भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.111.115

3.111.115.111

मार्कण्डेय उवाच ॥
अथ प्रतिष्ठितस्य भगवतो बृहत्स्नपनमारभेत् ततो गायत्रीं पठेत् ॥
इषेत्वेत्यनेन पतद्ग्रहं दद्यात् ॥
वैष्णवगायत्र्या पादुके ।
भूम्यावृत्वा यनोसीति मृदम् ॥
शन्न आप इत्यर्हणम् ।
देवेभ्यो वनस्पत इति दन्तकाष्ठम् ॥
यामालिखेति जिह्वानिर्लेखनम् ॥
आपोहिष्ठेत्याचमनम् ॥
पात्रेणार्घ्यम् ॥
युवासुवासा इति स्नानशाटकम् ॥
ध्रुवा द्यौरित्यासनम् ।
प्रतिष्ठासाम्ना पादपीठम् ॥
कनिक्रदेति बीजपात्रम् ॥
तेजोशुक्रमसीति दीपम् ॥
मुखादिन्द्रेत्यादर्शम् ॥
तथैव मुखालेपः ॥
रोध्रम् ॥ त्वक् कोलमज्जा ॥ वचा ॥ कुष्ठम् ॥ नीलोत्पलानि कुंकुमं चेति मुखालेपः ॥
सहस्रशीर्षेति तैलम् ॥
भद्रं कर्णेत्यनेनोद्वर्तनम् ॥
सुप्रतीकेन चमसा स्नानम्॥
ऋषभेन निष्पुंसनस्नानम् ॥
घृतवतीति घृतस्नानम्॥
दधिक्राव्ण इति दध्ना ॥
पयस्वतीति पयसा ॥
गंधद्वारेति गोमयेन ॥
गायत्र्या गोमूत्रेण॥
अघमर्षणेन पञ्चगव्येन ।
ध्रुवा द्यौरिति ध्रुवं निष्पुंसनेन ॥
मधुवाता ऋतायते इति मधुना ॥
सुप्रतीकेनेति इक्षुरसेन।
भौमेन गुडोदकेन॥
अथर्वशिरसा शर्करोदकेन॥
वामदेवेनेति नद्युभयकूलमृदा ॥
शांता द्यौरिति संगममृदा ॥
प्राणसूक्तेन सरोमृदा ॥
वाराहेणेति वराहोद्धृतमृदा॥
वामदेवेनेति गजदन्तमृदा ॥
वृषभेणेति वृषभशृंगोद्भवमृदा ॥
अश्वक्रान्तेति सर्वाभिः ॥
भारुन्देनेत्यामलकैः ॥
विकर्णेनेति रोध्रेण ।
ज्येष्ठसाम्नेति कालेयकेन ॥
बृहत्साम्नेति बीजपूरकेण ॥
कृष्णाजिनेनेति वर्णकस्नानीयेन ।
अग्न आयुरसीति तगरेण ।
श्रीसूक्तेनेति प्रियङ्गुना॥
विष्णोरराटमिति सिद्धार्थकैः ॥
कृष्णमणिनेति कृष्टेन ॥
शिरिभिटेनेति कुशोदकेन ।
या ओषधय इति सर्वौषधीभिः ॥
आब्रह्मन्ब्राह्मण इति बीजैः ॥
पुष्पवतीति पुष्पैः ॥
वनस्पते वीड्वंग इति वनस्पतिकलापैः ॥
पुष्पवतीति फलैः॥
आशुः शिशान इति रत्नैः ॥
गन्धद्वारेति गन्धैः ।
ॐकारनमस्कारपवित्रैः शिरःस्नानौषधीभिः यथा कुष्ठम्, रोध्रम्, मुस्ता, वचा, सर्षपाः, जयन्ती, विष्णुक्रान्ता, पुनर्नवा, ब्राह्मी, तगरम्, अतिबला, नवबला, नागबला, त्वक्पत्रम् ,अगुरुबालकम्, हरेणुकम्, लवङ्गम्, अगुरम्, उशीरम्, नालिका चूरकम्, द्वे हरिद्रे चेति ॥
एवं स्नानस्य कलशदानं भवति ॥
तत्रादावेवोङ्कारनमस्कारपवित्राभिर्ज्ञात्वा दशाध्यात्ममृत्पिण्डमाधुरैः सात्त्वतो दद्यात् ॥
ततः सामविन्महावामदेवलक्षरथन्तरशाक्वरभारुण्डबृहत्सामभिः ॥
अथर्वविदथर्वशिराः प्रत्यङ्गिरः शङ्खमणिप्राणसूक्तमणिप्रतिसरमणिभिः ॥
ऋग्वेदवित् गायत्रीसावित्रीगोसूक्ताश्च ॥
सूर्यसूक्तपुरुषसूक्तश्रीसूक्तैर्यजुर्वेदवित् ॥
कृष्णाजिनचमसषट्कषडृतुकूष्माण्डरुद्रद्रविणैः ।
ततः स्वशक्त्या कलशसहस्रकलशाष्टशत पञ्च वा शतानि चत्वारि वा शतमष्टाधिकं वा अष्टाविंशतिर्वाष्टौ वा स्वर्चितान्वनस्पतिकालापगर्भशङ्खध्वनिस्वनेन वाद्यशब्देन जयजयकारवंदिशब्देन प्रसुभगानर्तितेन देयाः ॥
ततः पवित्रेणोपकलशान्विश्राम्य वेद्यां क्षिपेत् ॥
घृतवतीति घृतावेक्षं दर्शयेत् ॥
सहस्रशीर्षेण शिखण्डोदग्रहणशाटकं दद्यात् ॥
युवासुवास इति प्रतिनिर्वसनशाटकम् ॥
इदमापः प्रवहत इत्याचमनीयं ततो जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥
बृहत्स्नपनमेतद्धि यः करोति नरो हरेः॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥
न केवलं प्रतिष्ठायां सर्वदैवं समाचरेत् ॥
शान्तिदं पौष्टिकं काम्यं बृहत्स्नपनमुत्तमम ॥
दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ॥
देवदेवस्य राजेन्द्र बृहत्स्नपनमाचरेत् ॥
नास्ति लोके समुत्पातो यो ह्यनेन न शाम्यति ॥
आरोग्यकामः श्रीकामो मोक्षकामश्च बन्धनात् ॥
सौभाग्यशान्तिकामश्च बृहत्स्नपनमाचरेत् ॥
विद्यार्थी प्राप्नुयाद्विद्यां पुत्रकामस्तथात्मजान् ॥
प्रियाश्च मुख्याः प्राप्नोति याश्च कामयते यदि ॥
अकामकामः प्राप्नोति तद्विष्णोः परमं पदम् ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बृहत्स्नपनप्रशंसावर्णनो नामैकादशोत्तरशततमो ऽध्यायः

3.111.115.1

॥ मार्कण्डेय उवाच ॥ ॥
स्नातं श्रीभगवन्तं समर्चयेत् ॥
चन्दनबहुलनिर्यासजातीफलमृगमदकर्पूराणि समस्तानि व्यक्तानि वानुलेपनं कुर्यात् ॥
गन्धद्वारेति श्रीभगवन्तमनुलिम्पेत्। ॥
वायुरग्रेगा इति तालवृन्तं निवेदयेत् ॥
वात आवातभेषजमिति वीजयेत् ॥
सावित्राणि सावित्रस्येति चामरं निवेदयेत् ॥
श्रीविष्णुगायत्र्या बीजानि निवेदयेत् ॥
युवासुवास इति महार्हैर्वस्त्रैः श्रीभगवन्तं आच्छादयेत् ॥
नोपभुक्तैर्न नीलैः हिरण्यवर्णैराभरणैरर्चयेत् ।
कङ्कतो न कङ्कत इति कङ्कतेन इन्द्राविश्वेति कङ्कतेन दूष्यादूशिरसि प्रतिसंख्या अञ्जन मणिना प्रैजनेन आत्मव्यूहेन कूर्चप्रसादनेन पुष्पवतीति पुष्पैः प्रथितैरग्रास्थितैश्च ॥
प्रजापते न त्वदेतान्यन्य इति पटवासेन॥
अग्निमूर्धेति दीपेन॥
धूरसि धूर्वमिति धूपेन ॥
अभित्वा शूर नोनुम इति च्छत्रेण॥
विष्णुगायत्र्या उपानद्भ्याम् ॥
इदं विष्णुर्विचक्रमे इति यानेन तेनैव प्रवहणेन ।
केतुं कृण्वन्निति ध्वजैः तेनैव पताकादिभिः ।
ततः स्तोत्रैः श्रीभगवन्तमर्चयेत् ॥
ततो अग्निर्मूर्धेति सर्वभोगपूरणार्थीयमात्रया ॥
ततस्तन्त्रीवाद्यैः ततः शंखपटहभेरीनिनादैः सुभगातेनवेति ॥
अनेन विधिना भोगैः समभ्यर्च्य जनार्दनम् ॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति

3.111.115.112

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भोगदानवर्णनो नाम द्वादशोत्तरशततमोऽध्यायः

3.111.115.113

मार्कण्डेय उवाच ॥
अथ मधुपर्केण श्रीभगवन्तमभ्यर्चयेत् ॥
हिरण्यवर्णेत्यर्हणां दद्यात् ।
दधिक्राव्णेति दधि ।
घृतवतीति घृतम् ॥
मधुवाताऋतायते इति मधु ॥
त्रिसुवर्णेन संयोज्य सावित्रेण नियोजयेत ॥
आपोहिष्ठेति तर्पणं दद्यात्॥
वात आवातु भेषजमिति निष्पुंसनम्॥
शन्न आप इति आचमनीयम्॥
अष्टकविधिना पशुम् हिरण्यवर्णेति वा मात्राम् ।
तेन बिम्बशंखपद्माद्यानि मङ्गल्यानि निवेदयेत्॥
मधुपर्कविधिस्त्वेष कथितस्ते मयानघ ॥
एतत्कृत्वा महाराज विष्णुलोके महीयते ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मधुपर्कनिवेदनो नाम त्रयोदशोत्तरशततमो ऽध्यायः

3.111.115.114

मार्कण्डेय उवाच ॥
हिरण्यवर्णेत्यर्हणां दद्यात् ॥
ततः सभक्ष्यं सव्यञ्जनं सहचरितकं सावदंशं सफलं सावित्रेण निवेदयेत्॥
शक्त्या सुगन्धीनि सुस्वादूनि अम्बुपानानि च आपोहिष्ठेति च तर्पणेन, वात आवातु भेषजमिति निष्पुंसनेन, शन्न आप इत्याचमनीयेन, अग्निर्मूर्धेति पुनरनेनैव विधानेन, संविभागार्थीयेन अनुयज्ञेन श्रीभगवन्तमर्चयेत् ॥
मुखादिन्द्रश्च तांबूलं दद्यात् ॥
तेनैव सुगन्धीनि, मुखवासांसि, तेनैव दर्पणम् ॥
पुनरपि श्रीभगवन्तं गीतवादित्रनृत्तैः समभ्यर्चयेत् ॥
अन्नयज्ञेन संपूज्य देवदेवं सनातनम् ॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ॥
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे इज्यावर्णनो नाम चतुर्दशोत्तरशततमोऽध्यायः

3.111.115.115

मार्कण्डेय उवाच ॥
ततः शङ्करगीतोक्तेन विधानेनेज्यां सात्त्वतः कुर्यात् ॥
कारिणश्च भोगैः शचिं भजेत् ॥
देवपुरत एवर्त्विजां प्रत्येकं सुवर्ण महत्वं वासो गोवत्सकृतं कास्यं दद्यात ॥
स्वशक्त्या च तानभ्यर्चयेत् ॥
ततो ब्राह्मणान्भोजयेत् ॥
भुञ्जानांश्च श्रीभगवन्माहात्म्यं श्रावयेत् ॥
ततो हविष्यं यजमानस्त्वश्नीयात् ॥
ततो देवागारे गीतनृत्यवाद्यपुस्तकश्रवणे तिष्ठेत् ॥
अनेन विधिना कृत्वा प्रतिष्ठां शार्ङ्गिणो नरः ॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सात्त्वतेज्यावर्णनो नाम पञ्चदशोत्तरशततमोऽध्यायः ॥

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc