भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्म · भाग 121140

त्वया ग्रस्ता भुवो भूत्यै__व्ध_035.053
हेतुभूता हि मद्विधाः__व्ध_035.053
वयम् अन्ये च गोविन्द__व्ध_035.054
नराः क्रीडनकास् तव__व्ध_035.054
मद्विधैः करणैर् देव__व्ध_035.054
करोषि स्थितिपालनम्__व्ध_035.054
यद् अत्र सद् असद् वापि__व्ध_035.055
किंचिद् उच्चारितं मया__व्ध_035.055
भक्तिमान् इति तत् सर्वं__व्ध_035.055
क्षन्तव्यं मम केशव__व्ध_035.055
एवं स्तुतस् ततः प्राह__व्ध_036.001
प्रीतिमांस् तं जनार्दनः__व्ध_036.001
परिष्वज्य महाबाहुं__व्ध_036.001
समाश्वास्य च फाल्गुनम्__व्ध_036.001
प्र्वाच भगवान् देवः__व्ध_036.*(37)
प्रहृष्टेनान्तरात्मना__व्ध_036.*(37)
यस् त्वां वेत्ति स मां वेत्ति__व्ध_036.002
यस् त्वाम् अनु स माम् अनु__व्ध_036.002
अभेदेनात्मना वेद्मी__व्ध_036.002
त्वाम् अहं पाण्डुनन्दन__व्ध_036.002
ममांशत्वं महाबाहो__व्ध_036.003
जगतः पालनेच्छया__व्ध_036.003
भुवो भारावतारार्थं__व्ध_036.003
पृथक् पार्थ मया कृतम्__व्ध_036.003
देवदैत्योरगा यक्षा__व्ध_036.004
गन्धर्वाः किंनराप्सराः__व्ध_036.004
राक्षसाश् च पिशाचाश् च__व्ध_036.004
पशुपक्षिसरीसृपाः__व्ध_036.004
वृक्षगुल्मादयः शैलाः__व्ध_036.005
सर्वभूतानि चार्जुन__व्ध_036.005
ममैवांशानि भूतानि__व्ध_036.005
विद्धि सर्वाण्य् अरिंदम__व्ध_036.005
भगवन् सर्वभूतात्मन्__व्ध_036.006
सर्वभूतेषु वै भवान्__व्ध_036.006
परमात्मस्वरूपेण__व्ध_036.006
स्थितं वेद्मि तद् अव्ययम्__व्ध_036.006
क्षेत्रेषु येषु येषु त्वं__व्ध_036.007
चिन्तनीयो मयाच्युत__व्ध_036.007
चेतसः प्रणिधानार्थं__व्ध_036.007
तन् ममाख्यातुम् अर्हसि__व्ध_036.007

यत्र यत्र च यन् नाम__व्ध_036.008
प्रीतये भवतः स्तुतौ__व्ध_036.008
प्रसादसुमुखो नाथ__व्ध_036.008
तन् ममाशेषतो वद__व्ध_036.008
सर्वगः सर्वभूतो ऽहं__व्ध_036.009
न हि किंचिद् मया विना__व्ध_036.009
चराचरे जगत्य् अस्मिन्__व्ध_036.009
विद्यते कुरुसत्तम__व्ध_036.009
तथापि येषु स्थानेषु__व्ध_036.010
चिन्तनीयो ऽहम् अर्जुन__व्ध_036.010
स्तोतव्यो नामभिर् यैस् तु__व्ध_036.010
श्रूयतां तद् वदामि ते__व्ध_036.010
पुष्करे पुण्डरीकाक्षं__व्ध_036.011
गयायां च गदाधरम्__व्ध_036.011
लोहदण्डे तथा विष्णुं__व्ध_036.011
स्तुवंस् तरति दुष्कृतम्__व्ध_036.011
क्ष्वामाच्ये कुमारं__व्ध_036.*(38)
नेपाले लोकभावनम्__व्ध_036.*(38)
राघवं चित्रकूटे तु__व्ध_036.012
प्रभासे दैत्यसूदनम्__व्ध_036.012
वृन्दावने च गोविन्दं__व्ध_036.012
मा स्तुवन् पुण्यभाग् भवेत्__व्ध_036.012
मन्दोदपाने वैकुण्ठं__व्ध_036.*(39)
माहन्त्रे चाच्युतं विभुम्__व्ध_036.*(39)
जयं जयन्त्यां तद्वच् च__व्ध_036.013
जयन्तं हस्तिनापुरे__व्ध_036.013
वाराहं कर्दमाले तु__व्ध_036.013
काश्मीरे चक्रपाणिनम्__व्ध_036.013
जनार्दनं च कुब्जाम्रे__व्ध_036.014
मथुरायां च केशवम्__व्ध_036.014
कुब्जके श्रीधरं तद्वद्__व्ध_036.014
गङ्गाद्वारे सुरोत्तमम्__व्ध_036.014
शालग्रामे महायोगिं__व्ध_036.015
हरिं गोवर्धनाचले__व्ध_036.015
पिण्डारके चतुर्बाहुं__व्ध_036.015
शङ्खोद्धारे च शङ्खिनम्__व्ध_036.015
वामनं च कुरुक्षेत्रे__व्ध_036.016
यमुनायां त्रिविक्रमम्__व्ध_036.016
वनमालं च किष्किन्धायां__व्ध_036.*(40)
देवं रैवतके द्विज__व्ध_036.*(40)

काशीजले महायोगं__व्ध_036.*(40)
देवं चामिततेजसम्__व्ध_036.*(40)
वैशाखयूपे अजितं__व्ध_036.*(40)
विरजायां विप्रक्षयम्__व्ध_036.*(40)
विश्वेश्वरं तथा शोणे__व्ध_036.016
कपिलं पूर्वसागरे__व्ध_036.016
श्वेतद्वीपपतिं चापि__व्ध_036.017
गङ्गासागरसंगमे__व्ध_036.017
भूधरं देविकानद्यां__व्ध_036.017
प्रयागे चैव माधवम्__व्ध_036.017
नरनारायणाख्यं च__व्ध_036.018
तथा बदरिकाश्रमे__व्ध_036.018
समुद्रे दक्षिणे स्तव्यं__व्ध_036.018
पद्मनाभेति फाल्गुन__व्ध_036.018
द्वारकायां तथा कृष्णं__व्ध_036.019
स्तुवंस् तरति दुर्गतिम्__व्ध_036.019
रामं नाम महेन्द्राद्रौ__व्ध_036.019
हृषीकेशं तथार्बुदे__व्ध_036.019
अश्वतीर्थे हयग्रीवं__व्ध_036.020
विश्वरूपं हिमाचले__व्ध_036.020
नृसिंहं कृतसौचे च__व्ध_036.020
विपाशायां द्विजप्रियम्__व्ध_036.020
नैमिषे यज्ञपुरुषं__व्ध_036.021
जम्बूमार्गे तथाच्युतम्__व्ध_036.021
अनन्तं सैन्धवारण्ये__व्ध_036.021
दण्डके शाङ्गधारिणम्__व्ध_036.021
उत्पलावर्तके शौरिं__व्ध_036.022
नर्मदायां श्रियः पतिम्__व्ध_036.022
दामोदरं रैवतके__व्ध_036.022
नन्दायां जलशायिनम्__व्ध_036.022
सर्वयोगेश्वरं चैव__व्ध_036.023
सिन्धुसागरसंगमे__व्ध_036.023
सह्याद्रौ देवदेवेशं__व्ध_036.023
वैकुण्ठं मागधे वने__व्ध_036.023
सर्वपापहरं विन्ध्ये__व्ध_036.024
उड्रेषु पुरुषोत्तमम्__व्ध_036.024
हृदये चापि कौन्तेय__व्ध_036.024
परमात्मानम् आत्मनः__व्ध_036.024
वटे वटे वैश्रवणं__व्ध_036.025
चत्वरे चत्वरे शिवम्__व्ध_036.025

