भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 120

नारायणं नमस्कृत्य__व्ध_मङ्ग्1
नरं चैव नरोत्तमम्__व्ध_मङ्ग्1
देवीं सरस्वतीं चैव__व्ध_मङ्ग्1
ततो जयम् उदीरयेत्__व्ध_मङ्ग्1
द्वैपायनौष्ठपुटनिःसृतम् अप्रमेयं__व्ध_मङ्ग्2
पुण्यं पवित्रम् अथ पापहरं शुभं च__व्ध_मङ्ग्2
यो भारतं समधिगच्छति वाच्यमानं__व्ध_मङ्ग्2
किं तस्य पुष्करजलैर् अभिषेचनेन__व्ध_मङ्ग्2
नमो व्यासाय गुरवे__व्ध_मङ्ग्2अल्त्
सर्वज्ञाय महर्षये__व्ध_मङ्ग्2अल्त्
पाराशर्याय शान्ताय__व्ध_मङ्ग्2अल्त्
नमो नारायणाय ते__व्ध_मङ्ग्2अल्त्
कृताभिषेकं तनयम्__व्ध_001.001
राज्ञः पारीक्षितस्य ह__व्ध_001.001
द्रष्टुम् अभ्याययुः प्रीत्या__व्ध_001.001
शौनकाद्या महर्षयः__व्ध_001.001
तान् आगतान् स राजर्षिः__व्ध_001.002
पाद्यार्घ्यादिभिर् अर्चितान्__व्ध_001.002
सुखोपविष्टान् विश्रान्तान्__व्ध_001.002
कृतसंप्रश्नसत्कथान्__व्ध_001.002
तत्कथाभिः कृताह्लादः__व्ध_001.003
प्रणिपत्य कृताञ्जलिः__व्ध_001.003
शतानीको ऽथ पप्रच्छ__व्ध_001.003
नारायणकथां पराम्__व्ध_001.003
यम् आश्रित्य जगन्नाथम्__व्ध_001.004
मम पूर्वपितामहाः__व्ध_001.004
विपक्षापहृतं राज्यम्__व्ध_001.004
अवापुः पुरुषोत्तमाः__व्ध_001.004
द्रौणिब्रह्मास्त्रनिर्दग्धो__व्ध_001.005
मम येन पितामहः__व्ध_001.005
परीक्षित् प्राणसंयोगं__व्ध_001.005
देवदेवेन लम्भितः__व्ध_001.005
तस्य देवस्य माहात्म्यं__व्ध_001.006
देवर्षिसिद्धमनुजैः__व्ध_001.006
श्रुतं सुबहुशो मया__व्ध_001.006
स्तुतस्याशेषजन्मनः__व्ध_001.006
कः स्तोतुम् ईशस् तम् अजं__व्ध_001.007
यस्यैतत् सचराचरम्__व्ध_001.007
अव्ययस्याप्रमेयस्य__व्ध_001.007
ब्रह्माण्डम् उदरे शयम्__व्ध_001.007

रुद्रः क्रोधोद्भवो यस्य__व्ध_001.008
प्रसादाच् च पितामहः__व्ध_001.008
तस्य देवस्य कः शक्तः__व्ध_001.008
प्रवक्तुं वा विभूतयः__व्ध_001.008
सो ऽहम् इच्छामि देवस्य__व्ध_001.009
तस्य सर्वात्मनः प्रभोः__व्ध_001.009
श्रोतुम् आराधनं येन__व्ध_001.009
निस्तरेयं भवार्णवम्__व्ध_001.009
केनोपायेन मन्त्रैर् वा__व्ध_001.010
रहस्यैः परिचर्यया__व्ध_001.010
दानैर् व्रतोपवासैर् वा__व्ध_001.010
जप्यैर् होमैर् अथापि वा__व्ध_001.010
आराधितः समस्तानां__व्ध_001.011
क्लेशानां हानिदो हरिः__व्ध_001.011
शक्यः समाराधयितुं__व्ध_001.011
तन् नः शंसत सत्तमाः__व्ध_001.011
विद्यानाम् अपि सा विद्या__व्ध_001.012
श्रुतानाम् अपि तच् छ्रुतम्__व्ध_001.012
रहस्यानां रहस्यं तद्__व्ध_001.012
येन विष्णुः प्रसीदति__व्ध_001.012
मन्त्राणां परमो मन्त्रो__व्ध_001.013
व्रतानां तन् महाव्रतम्__व्ध_001.013
उपोषितं हि तच् छ्रेष्ठं__व्ध_001.013
येन तुष्यति केशवः__व्ध_001.013
सा जिह्वा या हरिं स्तौति__व्ध_001.014
तच् चित्तं यत् तदर्पणम्__व्ध_001.014
ताव् एव केवलौ श्लाघ्यौ__व्ध_001.014
यौ तत्पूजाकरौ करौ__व्ध_001.014
सुजन्म देहम् अत्यन्तं__व्ध_001.015
तद् एवाशेषजन्मसु__व्ध_001.015
यद् एव पुलकोद्भासि__व्ध_001.015
विष्णोर् नामाभिकीर्तनात्__व्ध_001.015
सा हानिस् तन् महच् छिद्रं__व्ध_001.016
सा चान्धजडमूकता__व्ध_001.016
यन् मुहूर्तं क्षणं वापि__व्ध_001.016
वासुदेवो न चिन्त्यते__व्ध_001.016
नूनं तत् कण्ठशालूकम्__व्ध_001.017
अथवा प्रतिजिह्विका__व्ध_001.017
रोगो वान्यो न सा जिह्वा__व्ध_001.017
या न वक्ति हरेर् गुणान्__व्ध_001.017

सन्त्य् अनेका बिलास् तद्वच्__व्ध_001.018
श्रोत्रम् अप्य् अल्पमेधसाम्__व्ध_001.018
दत्त्वावधानं यच् छब्दे__व्ध_001.018
विनैव हरिसंस्तुतिम्__व्ध_001.018
धर्मार्थकामसंप्राप्तौ__व्ध_001.019
पुरुषाणां विचेष्टितम्__व्ध_001.019
जन्मन्य् अविफला सैका__व्ध_001.019
या गोविन्दाश्रया क्रिया__व्ध_001.019
दुर्गसंसारकान्तारम्__व्ध_001.020
अपारम् अभिधावताम्__व्ध_001.020
एकः कृष्णनमस्कारो__व्ध_001.020
मुक्तितीरस्य देशिकः__व्ध_001.020
सर्वरत्नमयो मेरुः__व्ध_001.021
सर्वाश्चर्यमयं नभः__व्ध_001.021
सर्वतीर्थमयी गङ्गा__व्ध_001.021
सर्वदेवमयो हरिः__व्ध_001.021
एवम् आदिगुणो भोगः__व्ध_001.022
कृष्णस्याद्भुतकर्मणः__व्ध_001.022
श्रुतो मे बहुशो सिद्धैः__व्ध_001.022
गीयमानस् तथापरैः__व्ध_001.022
सो ऽहम् इच्छामि तं देवं__व्ध_001.023
सर्वलोकपरायणम्__व्ध_001.023
नारायणम् अशेषस्य__व्ध_001.023
जगतो हृद्य् अवस्थितम्__व्ध_001.023
आराधयितुम् ईशानम्__व्ध_001.024
अनन्तम् अमितौजसम्__व्ध_001.024
शंकरं जगतः प्राणं__व्ध_001.024
स्मृतमात्राघहारिणम्__व्ध_001.024
तन् ममाद्य मुनिश्रेष्ठाः__व्ध_001.025
प्रसादयितुम् इच्छतः__व्ध_001.025
उपदेशप्रदानेन__व्ध_001.025
प्रसादं कर्तुम् अर्हत__व्ध_001.025
तस्यैतद् वचनं श्रुत्वा__व्ध_001.026
भक्तिम् उद्वहतो हरेः__व्ध_001.026
परितोषं परं जग्मुर्__व्ध_001.026
मुनयः सर्व एव ते__व्ध_001.026
सर्वे च ते मुनिश्रेष्ठा__व्ध_001.027
भृगुश्रेष्ठं च शौनकम्__व्ध_001.027
यथार्थं भगवंस् तस्मै__व्ध_001.027
कथ्यताम् इत्य् अचोदयन्__व्ध_001.027

सर्वज्ञाननिधिः स्फीतस्__व्ध_001.028
त्वम् अत्र भृगुनन्दन__व्ध_001.028
त्रैलोक्यसर्वसंदेह-__व्ध_001.028
तमोदीपस् तपोधन__व्ध_001.028
एवम् उक्तो मुनिवरैः__व्ध_001.029
प्रीत्या तस्य च भूपतेः__व्ध_001.029
भक्त्या च देवदेवस्य__व्ध_001.029
प्रवणीकृतमानसः__व्ध_001.029
कृत्वोत्तरीयपर्यङ्कं__व्ध_001.030
शिथिलं भगवान् अथ__व्ध_001.030
प्रत्युवाच महाभागः__व्ध_001.030
शौनकस् तं महीपतिम्__व्ध_001.030
यत् पृच्छसि महीपाल__व्ध_001.031
कृष्णस्याराधनं प्रति__व्ध_001.031
व्रतोपवासजप्यादि__व्ध_001.031
तद् इहैकमनाः शृणु__व्ध_001.031
अनादिमत् परं ब्रह्म__व्ध_001.032
सर्वहेयविवर्जितम्__व्ध_001.032
व्यापि यत् सर्वभूतेषु__व्ध_001.032
स्थितं सदसतः परम्__व्ध_001.032
प्रधानपुंसोर् अजयोर्__व्ध_001.033
यतः क्षोभः प्रवर्तते__व्ध_001.033
नित्ययोर् व्यापिनोश् चैव__व्ध_001.033
जगदादौ महात्मनोः__व्ध_001.033
तत्क्षोभकत्वाद् ब्रह्माण्ड-__व्ध_001.034
सृष्टिहेतुर् निरञ्जनः__व्ध_001.034
अहेतुर् अपि सर्वात्मनः__व्ध_001.034
जायते परमेश्वरः__व्ध_001.034
प्रधानपुरुषत्वं च__व्ध_001.035
तथैवेश्वरलीलया__व्ध_001.035
समुपैति ततश् चैव__व्ध_001.035
ब्रह्मत्वं छन्दतः प्रभुः__व्ध_001.035
ततः स्थितौ पालयिता__व्ध_001.036
विष्णुत्वं जगतः क्षये__व्ध_001.036
रुद्रत्वं च जगन्नाथः__व्ध_001.036
स्वेच्छया कुरुते ऽव्ययः__व्ध_001.036
तद् एकम् अक्षरं धाम__व्ध_001.037
परं सदसतोर् महत्__व्ध_001.037
भेदाभेदस्वरूपस्थं__व्ध_001.037
प्रणिपत्य परं पदम्__व्ध_001.037

प्रवक्ष्यामि यथा पूर्वं__व्ध_001.038
मत्पित्रा कथितं मम__व्ध_001.038
तस्यापि किल तत्पित्रा__व्ध_001.038
तस्मै चाह किलोशनाः__व्ध_001.038
तेनापि भृगुम् आराध्य__व्ध_001.039
प्राप्तम् आराधनं हरेः__व्ध_001.039
सकाशाद् ब्रह्मणः प्राप्तं__व्ध_001.039
भृगुणापि महात्मना__व्ध_001.039
मरीचिमिश्रैश् च पुरा__व्ध_001.040
परम् एतन् महर्षिभिः__व्ध_001.040
प्राप्तं सकाशाद् देवस्य__व्ध_001.040
ब्रह्मणो व्यक्तजन्मनः__व्ध_001.040
योगं ब्रह्मा परं प्राह__व्ध_001.041
महर्षीणां यदा प्रभुः__व्ध_001.041
समस्तवृत्तिसंरोधात्__व्ध_001.041
कैवल्यप्रतिपादकम्__व्ध_001.041
तदा जगत्पतिर् ब्रह्मा__व्ध_001.042
प्रणिपत्य महर्षिभिः__व्ध_001.042
सर्वैः किलोक्तो भगवान्__व्ध_001.042
आत्मयोनिः प्रजाहितम्__व्ध_001.042
यो योगो भवता प्रोक्तो__व्ध_001.043
मनोवृत्तिनिरोधजः__व्ध_001.043
प्राप्तुं शक्यः स त्व् अनेकैः__व्ध_001.043
जन्मभिर् जगतः पते__व्ध_001.043
विषया दुर्जया नॄणाम्__व्ध_001.044
इन्द्रियाकर्षणाः प्रभो__व्ध_001.044
वृत्तयश् चेतसश् चापि__व्ध_001.044
चपला चातिदुर्धराः__व्ध_001.044
रागादयः कथं जेतुं__व्ध_001.045
शक्या वर्षशतैर् अपि__व्ध_001.045
न योगयोग्यं हि मनो__व्ध_001.045
भवत्य् एभिर् अनिर्जितैः__व्ध_001.045
अल्पायुषश् च पुरुषा__व्ध_001.046
ब्रह्मन् कृतयुगे ऽप्य् अमी__व्ध_001.046
त्रेतायां द्वापरे चैव__व्ध_001.046
किमु प्राप्ते कलौ युगे__व्ध_001.046
भगवंस् त्वम् उपायज्ञः__व्ध_001.047
प्रसन्नो वक्तुम् अर्हसि__व्ध_001.047
अनायासेन येनेमम्__व्ध_001.047
उत्तरेम भवार्णवम्__व्ध_001.047

दुःखाम्बुमग्नाः पुरुषाः__व्ध_001.048
प्राप्य ब्रह्म महाप्लवम्__व्ध_001.048
उत्तरेयुर् भवाम्भोधिं__व्ध_001.048
तथा त्वम् अनुचिन्तय__व्ध_001.048
एवम् उक्तस् तदा ब्रह्मा__व्ध_001.049
क्रियायोगं महात्मनाम्__व्ध_001.049
तेषाम् ऋषीणाम् आचष्ट__व्ध_001.049
नराणां हितकाम्यया__व्ध_001.049
आराधयत विश्वेशम्__व्ध_001.050
नारायणम् अतन्द्रिताः__व्ध_001.050
बाह्यालम्बनसापेक्षास्__व्ध_001.050
तम् अजं जगतः पतिम्__व्ध_001.050
इज्यापूजानमस्कार-__व्ध_001.051
शुश्रूषाभिर् अहर्निशम्__व्ध_001.051
व्रतोपवासैर् विविधैर्__व्ध_001.051
ब्राह्मणानां च तर्पणैः__व्ध_001.051
तैस् तैश् चाभिमतैः कामैर्__व्ध_001.052
ये च चेतसि तुष्टिदाः__व्ध_001.052
अपरिच्छेद्यमाहात्म्यम्__व्ध_001.052
आराधयत केशवम्__व्ध_001.052
तन्निष्ठास् तद्गतधियस्__व्ध_001.053
तत्कर्माणस् तदाश्रयाः__व्ध_001.053
तद्दृष्टयस् तन्मनसः__व्ध_001.053
सर्वस्मिन् स इति स्थितः__व्ध_001.053
समस्तान्य् अथ कर्माणि__व्ध_001.054
तत्र सर्वात्मनात्मनि__व्ध_001.054
संन्यस्यध्वं स वः कर्ता__व्ध_001.054
समस्तावरणक्षयम्__व्ध_001.054
एतत् तद् अक्षरं ब्रह्म__व्ध_001.055
प्रधानपुरुषाव् उभौ__व्ध_001.055
यतो यस्मिन् यथा चोभौ__व्ध_001.055
सर्वव्यापिन्य् अवस्थितौ__व्ध_001.055
परः पराणां परमः__व्ध_001.056
स एकः पुरुषोत्तमः__व्ध_001.056
यस्याभिन्नम् इदं सर्वम्__व्ध_001.056
यच् चेङ्गं यच् च नेङ्गति__व्ध_001.056
तम् आराध्य जगन्नाथं__व्ध_001.057
मोक्षकारणम् अव्यक्तम्__व्ध_001.057
अचिन्त्यम् अपरिग्रहम्__व्ध_001.057
क्रियायोगेन मुच्यते__व्ध_001.057

इति ते ब्रह्मणः श्रुत्वा__व्ध_001.058
रहस्यम् ऋषिसत्तमाः__व्ध_001.058
नराणाम् उपकाराय__व्ध_001.058
योगशास्त्राणि चक्रिरे__व्ध_001.058
क्रियायोगपराणीह__व्ध_001.058
मुक्तिकार्याण्य् अनेकशः__व्ध_001.058
आराध्यते जगन्नाथो__व्ध_001.059
यदनुष्ठानतत्परैः__व्ध_001.059
परमात्मा हृषीकेशः__व्ध_001.059
सर्वेशः सर्वभावनः__व्ध_001.059
तानि ते नृपशार्दूल__व्ध_001.060
सर्वपापहराण्य् अहम्__व्ध_001.060
वक्ष्यामि श्रूयताम् अन्यद्__व्ध_001.060
रहस्यम् इदम् उत्तमम्__व्ध_001.060
संसारार्णवमग्नानां__व्ध_001.061
विषयाक्रान्तचेतसाम्__व्ध_001.061
उत्तारम् इच्छतां तस्माद्__व्ध_001.061
भृशं यन् नान्तरैर् अपि__व्ध_001.061
विष्णुपोतं विना नान्यत्__व्ध_001.061
किंचिद् अस्ति परायणम्__व्ध_001.061
उत्तिष्ठंश् चिन्तय हरिं__व्ध_001.062
व्रजंश् चिन्तय केशवम्__व्ध_001.062
भुञ्जंश् चिन्तय गोविन्दम्__व्ध_001.062
स्वपंश् चिन्तय माधवम्__व्ध_001.062
एवम् एकाग्रचित्तस् त्वं__व्ध_001.063
संश्रितो मधुसूदनम्__व्ध_001.063
जन्ममृत्युजराग्राहं__व्ध_001.063
संसाराम्भस् तरिष्यसि__व्ध_001.063
अनन्तम् ईड्यं पुरुषं पुराणं__व्ध_001.064
जगद्विधातारम् अजं जनित्र्यम्__व्ध_001.064
समाश्रिता ये हरिम् ईशितारं__व्ध_001.064
तेषां भवो नास्ति हि मुक्तिभाजाम्__व्ध_001.064
श्रूयतां कुरुशार्दूल__व्ध_002.001
संवादो ऽयम् अनुत्तमः__व्ध_002.001
अम्बरीषस्य राजर्षेः__व्ध_002.001
सह देवेन चक्रिणा__व्ध_002.001
अम्बरीषो महीपालः__व्ध_002.002
पालयन्न् एव मेदिनीम्__व्ध_002.002
उद्विग्न एव द्वन्द्वान्तम्__व्ध_002.002
अभीप्सुः पुरुषर्षभः__व्ध_002.002

देवदेवात् स गोविन्दाद्__व्ध_002.003
अभीप्सुर् द्वन्द्वसंक्षयम्__व्ध_002.003
तपस् तेपे निराहारो__व्ध_002.003
गृणन् ब्रह्म सनातनम्__व्ध_002.003
तस्य कालेन महता__व्ध_002.004
भक्तिम् उद्वहतः पराम्__व्ध_002.004
तुतोष भगवान् विष्णुः__व्ध_002.004
सर्वलोकपतिः प्रभुः__व्ध_002.004
स रूपम् ऐन्द्रम् आस्थाय__व्ध_002.005
तम् उवाच महीपतिम्__व्ध_002.005
मेघगम्भीरनिर्घोषो__व्ध_002.005
वारणेन्द्रगतिस् तदा__व्ध_002.005
राजर्षे वद यत् कार्यं__व्ध_002.006
तव चेतस्य् अवस्थितम्__व्ध_002.006
वरदो ऽहम् अनुप्राप्तो__व्ध_002.006
वरं वरय सुव्रत__व्ध_002.006
एवम् उक्तस् ततो राजा__व्ध_002.007
विलोक्य च पुरंदरं__व्ध_002.007
प्रत्युवाचार्घ्यम् उद्यम्य__व्ध_002.007
स्वागतं ते ऽस्त्व् इति प्रभो__व्ध_002.007
नाहम् आराधयामि त्वां__व्ध_002.008
तव बद्धो ऽयम् अञ्जलिः__व्ध_002.008
वरार्थिनां त्वं वरदः__व्ध_002.008
प्रयच्छाभिमतान् वरान्__व्ध_002.008
वरार्थाय त्वयान्यैश् च__व्ध_002.009
क्रियते नृपते तपः__व्ध_002.009
स किम् अर्थं त्वम् अस्मत्तो__व्ध_002.009
न गृह्णास्य् अभिवांछितम्__व्ध_002.009
न वरार्थम् अयं यत्नस्__व्ध_002.010
त्वत्तो देवपते मम__व्ध_002.010
विष्णोर् आराधनार्थाय__व्ध_002.010
विद्धि मां त्वं कृतोद्यमम्__व्ध_002.010
अहं हि सर्वदेवानां__व्ध_002.011
त्रैलोक्यस्य तथेश्वरः__व्ध_002.011
पालयन्ति ममैवाज्ञाम्__व्ध_002.011
आदित्याद्याः सदा सुराः__व्ध_002.011
आदित्या वसवो रुद्रा__व्ध_002.012
नासत्यौ मरुतां गणाः__व्ध_002.012
प्रजानां पतयः साध्या__व्ध_002.012
विश्वेदेवा महर्षयः__व्ध_002.012

कुर्वन्त्य् एते ममैवाज्ञां__व्ध_002.013
सिद्धगन्धर्वपन्नगाः__व्ध_002.013
मत्तो हि को ऽन्यो वरदः__व्ध_002.013
प्रतिगृह्णीष्व वाञ्छितम्__व्ध_002.013
त्वम् इन्द्रः सत्यम् एवैतद्__व्ध_002.014
देवस् त्रिभुवनेश्वरः__व्ध_002.014
त्वयापि प्राप्तम् ऐश्वर्यं__व्ध_002.014
यतस् तं तोषयाम्य् अहम्__व्ध_002.014
त्रैलोक्यं तव देवेश__व्ध_002.015,*(1)
वशे यस्य महात्मनः__व्ध_002.015,*(1)
सप्तोदरे शया लोकास्__व्ध_002.015
तम् ईशं तोषयाम्य् अहम्__व्ध_002.015
यस्य त्वम् अमरैः सर्वैः__व्ध_002.016
समवेताः सुरेश्वर__व्ध_002.016
देहप्राप्तो ऽन्तरस्थो वै__व्ध_002.016
तं नमामि जनार्दनम्__व्ध_002.016
निमेषो ब्रह्मणो रात्रिर्__व्ध_002.017
उन्मेषो यस्य वासरः__व्ध_002.017
तम् ईड्यम् ईशम् अजरं__व्ध_002.017
प्रणतो ऽस्मि जनार्दनम्__व्ध_002.017
यो हर्ता जगतो देवः__व्ध_002.018
कर्ता पालायिता च यः__व्ध_002.018
त्रयस्यास्य च यो योनिस्__व्ध_002.018
तं विष्णुं तोषयाम्य् अहम्__व्ध_002.018
हिरण्यकशिपुः पूर्वं__व्ध_002.019
हिरण्याक्षश् च ते रिपुः__व्ध_002.019
तवानुकम्पया येन__व्ध_002.019
हतौ दैत्यौ नतो ऽस्मि तम्__व्ध_002.019
बलिनापहृतं शक्र__व्ध_002.020
दत्तं येन पुरा तव__व्ध_002.020
त्रैलोक्यराज्यं तं बद्ध्वा__व्ध_002.020
तं नमामि जनार्दनम्__व्ध_002.020
प्रसीद शक्र गच्छ त्वम्__व्ध_002.021
अहम् अप्य् अत्र संस्थितः__व्ध_002.021
तपस् तप्स्ये जगन्नाथं__व्ध_002.021
द्रष्टुं नारायणं हरिम्__व्ध_002.021
एवम् उक्तस् ततस् तेन__व्ध_002.022
शक्ररूपी जनार्दनः__व्ध_002.022
पुनर् अप्य् आह तं कोपात्__व्ध_002.022
पार्थिवं तपसि स्थितम्__व्ध_002.022

यदि मद्वचनाद् अद्य__व्ध_002.023
न भवांस् त्यक्ष्यते तपः__व्ध_002.023
वज्रं ते प्रहरिष्यामि__व्ध_002.023
बुध्यस्वैतद् यदीच्छसि__व्ध_002.023
नाप्य् अल्पम् अपराधं ते__व्ध_002.024
करोमि त्रिदशेश्वर__व्ध_002.024
तथापि वधयोग्यं मां__व्ध_002.024
मन्यसे चेत् क्षिपायुधम्__व्ध_002.024
श्रूयते किल गोविन्दे__व्ध_002.025
भक्तिम् उद्वहतां नृणाम्__व्ध_002.025
संसारार्णावभीतानां__व्ध_002.025
त्रिदशाः परिपन्थिनः__व्ध_002.025
तापसो ऽहं क्व निःसङ्गः__व्ध_002.026
क्व च कोपस् तवेदृशः__व्ध_002.026
विज्ञातम् एतद् गोविन्द-__व्ध_002.026
भक्तिविघ्नोपपादितम्__व्ध_002.026
भवन्ति बहवो विघ्ना__व्ध_002.027
नरे श्रेयःपरायणे__व्ध_002.027
गोविन्दभक्त्यभ्यधिकं__व्ध_002.027
श्रेयश् चान्यन् न विद्यते__व्ध_002.027
स त्वं प्रहर वा मा वा__व्ध_002.028
मयि वज्रं पुरंदर__व्ध_002.028
नाहम् उत्सृज्य गोविन्दम्__व्ध_002.028
अन्यम् आराधयामि भोः__व्ध_002.028
न चापि वज्रं वज्री वा__व्ध_002.029
त्वं च नान्ये सुरासुराः__व्ध_002.029
शक्ता निहन्तुम् ईशाने__व्ध_002.029
हृदयस्थे जनार्दने__व्ध_002.029
किं च नो बहुनोक्तेन__व्ध_002.030
नाहं वक्ष्याम्य् अतः परं__व्ध_002.030
यथेप्सितं कुरुष्व त्वं__व्ध_002.030
करिष्ये ऽहम् अभीप्सितम्__व्ध_002.030
एवम् उक्त्वा सुरपतिं__व्ध_002.031
पार्थिवः स पुनस् तपः__व्ध_002.031
चचार मौनम् आस्थाय__व्ध_002.031
तेनातुष्यत केशवः__व्ध_002.031
संदर्शयाम् आस ततः__व्ध_002.032
स्वं वपुः कैटभार्दनः__व्ध_002.032
चतुर्भुजम् उदाराङ्गं__व्ध_002.032
शङ्खचक्रगदाधरम्__व्ध_002.032

किरीटस्रग्धरं स्पष्टं__व्ध_002.033
नीलोत्पलदलच्छविम्__व्ध_002.033
ऐरावतश् च गरुडस्__व्ध_002.033
तत्क्षणात् समदृश्यत__व्ध_002.033
स च राजवरो देवं__व्ध_002.034
पीतवाससम् अच्युतम्__व्ध_002.034
विलोक्य भक्तिशिरसा__व्ध_002.034
सहसैव महीं ययौ__व्ध_002.034
प्रत्युवाच च भूपालः__व्ध_002.035
प्रणिपत्य कृताञ्जलिः__व्ध_002.035
रोमाञ्चिततनुः स्तोत्रम्__व्ध_002.035
पद्मनाभं ततो ऽस्तुवत्__व्ध_002.035
आदिदेव जयाजेय__व्ध_002.036
जय सर्गादिकारक__व्ध_002.036
जयास्पष्टप्रकाशाण्ड__व्ध_002.036
बृहन्मूर्ते जयाक्षर__व्ध_002.036
जय सर्वगताचिन्त्य__व्ध_002.037
जय जन्मजरापह__व्ध_002.037
जय व्यापिञ् जयाभेद__व्ध_002.037
सर्वभूतेष्व् अवस्थित__व्ध_002.037
जय यज्ञपते नाथ__व्ध_002.038
हव्यकव्याशनाव्यय__व्ध_002.038
जय विज्ञातसिद्धान्त__व्ध_002.038
मायामोहक केशव__व्ध_002.038
लोकस्थित्यर्थम् अनघ__व्ध_002.039
वराह जय भूधर__व्ध_002.039
नृसिंह जय देवारि-__व्ध_002.039
वक्षःस्थलविदारण__व्ध_002.039
देवानाम् अरिभीतानाम्__व्ध_002.040
आर्तिनाशन वामन__व्ध_002.040
जय क्रान्तसमस्तोर्वी-__व्ध_002.040
नभःस्वर्लोकभावन__व्ध_002.040
जितं ते जगताम् ईश__व्ध_002.*(2)
जितं ते सर्व सर्वद__व्ध_002.*(2)
जितं ते सर्वभूतेश__व्ध_002.041
योगिध्येय नमो ऽस्तु ते__व्ध_002.041
नमो ऽस्त्व् अव्यपदेश्याय__व्ध_002.042
नमः सूक्ष्मस्वरूपिणे__व्ध_002.042
नमस् त्रिमूर्तये तुभ्यं__व्ध_002.042
विश्वमूर्ते नमो ऽस्तु ते__व्ध_002.042

ब्रह्माद्यैश् चिन्त्यते रूपं__व्ध_002.043
यत् तत् सदसतः परं__व्ध_002.043
विशेषैर् अविशेष्याय__व्ध_002.043
तस्मै तुभ्यं नमो नमः__व्ध_002.043
पुरुषाख्यं ततो रूपं__व्ध_002.044
निर्गुणं गुणभोक्तृ च__व्ध_002.044
प्रकृतेः परतः सूक्ष्मं__व्ध_002.044
तन् नमस्यामि ते हरे__व्ध_002.044
अव्यक्तादिविशेषान्तम्__व्ध_002.045
अतिसूक्ष्मतमं महत्__व्ध_002.045
प्राकृतं तव तद् रूपं__व्ध_002.045
तस्मै देव नमाम्य् अहम्__व्ध_002.045
रूपैर् नानाविधैर् यश् च__व्ध_002.046
तद्रूपान्तरगोचरम्__व्ध_002.046
लीलया व्यवहारस् ते__व्ध_002.046
तस्मै देवात्मने नमः__व्ध_002.046
प्रसीद विष्णो गोविन्द__व्ध_002.047
शङ्खचक्रगदाधर__व्ध_002.047
धराधरारविन्दाक्ष__व्ध_002.047
वासुदेव महेश्वर__व्ध_002.047
इत्थं स्तुतो जगन्नाथः__व्ध_002.048
प्रोक्तवान् इति केशवः__व्ध_002.048
अम्बरीषं पृथिवीशं__व्ध_002.048
जगत् संनादयन् गिरा__व्ध_002.048
अम्बरीष प्रसन्नो ऽस्मि__व्ध_002.049
भक्त्या स्तोत्रेण चानघ__व्ध_002.049
वरं वृणीष्व धर्मज्ञ__व्ध_002.049
यत् ते मनसि वर्तते__व्ध_002.049
एष एव वरः श्लाघ्यो__व्ध_002.050
यद् दृष्टो ऽसि जगत्पते__व्ध_002.050
त्वद्दर्शनम् अपुण्यानां__व्ध_002.050
स्वप्नेष्व् अपि हि दुर्लभम्__व्ध_002.050
बाल्यात् प्रभृति या देव__व्ध_002.051
त्वयि भक्तिर् ममाच्युत__व्ध_002.051
वेत्ति तां भगवान् एव__व्ध_002.051
हृदिस्थः सर्वदेहिनाम्__व्ध_002.051
त्वत्प्रसादान् ममेशान__व्ध_002.052
राज्यम् अव्याहतं भुवि__व्ध_002.052
कोशदण्डौ तथातीव__व्ध_002.052
शरीरारोग्यम् उत्तमम्__व्ध_002.052

स्त्रियो ऽन्नपानसामर्थ्या__व्ध_002.053
हानिः स्वल्पापि नास्ति मे__व्ध_002.053
बलं नागसहस्रस्य__व्ध_002.053
धारयाम्य् अरिसूदन__व्ध_002.053
संततिर् निभृता भृत्या__व्ध_002.054
सानुरागाश् च मे जनाः__व्ध_002.054
धर्महानिश् च देवेश__व्ध_002.054
न हि मे पालने भुवः__व्ध_002.054
यद् यद् इच्छाम्य् अहं तत् तत्__व्ध_002.055
सर्वम् अस्ति जगत्पते__व्ध_002.055
एतेनैवानुमानेन__व्ध_002.055
प्रसन्नो भगवान् इति__व्ध_002.055
ज्ञातं मया हि गोविन्दे__व्ध_002.056
नाप्रसन्ने विभूतयः__व्ध_002.056
एवं सर्वसुखाह्लाद-__व्ध_002.056
मध्यस्थो ऽपि च केशव__व्ध_002.056
पुनरावृत्तिदुःखानां__व्ध_002.057
त्रासाद् उद्विग्नमानसः__व्ध_002.057
मयि प्रसादाभिमुखं__व्ध_002.057
मनस् ते यदि केशव__व्ध_002.057
तन् माम् अगाधे संसारे__व्ध_002.057
मग्नम् उद्धर्तुम् अर्हसि__व्ध_002.057
सुखानि तानि नैवान्ते__व्ध_002.058
येषां दुःखं न तत् सुखम्__व्ध_002.058
यद् अन्ते दुःखम् आगामि__व्ध_002.058
किंपाकस्यैव भक्षणम्__व्ध_002.058
स प्रसादं कुरु गुरो__व्ध_002.059
जगताम् त्वं जनार्दन__व्ध_002.059
ज्ञानदानेन येनेमां__व्ध_002.059
वागुरान् निस्तरेमहि__व्ध_002.059
इत्य् उक्तस् तस्य गोविन्दः__व्ध_002.060
कथयाम् आस योगवित्__व्ध_002.060
योगं निर्बीजम् अत्यन्त-__व्ध_002.060
दुःखसंयोगभेषजम्__व्ध_002.060
उपदिष्टे ततो योगे__व्ध_002.061
प्रणिपत्याच्युतं नृपः__व्ध_002.061
पुनः प्राह महाबाहुर्__व्ध_002.061
विनयावनतः स्थितः__व्ध_002.061
देवदेव त्वया योगो__व्ध_002.062
यः प्रोक्तो मधुसूदन__व्ध_002.062

नैष प्राप्यो मया नान्यैर्__व्ध_002.062
मानवैर् अजितेन्द्रियैः__व्ध_002.062
विषया दुर्जयाः पुंभिर्__व्ध_002.063
इन्द्रियाकर्षिणः सदा__व्ध_002.063
इन्द्रियाणां जयं तेषु__व्ध_002.063
कः शक्तानां करिष्यति__व्ध_002.063
अहं ममेति चाख्याति__व्ध_002.064
दुर्जयं चञ्चलं मनः__व्ध_002.064
रागादयः कथं जेतुं__व्ध_002.064
शक्या जन्मान्तरैर् अपि__व्ध_002.064
सो ऽहम् इच्छामि देवेश__व्ध_002.065
त्वत्प्रसादाद् अनिर्जितैः__व्ध_002.065
रागादिभिर् अमर्त्यत्वं__व्ध_002.065
प्राप्तुं प्रक्षीणकल्मषः__व्ध_002.065
यद्य् एवं मुक्तिकामस् त्वं__व्ध_002.066
नरनाथ शृणुष्व तत्__व्ध_002.066
क्रियायोगं समस्तानां__व्ध_002.066
क्लेशानां हानिकारकम्__व्ध_002.066
मन्मना भव मद्भक्तो__व्ध_002.067
मद्याजी मां नमस्कुरु__व्ध_002.067
माम् एवैष्यसि युक्त्वैवम्__व्ध_002.067
आत्मानं मत्परायणः__व्ध_002.067
मद्भावना मद्यजना__व्ध_002.068
मद्भक्ता मत्परायणाः__व्ध_002.068
मम पूजापराश् चैव__व्ध_002.068
मयि यान्ति लयं नराः__व्ध_002.068
सर्वभूतेषु मां पश्य__व्ध_002.069
समवस्थितम् ईश्वरम्__व्ध_002.069
कर्तासि केन वैरत्वं__व्ध_002.069
एवं दोषान् प्रहास्यसि__व्ध_002.069
जङ्गमाजङ्गमे ज्ञाते__व्ध_002.070
मय्य् आत्मनि तथा तव__व्ध_002.070
रागलोभादिनाशेन__व्ध_002.070
भवित्री कृतकृत्यता__व्ध_002.070
भक्त्यातिप्रवणस्यापि__व्ध_002.071
चञ्चलत्वान् मनो यदि__व्ध_002.071
मय्य् अनासादवद् भूप__व्ध_002.071
कुरु मद्रूपिणीं तनुम्__व्ध_002.071
सुवर्णरजताद्यैस् त्वं__व्ध_002.072
शैलमृद्दारुलेखजाम्__व्ध_002.072

पूजामहर्हैर् विविधैः__व्ध_002.072
संपूजय च पार्थिव__व्ध_002.072
तस्यां चित्तं समावेश्य__व्ध_002.073
त्याजयान्यान् व्यपाश्रयान्__व्ध_002.073
पूजिता सैव ते भक्त्या__व्ध_002.073
ध्याता चैवोपकारिणी__व्ध_002.073
गच्छंस् तिष्ठन् स्वपन् भुञ्जंस्__व्ध_002.074
ताम् एवाग्रे च पृष्ठतः__व्ध_002.074
उपर्य् अधस् तथा पार्श्वे__व्ध_002.074
चिन्तयान्तस् तथात्मनः__व्ध_002.074
स्नानैस् तीर्थोदकैर् हृद्यैः__व्ध_002.075
पुष्पगन्धानुलेपनैः__व्ध_002.075
वासोभिर् भूषणैर् भक्ष्यैर्__व्ध_002.075
गीतवाद्यैर् मनोहरैः__व्ध_002.075
यच् च यच् च नृपेष्टं ते__व्ध_002.076
किंचिद् भोज्यादि तेन ताम्__व्ध_002.076
भक्तिनम्रो नरश्रेष्ठ__व्ध_002.076
प्रीणयार्चां कृतां मम__व्ध_002.076
रागेणाकृष्यते चेतो__व्ध_002.077
गन्धर्वाभिमुखं यदि__व्ध_002.077
मयि बुद्धिं समावेश्य__व्ध_002.077
गायेथा मम तां कथाम्__व्ध_002.077
कथायां रमते चेतो__व्ध_002.078
यदि तत्भावना मम__व्ध_002.078
श्रोतव्या प्रीतियुक्तेन__व्ध_002.078
अवतारेषु या कथा__व्ध_002.078
एवं मय्य् अर्पितमनाश्__व्ध_002.079
चेतसो ये व्यपाश्रयाः__व्ध_002.079
हेयास् तान् अखिलान् भूप__व्ध_002.079
परित्यक्ष्यस्य् अभीर् भव__व्ध_002.079
अक्षीणरागदोषो ऽपि__व्ध_002.080
मत्क्रिया परमः परम्__व्ध_002.080
पदम् आप्स्यसि मा भैस् त्वं__व्ध_002.080
मय्य् अर्पितमना भव__व्ध_002.080
मयि संन्यस्य सर्वं त्वम्__व्ध_002.081
आत्मानं यत् तवास्ति च__व्ध_002.081
मदर्थं कुरु कर्माणि__व्ध_002.081
मा च धर्मव्यतिक्रमम्__व्ध_002.081
राज्यं कुरु नरश्रेष्ठ__व्ध_002.082
निवेद्य पृथिवीं मम__व्ध_002.082

तद्व्याघातपरा ये च__व्ध_002.082
जहि तान् अवनीपते__व्ध_002.082
एतेनैवोपदेशेन__व्ध_002.083
व्याख्यातम् अखिलं तव__व्ध_002.083
क्रियायोगं समास्थाय__व्ध_002.083
मय्य् अर्पितमना भव__व्ध_002.083
मद्धिताय जगन्नाथ__व्ध_002.084
क्रियायोगाश्रितं मम__व्ध_002.084
विस्तरेणेदम् आख्याहि__व्ध_002.084
प्रसन्नस् त्वं हि दुःखहा__व्ध_002.084
त्वाम् ऋतेन हि नो वक्तुं__व्ध_002.085
समर्थो ऽन्यो जगद्गुरो__व्ध_002.085
गुह्यम् एतत् पवित्रं च__व्ध_002.085
तद् आचक्ष्य प्रसीद मे__व्ध_002.085
आख्यास्यत्य् एतद् अखिलं__व्ध_002.086
वसिष्ठस् ते पुरोहितः__व्ध_002.086
मत्प्रसादाद् अविकलं__व्ध_002.086
स च वेत्स्यत्य् अशेषतः__व्ध_002.086
इत्य् उक्त्वान्तर्दधे देवः__व्ध_002.087
सर्वलोकेश्वरो हरिः__व्ध_002.087
स च राजा वनाद् भूयो__व्ध_002.087
निजम् अभ्यागमत् पुरम्__व्ध_002.087
राज्यस्थस् तु महीपालः__व्ध_003.001
प्रणिपत्य पुरोहितम्__व्ध_003.001
वसिष्ठं परिपप्रच्छ__व्ध_003.001
विष्णोर् आराधनं प्रति__व्ध_003.001
देवदेवेन भगवन्न्__व्ध_003.002
आदिष्टो ऽसि महात्मना__व्ध_003.002
क्रियायोगाश्रितं सर्वं__व्ध_003.002
व्याख्यास्यति भवान् किल__व्ध_003.002
स त्वां पृच्छाम्य् अहं सर्वं__व्ध_003.003
क्रियायोगेन केशवम्__व्ध_003.003
संतोषयितुम् ईशानं__व्ध_003.003
यथा शक्ष्यामि तद् वद__व्ध_003.003
देवप्रसादाद् अखिला__व्ध_003.004
ममापि स्मृतिर् आगता__व्ध_003.004
ज्ञानम् एतद् अशेषं ते__व्ध_003.004
कथयामि निबोध तत्__व्ध_003.004
भक्तिमान् अभवद् दैत्यो__व्ध_003.005
हिरण्यकशिपोः सुतः__व्ध_003.005

नारायणे महाप्रज्ञः__व्ध_003.005
सर्वलोकपरायणे__व्ध_003.005
स पप्रच्छ भृगुश्रेष्ठं__व्ध_003.005
शुक्रम् आत्मपुरोहितम्__व्ध_003.005
भगवन् नृसिंहरूपस्य__व्ध_003.006
विष्णोस् तातं जिघांसतः__व्ध_003.006
दृष्टं देहे मया सर्वं__व्ध_003.006
त्रैलोक्यं भूर्भुवादिकम्__व्ध_003.006
ब्रह्मा प्रजापतिश् चेन्द्रो__व्ध_003.007
रुद्रैः पशुपतिः सह__व्ध_003.007
वसवो ऽष्टौ तथादित्या__व्ध_003.007
द्वादशाहःक्षपा मही__व्ध_003.007
दिशो नभस् तारकौघं__व्ध_003.008
नक्षत्रग्रहसंकुलम्__व्ध_003.008
अश्विनौ मरुतः साध्या__व्ध_003.008
विश्वेदेवास् तथ र्षयः__व्ध_003.008
वर्षाचलास् तथा नद्यः__व्ध_003.009
सप्त सप्त कुलाचलाः__व्ध_003.009
समुद्राः सप्त ऋतवः__व्ध_003.009
कान्ताराणि वनानि च__व्ध_003.009
नगरग्रामतरुभिः__व्ध_003.009
समावेतं च भूतलम्__व्ध_003.009
एतच् चान्यच् च यत् किंचिद्__व्ध_003.010
देवर्षिपितृमानवम्__व्ध_003.010
सतिर्यगूर्ध्वपातालं__व्ध_003.010
तस्य दृष्टं तनौ मया__व्ध_003.010
सो ऽहं तम् अजरं देवं__व्ध_003.011
दुष्टदैत्यनिवर्हणम्__व्ध_003.011
आराधयितुम् इच्छामि__व्ध_003.011
भगवंस् त्वदनुज्ञया__व्ध_003.011
अनुग्राह्यो ऽस्मि यदि ते__व्ध_003.012
ममायं भक्तिमान् इति__व्ध_003.012
तन् ममोपदिशाद्य त्वं__व्ध_003.012
महद् आराधनं हरेः__व्ध_003.012
अनुग्राह्यो ऽसि देवस्य__व्ध_003.013
नूनम् अव्यक्तजन्मनः__व्ध_003.013
आराधनाय दैत्येन्द्र__व्ध_003.013
यत् ते तत्प्रवणं मनः__व्ध_003.013
यदि देवपतिं विष्णुम्__व्ध_003.014
आराधयितुम् इच्छसि__व्ध_003.014

भगवन्तम् अनाद्यन्तं__व्ध_003.014
भव भागवतो ऽसुर__व्ध_003.014
न ह्य् अभागवतैर् विष्णुर्__व्ध_003.015
ज्ञातुं स्तोतुं च तत्त्वतः__व्ध_003.015
द्रष्टुं वा शक्यते मर्त्यैः__व्ध_003.015
प्रवेष्टुं कुत एव हि__व्ध_003.015
जन्मभिर् बहुभिः पूता__व्ध_003.016
नरास् तद्गतचेतसः__व्ध_003.016
भवन्ति वै भागवतास्__व्ध_003.016
ते विष्णुं प्रविशन्ति च__व्ध_003.016
अनेकजन्मसंसार-__व्ध_003.017
चिते पापसमुच्चये__व्ध_003.017
नाक्षीणे जायते पुंसां__व्ध_003.017
गोविन्दाभिमुखी मतिः__व्ध_003.017
प्रद्वेषं याति गोविन्दे__व्ध_003.018
द्विजान् वेदांश् च निन्दति__व्ध_003.018
यो नरस् तं विजानीयाद्__व्ध_003.018
असुरांशसमुद्भवम्__व्ध_003.018
पाषण्डेषु रतिः पुंसां__व्ध_003.019
हेतुवादानुकूलता__व्ध_003.019
जायते विष्णुमायाम्भः-__व्ध_003.019
पतितानां दुरात्मनाम्__व्ध_003.019
यदा पापक्षयः पुंसां__व्ध_003.020
तदा वेदद्विजातिषु__व्ध_003.020
विष्णौ च यज्ञपुरुषे__व्ध_003.020
श्रद्धा भवति ते यथा__व्ध_003.020
यदा स्वल्पावशेषस् तु__व्ध_003.021
नराणां पापसंचयः__व्ध_003.021
भवन्ति ते भागवतास्__व्ध_003.021
तदा दैत्यपते नराः__व्ध_003.021
भ्राम्यताम् अत्र संसारे__व्ध_003.022
नराणां कर्मदुर्गमे__व्ध_003.022
हस्तावलम्बदो ह्य् एको__व्ध_003.022
भक्तिप्रीतो जनार्दनः__व्ध_003.022
स त्वं भागवतो भूत्वा__व्ध_003.023
सर्वपापहरं हरिम्__व्ध_003.023
आराधय परं भक्त्या__व्ध_003.023
प्रीतिम् एष्यति केशवः__व्ध_003.023
किंलक्षणा भागवता__व्ध_003.024
भवन्ति पुरुषा गुरो__व्ध_003.024

यच् च भागवतैः कार्यं__व्ध_003.024
तन् मे कथय भार्गव__व्ध_003.024
कर्मणा मनसा वाचा__व्ध_003.025
प्राणिनां यो न हिंसकः__व्ध_003.025
भावभक्तश् च गोविन्दे__व्ध_003.025
दैत्य भागवतो हि सः__व्ध_003.025
यो ब्राह्मणांश् च वेदांश् च__व्ध_003.026
नित्यम् एन्वानुमंस्यति__व्ध_003.026
न च द्रोग्धा परं वादे__व्ध_003.026
दैत्य भागवतो हि सः__व्ध_003.026
सर्वान् देवान् हरिं वेत्ति__व्ध_003.027
सर्वलोकांश् च केशवम्__व्ध_003.027
तेभ्यश् च नान्यम् आत्मानं__व्ध_003.027
दैत्य भागवतो हि सः__व्ध_003.027
देवं मनुष्यम् अन्यं वा__व्ध_003.028
पशुपक्षिपिपीलिकान्__व्ध_003.028
तरुपाषाणकष्ठादि__व्ध_003.028
भूम्यम्भोगगनं दिशः__व्ध_003.028
आत्मानं वापि देवेशान्__व्ध_003.029
नातिरिक्तं जनार्दनात्__व्ध_003.029
यो भजेत विजानीष्व__व्ध_003.029
तं वै भागवतं नरम्__व्ध_003.029
सर्वं भगवतो भावो__व्ध_003.030
यद् भूतं भवसंस्थितम्__व्ध_003.030
इति यो वै विजानाति__व्ध_003.030
स तु भागवतो नरः__व्ध_003.030
भवभीतिं हरत्य् एष__व्ध_003.031
भक्तिभावेन भावितः__व्ध_003.031
भगवान् इति भावो यः__व्ध_003.031
स तु भागवतो नरः__व्ध_003.031
भावं न कुरुते यस् तु__व्ध_003.032
सर्वभूतेषु पापकम्__व्ध_003.032
कर्मणा मनसा वाचा__व्ध_003.032
स तु भागवतो नरः__व्ध_003.032
बाह्यार्थनिरपेक्षो यो__व्ध_003.033
भक्तो भगवतः क्रियाम्__व्ध_003.033
भावेन निष्पादयति__व्ध_003.033
ज्ञेयो भागवतस् तु सः__व्ध_003.033
नारयो यस्य न स्निग्धा__व्ध_003.034
न चोदासी न वृत्तयः__व्ध_003.034

पश्यतः सर्वम् एवेदं__व्ध_003.034
विष्णुं भागवतो हि सः__व्ध_003.034
सुतप्तेनेह तपसा__व्ध_003.035
यज्ञैर् वा बहुदक्षिणैः__व्ध_003.035
तां गतिं न नरा यान्ति__व्ध_003.035
यां वै भागवता गताः__व्ध_003.035
योगच्युतैर् भागवतैर्__व्ध_003.036
देवराजः शतक्रतुः__व्ध_003.036
अर्वाङ् निरीक्ष्यते यज्ञी__व्ध_003.036
किमु ये योगपारगाः__व्ध_003.036
यज्ञनिष्पत्तये वेदा__व्ध_003.037
यज्ञो यज्ञपतेः कृते__व्ध_003.037
तत्तोषणाय भावेन__व्ध_003.037
तस्माद् भागवतो भव__व्ध_003.037
येन सर्वात्मना विष्णौ__व्ध_003.038
भक्त्या भावो निवेशितः__व्ध_003.038
दैत्येश्वर कृतार्थत्वाच्__व्ध_003.038
श्लाघ्यो भागवतो हि सः__व्ध_003.038
अपि नः स कुले धन्यो__व्ध_003.039
जायते कुलपावनः__व्ध_003.039
भगवान् भक्तिभावेन__व्ध_003.039
येन विष्णुर् उपासितः__व्ध_003.039
यः कारयति देवार्चां__व्ध_003.040
हृदयालम्बनं हरेः__व्ध_003.040
स नरो विष्णुसालोक्यम्__व्ध_003.040
उपैति धूतकल्मषः__व्ध_003.040
यश् च देवालयं भक्त्या__व्ध_003.041
विष्णोः कारयति स्वयम्__व्ध_003.041
स सप्तपुरुषांल् लोकान्__व्ध_003.041
विष्णोर् नयति मानवः__व्ध_003.041
यावन्त्य् अब्दानि देवार्चा__व्ध_003.042
हरेस् तिष्ठति मन्दिरे__व्ध_003.042
तावद्वर्षसहस्राणि__व्ध_003.042
विष्णुलोके स मोदते__व्ध_003.042
देवार्चा लक्षणोपेता__व्ध_003.043
तद्गृहं सततं दिवि__व्ध_003.043
निष्कामं च मनो यस्य__व्ध_003.043
स यात्य् अक्षरसात्म्यताम्__व्ध_003.043
पुष्पाण्य् अतिसुगन्धीनि__व्ध_003.044
मनोज्ञानि च यः पुमान्__व्ध_003.044

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc