भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 141160

स सर्वलोकार्तिहरो महाहरिर्__व्ध_039.028
ऋक्कारितं यो यजुषातिशान्तिमत्__व्ध_039.029
सामध्वनिध्वस्तसमस्तपातकम्__व्ध_039.029
चक्रे जगद् वामनकः स सर्वदा__व्ध_039.029
यत्पादविन्यासपवित्रतां मही__व्ध_039.030
ययौ वियद् ऋग्यजुषाम् उदीरणात्__व्ध_039.030
स वामनो दिव्यशरीरधृक् सदा__व्ध_039.030
यस्मिन् प्रयाते सुरभूभृतो ऽध्वरं__व्ध_039.031
ननाम खेदाद् अवनिः ससागरा__व्ध_039.031
स वामनः सर्वजगन्मयः सदा__व्ध_039.031
महाद्युतौ दैत्यपतेर् महाध्वरं__व्ध_039.032
यस्मिन् प्रविष्टे क्षुभितं महासुरैः__व्ध_039.032
स वामनो ऽन्तस्थितसप्तलोकधृङ्__व्ध_039.032
समस्तदेवेष्टिमयं महाद्युतिर्__व्ध_039.033
दधार यो रूपम् अतीन्द्रियं प्रभुः__व्ध_039.033
त्रिविक्रमाक्रान्तजगत्त्रयः सदा__व्ध_039.033
सङ्घैः सुराणां दिवि भूतले स्थितैस्__व्ध_039.034
तथा मनुष्यैर् गगने स सर्वदा__व्ध_039.034
स्तुतः क्रमाद् यः प्रददे स सर्वदा__व्ध_039.034
क्रान्त्वा धरित्रीं गगनं तथा दिवं__व्ध_039.035
मरुत्पतेर् यः प्रददौ त्रिविष्टपम्__व्ध_039.035
स देवदेवो भुवनेश्वरेश्वरो__व्ध_039.035
अनुग्रहं चापि बलेर् अनुत्तमं__व्ध_039.036
चकार यश् चेन्द्रपदोपलक्षणं__व्ध_039.036
सुरांश् च यज्ञस्य भुजः स सर्वदा__व्ध_039.036
रसातलाद् येन पुरा समाहृताः__व्ध_039.037
समस्तवेदा वरवाजिरूपिणा__व्ध_039.037
स कैटभारिर् मधुसूदनो महान्__व्ध_039.037
निःक्षत्रियां यश् च चकार मेदिनीम्__व्ध_039.038
अनेकशो बाहुवनं तथाछिनत्__व्ध_039.038
यः कार्तवीर्यस्य स भार्गवोत्तमो__व्ध_039.038
निहत्य वालिं च कपीश्वरं हि यो__व्ध_039.039
निबध्य सेतुं जलधौ दशाननम्__व्ध_039.039
जघान चान्यान् रजनीचरान् असौ__व्ध_039.039
चिक्षेप बालः शकटं बभञ्ज यो__व्ध_039.040
यमलार्जुनौ कंसम् अरिं जघान__व्ध_039.040
ममर्द चाणूरमुखं स सर्वदा__व्ध_039.040
प्रातः सहस्रांशुमरीचिनिर्मलं__व्ध_039.041
करेण बिभ्रद् भगवान् सुदर्शनम्__व्ध_039.041
कौमोदकीं चापि गदाम् अनुत्तमां__व्ध_039.041

हिमेन्दुकुन्दस्फटिकाभ्रकोमलं__व्ध_039.042
मुखानिलापूरितम् ईश्वरेश्वरः__व्ध_039.042
मध्याह्नकाले च स शङ्खम् उत्तमम्__व्ध_039.042
तथापराह्ने प्रविकासिपङ्कजं__व्ध_039.043
वक्षःस्थलेन श्रियम् उद्वहद् विभुः__व्ध_039.043
विस्तारिपद्मोत्पलपत्रलोचनो__व्ध_039.043
सर्वेषु कालेषु समस्तदेशेष्व्__व्ध_039.044
अशेषकार्येषु तथेश्वरेश्वरः__व्ध_039.044
सर्वैः स्वरूपैर् भगवान् अनादिमान्__व्ध_039.044
एतत् पठन् दाल्भ्य समस्तपापैर्__व्ध_039.045
विमुच्यते विष्णुपरो मनुष्यः__व्ध_039.045
सिध्यन्ति कार्याणि तथास्य सर्वाण्य्__व्ध_039.045
अर्थान् अवाप्नोति तथा यथेष्टम्__व्ध_039.045
दुःस्वप्नं प्रशमम् उपैति पठ्यमाने__व्ध_039.046
स्तोत्रे ऽस्मिञ् श्रवणविधौ सदोत्थितस्य__व्ध_039.046
प्रारम्भो द्रुतम् उपयाति सिद्धिम् ईशः__व्ध_039.046
पापानि क्षपयति चास्य वासुदेवः__व्ध_039.046
मङ्गल्यं परमम् इदं सदार्थसिद्धिं__व्ध_039.047
निर्विघ्न त्व् अधिकफलं सदा ददाति__व्ध_039.047
किं लोके तद् इह परत्र चास्ति पुंसाम्__व्ध_039.047
यद् विष्णुप्रवणधिया न दाल्भ्य साध्यम्__व्ध_039.047
देवेन्द्रस् त्रिभुवनम् अर्थम् एकपिङ्गः__व्ध_039.048
सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः__व्ध_039.048
वैदेहः परमपदं प्रसाद्य विष्णुं__व्ध_039.048
संप्राप्तः सकलफलप्रदो हि विष्णुः__व्ध_039.048
सर्वारम्भेषु दाल्भ्यैतद्__व्ध_039.049
दुःस्वप्नेषु च पण्डितः__व्ध_039.049
जपेद् एकमतिर् विष्णौ__व्ध_039.049
तथामङ्गल्यदर्शने__व्ध_039.049
शमं प्रयान्ति दुष्टानि__व्ध_039.050
ग्रहपीडाश् च दारुणाः__व्ध_039.050
कर्मारम्भाश् च सिध्यन्ति__व्ध_039.050
पुण्यम् आप्नोति चोत्तमम्__व्ध_039.050
हरिर् ददाति भद्राणि__व्ध_039.051
मङ्गल्यस्तुतिसंस्तुतः__व्ध_039.051
करोत्य् अखिलरूपैश् च__व्ध_039.051
रक्षाम् अक्षतशक्तिधृक्__व्ध_039.051
कुर्वीत किं पुमान् स्थानं__व्ध_040.001
कः पुमान् ब्रह्मणो बलम्__व्ध_040.001
ब्रह्मणश् च कथं भेदो__व्ध_040.001

ज्ञेयो ऽभिन्नफलप्रदः__व्ध_040.001
स्वकर्मणा धनं लब्ध्वा__व्ध_040.002
नित्यनैमित्तिकाः क्रियाः__व्ध_040.002
कुर्वीत शुद्धिम् आस्थाय__व्ध_040.002
स्वेच्छया च तथा परः__व्ध_040.002
त्यक्त्वा रागादिकान् दोषान्__व्ध_040.003
समः सर्वत्र वै भवेत्__व्ध_040.003
सर्वत्र मैत्रीं कुर्वीत__व्ध_040.003
दद्याद् इष्टानि चार्थिनाम्__व्ध_040.003
कुर्याद् दीनेषु करुणां__व्ध_040.004
दुःशीलान् परिवर्जयेत्__व्ध_040.004
मुदितां धर्मशीलेषु__व्ध_040.004
भावनां मुनिसत्तम__व्ध_040.004
एकत्र वा जगन्नाथे__व्ध_040.005
भावनां पुरुषोत्तमे__व्ध_040.005
निःशेषार्थमलापेतां__व्ध_040.004
शुद्धां कुर्वीत पण्डितः__व्ध_040.005
शरीरबाह्यतां शश्वद्__व्ध_040.006
धिंसां कुर्वीत न क्वचित्__व्ध_040.006
निन्दावमानम् अन्येषां__व्ध_040.006
यच् चान्यद् उपघातकम्__व्ध_040.006
शरीरवाङ्मनःशुद्धिं__व्ध_040.007
कुर्वीत च सदात्मनः__व्ध_040.007
भूतानाम् उपकारश् च__व्ध_040.007
तपोभिश् चात्मकर्षणम्__व्ध_040.007
एष धर्मः समासेन__व्ध_040.008
दाल्भ्याख्यातो मया तव__व्ध_040.008
अधर्मश् चायम् एवोक्तो__व्ध_040.008
विपरीतो मनीषिभिः__व्ध_040.008
एते यत्र गुणाः पूर्वं__व्ध_040.009
कथिता ज्ञानसंयुताः__व्ध_040.009
ब्रह्मणः साश्रयः शुद्ध__व्ध_040.009
उपचारात् तद् एव सः__व्ध_040.009
एकस्यैव सतस् तस्य__व्ध_040.010
ब्रह्मणो द्विजसत्तम__व्ध_040.010
नाम्नां बहुत्वं लोकानाम्__व्ध_040.010
उपकारकरं शृणु__व्ध_040.010
निमित्तशक्तयो नाम्नो__व्ध_040.011
भेदतस् तदुदीरणात्__व्ध_040.011
विभिन्नान्य् एव साध्यन्ते__व्ध_040.011

फलानि कुरुनन्दन__व्ध_040.011
यच्छक्ति नाम तत् तस्य__व्ध_040.012
तत् तस्मिन्न् एव वस्तुनि__व्ध_040.012
साधकं पुरुषव्याघ्र__व्ध_040.012
सौम्यक्रूरेषु वस्तुषु__व्ध_040.012
वासुदेवाच्युतानन्त-__व्ध_040.013
सत्याज्यपुरुषोत्तमैः__व्ध_040.013
परमात्मेश्वराद्यैश् च__व्ध_040.013
स्तुतो नामभिर् अव्ययः__व्ध_040.013
निमित्तभावं भगवान्__व्ध_040.014
विमुक्तेर् यात्य् अधोक्षजः__व्ध_040.014
तथान्यकार्यसंसिद्धौ__व्ध_040.014
यद् यत् तत् तन् निशामय__व्ध_040.014
धनकृद् धर्मकृद् धर्मी__व्ध_040.015
धर्मात्मा विश्वकृच् छुचिः__व्ध_040.015
शुचिषद् विष्णुर् अब्जाक्षः__व्ध_040.015
पुष्कराक्षो ह्य् अधोक्षयः__व्ध_040.015
शुचिश्रवाः शिपिविष्टो__व्ध_040.015
यज्ञेशो यज्ञभावनः__व्ध_040.015
नाम्नाम् इत्य् एवम् आदीनां__व्ध_040.016
समुच्चारणतो नरः__व्ध_040.016
धर्मं महान्तम् आप्नोति__व्ध_040.016
पापबन्धक्षयं तथा__व्ध_040.016
तथार्थप्राप्तये ब्रह्मन्__व्ध_040.017
देवनामानि मे शृणु__व्ध_040.017
येषां समुच्चारणतो__व्ध_040.017
वित्तम् आप्नोति भक्तिमान्__व्ध_040.017
श्रीदः श्रीशः श्रीनिवासः__व्ध_040.018
श्रीधरः श्रीनिकेतनः__व्ध_040.018
श्रियः पतिः श्रीपरमः__व्ध_040.018
श्रीमाञ् श्रीवत्सलाञ्च्छनः__व्ध_040.018
नृसिंहो दुष्टदामनो__व्ध_040.019
जयो विष्णुस् त्रिविक्रमः__व्ध_040.019
स्तुतः प्रयच्छते चार्थम्__व्ध_040.019
एवम् आदिभिर् अच्युतः__व्ध_040.019
काम्यः कामप्रदः कान्तः__व्ध_040.020
कामपालस् तथा हरिः__व्ध_040.020
आनन्दो माधवश् चैव__व्ध_040.020
कामसंसिद्धये नृप__व्ध_040.020
रामः परशुरामश् च__व्ध_040.021

नृसिंहो विष्णुर् एव च__व्ध_040.021
विक्रमश् चैवम् आदीनि__व्ध_040.021
जप्यान्य् अरिजिगीषुभिः__व्ध_040.021
विद्याम् अभ्यसता नित्यं__व्ध_040.022
जप्तव्यः पुरुषोत्तमः__व्ध_040.022
दामोदरं बन्धगतो__व्ध_040.022
नित्यम् एव जपन् नरः__व्ध_040.022
केशवं पुण्डरीकाक्षं__व्ध_040.023
पुष्कराक्षं तथा जपेत्__व्ध_040.023
नेत्रबाधासु सर्वासु__व्ध_040.023
हृषीकेशं भयेषु च__व्ध_040.023
अच्युतं चामृतं चैव__व्ध_040.024
जपेद् औषधकर्मणि__व्ध_040.024
भ्राजिष्णुम् अग्निहानौ च__व्ध_040.024
जपेद् आलम्बने स्थितम्__व्ध_040.024
संग्रामाभिमुखं गच्छन्__व्ध_040.025
संस्मरेद् अपराजितम्__व्ध_040.025
पातालनरसिंहं च__व्ध_040.025
जलप्रतरणे स्मरेत्__व्ध_040.025
चक्रिणं गदिनं चैव__व्ध_040.026
शार्ङ्गिनं खड्गिनं तथा__व्ध_040.026
क्षेमार्थे प्रसवन् राजन्__व्ध_040.026
दिक्षु प्राच्यादिषु स्मरेत्__व्ध_040.026
अजितं चाधिकं चैव__व्ध_040.027
सर्वं सर्वश्वरं तथा__व्ध_040.027
संस्मरेत् पुरुषो भक्त्या__व्ध_040.027
व्यवहारेषु सर्वदा__व्ध_040.027
नारायणं सर्वकालं__व्ध_040.028
क्षुतप्रस्खलितादिषु__व्ध_040.028
ग्रहनक्षत्रपीडासु__व्ध_040.028
देवबाधाटवीषु च__व्ध_040.028
अस्युवैरिनिरोधेषु__व्ध_040.029
व्याघ्रसिंहादिसंकटे__व्ध_040.029
अन्धकारे च तीव्रे च__व्ध_040.029
नरसिंहम् अनुस्मरेत्__व्ध_040.029
तरत्य् अखिलदुर्गाणि__व्ध_040.029
तापार्तो जलशायिनम्__व्ध_040.029
गरुडध्वजानुस्मरणाद्__व्ध_040.030
आपद्भ्यो मुच्यते नरः__व्ध_040.030
ज्वरदुष्टशिरोरोग-__व्ध_040.030,*(44)

विषवीर्यं प्रशाम्यति__व्ध_040.030,*(44)
स्नाने देवार्चने होमे__व्ध_040.031
प्रणिपाते प्रदक्षिणे__व्ध_040.031
कीर्तयेद् भगवन्नाम__व्ध_040.031
वासुदेवेति तत्परः__व्ध_040.031
स्थगने वित्तधान्यादेर्__व्ध_040.032
अपध्याने च दुष्टजे__व्ध_040.032
कुर्वीत तन्मना भूत्वा__व्ध_040.032
अनन्ताच्युतकीर्तनम्__व्ध_040.032
नारायणं शार्ङ्गधरं__व्ध_040.033
श्रीधरं पुरुषोत्तमम्__व्ध_040.033
वामनं खड्गिनं चैव__व्ध_040.033
दुःस्वप्नेषु च संस्मरेत्__व्ध_040.033
एकार्णवाहिपर्यङ्क-__व्ध_040.034
शायिनं च नरः स्मरेत्__व्ध_040.034
वाय्वग्नीगृहदाहाय__व्ध_040.034
प्रवृद्धाव् उपलक्ष्य च__व्ध_040.034
विद्यार्थी मोहविभ्रान्ति-__व्ध_040.035
वेगाघूर्णितमानसः__व्ध_040.035
मनुष्यो मुनिशार्दूल__व्ध_040.035
सदाश्वशिरसं स्मरेत्__व्ध_040.035
बलभद्रं समृद्ध्यर्थी__व्ध_040.036
सीरकर्मणि कीर्तयेत्__व्ध_040.036
जगत्सूतिम् अपत्यार्थी__व्ध_040.036
स्तुवन् भक्त्या न सीदति__व्ध_040.036
जप्तव्यं सुप्रजाख्यं तु__व्ध_040.037
देवदेवस्य सत्तम__व्ध_040.037
दम्पत्योर् आत्मसंबन्धे__व्ध_040.037
विवाहाख्ये पुनः पुनः__व्ध_040.037
श्रीशं सर्वाभ्युदयिके__व्ध_040.038
कर्मणि संप्रकीर्तयेत्__व्ध_040.038
अरिष्टान्तेष्व् अशेषेषु__व्ध_040.038
विशोकं च सदा जपेत्__व्ध_040.038
मरुत्प्रतापाग्निजल-__व्ध_040.039
बन्धनादिषु मृत्युषु__व्ध_040.039
स्वातन्त्र्यपरतन्त्रेषु__व्ध_040.039
वासुदेवं जपेद् बुधः__व्ध_040.039
सर्वार्थशक्तियुक्तस्य__व्ध_040.040
देवदेवस्य चक्रिणः__व्ध_040.040
यद् वाभिरोचते नाम__व्ध_040.040

तत् सर्वार्थेषु कीर्तयेत्__व्ध_040.040
सर्वार्थसिद्धिम् आप्नोति__व्ध_040.041
नाम्नाम् एकार्थता यतः__व्ध_040.041
सर्वाण्य् एतानि नामानि__व्ध_040.041
परस्य ब्रह्मणो ऽनघ__व्ध_040.041
एवम् एतानि नामानि__व्ध_040.042
देवदेवस्य कीर्तयेत्__व्ध_040.042
यं यं कामम् अभिध्यायेत्__व्ध_040.042
तं तम् आप्नोत्य् असंशयम्__व्ध_040.042
सर्वान् कामान् अवाप्नोति__व्ध_040.042
समाराध्य जगद्गुरुम्__व्ध_040.042
तन्मयत्वेन गोविन्दम्__व्ध_040.043
इत्य् एतद् दाल्भ्य नान्यथा__व्ध_040.043
तन्मयो वाञ्छितान् कामान्__व्ध_040.043
यद् अवाप्नोति मानवः__व्ध_040.043
निमित्तशक्तिः सा तस्य__व्ध_040.044
न भेदो दाल्भ्य मानसः__व्ध_040.044
वाङ्मनःकायिकं द्वेषं__व्ध_040.044
यच् च कुर्वन् प्रयात्य् अधः__व्ध_040.044
स्वरूपशक्तिः सा तस्य__व्ध_040.045
मतिभेदकृतं न तद्__व्ध_040.045
स शाक्तो निर्गुणः शुद्धो__व्ध_040.045
ब्रह्मभूतो जगद्गुरुः__व्ध_040.045
कर्मभिर् नामभिर् जीवो__व्ध_040.046
दृश्यते दाल्भ्य नैकधा__व्ध_040.046
यथा च गङ्गासलिलं__व्ध_040.046
सितम् अत्यन्तनिर्मलम्__व्ध_040.046
एकस्वरूपम् अध्यात्मं__व्ध_040.047
पुण्यापुण्यविभेदिभिः__व्ध_040.047
भ्रान्तिज्ञानान्वितैर् मिश्रं__व्ध_040.047
सितासितविचेष्टितैः__व्ध_040.047
दृश्यते नैकधा दाल्भ्य__व्ध_040.047
प्राणिभिर् भिन्नबुद्धिभिः__व्ध_040.047
तापार्तास् तापशमनम्__व्ध_040.048
अतिप्रीत्यतिशीतलम्__व्ध_040.048
कफदोषान्वितैर् नाति-__व्ध_040.048
प्रीतियुक्तैर् निरंशुभिः__व्ध_040.048
स्त्रीयोग्यम् एतन् नेतीति__व्ध_040.049
प्रीत्यप्रीतिसमन्वितैः__व्ध_040.049
मध्यस्थबुद्ध्या चैवान्ये__व्ध_040.049

नातिशीतातितापिभिः__व्ध_040.049
पवित्रम् इत्य् एतद् इति__व्ध_040.050
पुण्यबुद्ध्या तथापरैः__व्ध_040.050
मृष्टम् एतद् इतीत्य् अन्यैर्__व्ध_040.050
मत्स्याढ्यम् इति चापरैः__व्ध_040.050
तुल्यबुद्ध्यापि चैवान्यैर्__व्ध_040.051
हेयबुद्ध्या तथापरैः__व्ध_040.051
नातिवेगातिवेगं च__व्ध_040.051
हृष्टोद्विग्नैस् तथापरैः__व्ध_040.051
किम् एतेनेति चैवान्यैः__व्ध_040.052
परदाराभिलाषिभिः__व्ध_040.052
दाल्भ्य संदृश्यते चान्यैर्__व्ध_040.052
जन्तुभिर् भायकातरैः__व्ध_040.052
तद् एव पूयं पश्यन्ति__व्ध_040.052
प्रेताद्या हृतिपापिनः__व्ध_040.052
एतैश् चान्यैश् च बहुभिर्__व्ध_040.053
विशेषैर् बहुजन्तुभिः__व्ध_040.053
विशेषवत् कर्मभेदाद्__व्ध_040.053
एकम् एव हि दृश्यते__व्ध_040.053
नैते गङ्गाम्भसो भेदाः__व्ध_040.054
प्रीत्यप्रीतिप्रदायिनः__व्ध_040.054
प्राणिनां चेतसो भेदाद्__व्ध_040.054
दाल्भ्यैते कर्मयोनयः__व्ध_040.054
समस्तकर्मणा दाल्भ्य__व्ध_040.055
संक्षये भयम् एत्य् असौ__व्ध_040.055
विशेषकारणाभावाद्__व्ध_040.055
विशेषाभाव एव हि__व्ध_040.055
विष्ण्वाख्यम् एवं तद् ब्रह्म__व्ध_040.056
शुद्धम् अत्यन्तनिर्मलम्__व्ध_040.056
अभेदं बहुधा भिन्नं__व्ध_040.056
दृश्यते कर्मभेदिभिः__व्ध_040.056
योगिभिर् दृश्यते शुद्धं__व्ध_040.057
रागाद्युपशमामलैः__व्ध_040.057
रागिभिर् विषयाकारं__व्ध_040.057
तद् एव ब्रह्म दृश्यते__व्ध_040.057
कर्ममार्गाश्रितैः कर्म-__व्ध_040.058
भोक्तृत्वे च तथेष्यते__व्ध_040.058
किम् अप्य् अस्तीति चैवान्यैर्__व्ध_040.058
अविवेकिभिर् उच्यते__व्ध_040.058
सर्वम् एतत् तद् एवेति__व्ध_040.059

वदन्त्य् अद्वैतवादिनः__व्ध_040.059
प्रत्यक्षं दृश्यम् एवेति__व्ध_040.059
वदन्त्य् अन्ये दुरुक्तिभिः__व्ध_040.059
वदन्त्य् अन्ये तद् एवाहं__व्ध_040.060
नास्तीत्य् अन्ये वदन्ति तत्__व्ध_040.060
तिर्यङ्मनुष्यदेवाख्यं__व्ध_040.060
तद् अन्यैर् अभिधीयते__व्ध_040.060
वन्द्यबुद्ध्या तु तत् कैश्चिद्__व्ध_040.061
ध्येयबुद्ध्या तथापरैः__व्ध_040.061
गम्यबुद्ध्या तथान्यैश् च__व्ध_040.061
लभ्यबुद्ध्या च जन्तुभिः__व्ध_040.061
गृह्यते तत् परं ब्रह्म__व्ध_040.062
रिपुबुद्ध्या तथापरैः__व्ध_040.062
आत्मपुत्रसुहृद्भर्तृ-__व्ध_040.062,*(45)
परबुद्ध्या तथापरैः__व्ध_040.*(45)
परबुद्ध्या च नैकधा__व्ध_040.062
प्राणिभिः कर्मवैषम्य-__व्ध_040.063
भिन्नबुद्धिभिर् अव्ययम्__व्ध_040.063
तद् ब्रह्म गृह्यते दाल्भ्य__व्ध_040.063
परमार्थं निबोध मे__व्ध_040.063
भूतेन्द्रियान्तःकरण-__व्ध_040.064
प्रधानपुरुषात्मकम्__व्ध_040.064
अपरं ब्रह्मणो रूपं__व्ध_040.064
परं दाल्भ्य निशामय__व्ध_040.064
अहेयम् अक्षरं शुद्धम्__व्ध_040.065
असंभूतिनिरञ्जनम्__व्ध_040.065
विष्ण्वाख्यं परमं ब्रह्म__व्ध_040.065
यद् वै पश्यन्ति सूरयः__व्ध_040.065
यथैतद् भवता प्रोक्तं__व्ध_041.001
धर्मार्थादेस् तु साधनम्__व्ध_041.001
पत्नी नॄणां मुनिश्रेष्ठ__व्ध_041.001
योषितस् च तथा नरः__व्ध_041.001
तच् छ्रोतुम् इच्छे विप्रर्षे__व्ध_041.002
विधवा स्त्री न जायते__व्ध_041.002
उपोषीतेन येनाग्र्या__व्ध_041.002
पत्न्या च रहितो नरः__व्ध_041.002
अशून्यशयना नाम__व्ध_041.003
द्वितीयां शृणु तां मम__व्ध_041.003
याम् उपोष्य न वैधव्यं__व्ध_041.003
प्रयाति स्त्री द्विजोत्तम__व्ध_041.003

पत्नीवियुक्तश् च नरो__व्ध_041.004
न कदाचित् प्रजायते__व्ध_041.004
शेते जगत्पतिः कृष्णः__व्ध_041.004
श्रिया सार्धं यदा द्विज__व्ध_041.004
अशून्यशयना नाम__व्ध_041.005
तदा ग्राह्या हि सा तिथिः__व्ध_041.005
कृष्णपक्षद्वितीयायां__व्ध_041.005
श्रावणे द्विजसत्तम__व्ध_041.005
इदम् उच्चारयेन् नाम__व्ध_041.006
प्रणम्य जगतः पतिम्__व्ध_041.006
श्रीवत्सधारिणं श्रीशं__व्ध_041.006
भक्त्याभ्यर्च्य श्रिया सह__व्ध_041.006
श्रीवत्सधारिञ् श्रीकान्त__व्ध_041.007
श्रीधाम श्रीपते ऽच्युत__व्ध_041.007
गार्हस्थ्यं मा प्रणाशं मे__व्ध_041.007
यातु धर्मार्थकामदम्__व्ध_041.007
अग्नयो मा प्रणश्यन्तु__व्ध_041.008
मा प्रणश्यन्तु देवताः__व्ध_041.008
पितरो मा प्रणश्यन्तु__व्ध_041.008
मत्तो दाम्पत्यभेदतः__व्ध_041.008
लक्ष्म्या प्रयुज्यते देव__व्ध_041.009
न कदाचिद् यथा भवान्__व्ध_041.009
तथा कलत्रसंबन्धो__व्ध_041.009
देव मा मे विभिद्यताम्__व्ध_041.009
लक्ष्म्या न शून्यं वरद__व्ध_041.010
यथा ते शयनं सदा__व्ध_041.010
शय्या ममाप्य् अशून्यास्तु__व्ध_041.010
तथैव मधुसूदन__व्ध_041.010
एवं प्रसाद्य पूजां च__व्ध_041.011
कृत्वा लक्ष्म्यास् तथा हरेः__व्ध_041.011
फलानि दद्याच् छय्यायाम्__व्ध_041.011
अभीष्टानि जगत्पतेः__व्ध_041.011
नक्तं प्रणम्यायतने__व्ध_041.012
हविर् भुञ्जीत वाग्यतः__व्ध_041.012
ब्राह्मणाय द्वितीये ऽह्नि__व्ध_041.012
शक्त्या दद्याच् च दक्षिणाम्__व्ध_041.012
एवं करोति यः सम्यग्__व्ध_041.013
नरो मासचतुष्टयम्__व्ध_041.013
तस्य जन्मत्रयं दाल्भ्य__व्ध_041.013
गृहभङ्गो न जायते__व्ध_041.013

अशून्यशयनश् चासौ__व्ध_041.014
धर्मकर्मार्थसाधकः__व्ध_041.014
भवत्य् अव्याहतैश्वर्यः__व्ध_041.014
पुरुषो नात्र संशयः__व्ध_041.014
नारी च दाल्भ्य धर्मज्ञा__व्ध_041.015
व्रतम् एतद् यथाविधि__व्ध_041.015
या करोति न सा शोच्या__व्ध_041.015
बन्धुवर्गस्य जायते__व्ध_041.015
वैधव्यं दुर्भगत्वं वा__व्ध_041.016
भर्तृत्यागं च सत्तम__व्ध_041.016
नाप्नोति जन्मत्रितयम्__व्ध_041.016
एतच् चीर्त्वा पतिव्रता__व्ध_041.016
उपवासाश्रितं सम्यग्__व्ध_042.001
लोकद्वयफलप्रदम्__व्ध_042.001
कथितं भवता सर्वं__व्ध_042.001
यत् पृष्टो ऽसि मया द्विज__व्ध_042.001
अन्यद् इच्छाम्य् अहं श्रोतुं__व्ध_042.002
तद् भवान् प्रब्रवीतु मे__व्ध_042.002
संसारहेतुं मुक्तिं च__व्ध_042.002
संसारान् मुनिसत्तम__व्ध_042.002
अविद्याप्रभवं कर्म__व्ध_042.003
हेतुभूतं द्विजोत्तम__व्ध_042.003
संसारस्यास्य तन्मुक्तिः__व्ध_042.003
संक्षेपाच् छ्रूयतां मम__व्ध_042.003
स्वजातिविहितं कर्म__व्ध_042.004
लोभद्वेषविवर्जितम्__व्ध_042.004
कुर्वतः क्षीयते पूर्वं__व्ध_042.004
मन्युबन्धश् च नेष्यते__व्ध_042.004
अपूर्वसंभवाभवात्__व्ध_042.005
क्षयं यात्य् आदिकर्मणि__व्ध_042.005
दाल्भ्य संसारविच्छेदः__व्ध_042.005
कारणाभावसंभवः__व्ध_042.005
भवत्य् असंशयं चान्यच्__व्ध_042.006
श्रूयताम् अत्र कारणम्__व्ध_042.006
संसारान् मुच्यते दाल्भ्य__व्ध_042.006
समासाद् वदतो मम__व्ध_042.006
गृहीतकर्मणा येन__व्ध_042.007,*(46)
पुंसां जातिर् द्विजोत्तम__व्ध_042.007,*(46)
तत्प्रायश्चित्तभूतं वै__व्ध_042.007
शृणु कर्मक्षयावहम्__व्ध_042.007

ब्राह्मणक्षत्रियविशां__व्ध_042.008
शूद्रान्त्यानां च सत्तम__व्ध_042.008
स्वजातिविहितं कर्म__व्ध_042.008
रागद्वेषादिवर्जितम्__व्ध_042.008
जातिप्रदस्य क्षयदं__व्ध_042.009
तद् एवाद्यस्य कर्मणः__व्ध_042.009
ज्ञानकारणभावं च__व्ध_042.009
तद् एव प्रतिपद्यते__व्ध_042.009
पुमांश् चाधिगतज्ञानो__व्ध_042.010
भेदं नाप्नोति सत्तम__व्ध_042.010
ब्रह्मणा विष्णुसंज्ञेन__व्ध_042.010
परमेणाव्ययात्मना__व्ध_042.010
एतत् ते कथितं दाल्भ्य__व्ध_042.011
संसारस्य समासतः__व्ध_042.011
कारणं भवमुक्तिश् च__व्ध_042.011
जायते योगिनो यथा__व्ध_042.011
इति दाल्भ्यः पुलस्त्येन__व्ध_043.001
यथावत् प्रतिबोधितः__व्ध_043.001
आराधयाम् आस हरिं__व्ध_043.001
लेभे कामांश् च वाञ्छितान्__व्ध_043.001
तथा त्वम् अपि दैत्येन्द्र__व्ध_043.002
केशवाराधनं कुरु__व्ध_043.002
आराध्य तं जगन्नाथं__व्ध_043.002
न कश्चिद् अवसीदति__व्ध_043.002
इति शुक्रवचः श्रुत्वा__व्ध_043.003
प्रह्लादो मधुसूदनम्__व्ध_043.003
आराध्य प्राप्तवान् कृत्स्नं__व्ध_043.003
त्रैलोकैश्वर्यम् ऊर्जितम्__व्ध_043.003
एतन् मयोक्तं सकलं__व्ध_043.004
तव भूमिप पृच्छतः__व्ध_043.004
अनाराध्याच्युतं देवं__व्ध_043.004
कः कामान् प्राप्नुते नरः__व्ध_043.004
अम्बरीसो नरपतिर्__व्ध_043.005
विष्णोर् माहात्म्यम् उत्तमम्__व्ध_043.005
श्रुत्वा बभूव सततं__व्ध_043.005
केशवार्पितमानसः__व्ध_043.005
एवं त्वम् अपि कौरव्य__व्ध_043.006
यदि मुक्तिम् अभीष्यसि__व्ध_043.006
भोगान् वा विलुपान् देवात्__व्ध_043.006
तस्माद् आराधयाच्युतम्__व्ध_043.006

ददाति वाञ्छितान् कामान्__व्ध_043.007
सकामैर् अर्चितो हरिः__व्ध_043.007
मुक्तिं ददाति गोविन्दो__व्ध_043.007
निष्कामैर् अभिपूजितः__व्ध_043.007
भगवान् अवतीर्णो ऽभून्__व्ध_043.008
मर्त्यलोकं जनार्दनः__व्ध_043.008
भारावतरणार्थाय__व्ध_043.008
भुवो भूतपतिर् हरिः__व्ध_043.008
मानुषत्वे च गोविन्दो__व्ध_043.009
मम पूर्वपितामहैः__व्ध_043.009
चकार प्रीतिम् अतुलां__व्ध_043.009
सामान्यपुरुषो यथा__व्ध_043.009
सारथ्यं कृतवांश् चैव__व्ध_043.010
तेषां सर्वेश्वरो हरिः__व्ध_043.010
निस्तीर्णो येन भीष्मौघो__व्ध_043.010
कुरुसैन्यमहोदधिः__व्ध_043.010
उपकारी महाभागः__व्ध_043.011
स तेषां सर्ववस्तुषु__व्ध_043.011
केशवः पाण्डुपुत्राणां__व्ध_043.011
सुतानां जनको यथा__व्ध_043.011
धन्यास् ते कृतपुण्याश् च__व्ध_043.012
मम पाण्डुसुता मताः__व्ध_043.012
विविशुर् ये परिष्वङ्गे__व्ध_043.012
गोविन्दभुजपञ्जरम्__व्ध_043.012
राज्यहेतोर् अरीञ् जघ्नुर्__व्ध_043.013
अकस्मात् पाण्डुनन्दनाः__व्ध_043.013
सप्तलोकैकनाथेन__व्ध_043.013
ये ऽभवन्न् एकशायिनः__व्ध_043.013
आत्मानम् अवगच्छामि__व्ध_043.014
भगवन् धूतकल्मषम्__व्ध_043.014
जातं निर्धूतपापे ऽस्मिन्__व्ध_043.014
कुले विष्णुपरिग्रहे__व्ध_043.014
एवं देववरस् तेषां__व्ध_043.015
प्रसादसुमुखो हरिः__व्ध_043.015
पृच्छतां कच्चिद् आचष्टे__व्ध_043.015
किंचिद् गुह्यं महात्मनाम्__व्ध_043.015
गुह्यं जनार्दनं यांस् तु__व्ध_043.016
धर्मपुत्रो युधिष्ठिरः__व्ध_043.016
पप्रच्छ धर्मान् अखिलांस्__व्ध_043.016
तन् ममाख्यातुम् अर्हसि__व्ध_043.016

धर्मार्थकाममोक्षेषु__व्ध_043.017
यद् गुह्यं मधुसूदनः__व्ध_043.017
तेषाम् अवोचद् भगवाञ्__व्ध_043.017
श्रोतुम् इच्छामि तत् त्व् अहम्__व्ध_043.017
बहूनि धर्मगुह्यानि__व्ध_043.018
धर्मपुत्राय केशवः__व्ध_043.018
पुरा प्रोवाच राजेन्द्र__व्ध_043.018
प्रसादसुमुखो हरिः__व्ध_043.018
शरतल्पगताद् भीष्माद्__व्ध_043.019
धर्माञ् श्रुत्वा युधिष्ठिरः__व्ध_043.019
पृष्टवान् यज् जगन्नाथं__व्ध_043.019
तन् मे निगदतः शृणु__व्ध_043.019
पञ्चमेनाश्वमेधेन__व्ध_044.001
यदा स्नातो युधिष्ठिरः__व्ध_044.001
तदा नारायणं देवं__व्ध_044.001
प्रश्नम् एतम् अपृच्छत__व्ध_044.001
भगवन् वैष्णवा धर्माः__व्ध_044.002
किंफलाः किंपरायणाः__व्ध_044.002
किं कृत्यम् अधिकृत्यैते__व्ध_044.002
भवतोत्पादिताः पुरा__व्ध_044.002
यदि ते पाण्डुषु स्नेहो__व्ध_044.003
विद्यते मधुसूदन__व्ध_044.003
श्रोतव्याश् चेन् मया धर्मास्__व्ध_044.003
ततस् तान् कथयाखिलान्__व्ध_044.003
पवित्राश् चैव ये धर्माः__व्ध_044.004
सर्वपापप्रणाशनाः__व्ध_044.004
तव वक्त्रच्युता देव__व्ध_044.004
सर्वधर्मेष्व् अनुत्तमाः__व्ध_044.004
याञ् श्रुत्वा ब्रह्महा गोघ्नः__व्ध_044.005
पितृघ्नो गुरुतल्पगः__व्ध_044.005
सुरापो वा कृतघ्नश् च__व्ध_044.005
मुच्यते सर्वकिल्बिषैः__व्ध_044.005
एतन् मे कथितं सर्वं__व्ध_044.006
सभामध्ये ऽरिसूदन__व्ध_044.006
वसिष्ठाद्यैर् महाभागैर्__व्ध_044.006
मुनिभिर् भावितात्मभिः__व्ध_044.006
ततो ऽहं तव देवेश__व्ध_044.007
पादमूलम् उपागतः__व्ध_044.007
धर्मान् कथय तान् देव__व्ध_044.007
यद्य् अहं भवतः प्रियः__व्ध_044.007

श्रुता मे मानवा धर्मा__व्ध_044.008
वासिष्ठाश् च महामते__व्ध_044.008
पराशरकृताश् चैव__व्ध_044.008
तथात्रेयस्य धीमतः__व्ध_044.008
श्रुता गार्ग्यस्य शङ्खस्य__व्ध_044.009
लिखितस्य यमस्य च__व्ध_044.009
जापालेश् च महाबाहो__व्ध_044.009
मुनेर् द्वैपायनस्य च__व्ध_044.009
उमामहेश्वराश् चैव__व्ध_044.010
जातिधर्माश् च पावनाः__व्ध_044.010
गुणेश् च गुणबाहोश् च__व्ध_044.010
काश्यपेयास् तथैव च__व्ध_044.010
बह्वायनकृताश् चैव__व्ध_044.011
शाकुनेयास् तथैव च__व्ध_044.011
अगस्त्यगीता मौद्गल्याः__व्ध_044.011
शाण्डिल्याः सौरभास् तथा__व्ध_044.011
भृगोर् अङ्गिरसश् चैव__व्ध_044.012
कश्यपोद्दालकास् तथा__व्ध_044.012
सौमन्तूग्रायणाग्राश् च__व्ध_044.012
पैलस्य च महात्मनः__व्ध_044.012
वैशम्पायनगीताश् च__व्ध_044.013
पिशङ्गमकृताश् च ये__व्ध_044.013
ऐन्द्राश् च वारुणाश् चैव__व्ध_044.013
कौबेरा वात्स्यपौणकाः__व्ध_044.013
आपस्तम्बाः श्रुता धर्मास्__व्ध_044.014
तथा गोपालकस्य च__व्ध_044.014
भृग्वङ्गिरःकृताश् चैव__व्ध_044.014
सौर्या हारीतकास् तथा__व्ध_044.014
याज्ञवल्क्यकृताश् चैव__व्ध_044.014
तथा सप्तर्षयश् च ये__व्ध_044.014
एताश् चान्याश् च विविधाः__व्ध_044.015
श्रुता मे धर्मसंहिताः__व्ध_044.015
भगवञ् श्रोतुम् इच्छामि__व्ध_044.015
तव वक्त्राद् विनिःसृतान्__व्ध_044.015
एवम् उक्तः स पार्थेन__व्ध_044.016
प्रत्युवाच जनार्दनः__व्ध_044.016
बहुमानाच् च प्रीत्या च__व्ध_044.016
धर्मपुत्रं युधिष्ठिरम्__व्ध_044.016
इष्टस् त्वं हि महाबाहो__व्ध_044.017
सदा मम युधिष्ठिर__व्ध_044.017

परमार्थं तव ब्रूयां__व्ध_044.017
किं पुनर् धर्मसंहिताम्__व्ध_044.017
परमज्ञानिभिः सिद्धैर्__व्ध_044.018
युञ्जद्भिर् अपि नित्यशः__व्ध_044.018
प्रशान्तस्येव दीपस्य__व्ध_044.018
गतिर् मम दुरत्यया__व्ध_044.018
सर्ववेदमयं ब्रह्म__व्ध_044.019
पवित्रम् ऋषिभिः स्तुतम्__व्ध_044.019
कथयिष्यामि ते राजन्__व्ध_044.019
धर्मं धर्मभृताम् वर__व्ध_044.019
एवम् उक्ते तु कृष्णेन__व्ध_044.020
ऋषयो ऽमिततेजसः__व्ध_044.020
समाजग्मुः सभामध्ये__व्ध_044.020
श्रोतुकामा हरेर् गिरम्__व्ध_044.020
देवगन्धर्वऋषयो__व्ध_044.*(47)
गुह्यकाश् च महायशाः__व्ध_044.*(47)
वालखिल्या महात्मानो__व्ध_044.*(47)
मुनयः संमितव्रताः__व्ध_044.*(47)
पावनान् सर्वधर्मेभ्यो__व्ध_044.*(47)
रहस्यान् द्विजसत्तम__व्ध_044.*(47)
वैष्णवान् अखिलान् धर्मान्__व्ध_044.021
यः पठेत् पापनाशनान्__व्ध_044.021
भवेयुर् अक्षयास् तस्य__व्ध_044.021
लोकाः सत्पुण्यभागिनः__व्ध_044.021
कृष्णदृष्टिहतं चास्य__व्ध_044.022
किल्बिषं संप्रणश्यति__व्ध_044.022
वैष्णवस्य च यज्ञस्य__व्ध_044.022
फलं प्राप्नोति मानवः__व्ध_044.022
कौतूहलसमाविष्टः__व्ध_045.001
पप्रच्छेदं युधिष्ठिरः__व्ध_045.001
यमलोकस्य चाध्वानम्__व्ध_045.001
अन्तरं मानुषस्य च__व्ध_045.001
कीदृशं किंप्रमाणं वा__व्ध_045.002
कथं वान्तं जनार्दन__व्ध_045.002
तरन्ति पुरुषाः कृष्ण__व्ध_045.002
केनोपायेन संशमे__व्ध_045.002
तस्य तद् वचनं श्रुत्वा__व्ध_045.003
विस्मितो मधुसूदनः__व्ध_045.003
प्रत्युवाच महात्मानं__व्ध_045.003
धर्मपुत्रं युधिष्ठिरम्__व्ध_045.003

साधु साधुर् अयं प्रश्नः__व्ध_045.004
श्रूयतां भो युधिष्ठिर__व्ध_045.004
षडशीतिसहस्राणि__व्ध_045.004
योजनानां नराधिप__व्ध_045.004
यमलोकस्य चाध्वानम्__व्ध_045.005
अन्तरं मानुषस्य च__व्ध_045.005
ताम्रपात्रम् इवातप्तं__व्ध_045.005
शूलव्यामिश्रकण्टकम्__व्ध_045.005
द्वादशादित्यसंकाशं__व्ध_045.006
भैरवं दुरतिक्रमम्__व्ध_045.006
न तत्र वृक्षा न च्छाया__व्ध_045.006
पानीयं केतनानि च__व्ध_045.006
यत्र विश्रमते श्रान्तः__व्ध_045.007
पुरुषो ऽध्वानको नृप__व्ध_045.007
याम्यैर् दूतैर् नीयमानो__व्ध_045.007
यमस्याज्ञाकरैर् बलात्__व्ध_045.007
अवश्यं च महाराज__व्ध_045.008
स गन्तव्यो महापथः__व्ध_045.008
नरैः स्त्रीभिस् तथा तिर्यैः__व्ध_045.008
पृथिव्यां जीवसंज्ञकैः__व्ध_045.008
एकविंशच् च नरका__व्ध_045.009
यमस्य विषये स्मृताः__व्ध_045.009
ये तु दुष्कृतकर्माणस्__व्ध_045.009
ते पतन्ति पृथक् पृथक्__व्ध_045.009
नरको रौरवो नाम__व्ध_045.010
महारौरव एव च__व्ध_045.010
क्षुरधारा महारौद्रः__व्ध_045.010
सूकरस् ताल एव च__व्ध_045.010
वज्रकुम्भो महाघोरः__व्ध_045.011
शाल्मलो ऽथ विमोहनः__व्ध_045.011
कीटादः कृमिभक्षश् च__व्ध_045.011
शाल्मलिश् च महाद्रुमः__व्ध_045.011
तथा पूयवहः पापा__व्ध_045.012
रुधिरान्धो महत्तमः__व्ध_045.012
अग्निज्वालो महानादः__व्ध_045.012
संदाम्शः शुनभोजनः__व्ध_045.012
तथा वैतरणी चोष्णा__व्ध_045.012
असिपत्त्रवनं तथा__व्ध_045.012
विष्णोस् तद् वचनं श्रुत्वा__व्ध_045.013
पपात भुवि पाण्डवः__व्ध_045.013

स संज्ञश् च मुहूर्तेन__व्ध_045.013
भूयः केशवम् अब्रवीत्__व्ध_045.013
भीतश् चास्मि महाबाहो__व्ध_045.014
श्रुत्वा मार्गस्य विस्तरम्__व्ध_045.014
केनोपायेन तं मार्गं__व्ध_045.014
तरन्ति पुरुषाः सुखम्__व्ध_045.014
ब्राह्मणेभ्यः प्रदानानि__व्ध_045.015
नानारूपाणि पार्थिव__व्ध_045.015
यो दद्याच् छ्रद्धया युक्तः__व्ध_045.015
सुखं याति महापथम्__व्ध_045.015
उपानहप्रदा यान्ति__व्ध_045.016
सुखं छायासु च्छत्त्रदाः__व्ध_045.016
न तेषाम् अशुभं किंचिच्__व्ध_045.016
शूलादि न च कण्टकाः__व्ध_045.016
उपानहौ यो ददाति__व्ध_045.017
पात्रभूते द्विजोत्तमे__व्ध_045.017
अश्वतर्यः प्रदातारम्__व्ध_045.017
उपतिष्ठन्ति तं नरम्__व्ध_045.017
वितृष्णाश् चाम्बुदातारस्__व्ध_045.018
तर्पिताश् चान्नदास् तथा__व्ध_045.018
औप्रावृता वस्त्रदाश् च__व्ध_045.018
नग्ना वै यान्त्य् अवस्त्रदाः__व्ध_045.018
हिरण्यदाः सुखं यान्ति__व्ध_045.019
पुरुषाः स्वाभ्यलंकृताः__व्ध_045.019
गोप्रदा यान्ति च सुखं__व्ध_045.019
विमुक्ताः सर्वकिल्बिषैः__व्ध_045.019
भूमिदाः सुखम् अधन्ते__व्ध_045.020
सर्वकामैः सुतर्पिताः__व्ध_045.020
यान्ति चैवापरिक्लिष्टा__व्ध_045.020
नराः शय्यासनप्रदाः__व्ध_045.020
ततः सुखतरं यान्ति__व्ध_045.021
विमानेषु गृहप्रदाः__व्ध_045.021
क्षीरप्रदा हि दिव्याभिः__व्ध_045.021
ससर्पिभिस् तथैव च__व्ध_045.021
गोप्रदाता लभेत् तृप्तिं__व्ध_045.022
तस्मिन् देशे सुदुर्लभाम्__व्ध_045.022
आरामरोपी च्छायासु__व्ध_045.022
शीतलासु सुखं व्रजेत्__व्ध_045.022
सुगन्धिगन्धिनो यान्ति__व्ध_045.023
गन्धमाल्यप्रदा नरः__व्ध_045.023

अदत्तदाना गच्छन्ति__व्ध_045.023
पद्भ्यां यानेन यानदाः__व्ध_045.023
दीपप्रदाः सुखं यान्ति__व्ध_045.023
दीपयन्तश् च तत्पथम्__व्ध_045.023
विमानैर् हंसयुक्तैस् तु__व्ध_045.024
यान्ति मासोपवासिनः__व्ध_045.024
चक्रवाकप्रयुक्तेन__व्ध_045.024
पञ्चरात्रोपवासिनः__व्ध_045.024
ततो बर्हिणयुक्तेन__व्ध_045.024
षड्रात्रम् उपवासिनः__व्ध_045.024
त्रिरात्रम् एकभक्तेन__व्ध_045.025
क्षपयेद् यस् तु पाण्डव__व्ध_045.025
अनन्तरं च यो ऽश्नीयात्__व्ध_045.025
तस्य लोका यथा मम__व्ध_045.025
पनीयं परलोकेषु__व्ध_045.026
पावनं परमं स्मृतम्__व्ध_045.026
पानीयस्य प्रदानेन__व्ध_045.026
तृप्तिर् भवति शाश्वती__व्ध_045.026
पानीयस्य गुणा दिव्याः__व्ध_045.026
प्रेतलोके सुखावहाः__व्ध_045.026
तत्र पुण्योदका नाम__व्ध_045.027
नदी तेषां प्रवर्तते__व्ध_045.027
शीतलं सलिलं तत्र__व्ध_045.027
पिबन्ति ह्य् अमृतोपमम्__व्ध_045.027
ये च दुष्कृतकर्माणः__व्ध_045.028
पूयं तेषां प्रवर्तते__व्ध_045.028
एषा नदी महाराज__व्ध_045.028
सर्वकामदुघा शुभा__व्ध_045.028
अध्वनि खिन्नगात्रस् तु__व्ध_045.029
द्विजो यः क्षुत्तृष्णान्वितः__व्ध_045.029
पृच्छन् सदान्नदातारम्__व्ध_045.029
अभ्येति गृहम् आशया__व्ध_045.029
तं पूजय प्रयत्नेन__व्ध_045.029
सो ऽतिथिर् ब्राह्मणः स्मृतः__व्ध_045.029
पितरो देवताश् चैव__व्ध_045.*(50)
ऋषयश् च तपोधनाः__व्ध_045.*(50)
पूजिताः पूजिते तस्मिन्__व्ध_045.*(50)
निराशे तु निराशकाः__व्ध_045.*(50)
तम् एव गच्छन्तम् अनुव्रजन्ति__व्ध_045.030
देवाश् च सर्वे पितरस् तथैव__व्ध_045.030

तस्मिन् द्विजे पूजिते पूजितास् ते__व्ध_045.030
गते निराशे प्रतियान्ति नाशम्__व्ध_045.030
अहन्य् अहनि दातव्यं__व्ध_045.*(51)
ब्राह्मणेभ्यो युधिष्ठिर__व्ध_045.*(51)
आगमिष्यति यत् पात्रं__व्ध_045.*(51)
तत् पात्रं तारयिष्यति__व्ध_045.*(51)
न तथा हविषो होमैर्__व्ध_046.001
न पुष्पैर् नानुलेपनैः__व्ध_046.001
अग्नौ वा सुहुते राजन्__व्ध_046.001
यथा ह्य् अतिथिपूजने__व्ध_046.001
कपिलायां तु दत्तायां__व्ध_046.002
यत् फलं ज्येष्ठपुष्करे__व्ध_046.002
तत् फलं पाण्डवश्रेष्ठ__व्ध_046.002
विप्राणां पादशौचने__व्ध_046.002
द्विजपादोदकक्लिन्ना__व्ध_046.003
यावत् तिष्ठति मेदिनी__व्ध_046.003
तावत् पुष्करपात्रेषु__व्ध_046.003
पिबन्ति पितरो जलम्__व्ध_046.003
देवमाल्यापनयनं__व्ध_046.004
द्विजोच्छिष्टापमार्जनम्__व्ध_046.004
श्रान्तसंवाहनं चैव__व्ध_046.004
दीनस्य परिपालनम्__व्ध_046.004
एकैकं पाण्डवश्रेष्ठ__व्ध_046.004
गोप्रदानाद् विशिष्यते__व्ध_046.004
पादशौचं तथाभ्यङ्गं__व्ध_046.005
दीपम् अन्नं प्रतिश्रयम्__व्ध_046.005
ददन्ति ये महाराज__व्ध_046.005
नोपसर्पन्ति ते यमम्__व्ध_046.005
स्वागतेनाग्नयः प्रीता__व्ध_046.006
आसनेन शतक्रतुः__व्ध_046.006
पितरः पादशौचेन__व्ध_046.006
अन्नाद्येन प्रजापतिः__व्ध_046.006
अभयस्य प्रदानेन__व्ध_046.*(52)
भवेत् प्रीतिर् ममातुला__व्ध_046.*(52)
येषां तडागानि बहूदकानि__व्ध_046.007
प्रपाश् च कूपाश् च प्रतिश्रयाश् च__व्ध_046.007
अन्नप्रदानं मधुरा च वाणी__व्ध_046.007
यमस्य ते निर्वचना भवन्ति__व्ध_046.007
सवृषं गोशतं तेन__व्ध_046.008
दत्तं भवति शाश्वतम्__व्ध_046.008

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc