विष्णुधर्मोत्तरपुराणम् · अध्याय 3.31.35
3.31
मार्कण्डेय उवाच ॥
भावाध्यायमतो वच्मि तन्मे निगदतः शृणु ॥
हासाद्याः कथिता भावाः पञ्चाशत्त्वेकवर्जिताः
परचेष्टानुकरणाद्यद्धास्यमुपजायते ॥
स्मितहासाभिहसितैरभिनेयस्य पण्डितैः
इष्टार्थविषयप्राप्तौ रतिरित्युपजायते ॥
सौम्यत्वादभिनेया सा वाङ्माधुर्यादिभिस्तथा
इष्टबन्धुवियोगेन धननाशेन पार्थिव ॥
शोको भवति तस्य स्याद्रुदिताभिनयक्रिया
क्रोधश्चतुःप्रकारश्च कर्तव्यो नाट्ययोक्तृभिः ॥
रिपुजो गुरुजश्चैव भृत्यजः प्रणयोद्भवः
निर्यन्त्रितः स शत्रूणां गुरूणां स्वेदसंयुतः ॥
भृत्यानां च दयालुः स्यात्स्त्रीणां च प्रणयोद्भवः
कर्मातिशयनिर्वृत्तौ विस्मयो हर्षसंभवः ॥
सिद्धिस्थाने त्वसौ साध्यो रोमाञ्चहसनादिभिः
असौ मोहाभिनिर्वृत्तौ व्यवसायनयात्मकः॥
उत्साहस्त्वभिनेयः स्यादप्रमादक्रियादिभिः
स्वापराधसमुद्भूतं भयं नामेह जायते ॥
वेपथुत्रासपतनैरभिनेयस्य सम्भ्रमैः
बीभत्सदर्शनाद्यैस्तु जुगुप्सा नाम जायते
उद्वेजनैस्सहृल्लेखैरभिनेयो विकूणनैः॥
दारिद्र्येष्टविनाशे च निर्वेदो नाम जायते
परस्परविनिःश्वासैस्तस्याभिनयनक्रिया॥
वान्ते विरक्ते श्रान्ते च ग्लानिः स्यात्तपसा तथा
मन्दाक्रमणकम्पाद्यैः क्षामत्वेनं च दर्शयेत्
चौर्यादिभिर्गृहीतस्य शङ्का नामेह जायते ॥
आकारावरणं तस्याः कार्यं दिगवलोकनम् ॥
परापराधसम्भूता असूया नाम जायते
गुणनाशनविद्वेषैः साभिनेया तथा बुधैः ॥
मद्योपयोगेन मदो जायते च त्रिभिस्तथा
उत्तमाधममध्यत्वात्पुरुषाणां स्वभावतः ॥
दृग्भ्रमेणोत्तमानां स्यान्मध्यानां वाक्प्रलापतः
।
अधमानां च पतनैरसम्बद्धपरिक्रमैः ॥
आयासेनाधमनाञ्च श्रमो नामेह जायते
गात्रमर्दनविश्वासजृम्भणैस्तत्प्रयोजयेत् ॥
गर्वेण खेदाद्रागेण ह्यालस्य स्यात्स्वभावतः
तस्य प्रयोगः कर्तव्यः शयनासनसेवनात् ॥
दौर्गत्येन मनस्तापाद्दैन्यं नामेह जायते
।
हृदयस्य वितर्केण तस्य त्वभिनयो भवेत् ॥
अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैस्तथा
तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥।
व्यसनेनाभिघातेन वैरानुस्मरणेन च
सर्वेन्द्रियाणां मोहेन स तु कार्यः प्रयोक्तृभिः ॥
स्मरणात्पूर्ववृत्तानां स्मृतिर्नामेह जायते
भृशमुत्क्षेपणात्तस्याः प्रयोगः कार्यलोलनात् ॥
लोकं वृत्तान्तविज्ञानाद् वृत्तिर्नामेह जायते
प्रयोज्यो लब्धभोगेन अलब्धस्य विवर्जितम् ॥
क्रीडा नामेह भवति चापल्याद्धर्षसंभवा
क्रीडनेन प्रयोज्या सा गुरुवाक्यप्रतिक्रमैः ॥
कृताकार्यस्य राजेन्द्र व्रीडा नामेह जायते
अधोमुखेन सा कार्या मूले स्वीकरणेन च ॥
ज्ञेया चपलता राजन्न विचार्या क्रियावता
अयमेव प्रयोगस्य तथैव समुदाहृतः ॥ ।
मनोरथानां लाभे तु हर्षो नामेह जायते
सुखप्रसादरोमाञ्चप्रस्वेदैर्दर्शयेद् बुधः ॥
सम्भ्रमाज्जायते राजन्नावेग इति सर्वदा
आः शब्दैः सहसानर्था दर्शनीया बुधैस्तु ते ॥
विषादस्य समुत्पत्तिः कार्यनाशेन जायते
निद्रानिःश्वसितव्याजैः साभिनेया तथा भवेत् ॥
उत्कण्ठाकरणैः सर्वैरौत्सुक्यं नाम जायते
आलस्यगुरुगात्रत्वे ध्यानेनाभिनवैश्च तत् ॥
रात्रिजागरणालस्यमदैर्निद्रेह जायते
नेत्राभिमर्दनात्कार्या जृम्भणा गात्रगौरवात् ॥
अपस्मारस्तु भवति देवादीनां प्रकोपतः
निःसंज्ञत्वं समूर्द्धानं तस्येहाभिनयो भवेत् ॥
निद्रासमर्थं सुप्तत्वं स्वपनं तत्र योजयेत्
निद्रोच्छेदाद्धि बोधन्तु जृम्भणं तत्र योजयेत् ॥
विद्याशौर्यधनादिर्यैरमर्षो नाम जायते
शिरसः कम्पनैस्तस्य कार्यस्त्वभिनयो बुधैः ॥
धार्ष्ट्यजैह्मयादिसम्भूतो ह्यवहित्थोभयात्मकः
सर्वांगगोपनात्कार्योऽभिनयो नर्तनस्य च ॥
चौर्यादिजातमर्थस्य ग्लानिः कार्या प्रयोक्तृभिः
वातप्रायस्तथोन्मादो यथा ज्ञेयो वियोगजः ॥
असच्चेष्टाप्रलापेन तस्याभिनयकारणम्॥
व्याधिभिर्वा प्रहारैर्वा मरणं नाम जायते ॥
कर्तव्योभिनयस्तस्य मूढेन्द्रियविचेष्टनैः
महाभैरवनादाद्यैस्त्रासः समुपजायते ॥
संक्षिप्ताङ्गप्रकम्पाद्यैस्तस्य त्वभिनयो भवेत्
विचारणार्थे संदेहः कार्यो भूक्षेपकम्पनैः ॥
क्रोधोऽपराधाद्भवति क्रोधाभिनयदर्शनः
भयोपराधजो ज्ञेयो दृग्भयाभिनयात्मकः ॥
मनोरथाप्तिजो हर्षो रोमाञ्चेन प्रदर्शयेत्
भीतक्रोधश्च उभये रोमाञ्चस्य समुद्भवः ॥
स्वरभेदो भयाद्रौक्ष्यात्स्वरभेदेन दर्शयेत्
शोकानन्दसमुद्भूतमश्रु स्याद्रोदनेन तु ॥
वर्णावरत्वाद्विज्ञेयं वैवर्ण्यं नाट्ययोक्तृभिः
वैवर्ण्यं नाभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ॥
ग्लानिः शङ्काभ्यसूया च श्रमश्चपलता तथा
रोमाञ्चहर्षे निद्रा च उन्मादो मद एव च॥
स्वेदश्चैव वहित्थश्च भावा हास्यरसे स्मृताः
आलस्योग्र्यजुगुप्साभिर्भावा हि परिवर्जिताः ॥
उद्भावयन्ति शृङ्गारं रसमास्वाद्यसंज्ञकम्
वेदस्यैव च चिन्ता च दैन्यग्लान्यश्रुपातनम् ॥
जडता मरणं चैव व्याधिश्च करुणारसे
असम्मोहस्तथोन्मादो विषादो मद एव च ॥
मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः
स्तम्भः स्वेदश्च रोमाञ्चो जुगुप्सा विस्मयस्तथा ॥
प्रवेगो जडता हर्षोऽसूया दैवाद्भुते रसे ॥
स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा ॥
मतिश्चैव तथोग्रत्वममर्षो मद एव च
रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा ॥
गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति वै
ये चान्ये सात्त्विका भावा नानाभिनययोनिजाः ॥
रसेष्वेतेषु ते सर्वे विज्ञेया नाट्यकोविदैः
बहूनां समवेतानां रूपं यस्य भवेद्बहु ॥
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणः स्मृताः
शृङ्गारं त्रिविधं विन्द्याद्वा नेपथ्यक्रियात्मकम् ॥
अङ्गनेपथ्यभावश्च हास्यरौद्रौ प्रकीर्तितौ
धर्मार्थबन्धुघातेन करुणस्त्रिविधः स्मृतः ॥
युद्धवीरं दयावीरं दानवीरं तथैव च
रसं वीरमिति प्राहुस्तज्ज्ञास्त्रिविधमेव च ॥
व्याजत्रासापराधैश्च त्रिधा विद्याद्भयानकम्
न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगजम् ॥
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च
एकोनपञ्चाशदिमे समग्रा भावव्यवस्था गदिता मया ते ॥
युक्त्या च ये यत्र रसे नियुक्ताः प्रोक्तं तदप्यत्र नरेन्द्रचन्द्र
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे एकोनपञ्चाशद्भावनिरूपणो नामैकत्रिंशत्तमोऽध्यायः
3.32
श्रीमार्कण्डेय उवाच ॥
अथातो मुद्राहस्तान् व्याख्यास्यामः ॥
वासस्य प्रसारिताङ्गुष्ठस्योपरि यदा कुब्जतर्जनी भवति तदोङ्कारः ॥
करमध्य गतासु सर्वास्वंगुलीषु क्रमात्कुब्जीकृतास्वङ्गुष्ठाद्यासु अ इ उ ए ओ प्रसारितासु अ इ उ ऊ ऐ ओ अं मुकुलः अः मुकुलविशेषः अङ्गुष्ठमूलगतया परहस्ततर्जन्या क्रमात्कवर्गः।
सर्वाधःपरं रेखागतया तवर्गः ।
तदुपरि बवशतयैः पवर्गः।
तर्जन्याद्यस्तु प्रथमपर्वगतया पवर्गः।
अग्रेषु शवर्गः।
मध्यमा नखस्पर्शे र क्ष इति ।
अ वासुदेवः ।
आ सङ्कर्षणः। अं प्रद्युम्नः ।
अः अनिरुद्धः ।
अञ्जलिपुरुषः करयोः परस्परपृष्ठलग्नयोः ।
कनीयस्या कनीयसी चेति, तर्जन्या तर्जनी अङ्गुष्ठेनाङ्गुष्ठ इति तार्क्ष्यमुद्रा ।
पताकः कुञ्चिताग्रस्तालः तिर्यक्प्रसारिताङ्गुष्ठो मकरः।
कुञ्चिताङ्गुलिरर्धचन्द्रः ।
दृश्यशिखरौ कनीयस्यङ्गुल्यग्रलग्नौ ।
संहताङ्गुष्ठः शंखः ।
अः कारौ संहतौ स्पष्टाङ्गुलौ पद्मः ॥
कुब्जाङ्गुष्ठो लक्ष्मीः ।
मकरः प्रसारिताङ्गुलिः ।
शेषस्तदुपरि शिखरे भोगशमनः ।
अः कार एव प्रसारितमध्यमाङ्गुलिर्ग ऊउः ।
तत्रैव मध्यमाङ्गुलिः शिखरगृहीता गरुडवाहनम् ।
मध्यमानामिकयोरङ्गुष्ठयोश्चाग्रयोगे चक्रः ।
उपर्युपरि कपित्थयोरुपरि चिबुके गदा ।
कपित्थकुब्जमध्यमिको हलः ।
कर्कटके सुमूलम् ।
कपित्थमध्यभ्रष्टाङ्गुलिः ।
चर्म कपित्थं पृष्ठतलाङ्गुलिः खड्गः शिखरो मध्यभ्रष्टाङ्गुलिर्धनुः ।
तर्जनीमध्यमिकोङ्गुष्ठानां संहतानां वियोगाच्छरः।
मुकुलसञ्चितकनीनिकः कौस्तुभः ।
द्वौ शिखरौ पृथक् वनमाला ।
अः कारो पृथग्लग्नो नृसिंहः ।
शिखरप्रसारितकनीनिकाधो वराहः ।
इ हयशिरः ।
ओं वामनः ।
वितलि स्त्रिविक्रमः ।
अर्धचन्द्रो मत्स्यः।
अधोमुखः कुज्जपताकः कूर्मः।
शिखरप्रसारितकनीयानूर्ध्वमुखाङ्गुष्ठो हंसः।
पताकः कुब्जकरमध्यो दत्तात्रेयः॥
कपित्थः परशुरामः ।
द्वौ शिखरौ युक्तौ दाशरथी।
पताकः कृष्णः। त्रिपताको बलदेवः ।
शिखरो विष्णुः ।
उत्तानपताकः पृथिवी ।
कुब्जः पताकः प्रसारितोङ्गुष्ठ स्तोयः ।
अङ्गुष्ठाग्राङ्गुलिर्नखपरिमार्जितोऽग्निः ।
चलत्पताको वायुः ।
तिर्यङ्मुष्टिप्रसारिततर्जनीकोऽन्तरिक्षम् ।
वितस्तिद्वययोगो वर्तुलीकृतोऽर्कः अनामिकार्धेन वक्रश्चन्द्रः ।
सर्वासुमुकुलितासु प्रसारिते मध्यमा तर्जनी नरनारायणौ ।
तत्रैव प्रसारिताग्रनासिका गुणाः ब्रह्मविष्णुमहेश्वराः ।
वामस्य प्रसारिताङ्गुलेस्तदुपरि तथाविध एव दक्षिणः कपिलः ।
चतस्रोप्यंगुल्यः प्रसारितस्तन्मूले कुञ्चिताङ्गुष्ठश्चान्तरात्मा तोयः ।
प्रसारितकनि ष्ठिको ऋग्वेदः ।
सैवानामिकया सह प्रसारितो यजुर्वेदः ॥
चतुरात्मा प्रसारितांगुष्ठः सामवेदः ।
वेष्ट्यमानास्वंगुलीषु करमध्यगमनेन गायत्री ।
सामवेदोऽधोमुखांगुलिः शिक्षा ।
सैव दक्षिणदिशि नीता कल्पः ।
तर्जन्यंगुष्ठयोगे व्याकरणम् ।
शिखरेंगुष्ठेन तर्जनीमध्यगेन निरुक्तम् ।
खटकामुखाभ्यां ज्योतिषम् ।
अधोमुखश्छन्दोविचितिः ॥
एता रहस्यमुद्रास्ते मयोक्ता नृपसत्तम ॥
अतः परं प्रवक्ष्यामि सामान्यांस्तान्निबोध मे ॥
इति श्रीवि०मा०व०सं० तृतीयखण्डे रहस्यमुद्रावर्णनो नाम द्वात्रिंशत्तमोऽध्यायः
3.33
मार्कण्डेय उवाच॥
उत्तानं तु करं कृत्वा चतुरांगुलिकुञ्चितम् ॥
अंगुष्ठपार्श्वतो योज्यो भस्ममुद्राप्रकार्तिता
सा तिर्यगुच्छ्रितांगुलिलिङ्गमुद्रा प्रकीर्तिता ॥
अंगुल्यस्त्रयः सकोऽस्याग्रांगुष्ठपरिसंचिताः
तर्जनीं प्रसृतां कृत्वा जटामुद्रा प्रकीर्तिता ॥
वेत्रमुद्रा यदा तस्यां नेत्रान्ते तर्जनी भवेत
बन्धस्थां तु प्रकुर्वीत चांगुष्ठं प्रसृतं तथा ॥
उत्तानं मूर्ध्नि संयोज्यं शशाङ्कं तु विनिर्दिशेत्
अंगुल्यः प्रसृताः सर्वा वर्तुलाः शृङ्गरूपकाः ॥
मूर्ध्नि कृत्वा तु तां मुद्रां गोवृषं तु विनिर्दिशेत्
तिर्यक्कृत्वा तु तं हस्तं सर्वसङ्कुचितांगुलिम् ॥
अंगुष्ठं मध्यमावेष्ट्य पर्यस्तं तु विनिर्दिशेत्
कनिष्ठिकां सङ्कुचितामंगुष्ठोपरि विन्यसेत् ॥
कनिष्ठानामिकामध्ये दक्षांगुष्ठं प्रकीर्तितम्
उत्तानौ तु करौ कृत्वा अन्योन्यान्तरितांगुली ॥
कनिष्ठिकान्ते चांगुष्ठमनन्तेति प्रकीर्तिता
उत्तानं दक्षिणं हस्तं त्वधो वामं तथोपरि ॥
करजान्योन्यसंयोगाद्धर्मस्य परिकीर्तिता
सा चैव विपरीता तु ज्ञानस्य परिकीर्तितम् ॥
कनिष्ठिके द्वे चांगुष्ठौ युग्मीकृत्वा प्रसारयेत्
वैराग्यस्य भवेन्मुद्रा सर्वकर्मकरी शुभा ॥
पृष्ठे पृष्ठं तु संयोज्यं करयोरुभयोरपि
कनीन्यंगुष्ठयोगेन भवत्यैश्वर्यमेव च ॥
पद्माकारो भवेद्धस्तः कनिष्ठातर्जनीयुतः
चतस्र उच्छ्रिताः कृत्वा पृष्ठेन्योन्यं तु योजयेत् ॥
अंगुष्ठावेकतः कृत्वा प्रणालं चैव कारयेत्
सकलस्य भवेन्मुद्रा दुष्टानां शमनी शुभा ॥
त्रयः सङ्कुचिता यत्र कनिष्ठांगुष्ठकेकलाः
उत्तानं दक्षिणांगुष्ठं वामांगुष्ठेन वेष्टयेत् ॥
दक्षिणांगुलिभिश्चात्र वामांगुष्ठं तु वेष्टयेत्
वामस्यांगुलिभिश्चात्र त्वंगुली परिवेष्टयेत् ॥
तर्जन्यौ कुञ्चितौ कृत्वा मुद्रा निष्कलरूपिणी
उत्तानौ तु करौ कृत्वा अंगुष्ठांगुलिकुञ्चितौ ॥
करमध्यस्थिता ह्येता नखाँस्तासां तु गोपयेत्
पृष्ठं पृष्ठे तु संयोज्य त्वंगुष्ठौ विन्यसेत्समम् ॥
मालाकारं ततः कृत्वा देव्या मुद्रा प्रकीर्तिता
अंगुष्ठोंगुष्ठके योज्यः कनिष्ठायां कनिष्ठिका ॥
करमध्ये तु तां कृत्वा षडाभ्यामेकतः कुरु
सकुच्य तु षडेतानि शक्त्याकारं तु कारयेत् ॥
स्कंदस्य तु स्मृता मुद्रा अभेद्या त्रिदशैरपि
अधोमुखं करं कृत्वा तिस्रोंगुल्यस्तु कुञ्चिताः ॥
त्रिताला मध्यमा तत्र किंचित्सङ्कुचिता भवेत्
तर्जन्यां योजयांगुष्ठे दन्ताकारं तु दर्शयेत ॥
विघ्नराजस्य मुद्रैषा सर्वविघ्नप्रणाशिनी
उत्तानौ प्रसृतौ हस्तौ तर्जन्यंगुष्ठसंवृतौ ॥
अस्य वामौ तु संयोज्य शक्रमुद्रा प्रकीर्तिता
संकोच्य करजां मध्यां हस्तयोरुभयोरपि ॥
प्रसृतांगुष्ठमुत्तानां योज्या मुद्रा हुताशने
अधोमुखं करं कृत्वा यस्य स्यात्कुंचितांगुलिः॥
विरूपाक्षस्य मुद्रैषा भवेन्मध्या प्रसारिता
उत्ताने प्रसृतांगुल्यः करे भवति वारुणी ॥
तामेव तु यदा तिर्यक्तदा भवति मारुती
निकुंचिताश्च ताः सर्वाः कौबेरी तु प्रकीर्तिता ॥
मध्ये प्रसारितास्तिस्रो मुद्रेशानी प्रकीर्तिता
ब्रह्मजा पद्ममुद्रा स्याद्भोगोऽनंतस्य कीर्तिता ॥
वामासक्तस्य वामां तु दक्षिणानामपक्रमे
तयोरग्राणि गृह्णीत तर्जन्यग्रद्वयेन तु ॥
संकोचयेत्षडेतानि स्वांगुष्ठे तर्जनीं न्यसेत्
वज्र एषः समाख्यातः शक्तिः पूर्वमुदाहृता ॥
करौ बाहुद्वयं चैव दण्डमुद्रा प्रसारिता
कनिष्ठानामिके द्वेद्वे अन्तर्यांगुष्ठकुंचितौ ॥
चत्वारः प्रसृता युग्मः खड्गमुद्रा प्रकीर्तिता
वर्तुलां तर्जनीं कृत्वा अंगुष्ठोपरि विन्यसेत् ॥
दक्षिणं तर्जनी चैव तस्यास्ये तु नियोजयेत्
दक्षिणं कुंचितं कृत्वा तिस्रो वामाः प्रसारिताः ॥
मुष्टिं कृत्वा तु वामेन त्वंगुष्ठं तु समुच्छ्रयेत
अंगुष्ठेन तु संगृह्य पताका प्रसृता करा ॥
तिर्यक्करं तु कृत्वा वै सङ्कुच्य चतुरंगुलीः
अंगुष्ठं प्रसृतं कृत्वा गदामुद्रा तथा परा ॥
अन्योन्यं योजयेद्धस्तौ कनिष्ठांगुष्ठयोजितौ
तदेव युग्मं प्रसृता शूलमुद्रा प्रकीर्तिता ॥
नित्यं प्रसारयेद्धस्तं स्वल्पाकारं तु योजयेत्
मध्यमेकन्यसेद्द्वेद्वे प्रसृताग्रे नियोजयेत् ॥
तर्जनीद्वयं संकुच्य मध्यमापृष्ठसंस्थिता
द्रव्यरूपा स्मृता ह्येषा आत्मभावे नियोजयेत् ॥
उत्तानौ तु करौ कृत्वा षडेतेंगुलयः स्मृताः
समानाः सुसमानाश्च योजिता वैष्णवी भवेत् ॥
तर्जन्यौ कुंचिते कृत्वा मध्यमा पृष्ठतो न्यसेत्
कनिष्ठोपरि चांगुष्ठौ वृतमुद्रा प्रकीर्तिता ॥
उत्तानं वामहस्तं च दक्षिणं चाप्यधोमुखम्
मध्यमानामिके द्वे द्वे संकुच्यांगुष्ठसंस्थिते ॥
तर्जनीकन्यका चैव मध्यमाभ्यां समाक्रमेत्
द्वितीया द्रव्यरूपी च गन्धमुद्रा प्रकीर्तिता ॥
उत्तानौ तु करौ कृत्वा कनिष्ठानामिका तथा
संकोचयित्वा चत्वारो मध्यमे द्वे प्रसारयेत् ॥
अंगुष्ठगे च तर्जन्यौ पुष्पमुद्रा प्रकीर्तिता
उत्तानौ तु करौ कृत्वा षडंगुलिनिकुंचितौ ॥
प्रसृते तर्जनीं कृत्वा चाग्रमग्रे नियोजयेत्
तयोर्मूले तथांगुष्ठौ धूममुद्रा प्रकीर्तिता ॥
तर्जन्या तर्जनी यत्र कनीयस्या कनीयसी
चतस्र उच्छ्रिताः कृत्वा पृष्ठं पृष्ठे नियोजयेत् ॥
अंगुष्ठावुच्छ्रितौ कृत्वा दीपमुद्रा प्रकीर्तिता
उच्छ्रितांगुलयः सर्वाः कनीयोरुभयोरपि ॥
पृष्ठं पृष्ठे तु संयोज्य अंगुष्ठाग्रे नियोजयेत्
नैवेद्यमुद्रा कथिता फलकारकरा शुभा ॥
अंगुल्यः संहताः सर्वास्तथा संकुचिताश्च याः
पुष्पमुद्रा विनिर्दिष्टा द्वितीया यदुनन्दन ॥
अंगुष्ठौ चैकतः कृत्वा अनामा च कनीयसी
मध्यमे द्वे च संकोच्य अनामा पृष्ठतो न्यसेत् ॥
दत्त्वा चैव तु तर्जन्यौ मध्यमाः परिविन्यसेत्
महामुद्रा भवत्येषा सर्वद्रव्यप्रपूरणी ॥
अनामा मध्यमे द्वे तु अन्योन्यान्तरिते कृते
संयोज्य मध्यमे स्वाग्रं तर्जनीद्वयमेव च ॥
कनिष्ठाद्ये तथा द्वेद्वे स्वाग्रे नाम्नि नियोजयेत्
अर्धस्थितौ तथांगुष्ठौ अमृताख्या प्रकीर्तिता ॥
चण्डीशमुद्रा कथिता अञ्जलिः कुब्जतर्जनी ॥
अस्त्रमुद्रा भवेद्राजन् पद्मः स्यात्संहताञ्जलिः ॥
दक्षिणेन तु हस्तेन मुष्टिं बद्ध्वा प्रयत्नतः
अडुष्ठमुन्नतं कृत्वा वामाङ्गुष्ठे तु निक्षिपेत् ॥
दक्षिणां च तथा मुष्टिं वामाङ्गुल्या तु वेष्टयेत्
सद्योजातस्य मुद्रैषा कथिता पापनाशिनी ॥
इयमेव विपर्यस्ता वामदेवस्य कीर्तिता
करसम्पुटकं कृत्वा वामां नासां तु कारयेत् ॥
दक्षिणे मध्यमाकुंच्य अङ्गुष्ठौ कुञ्चयेत्तथा
शूलाकारं ततः कृत्वा हदयं परिवर्तयेत् ॥
अघोरस्य स्मृता मुद्रा सर्वविघ्नविनाशिनी
उत्तानौ तु करौ कृत्वा अनामाद्वयकुञ्चितौ ॥
तस्यामुपरि चाङ्गुष्ठौ तर्जन्यौ द्वे च कुञ्चिते
मध्यानामे तु ते द्वे तु कनिष्ठामेकतो न्यसेत् ॥
मुद्रैषा वज्रसंज्ञस्य सर्वदुष्टनिवारणी
कनिष्ठानामिके द्वेद्वे अन्तरान्तरयोजिते ॥
आकुञ्च्यान्तरिते योज्ये शेषे चैव प्रसारिते
ईशानस्य भवेन्मुद्रा सर्वकर्मकरी शुभा ॥
तर्जन्यौ कुञ्चिते कृत्वा तथैव च कनीयसी
अधोमुखां स्पृष्टनखां स्थितां मध्ये करस्य तु ॥
चतस्रश्चोच्छ्रिताः पृष्ठे त्वङ्गुष्ठावेकतः कुरु
नालव्यवसितौ द्वौ तु मुद्रा व्योम्नः प्रकीर्तिता ॥
मुष्टिं बद्ध्वा तु वामेन तर्जनीं सम्प्रसारयेत्
ग्राह्या दक्षिणमुष्ट्या तु मुद्रा सर्वात्मना भवेत् ॥
वाममुष्टौ तथाङ्गुष्ठं दक्षिणं प्रक्षिपेद्बुधः
करजा पृष्ठतो योज्या मुद्रैषा शिवसंज्ञिता॥
अङ्गुल्योन्तर्हिताः सर्वा वर्तुला गर्भसंस्थिता
प्रसृता मध्यमा युक्ता शिखामुद्रा प्रकीर्तिता ॥
अधोमुखास्तु वै तिस्रः तिर्यक्ताश्च सुसंस्थिताः
कनीयस्युपरि त्वासां ताश्च सर्वा अधोमुखाः ॥
तासामुपरि चाङ्गुष्ठे दक्षिणं सम्प्रयोजयेत
वामे धर्मज्ञमुद्रैषा कथिता लाङ्गलस्य तु ॥
बन्धे त्वनामिका त्वस्मिन्मुद्रा ह्यस्त्रस्य कीर्तिता
उत्तानौ तु करौ कृत्वा उभावेकत्र योजयेत ॥
करजास्तु स्मृताः सर्वा मुद्रा गायत्रसंज्ञिताः
मुष्टौ प्रसारयेदेकामंगुलीं तु क्रमान्नृप ॥
तर्जन्यन्तां कनिष्ठाद्यां शक्तिमुद्रा प्रकीर्तिता
हृदि न्यस्तोऽञ्जलिर्ज्ञेयो नमस्कारो नराधिप ॥
कपित्थयजनीं गृह्य शिखरेण ध्वजो भवेत
अङ्गुष्ठे योज्य तर्जन्यौ हस्तोत्तानौ स्मृताङ्गुली ॥
मणिबन्धौ निपीड्यैव शशिकर्णी भवेन्नृप
सम्पुटीकृत्य हस्तौ द्वौ किञ्चित्सङ्कुचिताङ्गुलिः ॥
मुकुला तु समाख्याता पङ्कजं प्रसृतैव सा
उत्तानो तु सृतौ हस्तौ कृत्वाङ्गुष्ठौ तु कुञ्चितौ ॥
मध्यसंस्थौ करौ कृत्वा आवाहन्यास्तु लक्षणम्
अङ्गुष्ठौ कुञ्चितौ द्वौ तु स्वकीयाङ्गुलिवेष्टितौ ॥
उभौ चाभिमुखौ हस्तौ योजयित्वा तु रिष्ट्ररा
उत्तानं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन वेष्टयेत् ॥
भ्रामयेद्वर्तुलाङ्गुष्ठा मुद्रा प्रोक्ता विसर्जने
वितस्तिद्वयसंयोगाद्भद्रमुद्रा प्रकीर्तिता ॥
मुष्टिः प्रमार्जिता ज्ञेया लिङ्गमुद्रा तथैव च
सन्दष्टे मार्जितावोष्ठौ तीर्णमुद्रा प्रकीर्तिता ॥
प्रसारितौ भुजौ कृत्वा भुजाग्रौ कुञ्चितौ तथा
अग्राग्रौ कुञ्चितांशेन करपल्लवसन्निभौ ॥
तर्जनीं कुञ्चितां कृत्वा अङ्गुष्ठोपरि विन्यसेत्
निकुब्जौ बाहुदण्डौ तु बध्नीयाच्च पृथक्पृथक ॥
कैरिणी नाम मुद्रैषा कथिता सूर्यदेवता
पद्माकारौ करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलीः ॥
अङ्गुल्या कारयेत्तस्मिन्विश्वमुद्रेति कीर्तिता
सम्मुखौ तु करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलीः ॥
कनिष्ठामध्यमे योज्यौ तर्जन्यौ मध्यमे तथा
हृदि मूर्ध्नि शिखाबन्धे मुद्रेयं व्योमसंज्ञिता ॥
मुष्टिबन्धोच्छ्रितां कृत्वा मध्यहस्तस्य तर्जनीम्
तालशब्दकृतासौ तु मुद्रा चास्रस्य कीर्तिता ॥
मध्यमा तर्जनी चैव सव्यहस्तस्य चोच्छ्रिते
कनिष्ठानामिके कुब्जे साङ्गुष्ठेनैव संज्ञिता ॥
नेत्रप्रदर्शिता ज्ञेया गोवृषागमने तथा
उत्तानौ तु करौ कृत्वा सर्वाङ्गुल्यो विकुञ्जिताः ॥
कृत्वा चोपरि चाङ्गुष्ठं चालयेत पुनः पुनः
सर्वासामेव शक्तीनां मुद्रैषा सम्प्रकीर्तिता ॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा
अमोघा विद्युता चैव नवमा सर्वतोमुखी ॥
इति नामानि शक्तीनां सरहस्यानि निर्दिशेत्
सम्मुखौ तु करौ कृत्वा श्लिष्टौ चैव प्रसारितौ ॥
इयं मुद्रा नमस्कारे रवि सान्निध्यकारिणी
अनामिकायाः सन्देशो रविमुद्रा प्रकीर्तिता ॥
सोममुद्रा मध्यमया भीममुद्रा ह्यनामया
कनीयस्या बुधे मुद्रा उन्मूले जीवसंज्ञिता ॥
अनामिकामूलगा तु शुक्रमुद्रा प्रकीर्तिता
मध्यमामूलगांगुष्ठा शनिमुद्रा प्रकीर्तिता ॥
तर्जनीमूलगांगुष्ठे राहु मुद्रा प्रकीर्तिता
तर्जनी चलनाज्ज्ञेया केतुमुद्रा नराधिप ॥
वामहस्तेन शिखराः क्रोधमुद्रा प्रकीर्तिता
सम्पुटौ तु करौ कृत्वा वामोच्छ्रायां नराधिप ॥
एषा वराहमुद्रा तु सर्वकर्मकरी शुभा
वामेन वेष्टितौ हस्तौ दक्षिणा भैरवी भवेत् ॥
हस्तावधो मुखौ यत्र दृष्टिश्चाधस्तथा भवेत्
पातालभञ्जिनी नाम मुद्रैषा कथिता नृप ॥
कपित्थानामिका दीर्घास्तम्भनी तु निगद्यते
करमध्यात्तु संग्राह्यमिव मध्येन चाहतम् ॥
एवं मध्येन संयुक्ता क्रोधिनी परिकीर्तिता
सहमध्या तु संग्राह्या खातमध्ये द्विधाहतम् ॥
एवमध्येन संयुक्ता वीर्यमुद्रा प्रकीर्तिता
एवमध्येन संयुक्तं भैरवी चापरा भवेत् ॥
क्षेत्रमध्या तु संग्राह्या इरमध्येन संयुतम्
एवमध्येन च क्रान्तं स्तम्भनी चापरा भवेत् ॥
लसन्मध्या तु संग्राह्यमेकमध्येन चाहतम्
पातालभञ्जनी नाम मुद्रेयमपरा भवेत् ॥
तर्जनी मध्यमा चैव तथा चैव त्वनामिकाम्
मध्यपर्वसु संयुक्तां पृष्ठतः कारयेत्करे ॥
शङ्खमुद्रेयमुद्दिष्टा पूर्वमुक्ता तथापरा ॥] ०३ ॥
प्रसार्य सर्वाश्चाङ्गुल्यः करपृष्ठे च योजयेत् ॥
चक्रमुद्रा भवेत्तेषां पूर्वमुक्ता तथापरा
कटिभागप्रदेशे तु मुष्टिस्तु त्रिशिरा भवेत् ॥
गदा मुद्रा भवत्येषा सर्वविघ्नप्रणाशिनी
अन्योन्याभिमुखौ कृत्वा करौ संवेष्टिताङ्गुली ॥
सहाङ्गुष्ठेन निर्दिष्टा मुद्रा कौस्तुभसंज्ञिता
संस्पृश्य वह्निशिखिरां वामचक्रिणकं स्पृशेत् ॥
इयं मुद्रा विनिर्दिष्टा वनमालेति पार्थिव
अनामीनाशने द्रव्ये स्रजं द्रव्य करद्वये ॥
जंघामध्यगतौ कृत्वा चिबुकोऽर्धसमायुतौ
मुखं विवृतकं कुर्याज्ज्वलज्जिह्वा तु लेलिहा ॥
एषा मुद्रा महामुद्रा नारसिंहीति कीर्तिता
अङ्गुष्ठं मुष्टिना ग्राह्यं ह्यमुद्रां परिकीर्तिता ॥
मुष्टिं बद्ध्वैव चाङ्गुष्ठे तिर्यग्गं कारयेच्छिरः
स्पष्टा तु तर्जनीमुष्टौ शिखामुद्रा प्रकीर्तिता ॥
तर्जनीप्रान्तसंलग्ने द्वे मुष्टी कवचं भवेत्
मुष्टी बद्ध्वा तु हस्तौ द्वे उभयांगुलियोजितौ॥
गदामुद्रा समाख्याता सर्वकर्मकरी शुभा ॥ १ १२॥
तर्जनी तु तथाङ्गुष्ठे प्रतिश्लिष्टौ तु कारयेत् ॥
शेषाः प्रसारिताङ्गुल्यो नेत्रमुद्रा भवेन्नृप
अनाम्योऽर्धेलिनौ कृत्वा तर्जन्यानां समं श्रयात्॥
मध्यमौ चोन्नतौ कृत्वा अङ्गुष्ठौ श्लेषितौ समौ।
एषा मुदा समाख्याता दिव्या च शिरसो नृप॥
अञ्जलिः प्रमदा मुद्रा क्षिप्रं देवप्रसारितम्
वन्दने हृदया मत्ता पूर्वदक्षिणतोऽपरा ॥
ऊर्ध्वोऽङ्गुष्ठो वाममुष्टिर्दक्षिणोऽङ्गुष्ठबन्धनः
संन्यस्य तस्य चाङ्गुष्ठौ यस्या ऊर्ध्वं प्रतिष्ठितम् ॥
वासुदेवस्य मुद्रैषा बद्धा स्यात्पापनाशिनी
हस्तयोरुभयोरेव कनिष्ठाङ्गुष्ठगर्भकौ ॥
शेषाः प्रसारितः श्लिष्टा मुद्रा सङ्कर्षणस्य तु
तर्जन्यावर्धतः श्लिष्टौ समाङ्गुष्ठौ तु श्लेषितौ ॥
एषा मुष्टिं ततः कृत्वा मुद्रा प्रद्युम्नसंज्ञिका
अङ्गुल्यौ वलितौ यत्र सूर्पाकारौ तु कारयेत्॥
वेष्ट्याङ्गुष्ठावधः कार्यावनिरुद्धे तु कारयेत
इत्युद्देशे तु ते प्रोक्ता मुद्राहस्ता मया नृप ॥
दर्शयेन्मन्त्रयुक्तानां परां सिद्धिमभीप्सिताम्
यथामन्त्रं यथादेवं यथाविधिरतंद्रितः ॥
मन्त्रेषु देवतायुक्ता बह्व्यो मुद्राः प्रकीर्तिताः
तासां मन्त्रं तु विज्ञेयं नियोगो नृप इष्यते
एतावदुक्तं नृप नृत्तशास्त्रं समासतः पार्थिववंशमुख्य ॥
निःशेषमेतद्गदितं महार्थं विस्तारतः सर्वजगत्प्रधानम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तशास्त्रमुद्रा नाम त्रयस्त्रिंशत्तमोऽध्यायः
3.34
वज्र उवाच ॥
नृत्तमुत्पादितं केन ऋषिणा दैवतेन वा ॥
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे
मार्कण्डेय उवाच ॥
एकार्णवे पुरा लोके नष्टस्थावरजंगमे ॥
शेषपर्यङ्कशयने सुप्ते मधुनिषूदने
संवाह्यमानचरणे लक्ष्म्या यदुकुलोद्वह ॥
नाभ्यां तस्य समुत्पन्नं पद्मं पद्मनिभेक्षण ॥
तत्र जातः स्वयं ब्रह्मा देवः शुभचतुर्मुखः ॥
दैवैः सह महाभाग सशरीरैर्नराधिप
पद्मोदबिन्दु सम्भूतौ तत्रैव मधुकैटभौ ॥
रजस्तमोमयौ चोरौ दानवौ तौ भयानकौ
ततो जगृहतुर्वेदान्ब्रह्मणस्तौ नराधिप ॥
हत वेदस्ततो ब्रह्मा तुष्टाव मधुसूदनम्
वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ॥
दानवापहृता वेदा अन्धो जातोस्मि शत्रुहन्
एवमुक्तस्तदा विष्णुर्ब्रह्मणा पुरुषोत्तमः ॥
उत्थाय सलिलात्तस्माद्बभ्राम सलिलाशये
अङ्गहारैः सुललितैस्तथा पदपरिक्रमैः ॥
तथा भ्रमन्तन्तं देवं ददर्शायतलोचना
अतीव ललितं लक्ष्मीर्जातरागा विशेषतः ॥
देवोप्यश्वशिरो भूत्वा पातालतलगः क्षणात
स दैत्यान्दृष्टवान्वेदांस्त्यक्त्वाश्वशिरसस्तनुम् ॥
जघान तौ महाकायौ दानवौ मधुकैटभौ
हत्वा वेदसहायस्तु सम्प्राप्तो ब्रह्मणोऽन्तिके ॥
ददौ वेदांस्ततस्तस्मै देवदेवः स्वयम्भुवे
दत्त्वा वेदांस्ततः प्राह सृष्टिं कुरु पितामह॥
वेदग्रामयुतो ब्रह्मा सर्गं चक्रे ततः प्रभुः
शेषस्याङ्कगतं देवं लक्ष्मीः पप्रच्छ पार्थिव॥
लक्ष्म्युवाच ॥
देवदेव जगन्नाथ शङ्खचक्रगदाधर
परिक्रमं मया तोये दृष्टः सललितः प्रभो ॥
अतीव रमणीयाङ्ग किं तत्प्रब्रूहि मे प्रभो
श्रीभगवानुवाच॥
नृत्तमुत्पादितं ह्येतन्मया पद्मनिभेक्षणे॥
अङ्गहारैः सकरणैः संयुक्तं सपरिक्रमैः
नृत्तेनाराधयिष्यन्ति भक्तिमन्तस्तु मां शुभे ॥
त्रैलोक्यस्यानुकरणं नृत्ते देवि प्रतिष्ठितम्
एतावदुक्त्वा तां देवो ब्रह्माणं वाक्यमव्रवीत ॥
गृहाण नृत्तं धर्मज्ञ लक्ष्यलक्षणसंयुतम्
एतावदुक्त्वा ब्रह्माणं ग्राहयामास केशवः ॥
तद्गृहीत्वा ततो ब्रह्मा ददौ रुद्राय वेधसे ॥
गृहीत्वा तच्च रुद्रोपि तोषयामास केशवम् ॥
तेन नृत्तेन सततं देवेशं भक्तवत्सलम्
एवमुत्पादितं नृत्तं वासुदेवेन पार्थिव ॥
एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे
ततः प्रभृति देवेशः शङ्करः शङ्करो नृणाम् ॥
नृत्तेनाराधयन्नास्ते देवं चक्रगदाधरम्
नृत्तेश्वरत्वं चावाप तुष्टाव मधुसूदनम् ॥
सोऽपि तुष्यति नृत्तेन सम्यगाराधितो हरः
अन्ये च देवास्तुष्यन्ति सम्यङ् नृत्तेन तोषिताः ॥
आप्यायनं परं ह्येतत्कथितं तु दिवौकसाम्
एतदेव हि देवत्वं दीव्यतां सततं दिवि ॥
पुष्पनैवेद्यदानेभ्यो नृत्तदानं विशिष्यते
स्वयं नृत्तेन यः कुर्याद्देवदेवस्य पूजनम् ॥
विशेषेण महाभाग तस्य तुष्यति केशवः
नृत्तं गीतं तथा वाद्यं दत्त्वा देवाय विष्णवे ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
नृत्तेन वृत्तिं यः कुर्यात्स तु वर्ज्यः प्रयत्नतः ॥
कुशीलवाद्यैर्यः कुर्यान्नृत्तविक्रयकारकः
देवताराधनं कुर्याद्यस्तु नृत्तेन धर्मवित् ॥
स सर्वकामानाप्नोति मोक्षोपायं च विन्दति
धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा ॥
ईश्वराणां विलासं तु चार्तानां दुःखनाशनम्
मूढानामुपदेशं तत्स्त्रीणां सौभाग्यवर्धनम् ॥
शान्तिकं पौष्टिकं काम्यं वासुदेवेन निर्मितम्
एतावदुक्तं तव नृत्तशास्त्रं समासतो लोकहिताय राजन ॥
नृत्तेन यत्नः पुरुषेण कार्यो लोकद्वयञ्जेतुमभीप्सता वै
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तशास्त्रवर्णनो नाम चतुस्त्रिंशत्तमोऽध्यायः
3.35
मार्कण्डेय उवाच ॥
अतः परं प्रवक्ष्यामि चित्रसूत्रं तवानघ॥
उर्वशीं सृजतः पूर्वे चित्रसूत्रं नृपात्मज
नारायणेन मुनिना लोकानां हितकाम्यया॥
प्राप्तानां वञ्चनार्थाय देवस्त्रीणां महामुनिः
सहकाररसं गृह्य उर्व्यां चक्रे वरस्त्रियम् ॥
चित्रेण सा ततो जाता रूपयुक्ता वराप्सराः
यां दृष्ट्वा व्रीडिताः सर्वा जग्मुस्ता देवयोषितः ॥
एवं महामुनिः कृत्वा चित्रं लक्षणसंयुतम्
ग्राहयामास स तदा विश्वकर्माणमच्युतम् ॥
यथा नृत्ते तथा चित्रे त्रैलोक्यानुकृतिः स्मृता
दृष्टयश्च तथा भावा अङ्गोपाङ्गानि सर्वशः ॥
कराश्च ये महानृत्ते पूर्वोक्ता नृपसत्तम
त एव चित्रे विज्ञेया नृत्तं चित्रं परं मतम् ॥
नृत्ते प्रमाणं येनोक्तं तत्प्रवक्ष्याम्यतः शृणु
हंसो भद्रोऽथ मालव्यो रुचकः शशकस्तथा ॥
विज्ञेयाः पुरुषाः पञ्च तेषां वक्ष्यामि लक्षणम्
उच्छ्रायायामतुल्यास्ते सर्वे ज्ञेयाः प्रमाणतः ॥
स्वेनेवाङ्गुलमानेन शतमष्टाधिकं भवेत्
प्रमाणं नृप हंसस्य भद्रस्य तु षडुत्तरम् ॥
चतुर्भिरधिकं ज्ञेयं मालव्यस्य तथा नृप
शतं च रुचकस्योक्तं दशोनं शशकस्य च ॥
द्वादशाङुलविस्तारस्ताल इत्यभिधीयते
अङ्गुल्फन्तच्चतुर्भागं पादोच्छ्रायः प्रकीर्तितः ॥
द्वौ च तालौ तथा जङ्घे पादतुल्ये च जानुनी
जंघातुल्यौ तथा चोरू नाभिस्तालं तु मेढ्रतः ॥
तावच्च नाभिहदयं हृदयात्कण्ठ एव च
कण्ठस्तालत्रिभागः स्यात्तालं च वदनं भवेत् ॥
तालषड्भागमप्युक्तं ललाटोपरि मस्तकम्
मध्ये मेढ्रं तु विज्ञेयमिति दैर्घ्यं प्रकीर्तितम् ॥
तालः प्रोक्तः करो राजन्बाहू सप्तदशाङ्गुलौ
प्रबाहू तावदेवोक्तौ वक्षसोर्धमथाष्टकम्।
एतदायामतः प्रोक्तं मानं हंसस्य पार्थिव
अनेनैवानुसारेण शेषाणामपि कल्पयेत्॥
आयामपरिणाहाभ्यां समाः सर्वे नराधिप
सामान्यतस्ते नृपवर्य मानं प्रोक्तं मया हंस नराधिपस्य ॥
प्रत्यङ्गमानं च मयोच्यमानं समासतस्त्वं शृणु राजसिंह
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे आयामोच्छ्रायमानवर्णनो नाम पञ्चत्रिंशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0