रियम्__व्ध_067.051
त्रिविक्रमं त्रिलोकेशम्__व्ध_067.052
आद्यम् एकम् अनामयम्__व्ध_067.052
भूतात्मानं महात्मानं__व्ध_067.052
प्रपद्ये मधुसूदनम्__व्ध_067.052
आदिदेवम् अजं शम्भुं__व्ध_067.*(105)
व्यक्ताव्यक्तं जनार्दनम्__व्ध_067.*(105)
क्षेत्रज्ञं पुरुषं यज्ञं__व्ध_067.053
त्रिगुणातीतम् अव्ययम्__व्ध_067.053
नारायणम् अणीयांसं__व्ध_067.053
प्रपद्ये परमेश्वरम्__व्ध_067.053
एकाय लोकत्रयाय__व्ध_067.054
परतः परमात्मने__व्ध_067.054
नमः सहस्रशिरसे__व्ध_067.054
अनन्ताय महात्मने__व्ध_067.054
वरेण्यम् अनघं देवम्__व्ध_067.055
ऋषयो वेदपारगाः__व्ध_067.055
कीर्तयन्ति च यं सर्वे__व्ध_067.055
तं प्रपद्ये सनातनम्__व्ध_067.055
नमस् ते पुण्डरीकाक्ष__व्ध_067.056
भक्तानाम् अभयप्रद__व्ध_067.056
सुब्रह्मण्य नमस् ते ऽस्तु__व्ध_067.056
त्राहि मां शरणागतम्__व्ध_067.056
भक्तिं तस्यानुसंचिन्त्य__व्ध_067.057
नागस्यामोघसंस्तवम्__व्ध_067.057
प्रीतिमान् अभवद् राजञ्__व्ध_067.057
शङ्खचक्रगदाधरः__व्ध_067.057
सांनिध्यं कल्पयाम् आस__व्ध_067.057
तस्मिन् सरसि माधवः__व्ध_067.057
ग्राहग्रस्तं गजं तं च__व्ध_067.058
संगृह्य सलिलाशयात्__व्ध_067.058
उज्जहाराप्रमेयात्मा__व्ध_067.058
तरसैवारिसूदनः__व्ध_067.058
स्थलस्थं दारयाम् आस__व्ध_067.059
ग्राहं चक्रेण माधवः__व्ध_067.059
मोक्षयाम् आस च गजं__व्ध_067.059
पाशेभ्यः शरणागतम्__व्ध_067.059
स हि देवलशापेन__व्ध_067.060
हूहू गन्धर्वसत्तमः__व्ध_067.060
गजत्वम् अगमत् कृष्णान्__व्ध_067.060
मोक्षं प्राप्य दिवं गतः__व्ध_067.060
शापाद् विमुक्तः सद्यश् च__व्ध_067.060
गजो गन्धर्वतां गतः__व्ध_067.060
ग्राहो ऽपि यक्षतां यातो__व्ध_067.061
यः कृष्णेन निपातितः__व्ध_067.061
तस्यापि शापमोक्षो ऽसौ__व्ध_067.061
जैगीषव्यकृतो ऽभवत्__व्ध_067.061
प्रीतिमांस् त्राति गोविन्दः__व्ध_067.062
सद्यः संसारसागरात्__व्ध_067.062
क्रुद्धो ऽपि निघ्नन् देवत्वम्__व्ध_067.062
अरातीनां प्रयच्छति__व्ध_067.062
तौ च स्वं स्वं वपुः प्राप्य__व्ध_067.063
प्रणिपत्य जनार्दनम्__व्ध_067.063
गन्धर्वराट् तथा यक्षः__व्ध_067.063
परां निर्वृतिम् आगतौ__व्ध_067.063
इदं चैव महाबाहो__व्ध_067.064
देवदेवो ऽभ्यभाषत__व्ध_067.064
दृष्ट्वा मुक्तौ गजग्रहौ__व्ध_067.064
भगवान् मधुसूदनः__व्ध_067.064
यो ग्राहं नागराजं च__व्ध_067.065
मां चैव प्रणिधानवान्__व्ध_067.065
स्मरिष्यति सरश् चेदं__व्ध_067.065
युवयोर् मोक्षणं तथा__व्ध_067.065
गुल्मं कीचकवेणूनां__व्ध_067.066
तं च शैलवरं तथा__व्ध_067.066
अश्वत्थं भास्करं गङ्गां__व्ध_067.066
नैमिषारण्यम् एव च__व्ध_067.066
संस्मरिष्यन्ति ये मर्त्याः__व्ध_067.067
सम्यक् श्रोष्यन्ति वापि ये__व्ध_067.067
न ते दुःस्वप्नपापस्य__व्ध_067.067
भोक्तारो मत्परिग्रहात्__व्ध_067.067
सर्वपापैः प्रमोक्ष्यन्ते__व्ध_067.068
कल्याणानां च भागिनः__व्ध_067.068
भविष्यन्ति तथा पुण्यां__व्ध_067.068
गतिं यास्यन्ति मानवाः__व्ध_067.068
दुःस्वप्नं च नृणां तेषां__व्ध_067.068
सुस्वप्नं च भविष्यति__व्ध_067.068
कौर्मं मात्स्यं च वाराहं__व्ध_067.069
वामनं तार्क्ष्यम् एव च__व्ध_067.069
नारसिंहं तथा रूपं__व्ध_067.069
सृष्टिसंहारकारकम्__व्ध_067.069
एतानि प्रातर् उत्थाय__व्ध_067.070
संस्मरिष्यन्ति ये नराः__व्ध_067.070
सर्वपापविनिर्मुक्तास्__व्ध_067.070
ते यान्ति परमां गतिम्__व्ध_067.070
एवम् उक्त्वा तु राजेन्द्र__व्ध_067.071
देवदेवो जनार्दनः__व्ध_067.071
अस्पृशद् गजगन्धर्वं__व्ध_067.071
ग्राहयक्षं च तं तदा__व्ध_067.071
तेन स्पृष्टाव् उभौ सद्यो__व्ध_067.072
दिव्यमाल्याम्बरान्वितौ__व्ध_067.072
विमाने ऽभिमते प्राप्य__व्ध_067.072
जग्मतुस् त्रिदशालयम्__व्ध_067.072
ततो देवपतिः कृष्णो__व्ध_067.073
मोक्षयित्वा गजोत्तमम्__व्ध_067.073
ऋषिभिः स्तूयमानो हि__व्ध_067.073
गुह्यैर् वेदपदाक्षरैः__व्ध_067.073
गतः स भगवान् विष्णुर्__व्ध_067.073
दुर्विज्ञेयगतिः प्रभुः__व्ध_067.073
गजेन्द्रमोक्षणं दृष्ट्वा__व्ध_067.074
सर्वे चेन्द्रपुरोगमाः__व्ध_067.074
ब्रह्माणम् अग्रतः कृत्वा__व्ध_067.074
सर्वे प्राञ्जलयो ऽभवन्__व्ध_067.074
ववन्दिरे महात्मानं__व्ध_067.*(107)
प्रभुं नारायणं हरिम्__व्ध_067.*(107)
विस्मयोत्फुल्लनयनाः__व्ध_067.*(107)
प्रजापतिपुरःसराः__व्ध_067.*(107)
य इदं शृणुयान् नित्यं__व्ध_067.*(107)
प्रातर् उत्थाय मानवः__व्ध_067.*(107)
प्राप्नुयात् परमां सिद्धिं__व्ध_067.*(107)
दुःस्वप्नस् तस्य नश्यति__व्ध_067.*(107)
गजेन्द्रमोक्षणं पुण्यं__व्ध_067.075
सर्वपापप्रमोचनम्__व्ध_067.075
श्रावयेत् प्रातर् उत्थाय__व्ध_067.075
सर्वपापैः प्रमुच्यते__व्ध_067.075
श्रद्धया हि कुरुश्रेष्ठ__व्ध_067.076
स्मृतेन कथितेन च__व्ध_067.076
गजेन्द्रमोक्षणेनेह__व्ध_067.076
दीर्घम् आयुर् अवाप्नुयात्__व्ध_067.076
मया ते कथितं दिव्यं__व्ध_067.077
पवित्रं पापनाशनम्__व्ध_067.077
कीर्तयस्व महाबाहो__व्ध_067.077
महादुःस्वप्ननाशनम्__व्ध_067.077
कीर्त्यमानं च विप्रेभ्यः__व्ध_067.*(108)
शृणु भक्त्या यथोदितम्__व्ध_067.*(108)
गजेन्द्रमोक्षणं श्रुत्वा__व्ध_067.078
कुन्तीपुत्रो युधिष्ठिरः__व्ध_067.078
भीष्माद् भगीरथीपुत्रात्__व्ध_067.078
पूजयाम् आस केशवम्__व्ध_067.078
ये चापि पाण्डुपुत्रस्य__व्ध_067.079
समीपस्था द्विजोत्तमाः__व्ध_067.079
ते ऽपि भीष्मस्य पार्श्वस्थं__व्ध_067.079
वासुदेवं प्रणेमिरे__व्ध_067.079
वरं वरेण्यं वरपद्मनाभं__व्ध_067.080
नारायणं ब्रह्मनिधिं सुरेशम्__व्ध_067.080
तं देवगुह्यं पुरुषं पुराणं__व्ध_067.080
ववन्दिरे ब्रह्मविदां वरिष्ठम्__व्ध_067.080
एतत् पुण्यं महाराज__व्ध_067.081
नराणां पापकर्मणाम्__व्ध_067.081
दुःस्वप्नदर्शने घोरे__व्ध_067.081
श्रुत्वा पापात् प्रमुच्यते__व्ध_067.081
भक्तिमान् पुण्डरीकाक्षे__व्ध_067.081
गजो दुःखाद् विमोचितः__व्ध_067.081
तथा त्वम् अपि राजेन्द्र__व्ध_067.082
प्रपद्य शरणं हरिम्__व्ध_067.082
विमुक्तः सर्वपापेभ्यः__व्ध_067.082
प्राप्स्यसे परमां गतिम्__व्ध_067.082
महामते महाप्राज्ञ__व्ध_068.001
सर्वशास्त्रविशारद__व्ध_068.001
अक्षीणकर्मबन्धस् तु__व्ध_068.001
पुरुषो द्विजसत्तम__व्ध_068.001
मरणे यज् जपञ् जप्यं__व्ध_068.002
यच् च भावं अनुस्मरन्__व्ध_068.002
परं पदम् अवाप्नोति__व्ध_068.002
तन् मे वद महामुने__व्ध_068.002
श्रीवत्साङ्कं जगद्बीजम्__व्ध_068.003
अनन्तं लोकभावनम्__व्ध_068.003
पुरा नारायणं देवं__व्ध_068.003
नारदः पर्यपृच्छत__व्ध_068.003
भगवन् भूतभव्येश__व्ध_068.004
श्रद्दधानैर् जितेन्द्रियैः__व्ध_068.004
कथं भक्तैर् विचिन्त्यो ऽसि__व्ध_068.004
मरणे प्रत्युपस्थिते__व्ध_068.004
किं वा जप्यं जपेन् नित्यं__व्ध_068.005
कल्यम् उत्थाय मानवः__व्ध_068.005
स्वपन् विबुध्यन् ध्यायंश् च__व्ध_068.005
तन् मे ब्रूहि सनातन__व्ध_068.005
श्रुत्वा तस्य तु देवर्षेर्__व्ध_068.006
वाक्यं वाक्यविशारदः__व्ध_068.006
प्रोवाच भगवान् विष्णुर्__व्ध_068.006
नारदं जगतो गतिः__व्ध_068.006
हन्त ते कथयिष्यामि__व्ध_068.007
मुने दिव्याम् अनुस्मृतिम्__व्ध_068.007
मरणे याम् अनुस्मृत्य__व्ध_068.007
प्राप्नोति परमां गतिम्__व्ध_068.007
ओंकारम् आदितः कृत्वा__व्ध_068.008
माम् अनुस्मृत्य मन्मनाः__व्ध_068.008
एकाग्रप्रयतो भूत्वा__व्ध_068.008
इदं मन्त्रम् उदीरयेत्__व्ध_068.008
अव्यक्तं शाश्वतं देवम्__व्ध_068.009
अनन्तं पुरुषोत्तमम्__व्ध_068.009
प्रपद्ये प्राञ्जलिर् विष्णुम्__व्ध_068.009
अच्युतं परमेश्वरम्__व्ध_068.009
पुराणं परमं विष्णुम्__व्ध_068.010
अद्भुतं लोकभावनम्__व्ध_068.010
प्रपद्ये पुण्डरीकाक्षम्__व्ध_068.010
ईशं भक्तानुकम्पिनम्__व्ध_068.010
लोकनाथं प्रपन्नो ऽस्मि__व्ध_068.011
अक्षरं परमं पदम्__व्ध_068.011
भगवन्तं प्रपन्नो ऽस्मि__व्ध_068.011
भूतभव्यभवत्प्रभुम्__व्ध_068.011
स्रष्टारं सर्वभूतानाम्__व्ध_068.012
अनन्तबलपौरुषम्__व्ध_068.012
पद्मनाभं हृषीकेशं__व्ध_068.012
पपद्ये सत्यम् अव्ययम्__व्ध_068.012
हिरण्यगर्भं भूगर्भम्__व्ध_068.013
अमृतं विश्वतोमुखम्__व्ध_068.013
आभास्वरम् अनाद्यन्तं__व्ध_068.013
प्रपद्ये भास्करद्युतिम्__व्ध_068.013
सहस्रशिरसं देवं__व्ध_068.014
वैकुण्ठं तार्क्ष्यवाहनम्__व्ध_068.014
प्रपद्ये सूक्ष्मम् अचलं__व्ध_068.014
वरेण्यम् अभयप्रदम्__व्ध_068.014
नारायणं नरं हंसं__व्ध_068.015
योगात्मानं सनातनम्__व्ध_068.015
शरण्यं सर्वलोकानां__व्ध_068.015
प्रपद्ये ध्रुवम् ईश्वरम्__व्ध_068.015
यः प्रभुः सर्वलोकानां__व्ध_068.016
येन सर्वम् इदं ततम्__व्ध_068.016
चराचरगुरुर् देवः__व्ध_068.016,*(110)
स नो विष्णुः प्रसीदतु__व्ध_068.016,*(110)
यस्माज् जातः पुरा ब्रह्मा__व्ध_068.017
पद्मयोनिः पितामहः__व्ध_068.017
प्रसीदतु स नो विष्णुः__व्ध_068.017
पिता माता पितामहः__व्ध_068.017
यः पुरा प्रलये प्राप्ते__व्ध_068.018
नष्टे लोके चराचरे__व्ध_068.018
एकस् तिष्ठति योगात्मा__व्ध_068.018
स नो विष्णुः प्रसीदतु__व्ध_068.018
चतुर्भिश् च चतुर्भिश् च__व्ध_068.*(109)
द्वाभ्यां पञ्चभिर् एव च__व्ध_068.*(109)
हूयते च पुनर् द्वाभ्यां__व्ध_068.*(109)
स नो विष्णुः प्रसीदतु__व्ध_068.*(109)
पर्जन्यः पृथिवी सस्यं__व्ध_068.019
कालो धर्मः क्रिया फलम्__व्ध_068.019
गुणाकरः स नो बभ्रुर्__व्ध_068.019
वासुदेवः प्रसीदतु__व्ध_068.019
योगावास नमस् तुभ्यं__व्ध_068.020
सर्वावास वरप्रद__व्ध_068.020
यज्ञगर्भ महाभाग__व्ध_068.020
पञ्चयज्ञ नमो ऽस्तु ते__व्ध_068.020
चतुर्मूर्ते जगद्धाम__व्ध_068.021
लक्ष्म्यावास वरप्रद__व्ध_068.021
सर्वावास नमस् ते ऽस्तु__व्ध_068.021
साक्षिभूत जगत्पते__व्ध_068.021
अजेय खण्डपरशो__व्ध_068.022
विश्वमूर्ते वृषाकपे__व्ध_068.022
त्रिगर्ते पञ्चकालज्ञ__व्ध_068.022
नमस् ते ज्ञानसागर__व्ध_068.022
अव्यक्ताद् अण्डम् उत्पन्नम्__व्ध_068.023
अव्यक्ताद्यः परः प्रभुः__व्ध_068.023
यस्मात् परतरं नास्ति__व्ध_068.023
तम् अस्मि शरणं गतः__व्ध_068.023
चिन्तयन्तो हि यं नित्यं__व्ध_068.024
ब्रह्मेशानादयः प्रभुम्__व्ध_068.024
निश्चयं नाधिगच्छन्ति__व्ध_068.024
तम् अस्मि शरणं गतः__व्ध_068.024
जितेन्द्रिया महात्मानो__व्ध_068.025
ज्ञानध्यानपरायणाः__व्ध_068.025
यं प्राप्य न निवर्तन्ते__व्ध_068.025
तम् अस्मि शरणं गतः__व्ध_068.025
एकांशेन जगत् सर्वं__व्ध_068.026
यो ऽवष्टभ्य विभुः स्थितः__व्ध_068.026
अग्राह्यो निर्गुणः शास्ता__व्ध_068.026
तम् अस्मि शरणं गतः__व्ध_068.026
दिवाकरस्य सौम्यं हि__व्ध_068.027
मध्ये ज्योतिर् अवस्थितम्__व्ध_068.027
क्षेत्रज्ञम् इति यं प्राहुः__व्ध_068.027
स महात्मा प्रसीदतु__व्ध_068.027
अव्यक्तम् अनवस्थानो__व्ध_068.028
दुर्विज्ञेयः सनातनः__व्ध_068.028
आस्थितः प्रकृतिं भुङ्क्ते__व्ध_068.028
स महात्मा प्रसीदतु__व्ध_068.028
क्षेत्रज्ञः पञ्चधा भुङ्क्ते__व्ध_068.029
प्रकृतिं बहुभिर् गुणैः__व्ध_068.029
मनोगुणांश् च यो भुङ्क्ते__व्ध_068.029
स महात्मा प्रसीदतु__व्ध_068.029
सांख्या योगाश् च ये चान्ये__व्ध_068.030
सिद्धाश् चैव महर्षयः__व्ध_068.030
यं विदित्वा विमुच्यन्ते__व्ध_068.030
स महात्मा प्रसीदतु__व्ध_068.030
नमस् ते सर्वतोभद्र__व्ध_068.031
सर्वतोऽक्षिशिरोमुख__व्ध_068.031
निर्विकार नमस् ते ऽस्तु__व्ध_068.031
साक्षिभूत हृदि स्थित__व्ध_068.031
अतीन्द्रिय नमस् तुभ्यं__व्ध_068.031
लिङ्गेभ्यस् त्वं प्रमीयसे__व्ध_068.031
ये तु त्वां नाभिजानन्ति__व्ध_068.032
संसारे संसरन्ति ते__व्ध_068.032
रागद्वेषविनिर्मुक्तं__व्ध_068.032
लोभमोहविवर्जितम्__व्ध_068.032
अशरीरं शरीरस्थं__व्ध_068.032
समं सर्वेषु देहिषु__व्ध_068.032
अव्यक्तं बुद्ध्यहंकारौ__व्ध_068.033
महाभूतेन्द्रियाणि च__व्ध_068.033
त्वयि तानि न तेषु त्वं__व्ध_068.033
तेषु त्वं तानि न त्वयि__व्ध_068.033
स्रष्टा भोक्तासि कूटस्थो__व्ध_068.034
गुणानां प्रभुर् ईश्वरः__व्ध_068.034
अकर्ता हेतुरहितः__व्ध_068.034
प्रभुः स्वात्मन्य् अवस्थितः__व्ध_068.034
नमस् ते पुण्डरीकाक्ष__व्ध_068.035
पुनर् एव नमो ऽस्तु ते__व्ध_068.035
ईश्वरो ऽसि जगन्नाथ__व्ध_068.035
किम् अतः परम् उच्यते__व्ध_068.035
भक्तानां यद् धितं देव__व्ध_068.035
तद् ध्याय त्रिदशेश्वर__व्ध_068.035
मा मे भूतेषु संयोगः__व्ध_068.036
पुनर् भवतु जन्मनि__व्ध_068.036
अहंकारेण बुद्ध्या वा__व्ध_068.036
तथा सत्त्वादिभिर् गुणैः__व्ध_068.036
मा मे धर्मो ह्य् अधर्मो वा__व्ध_068.037
पुनर् भवतु जन्मनि__व्ध_068.037
विषयैर् इन्द्रियैर् वापि__व्ध_068.037
मा मे भूयात् समागमः__व्ध_068.037
पृथिवीं यातु मे घ्राणं__व्ध_068.038
यातु मे रसना जलम्__व्ध_068.038
चक्षुर् हुताशनं यातु__व्ध_068.038
स्पर्शो मे यातु मारुतम्__व्ध_068.038
शब्दो ह्य् आकाशम् अभ्येतु__व्ध_068.039
मनो वैकारिकं तथा__व्ध_068.039
अहंकारश् च मे बुद्धिं__व्ध_068.039
त्वयि बुद्धिः समेतु च__व्ध_068.039
वियोगः सर्वकरणैर्__व्ध_068.040
गुणैर् भूतैश् च मे भवेत्__व्ध_068.040
सत्त्वं रजस् तमश् चैव__व्ध_068.040
प्रकृतिं प्रविशन्तु मे__व्ध_068.040
निष्केवलं पदं चैव__व्ध_068.041
प्रयामि परमं तव__व्ध_068.041
एकीभावस् त्वयैवास्तु__व्ध_068.041
मा मे जन्म भवेत् पुनः__व्ध_068.041
नमो भगवते तस्मै__व्ध_068.042
विष्णवे प्रभविष्णवे__व्ध_068.042
त्वन्मनस् त्वद्गतपृआणस्__व्ध_068.042
त्वद्भक्तस् त्वत्परायणः__व्ध_068.042
त्वाम् एवानुस्मरे देव__व्ध_068.042
मरणे प्रत्युपस्थिते__व्ध_068.042
पूर्वदेहकृता ये मे__व्ध_068.043
व्याधयस् ते विशन्तु माम्__व्ध_068.043
आर्दयन्तु च दुःखानि__व्ध_068.043
प्रविमुञ्चामि यद् ऋणम्__व्ध_068.043
उपतिष्ठन्तु मे रोगा__व्ध_068.044
ये मया पूर्वसंचिताः__व्ध_068.044
अनृणो गन्तुम् इच्छामि__व्ध_068.044
तद् विष्णोः परमं पदम्__व्ध_068.044
अहं भगवतस् तस्य__व्ध_068.045
मम चासौ सुरेश्वरः__व्ध_068.045
तस्याहं न प्रणश्यामि__व्ध_068.045
स च मे न प्रणश्यति__व्ध_068.045
नमो भगवते तस्मै__व्ध_068.046
येन सर्वम् इदं ततम्__व्ध_068.046
तम् एव च प्रपन्नो ऽस्मि__व्ध_068.046
मम यो यस्य चाप्य् अहम्__व्ध_068.046
इमाम् अनुस्मृतिं नित्यं__व्ध_068.047
वैष्णवीं पापनाशनीम्__व्ध_068.047
स्वपञ् जाग्रत् पठेद् यस् तु__व्ध_068.047
त्रिसंध्यं वापि यः स्मरेत्__व्ध_068.047
मरणे चाप्य् अनुप्राप्ते__व्ध_068.048
यस् त्व् इमां समनुस्मरेत्__व्ध_068.048
अपि पापसमाचारः__व्ध_068.048
सो ऽपि याति परां गतिम्__व्ध_068.048
अर्चयन्न् अपि यो देवं__व्ध_068.049
गृहे वापि बलिं ददेत्__व्ध_068.049
जुह्वद् अग्निं स्मरेद् वापि__व्ध_068.049
लभते स परां गतिम्__व्ध_068.049
पौर्णमास्याम् अमावास्यां__व्ध_068.050
द्वादश्यां च विशेषतः__व्ध_068.050
श्रावयेच् छ्रद्दधानंस् तु__व्ध_068.050
ये चान्ये माम् उपाश्रिताः__व्ध_068.050
नम इत्य् एव यो ब्रूयान्__व्ध_068.051
मद्भक्तः श्रद्धयान्वितः__व्ध_068.051
तस्य स्युर् अक्षया लोकाः__व्ध_068.051
श्वपाकस्यापि नारद__व्ध_068.051
किं पुनर् ये यजन्ते मां__व्ध_068.052
साधवो विधिपूर्वकम्__व्ध_068.052
ध्यायन्ति च यथान्यायं__व्ध_068.052
ते यान्ति परमां गतिम्__व्ध_068.052
अश्वमेधसहस्राणां__व्ध_068.053
यः सहस्रं समाचरेत्__व्ध_068.053
नासौ तत् पदम् आप्नोति__व्ध_068.053
मद्भक्तैर् यद् अवाप्यते__व्ध_068.053
इष्टं दत्तं तपो ऽधीतं__व्ध_068.054
व्रतानि नियमाश् च ये__व्ध_068.054
सर्वम् एतद् विनाशान्तं__व्ध_068.054
ज्ञानस्यान्तो न विद्यते__व्ध_068.054
तस्मात् प्रदेयं साधुभ्यो__व्ध_068.055
धर्म्यं सत्त्वाभयंकरम्__व्ध_068.055
दानादीन्य् अन्तवन्तीह__व्ध_068.055
मद्भक्तो नान्तम् अश्नुते__व्ध_068.055
मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0