पर्वते पर्वते रामं__व्ध_036.025
सर्वत्र मधुसूदनम्__व्ध_036.025
नरं भूमौ तथा व्योम्नि__व्ध_036.026
कौन्तेय गरुडध्वजम्__व्ध_036.026
वासुदेवं च सर्वत्र__व्ध_036.026
संस्मरञ् ज्योतिषां पतिम्__व्ध_036.026
अर्चयन् प्रणमंस् तु त्वं__व्ध_036.027
संस्मरंश् च धनंजय__व्ध_036.027
एतेष्व् एतानि नामानि__व्ध_036.027
नरः पापैः प्रमुच्यते__व्ध_036.027
स्थानेष्व् एतेषु मन्नाम्नाम्__व्ध_036.028
एतेषां प्रीणनं नरः__व्ध_036.028
द्विजानां प्रीणनं कृत्वा__व्ध_036.028
स्वर्गलोके ऽभिजायते__व्ध_036.028
नामान्य् एतानि कौन्तेय__व्ध_036.029
स्थानान्य् एतानि चात्मवान्__व्ध_036.029
जयं वै पञ्चपञ्चाशत्__व्ध_036.029
त्रिसन्ध्यं मत्परायणः__व्ध_036.029
त्रीणि जन्मानि यत् पापम्__व्ध_036.030
अवस्थात्रितये कृतम्__व्ध_036.030
तत् क्षालयत्य् असंदिग्धं__व्ध_036.030
जायते च सतां कुले__व्ध_036.030
द्विष्कालं वा जपन्न् एव__व्ध_036.031
दिवारात्रौ च यत् कृतम्__व्ध_036.031
तस्माद् विमुच्यते पापात्__व्ध_036.031
सद्भावपरमो नरः__व्ध_036.031
जप्तान्य् एतानि कौन्तेय__व्ध_036.032
सकृच्छ्रद्धासमन्वितम्__व्ध_036.032
मोचयन्ते नरं पापाद्__व्ध_036.032
यत् तत्रैव दिने कृतम्__व्ध_036.032
धन्यं यशस्यम् आयुष्यं__व्ध_036.033
जयं कुरु कुलोद्वह__व्ध_036.033
ग्रहानुकूलतां चैव__व्ध_036.033
करोत्य् आशु न संशयः__व्ध_036.033
उपोषितो मत्परमः__व्ध_036.034
स्थानेष्व् एतेषु मानवः__व्ध_036.034
कृतायतनवासश् च__व्ध_036.034
प्राप्नोत्य् अभिमतं फलम्__व्ध_036.034
उत्क्रान्तिर् अप्य् अशेषेषु__व्ध_036.035
स्थानेष्व् एतेषु शस्यते__व्ध_036.035

अन्यस्थानाच् छतगुणम्__व्ध_036.035
एतेष्व् अनशनादिकम्__व्ध_036.035
यस् तु मत्परमः कालं__व्ध_036.036
करोत्य् एतेषु मानवः__व्ध_036.036
देवानाम् अपि पूज्यो ऽसौ__व्ध_036.036
मम लोके महीयते__व्ध_036.036
यन् न तापाय वै पुंसां__व्ध_037.001
भवत्य् आमुष्मिकं कृतम्__व्ध_037.001
तापाय यच् च भवति__व्ध_037.001
तद् आचक्ष्व महामुने__व्ध_037.001
उपवासप्रभावं च__व्ध_037.002
कृष्णाराधनकाङ्क्षिणः__व्ध_037.002
कथयेह मम ब्रह्मन्__व्ध_037.002
न च तृप्यामि कथ्यते__व्ध_037.002
श्रूयतां दाल्भ्य यत् पृष्टाः__व्ध_037.003
कौतुकाद् भवता वयम्__व्ध_037.003
आमुष्मिकं न तापाय__व्ध_037.003
यच् च तापाय जायते__व्ध_037.003
उपोषितप्रभावं च__व्ध_037.004
कृष्णाराधनकाङ्क्षिणः__व्ध_037.004
कथयामि यथावृत्तं__व्ध_037.004
पूर्वम् एव महामते__व्ध_037.004
वैदिशं नाम नगरं__व्ध_037.005
प्रख्यातम् इह सत्तम__व्ध_037.005
तत्र वैश्यो ऽभवत् पूर्वं__व्ध_037.005
वीरभद्र इति श्रुतः__व्ध_037.005
भार्याजामातृदुहितृ-__व्ध_037.006
पुत्रपौत्रस्नुषान्वितः__व्ध_037.006
प्रभूतभृत्यवर्गश् च__व्ध_037.006
बहुव्यापारकारकः__व्ध_037.006
पुत्रपौत्रादिभरण-__व्ध_037.007
व्यासक्तमतिर् एव च__व्ध_037.007
परलोकं प्रति मतिस्__व्ध_037.007
तस्य चात्यन्तदुर्मुखा__व्ध_037.007
चकारानुदिनं सो ऽथ__व्ध_037.008
न्यायान्यायैर् धनार्जनम्__व्ध_037.008
सर्वत्रान्यत्र निःस्नेहः__व्ध_037.008
परस्वे चातितर्षुलः__व्ध_037.008
न जुहोत्य् उदिते काले__व्ध_037.009
न ददात्य् अतितृष्णया__व्ध_037.009

बभूव चोद्यमस् तस्य__व्ध_037.009
पुत्रादिभरणे परः__व्ध_037.009
नित्यनैमित्तिकानां च__व्ध_037.010
हानिं चक्रे स्वकर्मणाम्__व्ध_037.010
तृष्णाभिभूतो विप्रर्षे__व्ध_037.010
स्ववर्गभरणाधृतः__व्ध_037.010
कालेन गच्छता सो ऽथ__व्ध_037.011
मृतो विन्ध्याटवीतटे__व्ध_037.011
यातनादेहभृत् प्रेतो__व्ध_037.011
ग्रीष्मकाले ऽभवन् मुने__व्ध_037.011
तं ददर्श महाभागो__व्ध_037.012
दिव्यज्ञानसमन्वितः__व्ध_037.012
वेदवेदान्तविद् विद्वान्__व्ध_037.012
पिपीतो नाम वै द्विजः__व्ध_037.012
भास्करस्यांशुभिर् दीप्तैर्__व्ध_037.013
दह्यन्तम् अनिवारणैः__व्ध_037.013
प्रतप्तवालुकामध्ये__व्ध_037.013
तृषा चात्यन्तपीडितम्__व्ध_037.013
क्षुत्क्षामकण्ठं शुष्कास्यं__व्ध_037.014
स्तब्धोद्वृत्तविलोचनम्__व्ध_037.014
निष्क्रान्तजिह्वम् अङ्गेषु__व्ध_037.014
विस्फोटैः सर्वतश् चितम्__व्ध_037.014
निश्वासायासखेदेन__व्ध_037.015
विरलास्यम् अनादरम्__व्ध_037.015
श्रान्तं मक्षिकयाकीर्णं__व्ध_037.*(41)
दुर्दग्धं चातिदारुणम्__व्ध_037.*(41)
निजेन कर्मणा बद्धम्__व्ध_037.015
असमर्थं पलायने__व्ध_037.015
तं तादृशम् अथो दृष्ट्वा__व्ध_037.016
गार्दभेयो महामुनिः__व्ध_037.016
पिपीतः प्राह विप्रर्षिः__व्ध_037.016
कारुण्यस्तिमितं वचः__व्ध_037.016
जानन्न् अपि तथा प्राप्तं__व्ध_037.017
तदनुष्ठानजं फलम्__व्ध_037.017
जन्तोस् तस्योपकाराय__व्ध_037.017
सर्वतो ह्लादयन्न् इव__व्ध_037.017
अधः सूर्यांशुभिस् तप्तैर्__व्ध_037.018
बहुभिर् यानपांसुभिः__व्ध_037.018
उपर्य् अर्ककरैर् उग्रैस्__व्ध_037.018
तृषा चार्तस् तथा क्षुधा__व्ध_037.018

अन्यैस् तथाधिभिर् घोरैर्__व्ध_037.019
अविषह्यैर् अवारणैः__व्ध_037.019
कथयेह यथातत्त्वम्__व्ध_037.019
एकाकी दह्यसे कथम्__व्ध_037.019
तस्यैतद् वचनं श्रुत्वा__व्ध_037.020
पिपीतस्य सवेदनम्__व्ध_037.020
यातनास्थ उवाचेदं__व्ध_037.020
कृच्छ्राद् उच्छ्वास्य मस्तकम्__व्ध_037.020
ब्रह्मन् नालोचितं पूर्वं__व्ध_037.021
कथम् अन्ते भविष्यति__व्ध_037.021
अशाश्वते शाश्वतधीस्__व्ध_037.021
तेन दह्यामि दुर्मतिः__व्ध_037.021
धनापणगृहक्षेत्र-__व्ध_037.022
पुत्रदारहिते रतः__व्ध_037.022
नात्मनो ऽहं हितारम्भी__व्ध_037.022
तेन दह्यामि दुर्मतिः__व्ध_037.022
इदं करिष्ये कृत्वेदं__व्ध_037.023
करिष्याम्य् अपरं त्व् इदम्__व्ध_037.023
इतीच्छाशतसरो ऽहं__व्ध_037.023
तेन दह्यामि दुर्मतिः__व्ध_037.023
जुहोमि यदि तन् नास्ति__व्ध_037.024
ददामि यदि सीदति__व्ध_037.024
कुटुम्बम् इति मूढो ऽहम्__व्ध_037.024
तेन दह्यामि दुर्मतिः__व्ध_037.024
शीतोष्णवर्षाभिभवं__व्ध_037.025
लोभात् सोड्ःअं मयाशुभम्__व्ध_037.025
तद् एव हि न धर्मार्थं__व्ध_037.025
तेन दह्यामि दुर्मतिः__व्ध_037.025
पितृदेवमनुष्याणाम्__व्ध_037.026
अदत्त्वापोषिता हि ये__व्ध_037.026
ते ऽन्यत्र क्वापि वर्तन्ते__व्ध_037.026
दह्याम्य् एको ऽत्र दुर्मतिः__व्ध_037.026
पुत्रभृत्यकलत्रेषु__व्ध_037.027
मम त्व् आदृतमानसः__व्ध_037.027
कृत्वा कर्माण्य् असाधूनि__व्ध_037.027
दह्याम्य् एको ऽत्र दुर्मतिः__व्ध_037.027
मृते मयि धने तस्मिन्न्__व्ध_037.028
अन्यायोपार्जिते मया__व्ध_037.028
नूनं ममेति वर्तन्ते__व्ध_037.028
दह्याम्य् एको ऽत्र दुर्मतिः__व्ध_037.028

न हि नः पूजिता गेहान्__व्ध_037.029
निर्गता द्विजसत्तमाः__व्ध_037.029
स्ववर्गहितकामस्य__व्ध_037.029
तेन दह्याम्य् अहर्निशम्__व्ध_037.029
यन् मे न पूजिता देवाः__व्ध_037.030
कुटुम्बं पोषीतं परम्__व्ध_037.030
एकाकी तेन दह्यामि__व्ध_037.030
ये पुष्टास् ते ऽन्यतो गताः__व्ध_037.030
नित्यनैमित्तिकं कर्म__व्ध_037.031
कृते येषां न म कृतम्__व्ध_037.031
एकाकी तेन दह्यामि__व्ध_037.031
तैर् मन्ये क्वापि रम्यते__व्ध_037.031
यन् मे परिजनस्यार्थे__व्ध_037.032
कृतं कर्म शुभाशुभम्__व्ध_037.032
एकाकी तेन दह्यामि__व्ध_037.032
गतास् ते फलभोगिनः__व्ध_037.032
दाराः पुत्राश् च भृत्याश् च__व्ध_037.033
पापव्याप्त्या मयैधिताः__व्ध_037.033
एकाकी तेन दह्यामि__व्ध_037.033
गतास् ते फलभोगिनः__व्ध_037.033
पुत्रदारादिभृत्यार्थे__व्ध_037.034
मयान्यायार्थसंचयाः__व्ध_037.034
कृतास् तेनात्र दह्यामि__व्ध_037.034
भुञ्जते ऽप्य् अन्यतो गताः__व्ध_037.034
कृतं पापं मया भुक्तम्__व्ध_037.035
अन्यैस् तत्कर्मसंचितम्__व्ध_037.035
दह्याम्य् एको ऽहम् अत्यन्तं__व्ध_037.035
त्यक्तस् तैः फलभोगिभिः__व्ध_037.035
यन् ममत्वाभिभूतेन__व्ध_037.036
मया धनम् उपार्जितम्__व्ध_037.036
अन्यस्य ते ऽद्य कस्यापि__व्ध_037.036
केवलं मम दुष्कृतम्__व्ध_037.036
अन्तर्दुःखेन दग्धो ऽन्तर्__व्ध_037.037
बहिर् दह्यामि भानुना__व्ध_037.037
नान्तर्दुःखं न वा भानुः__व्ध_037.037
पापम् एव द्विधा स्थितम्__व्ध_037.037
कंचित् कर्मसमुद्धारं__व्ध_037.038
पश्यस्य् असुखसागरात्__व्ध_037.038
मम येनाहम् आह्लादम्__व्ध_037.038
आप्नुयां मुनिसत्तम__व्ध_037.038

अल्पकालिकम् उद्धारं__व्ध_037.039
तव पश्याम्य् असंशयम्__व्ध_037.039
प्रक्षीणप्रायम् एतत् ते__व्ध_037.039
सुकृतं चास्ति ते परम्__व्ध_037.039
अतीते दशमे जन्मन्य्__व्ध_037.040
अच्युताराधनेच्छया__व्ध_037.040
सुकर्मजयदां भद्र__व्ध_037.040
द्वादशीं त्वम् उपोषितः__व्ध_037.040
तव तस्याः प्रभावेण__व्ध_037.041
पापम् अत्यन्तदुर्जयम्__व्ध_037.041
अल्पैर् अहोभिः संक्षीणं__व्ध_037.041
नवपात्रे यथा जलम्__व्ध_037.041
यद् अन्यः क्षपयेद् वर्षैस्__व्ध_037.042
तद् दिनैर् भवतः क्षयम्__व्ध_037.042
गतं पापम् अयं तस्याः__व्ध_037.042
प्रभावो ऽत्यन्तदुर्लभः__व्ध_037.042
शमं पापस्य कुरुते__व्ध_037.043
जयं सुकृतकर्मणः__व्ध_037.043
सत्कर्मजयदा ह्य् एषा__व्ध_037.043
ततो वै द्वादशी स्मृता__व्ध_037.043
यच् चैतद् वेदनार्तेन__व्ध_037.044
भवता परिदेवितम्__व्ध_037.044
तत् तथा नात्र संदेहो__व्ध_037.044
ममता पापहेतुकी__व्ध_037.044
पापम् अत्र कृतं प्रेत्य__व्ध_037.045
भद्र तापाय जायते__व्ध_037.045
आह्लादाय तथा पुण्यम्__व्ध_037.045
इह पुण्यकृतां नृणाम्__व्ध_037.045
वीरभद्रं समाश्वास्य__व्ध_037.046
ययाव् इत्थं महामुनिः__व्ध_037.046
सो ऽप्य् अल्पेनैव कालेन__व्ध_037.046
ततो मोक्षम् अवाप्तवान्__व्ध_037.046
एवं दाल्भ्य परे लोके__व्ध_037.047
यद् अत्रासुकृतं कृतम्__व्ध_037.047
तत् तापाय सुखायोक्तं__व्ध_037.047
यद् अत्रैव शुभं कृतम्__व्ध_037.047
उपवासप्रभावश् च__व्ध_037.048
कथितस् ते महामुने__व्ध_037.048
येनाल्पैर् एव दिवसैर्__व्ध_037.048
भूरि पापं क्षयं गतम्__व्ध_037.048

तस्मान् नरेण पुण्याय__व्ध_037.049
पतितव्यं न पातके__व्ध_037.049
उपवासाश् च कर्तव्याः__व्ध_037.049
सदैवात्महितैषिणा__व्ध_037.049
संसारासारतां ज्ञात्वा__व्ध_038.001
विषयांश् चातितर्षुलान्__व्ध_038.001
कर्तव्यं यन् महाभाग__व्ध_038.001
पुरुषेण तद् उच्यताम्__व्ध_038.001
संसारासारतां ज्ञात्वा__व्ध_038.002
विषयांश् चातितर्षुलान्__व्ध_038.002
गृद्धिस् तेष्व् एव संत्याज्या__व्ध_038.002
तत्त्यागो गुणवान् नृणाम्__व्ध_038.002
येषाम् अब्दसहस्राणां__व्ध_038.003
सहस्रैर् अपि नो नरः__व्ध_038.003
भोगात् तृप्तिं समाप्नोति__व्ध_038.003
कस् तैर् भोगैर् विरज्यते__व्ध_038.003
यावतो वाञ्छते भोगान्__व्ध_038.004
अहन्य् अहनि मानवः__व्ध_038.004
तेषां सहस्रभागे ऽपि__व्ध_038.004
दाल्भ्य प्राप्तिं न विन्दति__व्ध_038.004
अथ चेत् तन् अवाप्नोति__व्ध_038.005
सहस्रगुणितान् नरः__व्ध_038.005
तथाप्य् अतृप्त एवान्तम्__व्ध_038.005
अन्तकाले गमिष्यति__व्ध_038.005
तृप्तये ये न संप्राप्ताः__व्ध_038.006
प्राप्यन्ते ये न वाञ्छिताः__व्ध_038.006
बुद्धिमान् इन्द्रियार्थेषु__व्ध_038.006
तेष्व् असङ्गी सदा भवेत्__व्ध_038.006
येषां तृप्तिर् न भोगेन__व्ध_038.007
त्यागश् चैवोपकारकः__व्ध_038.007
उपोषितविधानेन__व्ध_038.007
भोगान्त्यागस् ततो वरः__व्ध_038.007
कृच्छ्रचान्द्रायणादीनि__व्ध_038.008
नरैस् तस्मान् मुमुक्षुभिः__व्ध_038.008
निष्कामैर् दाल्भ्य कार्याणि__व्ध_038.008
फलाय च फलेप्सुभिः__व्ध_038.008
अत्राप्य् उदाहरन्तीमं__व्ध_038.009
मुनयो मुनिसत्तम__व्ध_038.009
दस्राभ्यां सह संवादम्__व्ध_038.009
ऐलस्य च महात्मनः__व्ध_038.009

ऐलः पुरूरवाः पूर्वं__व्ध_038.010
बभूव मनुजेश्वरः__व्ध_038.010
चकमे यं महाभागम्__व्ध_038.010
उर्वशी सुरसुन्दरी__व्ध_038.010
संत्यज्य त्रिदशावासं__व्ध_038.011
रूपौदार्यगुणान्वितम्__व्ध_038.011
भेजे तम् उर्वशी दाल्भ्य__व्ध_038.011
बुधस्य तनयं नृपम्__व्ध_038.011
नासत्यदस्रौ रूपेण__व्ध_038.012
देवानाम् अधिकौ ततः__व्ध_038.012
उर्वशीलोभनं तस्य__व्ध_038.012
रूपं द्रष्टुं समुत्सुकौ__व्ध_038.012
प्रतिष्ठानं पुरं तस्य__व्ध_038.013
बुधपुत्रस्य धीमतः__व्ध_038.013
जग्मतुः सुमहाभागौ__व्ध_038.013
तस्य द्वास्थम् अथोचतुः__व्ध_038.013
क्षत्तो ऽस्मद्वचनाद् ऐलं__व्ध_038.014
ब्रूहि त्वं वसुधाधिपम्__व्ध_038.014
द्रष्टुं तवाश्विनौ प्राप्तौ__व्ध_038.014
रूपसंपद्गुणं ण्र्प__व्ध_038.014
तदेह्य् अत्र महाभाग__व्ध_038.014
इहास्मान् संप्रवेशय__व्ध_038.014
आश्चर्यभूतं लोकेषु__व्ध_038.015
उर्वशीलोभनं वपुः__व्ध_038.015
तत् कौतुकं न कुरुते__व्ध_038.015
कस्य पार्थिवपुङ्गव__व्ध_038.015
आवां समागतौ तस्मात्__व्ध_038.*(42)
त्वां द्रष्टुं मनुजोत्तम__व्ध_038.*(42)
द्वास्थस् तथेति ताव् आह__व्ध_038.016
प्रविवेश च सत्वरम्__व्ध_038.016
आचचक्षे च तद् राज्ञे__व्ध_038.016
नासत्यवचनं द्विज__व्ध_038.016
तच् छ्रुत्वा वचनं राजा__व्ध_038.017
द्वास्थम् आह मुहूर्तकम्__व्ध_038.017
विलम्ब्यतां महाभागौ__व्ध_038.017
तौ ब्रूहि वचनान् मम__व्ध_038.017
व्यायामतैलसंसर्ग-__व्ध_038.018
मलिनो न विभूषितः__व्ध_038.018
प्रसाधनं च कृत्वाहं__व्ध_038.018
निष्क्रमामि त्वरान्वितः__व्ध_038.018

निष्क्रम्य स ततो द्वास्थो__व्ध_038.019
यथोक्तं भूभृतखिलम्__व्ध_038.019
समाचष्ट ततो दाल्भ्य__व्ध_038.019
तौ च भूयस् तम् ऊचतुः__व्ध_038.019
अप्रसाधितम् एवाशु__व्ध_038.020
भवन्तं वसुधाधिप__व्ध_038.020
पश्यावस् तव भूयो ऽपि__व्ध_038.020
त्वां द्रक्ष्यावः प्रसाधितम्__व्ध_038.020
इत्य् उक्तो निर्गतस् तूर्णं__व्ध_038.021
भवनाद् अवनीपतिः__व्ध_038.021
तैलाभ्यक्ततनुर् दाल्भ्य__व्ध_038.021
व्यायामपरिधानधृक्__व्ध_038.021
स प्रणामं तयोः कृत्वा__व्ध_038.022
किंचिन् नतशिरा नृपः__व्ध_038.022
प्रोवाच यन् मया कार्यं__व्ध_038.022
भवतोस् तद् इहोच्यताम्__व्ध_038.022
सप्तद्वीपवती पृथ्वी__व्ध_038.023
पुत्रदारबलं धनम्__व्ध_038.023
यच् चान्यद् अपि तत् सर्वं__व्ध_038.023
युवयोर् मे निवेदितम्__व्ध_038.023
इत्य् उदाहृतम् आकर्ण्य__व्ध_038.024
नृपतेर् अश्विनाव् अपि__व्ध_038.024
अङ्गोपाङ्गादिकं सर्वं__व्ध_038.024
शनकैस् ताव् अपश्यताम्__व्ध_038.024
शिरोललाटबाहुं स-__व्ध_038.025
नयनादिविलोकनम्__व्ध_038.025
कृत्वा च तं महीपालम्__व्ध_038.025
ऊचतुस् ताव् इदं सुरौ__व्ध_038.025
प्रविश्य स्नाहि भूपाल__व्ध_038.026
यथार्थैश् च विभूषणैः__व्ध_038.026
विभूषितं तु भूयस् त्वां__व्ध_038.026
द्रक्ष्यावो ऽवां नरेश्वर__व्ध_038.026
तथेति चोक्त्वा स नृपः__व्ध_038.027
प्रविवेश महामुने__व्ध_038.027
चक्रे च सकलं सम्यक्__व्ध_038.027
स्नात्वा देहप्रसाधनम्__व्ध_038.027
स्नातो ऽनुलिप्तः स्रग्धारी__व्ध_038.028
सुवस्त्रः सुविभूषितः__व्ध_038.028
नासत्यदस्रयोः पार्श्वम्__व्ध_038.028
इयाय वसुधाधिपः__व्ध_038.028

भूयो ऽपि तौ यथा पूर्वम्__व्ध_038.029
अङ्गोपाङ्गविलोकनम्__व्ध_038.029
चक्रतुर् नृपतेस् तस्य__व्ध_038.029
स्मितभिन्नौष्ठसंपुटौ__व्ध_038.029
तौ सहासौ समालक्ष्य__व्ध_038.030
स तदा वसुधाधिपः__व्ध_038.030
हासस्य कारणं देव-__व्ध_038.030
भिषजौ ताव् अपृच्छत__व्ध_038.030
पृच्छन्तं न ततो दाल्भ्य__व्ध_038.031
नृपतिं हास्यकारणम्__व्ध_038.031
यद् ऊचतुर् महाभागौ__व्ध_038.031
तच् छृणुष्व वदामि ते__व्ध_038.031
शृणु भूपाल सकलं__व्ध_038.032
हासकारणम् आवयोः__व्ध_038.032
युष्मद्दर्शनसंभूतं__व्ध_038.032
क्षणापचयहेतुकम्__व्ध_038.032
अस्नातस्याभवद् भूप__व्ध_038.033
यादृशी ते सुरूपता__व्ध_038.033
सांप्रतं तादृशी नेयं__व्ध_038.033
भूषितस्यापि भूषणैः__व्ध_038.033
स्नातः स्रग्दामधारी त्वं__व्ध_038.034
स्वनुलिप्तः सुभूषितः__व्ध_038.034
तथाप्य् अस्नात एव प्राच्__व्ध_038.034
शोभनो ऽभून् न सांप्रतम्__व्ध_038.034
किंतु तत्कारणं येन__व्ध_038.035
व्यायाममलिनाम्बरः__व्ध_038.035
शोभनो ऽहम् अभूत् पूर्वम्__व्ध_038.035
इदानीं न विभूषितः__व्ध_038.035
दिव्येन चक्षुषा भूप__व्ध_038.036
कालस्यास्य च तस्य च__व्ध_038.036
वयःपरिणतिं सूक्ष्मां__व्ध_038.036
पश्यावो ऽपचयप्रदाम्__व्ध_038.036
यथा हि नाडिका पूर्णा__व्ध_038.037
गलत्य् अविरतं नृप__व्ध_038.037
नॄणां परिणतस् तद्वच्__व्ध_038.037
शरीरग्रहणाद् अनु__व्ध_038.037
जन्मतो ऽनन्तरं बाल्यं__व्ध_038.038
पौगण्डत्वं ततः परम्__व्ध_038.038
यौवनं मध्यदेहित्वं__व्ध_038.038
वार्द्धकं च जरा नृणाम्__व्ध_038.038

स्थूलदृष्ट्या तु पश्यन्ति__व्ध_038.038
न तु ते सूक्ष्मदर्शिनः__व्ध_038.038
निमेषशतभागस्य__व्ध_038.039
सहस्रांशः क्षणो नृप__व्ध_038.039
तस्याप्य् अयुतभागांशो__व्ध_038.039
भवत्य् अपचयो नृणाम्__व्ध_038.039
सूक्ष्मातिसूक्ष्मापचयी__व्ध_038.040
भवत्य् एष पुमान् नृप__व्ध_038.040
परिणामं क्रमाद् याति__व्ध_038.040
तृप्तिं वारि पिबन्न् इव__व्ध_038.040
तद् अहर् जातबाल्यस्य__व्ध_038.041
बालस्यापचयो हि सः__व्ध_038.041
प्रतिक्षणांशया वृद्धिर्__व्ध_038.041
बालत्वं हीयते तया__व्ध_038.041
पौगण्डे यौवने चैव__व्ध_038.042
वार्द्धके च महामते__व्ध_038.042
हानिक्रमः स एवोक्तो__व्ध_038.042
यो बाल्ये कथितस् तव__व्ध_038.042
कान्तिर् या नृप बालस्य__व्ध_038.043
पोगण्डस्य हि सा कुतः__व्ध_038.043
तत्कान्तिसौकुमार्याद्यैः__व्ध_038.043
शून्यम् एव हि यौवनम्__व्ध_038.043
कान्त्यादिसंपदो हानिः__व्ध_038.044
परमा नृप वार्द्धके__व्ध_038.044
तत्राप्य् अनुक्षणं हानिर्__व्ध_038.044
हानिर् आ मृत्युतो नृप__व्ध_038.044
एवं प्रतिक्षणांशांशो__व्ध_038.045
नॄणाम् अपचयप्रदः__व्ध_038.045
कुर्वतः किमु कालस् ते__व्ध_038.045
महास्नानप्रसाधनम्__व्ध_038.045
अस्मद्दृष्टो भवान् यावत्__व्ध_038.046
प्रविष्टो निजमन्दिरम्__व्ध_038.046
तावद् धानिम् अनुप्राप्तः__व्ध_038.046
किमु यामार्धसंस्थितः__व्ध_038.046
यादृशो ऽद्य भवांस् तादृक्__व्ध_038.047
त्वं न रूपी नरेश्वर__व्ध_038.047
परश्वः शस्तनं नैव__व्ध_038.047
चतुर्थे ऽह्नि च तन्मयः__व्ध_038.037
एवं समस्तभूतानि__व्ध_038.048
स्थावराणि चराणि च__व्ध_038.048

प्रतिक्षणांशापचयं__व्ध_038.048
प्राप्नुवन्ति महीतले__व्ध_038.048
तस्मान् न कौतुकं कार्यं__व्ध_038.049
भवता तु नरेश्वर__व्ध_038.049
यत् ते रूपम् अभूत् पूर्वम्__व्ध_038.049
अप्रसाधितशोभनम्__व्ध_038.049
राजा पुरूरवा भूयः__व्ध_038.050
श्रुत्वा वाक्यम् इदं तयोः__व्ध_038.050
चिन्तयित्वा वचः प्राह__व्ध_038.050
संवेगोत्कम्पिमानसः__व्ध_038.050
अहो भवद्भ्यां कथितम्__व्ध_038.051
अनवस्थितसंस्थितम्__व्ध_038.051
स्वरूपं जगतो देवौ__व्ध_038.051
येन त्रस्तो ऽस्मि सांप्रतम्__व्ध_038.051
अज्ञानतिमिरान्धानां__व्ध_038.052
मद्विधानां भवद्विधाः__व्ध_038.052
प्रदीपभूताः संदेहो__व्ध_038.052
विद्यते नात्र कश्चन__व्ध_038.052
सदापचयदोषेण__व्ध_038.053
दुष्टकायैः सुरोत्तमौ__व्ध_038.053
यत् कार्यं पुरुषैस् तच् च__व्ध_038.053
कथ्यतां हितकाम्यया__व्ध_038.053
अतिमूढो ऽध्रुवे काये__व्ध_038.054
सदापचयधर्मिणि__व्ध_038.054
नरस् तदुपभोग्यानि__व्ध_038.054
ध्रुवाणि परिमार्गति__व्ध_038.054
आसनं शयनं यानं__व्ध_038.055
परिधानं गृहादिकम्__व्ध_038.055
वाञ्छत्य् अहो ऽतिमोहेन__व्ध_038.055
सुस्थिरं स्वयम् अस्थिरः__व्ध_038.055
मूढो ऽध्रुवं ध्रुवमतिः__व्ध_038.056,*(43)
किम् आत्मानं न बुध्यते__व्ध_038.056,*(43)
बाल्यात् पौगण्डतां गत्वा__व्ध_038.056
यः पुनर् यौवनं गतः__व्ध_038.056
भुवः शैलं समारूढः__व्ध_038.057
समारूढस् ततो द्रुमम्__व्ध_038.057
आरोहणं स किम् अन्यद्__व्ध_038.057
ऋक्षभीतः करिष्यति__व्ध_038.057
बाल्यात् पौगण्डतां यातो__व्ध_038.058
यौवनाद् वृद्धतां गतः__व्ध_038.058

वयोऽवस्था ततः कान्या__व्ध_038.058
यद् भोगाय स्थिरेच्छकः__व्ध_038.058
तस्माद् एतन् मनुष्येण__व्ध_038.059
विचार्यात्महितैषिणा__व्ध_038.059
श्रेयस्य् आमुष्मिके यत्नः__व्ध_038.059
कर्तव्यो ऽहर्निशं नृप__व्ध_038.059
भोगेष्व् असक्तिः सततं__व्ध_038.060
तथैवात्मावलोकनम्__व्ध_038.060
श्रेयः परं मनुष्याणां__व्ध_038.060
कपिलः प्राह पार्थिवः__व्ध_038.060
सर्वत्र समदर्शित्वं__व्ध_038.061
निर्ममत्वम् असङ्गिता__व्ध_038.061
श्रेयः परं मनुष्याणां__व्ध_038.061
प्राह पञ्चशिखो मुनिः__व्ध_038.061
आगर्भजन्मबाल्यादि-__व्ध_038.062
वयोऽवस्थादिवेदनम्__व्ध_038.062
श्रेयः परं मनुष्याणाम्__व्ध_038.062
अङ्गारिष्ठो ऽब्रवीन् नृपः__व्ध_038.062
अध्यात्मिकादिदुःखानाम्__व्ध_038.063
अत्यन्तादिप्रतिक्रिया__व्ध_038.063
श्रेयः परं मनुष्याणां__व्ध_038.063
जनको ह्य् आह मोक्षवित्__व्ध_038.063
अभिन्नयोर् भेदकरः__व्ध_038.064
प्रत्ययो यः परात्मनोः__व्ध_038.064
हिरण्यगर्भस् तच्छान्तिं__व्ध_038.064
श्रेयः परमम् अब्रवीत्__व्ध_038.064
कर्तव्यम् इति यत् कर्म__व्ध_038.065
ऋग्यजुःसामसंज्ञितम्__व्ध_038.065
क्रियते तत् परं श्रेयो__व्ध_038.065
जैगीषव्यो ऽब्रवीन् मुनिः__व्ध_038.065
हानिं सर्वविधित्सानाम्__व्ध_038.066
आत्मनः सुखहेतुकीम्__व्ध_038.066
श्रेयः परं मनुष्याणां__व्ध_038.066
देवलो ऽप्य् आह तत्त्ववित्__व्ध_038.066
यद् यत् त्यजति कामानां__व्ध_038.067
तत् सुखस्याभिपूर्यते__व्ध_038.067
एतद् एव परं श्रेयो__व्ध_038.067
विज्ञानं हितकामिनाम्__व्ध_038.067
कामानुसारी पुरुषः__व्ध_038.068
कामान् अनु विनश्यति__व्ध_038.068

अश्रेयसं परं चैतद्__व्ध_038.068
यद् भूपालातिकामिता__व्ध_038.068
एवं विज्ञाततत्त्वार्थः__व्ध_038.069
सनको योगिनां वरः__व्ध_038.069
नरेन्द्र प्राह विप्राणां__व्ध_038.069
परमार्थपरंपरम्__व्ध_038.069
क्रियाकलापफलदम्__व्ध_038.070
ऋग्यजुःसामसंज्ञितम्__व्ध_038.070
अमुष्मिन् मध्यमं श्रेयः__व्ध_038.070
प्राहुः सप्त र्षयो नृप__व्ध_038.070
इहैव फलदं काम्यं__व्ध_038.071
कर्म यत् क्रियते नरैः__व्ध_038.071
तद् आहुर् अपरं श्रेयो__व्ध_038.071
ऋचीकच्यवनादयः__व्ध_038.071
द्वे कर्मणी नरश्रेष्ठ__व्ध_038.072
ब्रह्मणा समुदाहृते__व्ध_038.072
प्रवृत्ताख्यं निवृत्तं च__व्ध_038.072
स्वर्गमुक्तिफले हि ते__व्ध_038.072
प्रवृत्तम् अपि मोक्षाय__व्ध_038.073
कर्म पार्थिव जायते__व्ध_038.073
कर्म स्वरूपतो भ्रष्टम्__व्ध_038.073
अनाकाङ्क्ष्य फलं कृतम्__व्ध_038.073
सामान्यं चापरं श्रेयः__व्ध_038.074
सर्ववर्णाश्रमेषु यत्__व्ध_038.074
तच् छृणुष्व महीपाल__व्ध_038.074
वदतो मम तत्त्वतः__व्ध_038.074
सत्यं वक्तव्यं नित्यं मैत्रेण भाव्यं__व्ध_038.075
कार्यं च त्याज्यं नित्यम् आयासकारि__व्ध_038.075
लोके ऽमुष्मिन् यद् धितं च तथास्मिंस्__व्ध_038.075
तस्मिन्न् आत्मा योजनीयो ऽनुधीरैः__व्ध_038.075
तीर्थस्नानैः सोपवासैर् अजस्रं__व्ध_038.076
पात्रे दानैर् होमजापैश् च नित्यम्__व्ध_038.076
शुद्धिर् नेयो देवताभ्यर्चनैश् च__व्ध_038.076
शुद्धो ऽप्य् आत्मा सङ्गदोषाद् अशुद्धः__व्ध_038.076
शुद्धं वस्त्रं सङ्गदोषाद् अशुद्धं__व्ध_038.077
भूयः शुद्धिं शोध्यमानं पर्याति__व्ध_038.077
एतज् ज्ञात्वा न प्रमादो मनुष्यैः__व्ध_038.077
शुद्धे ह्य् आत्मन्य् आत्मविद्भिर् विधेयः__व्ध_038.077
इत्य् उक्त्वा तौ नरेन्द्रं तौ__व्ध_038.078
तेन चार्घ्यादिना पृथक्__व्ध_038.078

सम्यक् संपूजितौ यातौ__व्ध_038.078
नाक पृष्ठम् अथाश्विनौ__व्ध_038.078
स चाप्य् अनित्यताम् एवम्__व्ध_038.079
अवगम्य नरेश्वरः__व्ध_038.079
निष्कामो ऽनुदिनम् एव__व्ध_038.079
अवगम्य नरेश्वरः__व्ध_038.079
निष्कामो ऽनुदिनं यज्ञैर्__व्ध_038.079
इयाज पुरुषोत्तमम्__व्ध_038.079
भोगासङ्गि मनो दाल्भ्य__व्ध_038.080
यदासीत् तस्य भूपतेः__व्ध_038.080
तद् एव भगवद्ध्यान-__व्ध_038.080
परं चक्रे महामुने__व्ध_038.080
तत्याजार्थेषु ममताम्__व्ध_038.081
अहंकारं तथात्मनि__व्ध_038.081
समतां सर्वभूतेषु__व्ध_038.081
संप्राप पृथिवीपतिः__व्ध_038.081
यस्यात्मन्य् अपि विप्रर्षे__व्ध_038.082
नाहंमानो ऽस्ति कुत्रचित्__व्ध_038.082
मदावलेपो पूपादौ__व्ध_038.082
तस्य स्याद् इति का कथा__व्ध_038.082
एवं दाल्भ्य मनुष्येण__व्ध_038.083
समताम् अनुतिष्ठता__व्ध_038.083
सर्वभोगेषु संत्याज्यो__व्ध_038.083
ध्येयश् च पुरुषोत्तमः__व्ध_038.083
कुत्र तिष्ठति गोविन्दो__व्ध_038.084
बाह्यनिवृतचेतसि__व्ध_038.084
तस्मान् निःसङ्गचित्तेन__व्ध_038.084
शक्यश् चिन्तयितुं हरिः__व्ध_038.084
प्रीतिद्वेषादयस् त्यक्त्वा__व्ध_038.085
महर्षे यस्य चेतसा__व्ध_038.085
प्रियातिथिस् तद्धृदये__व्ध_038.085
विष्णुर् मोक्षफलप्रदः__व्ध_038.085
कार्यारम्भेषु सर्वेषु__व्ध_039.001
दुःस्वप्नेषु च सत्तम__व्ध_039.001
अमङ्गल्येषु सर्वेषु__व्ध_039.001
यज् जप्तव्यं तद् उच्यताम्__व्ध_039.001
येनारम्भाश् च सिध्ह्यन्ति__व्ध_039.002
दुःस्वप्नं चोपशाम्यति__व्ध_039.002
अमङ्गलानां सर्वेषां__व्ध_039.002
प्रतिघातश् च जायते__व्ध_039.002

जनार्दनं भूतपतिं जगद्गुरुं__व्ध_039.003
स्मरन् मनुष्यः सततं महामुने__व्ध_039.003
दुष्टान्य् अशेषाण्य् अपहन्ति साधयत्य्__व्ध_039.003
अशेषकार्याणि तथा यदीच्छति__व्ध_039.003
शृणुष्व चान्यद् वदतो ममाखिलं__व्ध_039.004
वदामि यत् ते द्विजवर्य मङ्गलम्__व्ध_039.004
सर्वार्थसिद्धिं प्रददाति यः सदा__व्ध_039.004
निहन्त्य् अशेषाणि च पातकानि__व्ध_039.004
प्रतिष्ठितं यत्र जगच् चराचरं__व्ध_039.005
जगच् च यो यो जगतश् च हेतुः__व्ध_039.005
जगच् च पात्य् अत्ति च यः स सर्वदा__व्ध_039.005
ममास्तु मङ्गल्यविवृद्दये हरिः__व्ध_039.5-44
व्योमाम्बुवाय्वग्निमहीस्वरूपैर्__व्ध_039.006
विस्तारवान् यो ऽणुतरो ऽणुभागात्__व्ध_039.006
स स्थूलसूक्ष्मः सततेश्वरेश्वरो__व्ध_039.006
यस्मात् परस्तात् पुरुषाद् अनन्ताद्__व्ध_039.007
अनादिमध्याद् अखिलं न किंचित्__व्ध_039.007
स हेतुहेतुः परमेश्वरेश्वरो__व्ध_039.007
हिरण्यगर्भाच्युतरुद्ररूपी__व्ध_039.008
सृजत्य् अशेषं परिपाति हन्ति__व्ध_039.008
गुणाश्रयी यो भगवान् स सर्वदा__व्ध_039.008
परः सुराणां परमो ऽसुराणां__व्ध_039.009
परो मुनीनां परमो यतीनाम्__व्ध_039.009
परः समस्तस्य च यः स देवो__व्ध_039.009
ध्यातो यतीनाम् अपकल्मषैर् यो__व्ध_039.010
ददाति मुक्तिं परमेश्वरेश्वरः__व्ध_039.010
मनोभिर् आद्यः पुरुषः स सर्वदा__व्ध_039.010
सुरेन्द्रवैवस्वतवित्तपाम्बुप-__व्ध_039.011
स्वरूपरूपी परिपाति यो जगत्__व्ध_039.011
स शुद्धसत्त्वः परमेश्वरेश्वरो__व्ध_039.011
यन्नामकीर्तनतो विमुच्यते__व्ध_039.012
अनेकजन्मार्जितपापसंचयैः__व्ध_039.012
पापेन्धनाग्निः स सदैव निर्मलो__व्ध_039.012
येनोद्धृतेयं धरणी रसातलाद्__व्ध_039.013
अशेषसत्त्वस्थितिकारणाद् इदम्__व्ध_039.013
बिभर्ति विश्वं जगतः स मूलवान्__व्ध_039.013
पादेषु वेदा जठरे चराचरं__व्ध_039.014
रोमस्व् अशेषा मुनयो मुखे मखाः__व्ध_039.014
यस्येश्वरेशस्य स सर्वदा प्रभुर्__व्ध_039.014
समस्तयज्ञाङ्गमयं वपुर् विभोर्__व्ध_039.015

यस्याङ्गम् ईशेश्वरसंस्तुतस्य__व्ध_039.015
वराहरूपो भगवान् स सर्वदा__व्ध_039.015
विक्षोभ्य सर्वोदधितोयसंपदं__व्ध_039.016
दधार धात्रीं जगतश् च योद्भवः__व्ध_039.016
यज्ञेश्वरो यज्ञपुमान् स सर्वदा__व्ध_039.016
पातालमूलेश्वरभोगिसंहतौ__व्ध_039.017
विन्यस्य पादौ पृथिवीं च बिभ्रतः__व्ध_039.017
यस्योपमानं न बभूव सो ऽच्युतो__व्ध_039.017
विघर्घरं यस्य च बृंहतो मुहुः__व्ध_039.018
सनन्दनाद्यैर् जनलोकसंस्थितैः__व्ध_039.018
श्रुतं जयेत्युक्तिपरैः स सर्वदा__व्ध_039.018
एकार्णवाद् यस्य महीयसो महीम्__व्ध_039.019
आदाय वेगेन समुत्पतिष्यतः__व्ध_039.019
नुतं वपुर् योगिवरैः स सर्वदा__व्ध_039.019
हतो हिरण्याक्षमहासुरः पुरा__व्ध_039.020
पुराणपुंसा परमेण येन__व्ध_039.020
वराहरूपः स पतिः प्रजापतेर्__व्ध_039.020
दंष्ट्राकरालं सुरभीतिनाशनं__व्ध_039.021
कृत्वा वपुर् दिव्यनृसिंहरूपिणं__व्ध_039.021
त्रातं जगद् येन स सर्वदा प्रभुर्__व्ध_039.021
दैत्येन्द्रवक्षःस्थलदारदारुणैः__व्ध_039.022
करोरुहैः शत्रुरुजानुकारिभिः__व्ध_039.022
चिच्छेद लोकस्य भयानि चाव्ययो__व्ध_039.022
दन्तान्तदीप्तिद्युतिनिर्मलाणि__व्ध_039.023
चकार सर्वाणि दिशं मुखानि__व्ध_039.023
निनादवित्रासितदानवो ह्य् असौ__व्ध_039.023
यन्नामसंकीर्तनतो महाभयाद्__व्ध_039.024
विमोक्षम् आप्नोति न संशयं नरः__व्ध_039.024
समस्तलोकार्तिहरो नृकेसरी__व्ध_039.024
सटाकलापभ्रमणानिलहताः__व्ध_039.025
स्फुटन्ति यस्याम्बुधराः समन्ततः__व्ध_039.025
स दिव्यसिंहः स्फुरिताकुलेक्षणो__व्ध_039.025
यदीक्षणज्योतिषि रश्मिमण्डलं__व्ध_039.026
प्रलीनम् एव न रराज भास्वतः__व्ध_039.026
कुतः शशाङ्कस्य स सिंहरूपधृङ्__व्ध_039.026
द्रवन्ति दैत्याः प्रणमन्ति देवता__व्ध_039.027
नश्यन्ति रक्षांस्य् अपयान्ति चारयः__व्ध_039.027
यत्कीर्तनात् सो ऽद्भुतरूपकेसरी__व्ध_039.027
अशेषदेवेशनरेश्वरेश्वरैः__व्ध_039.028
सदा स्तुतं यच् चरितं महाद्भुतम्__व्ध_039.028

मूल पाठ: Viṣṇudharma · Edition: R. Grünendahl: Visnudharmah - Precepts for the worship of Visnu. Wiesbaden : Harrassowitz, 3 vols., 1983-1989 · Data entry Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc