भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.101.105

3.101.105.1

3.101
मार्कण्डेय उवाच ॥
अथार्चाशौचानन्तरं पवित्रकस्यार्चायाः कुर्यात् ॥
तत्र कमलकर्णिकायां ध्रुवा द्यौरिति मन्त्रेण दक्षिणशिरस्कं प्राक्छिरसं वा शय्यायां स्थापयेत्॥
अतः पञ्चवर्णैः पञ्चभिरास्तरणैरास्तरयेत्।
शुद्धावत्यश्चोदीरयेत्।
ततो युवा सुवासा इति प्रच्छादनपटं दद्यात् ॥
गण्डोपधानं च ।
ततो गर्भमयं सप्तशीर्षमनन्तं नागं कुर्यात् ।
तं च शयने स्थापयेत् ॥
ततो जीवस्यावाहनं कुर्यात शिवसंकल्पं चोदीरयेत् ।
ततस्त्वनन्तस्यावाहनं प्रयोजयेत् ।
ततोर्घ्यपाद्यमाचमनीयमनुलेपनमाल्यदीपधूपमधुपर्कप्रापणकमात्राभिः प्रत्येकं सावित्रेणानन्तरमर्चयेत् ॥
ततः सर्पसाम ।
नमोस्तु सर्पेभ्य इति योगेयोगेति मन्त्रं चोदीरयेत् ॥
अनन्तमाहात्म्यं च वा वदेत् ॥
ततो ध्रुवा द्यौरिति मन्त्रेणानन्तोपरि श्रीभगवदर्चा पवित्रके स्थापयेत् ॥
ततो जीवस्यावाहनं कुर्यात् ।
शिवसङ्कल्पं जपेत् ।
ततो भगवन्तमावाहयेत् ।
ततः सर्वे भून्यस्तजानवः प्रणामं कुर्युः आगतश्च भगवानिति ब्रूयुः ।
ततः शङ्खपटहभेरीजयशब्दैः पूजयेयुः ।
ततोऽर्घ्यपाद्याचमनीय स्नानीयानुलेपनमाल्यधूपदीपमधुपर्कप्रापणकमात्रादानैः श्रीभगवन्तं प्रत्येकं सवित्रेणार्चयेत् ।
ततः स्वस्ति न इन्द्र इति जपेत् ।
ततो युवासुवासा इति श्रीभगवन्तं महता वासोयुगेनाच्छादयेत् युञ्जते मन इति पुष्पैरवकिरेत् ।
बोधश्चमा प्रतिबोधश्चेति सिद्धार्थैरवकिरेत् ।
प्रादुरभावानिति वाचयेत् ।
एवमधिवासनं कार्यम् ॥
अधिवासिते च भगवति अर्चास्थण्डिले वेदिं प्रतिष्ठाप्य आसनानि पादपीठानि च अर्चाशौचविधानेन वेदिमासनानि च शोधयेत् ।
ततः शङ्करगीतोक्तविधिना इज्यां सात्त्वतः कुर्यात् ।
इज्यासमकालमेव होमस्थण्डिले होता होमं वेदीशौचमासनानां सकृदेव विधत्ते ॥
इज्याहोमो तु कर्तव्यो प्रत्यहं त्वधिवासिते ।
पूजनं गीतनृत्यैश्च प्रतिष्ठा यावदागता ।
अधिवासनमेतत्ते मया सम्यगुदाहृतम्

3.101.105.101

इति श्रीविष्णु० ध० तृ० ख० मा० व० सं० अधिवासनवर्णनो नामैकाधिकशततमोऽध्यायः .

3.101.105.1

3.102
॥ मार्कण्डेय उवाच ॥
आवाहयाम्यहं जीवं बीजं सर्वगतं प्रभुम् ॥
पञ्चभावस्थितं देहे पञ्चधा च स्थितं पुनः

3.101.105.2

वायव्येन तु भावेन पञ्चधावस्थितं पुनः ॥
आग्नेयेन तु भावेन पञ्चधावस्थितं तथा

3.101.105.3

वारुणेन च भावेन पञ्चधावस्थितं प्रभुम् ॥
भूतात्मकत्वेन तथा पञ्चधावस्थितं पुनः

3.101.105.4

परमात्मानमत्युग्रमनुग्रं जगदीश्वरम् ॥
सर्वगं सर्वधातारं सर्वेशमपराजितम्

3.101.105.5

अत्यर्थसूक्ष्मं वरदं क्षेत्रज्ञं प्रभुमीश्वरम् ॥
।भूतभव्यभविष्यस्य प्रभुं लोकनमस्कृतम्

3.101.105.6

गुणाधारं जगद्योनिं महद्भ्योपि महत्तरम् ॥
जीवदेव त्वमभ्येहि प्रविशार्चामिमां स्वयम्

3.101.105.7

कुरुष्व देवदेवेश सजीवं च तथानघ ॥
इदमर्घ्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम्

3.101.105.102

इति श्रीवि० ध० तृ० ख० मा० व० सं० जीवावाहनं नाम द्वयुत्तरशततमोऽध्यायः

3.101.105.1

3.103
वज्र उवाच ॥
आवाहनानि मे ब्रूहि देवतानां भृगूत्तम ॥
भवन्त्यावाहिता मन्त्रैर्यस्मात्सन्निहिताः सुराः

3.101.105.2

मार्कण्डेय उवाच ॥
आवाहनानि ते वच्मि देवानां यदुनन्दन ॥
अथोक्तवर्जं केषांचित्केषांचित्पुनरेव ते

3.101.105.3

सर्वस्यावाहनस्यान्ते श्लोकार्धं परिकीर्तितम् ॥
इदमर्घ्यं च पाद्यं च धूपोऽयं प्रतिगृह्यताम्

3.101.105.4

आवाहयाम्यहं देवौ नासत्यौ सूर्यनन्दनौ ॥
आगच्छेतां महाभागौ वरदौ चाश्विनौ शुभौ

3.101.105.5

वसूनावाहयिष्यामि देवानष्टौ वरप्रदान् ॥
आयान्तु वरदा देवा वसवः पापनाशनाः

3.101.105.6

विश्वानावाहयिष्यामि देवानद्भुततेजसः ॥
आयान्तु वरदाः सर्वे विश्वेदेवा महाबलाः

3.101.105.7

आवाहयाम्यङ्गिरसो देवानद्भुततेजसः ॥
आयान्त्वङ्गिरसो देवा महाबल पराक्रमाः

3.101.105.8

रुद्रानावाहयिष्यामि त्रिनेत्रान्वृषवाहनान् ॥
आयान्तु वरदा रुद्रास्त्रैलोक्यवरदाः शुभाः

3.101.105.9

आवाहयिष्याम्यादित्यान् वरदान्दीप्ततेजसः ॥
आयान्तु वरदाः सूर्याः सर्वे ते तेजसोल्बणाः

3.101.105.3.103.10

भृगूनावाहयिष्यामि देवान्दीप्ततपोधनान् ॥
आयान्तु भृगवो देवा वरदा दीप्ततेजसः

3.101.105.11

सुरानावाहयिष्यामि मरुतस्तेजसाधिकाः ॥
आयान्तु मरुतो देवा वरदा भुवनेश्वराः

3.101.105.12

सुरानावाहयिष्यामि सर्वानेव दिवौकसः ॥
आगच्छन्तु सुराः सर्वे मन्त्रपूजाभिलाषिणः

3.101.105.13

दैत्यानावाहयिष्यामि महाबलपराक्रमान् ॥
आयान्तु दैत्या धर्मिष्ठा देवदेवानुगा मम

3.101.105.14

आवाहयिष्ये गन्धर्वान्रूपद्रविणसंयुतान् ॥
आयान्तु सर्वगन्धर्वा वरदाः कामरूपिणः

3.101.105.15

यक्षानावाहयिष्यामि धनाध्यक्षसमन्वितान् ॥
आयान्तु वरदा यक्षास्त्रैलोक्यविदिता मम

3.101.105.16

आवाहयिष्यामि तथा राक्षसान्विविधायुधान्॥
आयान्तु राक्षसा वीरा देवदेवानुयायिनः

3.101.105.17

आवाहयिष्यामि तथा विद्याधरगणानहम् ॥
विद्याधराः समायान्तु विविधाः गगनङ्गमाः

3.101.105.18

आवाहयिष्यामि तथा किन्नरान्देवगायनान्॥
आयान्तु किन्नराः सर्वे सुस्वरास्तु सुलोचनाः

3.101.105.19

नागानावाहयिष्यामि भुजगान्सर्पगोचरान॥
आयान्तु वरदा नागास्त्रैलोक्यविदिता मम

3.101.105.3.103.20

अहमावाहयिष्यामि तथैवाप्सरसः शुभाः ॥
समायान्तु महाभागा देवयोषा ममोज्ज्वलाः ॥ ।

3.101.105.21

अहमावाहयिष्यामि सर्वास्त्रिदशपत्नयः ॥
आयान्तु वरदाः सर्वास्तप्तचामीकरप्रभाः

3.101.105.22

आवाहयिष्यामि तथा वरदा देवमातरः ॥
आयान्तु वरदाः सर्वा सुवेशाः सुखदाः शिवाः

3.101.105.23

पितॄनावाहयिष्यामि सूक्ष्मरूपधरानहम् ॥
आयान्तु पितरः सर्वे गणस्थास्तु पृथक्पृथक्

3.101.105.24

आवाहयिष्यामि तथा सुपर्णान्बलवत्तरान् ॥
सुपर्णास्तु समायान्तु विष्णुतेजोपबृंहिताः

3.101.105.25

आवाहयामि वरदान्सर्वानेव प्रजापतीन् ॥
प्रजाध्यक्षाः समायान्तु त्रैलोक्यपरिपालकाः

3.101.105.26

आवाहयामि देवेन्द्रान्देवान्भुवननायकान् ॥
आयान्तु देवनाथा मे वरदाः कामरूपिणः

3.101.105.27

मनूनावाहयिष्यामि प्रभुत्वे जगतः स्थितान् ॥
आयान्तु मनवः सर्वे तपसा नष्टकिल्बिषाः

3.101.105.28

आवाहयिष्याम्योषध्यः सर्वप्राणिधराः शुभाः ॥
ओषध्यश्च समायान्तु सर्वाः कामप्रदाः शुभाः

3.101.105.29

ऋषीनावाहयिष्यामि तपसा द्योतितप्रभान् ॥
आयान्तु ऋषयः सिद्धाः सर्वे मे दीप्ततेजसः ॥
शैलानावहायिष्यामि सर्वौषधिसमन्वितान्

3.101.105.3.103.30

आयान्तु भूधराः शैलाः सर्वे मे स्थावरेश्वराः ॥
द्रुमानावाहयिष्यामि नानारूपधरानहम

3.101.105.31

द्रुमाः सर्वे समायान्तु मनोमारुतरंहसः ॥
आवाहयिष्यामि तथा पातालान्सर्वगोचरान्

3.101.105.32

आयान्तु सर्वे पाताला दैत्यस्थाना ह्यविन्दिताः ॥
द्वीपानावाहयिष्यामि सर्वानद्भुतधारिणः

3.101.105.33

आयान्तु द्वीपा लोकानां स्थानभूता जगत्प्रियाः ॥
लोकानावाहयिष्यामि स्थानभूतान्मनोहरान्

3.101.105.34

आयान्तु लोकाः सकलाः सर्वे मे भूतभावनाः ॥
आवाहयिष्यामि तथा समुद्राञ्जगतः प्रियान्

3.101.105.35

समुद्रा मे समायान्तु रसाधारा जगत्प्रियाः ॥
वर्षानावाहयिष्यामि सर्वभूताश्रयानिह

3.101.105.36

आगच्छन्तु तथा चेह वर्षाः सर्वमनोहराः ॥
आवाहयिष्यामि तथा चतुरः सागरानहम्

3.101.105.37

सागराः शीघ्रमायान्तु सर्वे तोयधरा मम ॥
नदीस्त्वावाहयिष्यामि वरदा लोकमातरः

3.101.105.38

आयान्तु वरदा नद्यः सर्वपापहराः शुभाः ॥
आवाहयिष्यामि तथा सर्वानभ्रगणानहम्

3.101.105.39

आयान्त्वभ्रा महाभागाः सर्वे चाशुचरा मम ॥
आवाहयिष्यामि तथा पिशाचान्सर्वगानहम्॥
पिशाचास्तु समायान्तु सर्वे मे कामरूपिणः

3.101.105.3.103.40

आवाहयिष्यामि तथा स्कन्दस्य पार्श्वगानहम्

3.101.105.41

नानारूपाः समायान्तु स्कन्दस्य पार्श्वगा मम ॥
आवाहयिष्यामि तथा देवानां पार्षदानहम्

3.101.105.42

नानारूपाः समायान्तु देवानां पार्षदा मम ॥
आवाहयिष्यामि तथा हरस्य पार्षदानहम् ॥
नानारूपाः समायान्तु हरस्य पार्षदा मम

3.101.105.43

आवाहयिष्यामि तथा मातरो लोकमातरः

3.101.105.44

आयान्तु मातरो देव्यो वरदाः सर्वगाः शुभाः ॥
ग्रहानावाहयिष्यामि सर्वलोकेश्वरानहम्

3.101.105.45

ग्रहाः सर्वे समायान्तु दीप्ता भुवननायकाः ॥
आवाहयिष्यामि तथा नक्षत्रान्वरदानहम्

3.101.105.46

आयान्तु सर्वे नक्षत्राः सर्वे भुवननायकाः ॥
दिशस्त्वावाहयिष्यामि प्रागाद्याः सुमनोहराः

3.101.105.47

आगच्छन्तु दिशः सर्वाः सर्वभूतसुखावहाः॥
वीथ्यस्त्वावाहयिष्यामि दिव्या नवग्रहाश्रयाः

3.101.105.48

आयान्तु वीथ्यः सकला ग्रहनक्षत्रमण्डिताः ॥
अहमावाहयिष्यामि मुहूर्तान्सूक्ष्मरूपिणः

3.101.105.49

मुहूर्ताः शीघ्रमायान्तु कालस्यावयवाः शुभाः ॥
ऋतूनावाहयिष्यामि षडहं भुवनेश्वरान्

3.101.105.3.103.50

आयान्तु ऋतवः सर्वे जगच्चक्रप्रवर्तकाः ॥
आवाहयिष्यामि तथा पञ्चसंवत्सरानहम्

3.101.105.51

आयान्तु वत्सराः सर्वे कालचक्रप्रवर्तकाः ॥
युगानावाहयिष्यामि चतुरो दीप्ततेजसः

3.101.105.52

आगच्छन्तु युगाः सर्वे चतुर्मूर्तिव्यवस्थिताः ॥
अहमावाहयिष्यामि मनूंश्चैव चतुर्दश

3.101.105.53

मन्वन्तराः समायान्तु त्रिदशावधिसंस्थिताः ॥
कालमावाहयिष्यामि देवं सावयवं शुभम्

3.101.105.54

आगच्छ भगवन्काल देवदेव जनार्दन ॥
देवानावाहयिष्यामि यज्ञमूर्तिधरानहम्

3.101.105.55

देवाः सर्वे समायान्तु वरदा बहुरूपिणः ॥
ग्रहमावाहयिष्यामि विद्यास्थानान्यशेषतः

3.101.105.56

सर्वाणीह समायान्तु लोकानां हितकाम्यया॥
शास्त्रानावाहयिष्यामि शान्तान्दर्शनवत्थितान्

3.101.105.57

शस्त्राणि शीघ्रमायान्तु चमूनां मण्डनं परम्॥
अस्त्राण्यावाहयिष्यामि त्रैलोक्यस्य हितानि वै

3.101.105.58

सर्वे चेह समायान्तु धर्मसेतुप्रवर्तकाः ॥
अहमावाहयिष्यामि वेदशास्त्राण्यनेकशः

3.101.105.59

वेदशास्त्राः समायान्तु जगद्रक्षणतत्पराः ॥
अहमावाहयिष्यामि सर्वांस्त्रिदशवाहनान्

3.101.105.3.103.60

इह सर्वे समायान्तु सर्वे त्रिदशवाहनाः ॥
नागानावाहयिष्यामि देवपुत्रान्महाबलान

3.101.105.61

देवोपवाह्या नागेन्द्राः शीघ्रमायान्तु सत्वराः ॥
निधीनावाहयिष्यामि शङ्खपद्मपुरोगमान् ॥
आयान्तु निधयः सर्वे सर्वलोकैकभावना

3.101.105.62

आह्वानकार्यं यदि सङ्गमध्यादेकस्य कार्यं यदुवंशनाथ ॥
कार्यादथेहा तु तदेकवत्स्यादाह्वानमन्त्रस्य यथानुरूपाः

3.101.105.103

इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिष्ठाकल्पे देवसंवाह्वानं नाम त्र्युत्तरशततमोऽध्यायः

3.101.105.1

3.104
मार्कण्डेय उवाच ॥
आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठिनम् ॥
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारणम्

3.101.105.2

चतुर्वेदं चतुर्वक्त्रं चातुर्वर्ण्यप्रभुं प्रभुम् ॥
चतुराश्रमगोप्तारं वरदं भूतभावनम्

3.101.105.3

पद्मयोनिं जगद्योनिं यज्ञयोनिं जगत्पतिम् ॥
आत्मयोनिमनाधृष्यं यज्ञवाहं जगत्पतिम्

3.101.105.4

यज्ञेशं यज्ञमूर्तिं च त्रैलोक्यस्यैककारणम् ॥
सर्वगं नारदं सौम्यं परमं परमेश्वरम्

3.101.105.5

भूतभव्यभवन्नाथं योगज्ञेयं सनातनम् ॥
आगच्छ भगवन्ब्रह्मन्यजमानस्य वृद्धये

3.101.105.6

इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ॥
आवाहयाम्यहं देवं देवदेवं हुताशनम्

3.101.105.7

जगतोऽस्य समुत्पत्तिस्थिति संहारकारकम् ॥
देवमूर्तिं तदाधारं सर्वदेवमुखं प्रभुम्

3.101.105.8

पिङ्गेक्षणं पिङ्गजटं धूमकेतुं विभावसुम् ॥
शुकयानगमं देवं सर्वाभरणभूषितम्

3.101.105.9

सर्वगं वरदं भानुं जठरस्थं च देहिनाम् ॥
तेजोमूर्तिं दुराधर्षं सप्तजिह्वं महाबलम्

3.101.105.3.104.10

सप्तार्चिषं सप्तमुनिं समित्सप्तकमच्युतम् ॥
विष्णोरंशमनिर्देश्यं भानवं जातवेदसम्

3.101.105.11

पावनं पुष्टिदं सौम्यं भक्तानां भूतिवर्धनम् ॥
याजकं यजमानं च पुष्ट्या विभज सर्वशः

3.101.105.12

इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ॥
आवाहनान्यतो वक्ष्ये सर्वेषां पार्थिवोत्तम

3.101.105.13

सर्वस्यावाहनस्यान्ते श्लोकोऽयं परिकीर्तितः ॥
प्रविश्यार्चामिमां सम्यङ् मया भक्त्या विनिर्मिताम्

3.101.105.14

इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ॥
ध्रुवमावाहयिष्यामि सर्वदेव गणेश्वरम्

3.101.105.15

निबद्धं भ्राम्यते येन भचक्रं वातरज्जुभिः ॥
एहि मे ध्रुव देवेश केशवाचिन्त्यविक्रम

3.101.105.16

सर्वग्रहगणाध्यक्ष सर्वलोकनमस्कृत ॥
आवाहयिष्याम्याकाशं विमानशतमण्डितम्

3.101.105.17

तृतीयं देवदेवस्य पदं विष्णोर्महात्मनः ॥
एहि मे भगवन्सौम्य निरालम्ब नभस्तल

3.101.105.18

अप्रमेयातिगम्भीर विमानशतमण्डित ॥
ऊर्ध्वमावाहयिष्यामि चानन्तां महतीं दिशम्

3.101.105.19

अप्रमेयां निरालम्बां चन्द्रसूर्यांशुवर्जिताम् ॥
आगच्छेह महाभागे सततं सिद्धसेविते

3.101.105.3.104.20

अनन्ते विपुले देवि निर्मले हितकारिणि ॥
आवाहयाम्यधस्तात्तु दिशं शेषेण पालिताम्

3.101.105.21

नागदैत्योरगगणैः सततं च निषेविताम् ॥
गम्भीरे विपुले भीमे बहुस्थानातिमण्डिते

3.101.105.23

एहि मे रत्नबहुले बहुरूपे महाबले॥
आवाहयिष्ये वरदं सहस्रांशुं दिवाकरम् ॥
तेजोमूर्तिं दुराधर्षं भक्तानामभयप्रदम्॥
एहि देव जगन्नाथ ऋक्सामयजुषां पते

3.101.105.24

त्रैलोक्यमण्डले दीप सर्वव्याधिविनाशन ॥
आवाहयाम्यहं देवमादित्यमुदकेशयम्

3.101.105.25

स्निग्धवैदूर्यसङ्काशं वरुणं सुमहाद्युतिम् ॥
एहि देव जलाध्यक्ष यादोगणमहेश्वर

3.101.105.26

नागदैत्योरगगणैः सततं सेविताच्युत ॥
आवाहयाम्यहं चन्द्रं शीतांशुममृतप्रभम्

3.101.105.27

ओषधीशं द्विजाध्यक्षं नयनानन्दकारकम ॥
एहि मे भगवञ्चन्द्र शशाङ्क मृगलाञ्छन

3.101.105.28

भक्तानुकम्पिन्सततं सर्वनक्षत्रपूजित ॥
भौममावाहयिष्यामि तेजोमूर्तिं दुरासदम्

3.101.105.29

भद्रमूर्तिमनिर्देश्यं वक्त्रं रुधिरसप्रभम् ॥
एहि मे भगवन्भौम अङ्गारकसमप्रभ

3.101.105.3.104.30

त्वयि सर्वं समायत्तं भूतलेऽस्मिञ्शुभाशुभम् ॥
स्कन्दमावाहयिष्यामि षण्मुखं वरदं शिशुम्

3.101.105.31

देवारिसेनामथनं पार्वत्यानन्दवर्धनम ॥
एहि देव कुमाराद्य महिषासुरतस्कर

3.101.105.32

कार्तिकेय जगन्नाथ मयूरवरवाहन ॥
बुधमावाहयिष्यामि बोधनं जगदीश्वरम्

3.101.105.33

चान्द्रिं ग्रहगणाध्यक्षं तेजोमूर्तिं दुरासदम् ॥
एहि शीतांशुजाचिन्त्य जगज्जिष्णो जनार्दन

3.101.105.34

महाबल महाभाग महाबाहो महाद्युते ॥
विष्णुमावाहयिष्यामि शङ्खचक्रगदाधरम्

3.101.105.35

अतसीकुसुमश्यामं पीतवाससमच्युतम् ॥
एहि मे देवदेवेश प्रजानिर्माणकारक

3.101.105.36

नारायण सुदुष्पार महेष्वास धनुर्धर ॥
शक्रमावाहयिष्यामि देवं सुरगणेश्वरम्

3.101.105.37

वज्रपाणिं महाबाहुं गोब्राह्मणहिते रतम् ॥
एहि देव सहस्राक्ष देवारिबलसूदन

3.101.105.38

ऐरावतग धर्मज्ञ शचीहृदयनन्दन ॥
जीवमावाहयिष्यामि देवेश्वरपुरोहितम्

3.101.105.39

बृहस्पतिं बृहद्वाक्यं वेदवेदांगपारगम् ॥
एहि जीव महाभाग जीवभूत महीतले

3.101.105.3.104.40

सम्यग्वृद्धिस्तवायत्ता सततं भूमिवर्धन ॥
देवीमावाहयिष्यामि पार्वतीं वरदामुमाम्

3.101.105.41

हरस्य दयितां भार्यां चार्वङ्गीं भूतिवर्धिनीम् ॥
एहि देवि जगन्मातर्मेनाहृदयनन्दिनि

3.101.105.42

पवित्रे वरदे सौम्ये नित्यं भक्तजनप्रिये॥
शुक्रमावाहयिष्यामि भार्गवं जगदीश्वरम्

3.101.105.43

नित्यं सर्वधनाध्यक्षं तपसा द्योतितप्रभम ॥
एहि शुक्र महाभाग षोडशार्चे वरप्रद

3.101.105.44

प्रभुस्त्वं वरदो नित्यं वर्षावर्षस्य निग्रहे॥
आवाहयाम्यहं देवं प्रजाध्यक्षमकल्मषम्

3.101.105.45

भक्तानुकंपिनं देवं प्रजानिर्माणकारकम् ॥
एहि देव प्रजाध्यक्ष प्रजानिर्माणकारक

3.101.105.46

त्वयि देव समायत्तं प्रजानामभवोद्भवम् ॥
सौरिमावाहयिष्यामि शनैश्चारिणमच्युतम्

3.101.105.47

तपस्विनमनाधृष्यं भक्तानामभयप्रदम् ॥
एहि तीक्ष्णांशुजाचिन्त्य भावाभावप्रदर्शक

3.101.105.48

त्वयि सर्वं ममायत्तं राज्ञां भूमौ शुभाशुभम् ॥
आवाहयाम्यहं देवं गजवक्त्रं गणेश्वरम्

3.101.105.49

विघ्नेशं विघ्नहर्तारं पार्वती हृदयप्रियम् ॥
एहि देव गणाध्यक्ष लम्बोदर महाभुज

3.101.105.3.104.50

कार्यसिद्धिः समायत्ता त्वयि सर्वेश देहिनाम्॥
राहुमावाहयिष्यामि दैत्येंद्रं ग्रहतां गतम्

3.101.105.51

केशवाप्तवरं वीरं तपसा दग्धकिल्बिषम् ॥
एह्येहि दैत्यप्रवर वरदाचिन्त्यविक्रम

3.101.105.52

तमोमूर्ते दुराधर्षं विपरीताम्बराम्बर ॥
आवाहयाम्यहं देवं विश्वकर्माणमच्युतम्

3.101.105.53

सर्वासां देवतानां तु सदा शिल्पप्रवर्तकम् ॥
एहि देववराचिन्त्य सर्वशिल्पप्रवर्तक

3.101.105.54

एहि देववराचिन्त्य सदा शिल्पप्रवर्तक ॥
त्वयि सर्वेश सर्वेषां कर्मणामाश्रिता गतिः

3.101.105.55

केतुमावाहयिष्यामि केतुं सर्वदिवौकसाम् ॥
ब्राह्मण्यं सर्वधर्मज्ञं भक्तानामभयप्रदम्

3.101.105.56

धूमकेतो इहाभ्येहि हुताशनसमप्रभ॥
शिखाकरालविकच पूजकार्तिविनाशन

3.101.105.57

आवाहयिष्यामि शुभां कृत्तिकां देवपूजिताम् ॥
एहि साधारणे देवि ज्येष्ठे दक्षसुते शुभे

3.101.105.58

आवाहयामि वरदां रोहिणीं चन्द्रवल्लभाम् ॥
एहि रोहिणि धर्मज्ञे ध्रुवकर्मसु शोभने

3.101.105.59

आवाहयामि वरदामिल्विलां शशिवल्लभाम् ॥
एहि मे इल्विले देवि मृदुकर्मसु शोभने

3.101.105.3.104.60

रुद्रमावाहयिष्यामि त्रिनेत्रं शूलपाणिनम् ॥
एहि शङ्कर सर्वात्मन्महागणगणेश्वर

3.101.105.61

आर्द्रामावाहयिष्यामि नक्षत्रं बाहुसंज्ञितम् ॥
एह्यार्द्रे चारुसर्वाङ्गि दारुणे रुद्रसम्मिते

3.101.105.62

आवाहयिष्यामि दितिं तपसा दग्धकिल्बिषाम् ॥
आदित्यारणि धर्मज्ञे एहि देवि महाव्रते

3.101.105.63

ऋक्षमावाहयिष्यामि धर्मज्ञं तु पुनर्वसुम् ॥
पुनर्वसौ इहागच्छ चरकर्मप्रसाधक

3.101.105.64

तिष्यमावाहयिष्यामि नक्षत्रं क्षिप्रसंज्ञितम ॥
एहि पुष्य महाभाग पोषं वर्धय सर्वतः

3.101.105.65

सर्पानावाहयिष्यामि त्रैलोक्यानन्तगोचरान् ॥
आयान्तु सर्वतः सर्पाः सौम्यरूपा भवन्तु ते

3.101.105.66

आवाहयामि चाश्लेषां भक्तानां श्रीविवर्धिनीम् ॥
आश्लेषे त्वमिहाभ्येहि दारुणे विजयप्रदे

3.101.105.67

पितॄनावाहयिष्यामि मर्त्यमूर्तिधरानहम् ॥
आयान्तु पितरः शीघ्रं सुधाकव्यभुजोऽव्ययाः

3.101.105.68

मघामावाहयिष्यामि उग्रनक्षत्रमञ्जसा ॥
एहि मे सुभगे देवि सर्वाघविनिषूदनि

3.101.105.69

भगमावाहयिष्यामि भक्तसौभाग्यवर्धनम्॥
एहि देववराचिन्त्य भक्तसंकटनाशक

3.101.105.3.104.70

ऋक्षमावाहयिष्यामि पूर्वफल्गुनसंज्ञकम् ॥
एहि भागि महाभाग उग्रकर्मप्रसाधक

3.101.105.71

आवाहयिष्याम्यर्यम्णमादित्यं तेजसां निधिम् ॥
अर्यमंस्त्वं समभ्येहि भक्तसङ्कटनाशन

3.101.105.72

ऋक्षमावाहयिष्यामि उत्तराफल्गुनीं शुभाम् ॥
एहि त्वं सुभगे देवि ध्रुवे सर्वाङ्गसुन्दरि

3.101.105.73

हस्तमावाहयिष्यामि सावित्रं क्षिप्रमञ्जसा ॥
एहि सावित्र धर्मज्ञ भक्तानां पापनाशक

3.101.105.74

आवाहयाम्यहं देवं त्वष्टारमसितद्युतिम् ॥
एहि मे भगवंस्त्वष्टः प्रजापालनतत्पर

3.101.105.75

चित्रामावाहयिष्यामि चित्रमूर्तिं मनोहराम् ॥
एहि मे वरदे देवि मृदुकर्मप्रसाधिके

3.101.105.76

वायुमावाहयिष्यामि सर्वगं दीप्ततेजसम् ॥
देव वायो त्वमभ्येहि सर्वभूतजगत्प्रिय

3.101.105.77

स्वातिमावाहयिष्यामि नित्यमुत्तरसर्वगाम् ॥
देवि स्वाति त्वमभ्येहि चरकर्मसु शोभने

3.101.105.78

आवाहयिष्यामीन्द्राग्नी सहितौ दीप्ततेजसौ ॥
इंद्रात्रेहि जगन्नाथ एह्यग्ने विजयप्रद

3.101.105.79

ऋक्षमावाहयिष्यामि विशाखामग्रतेजसम् ॥
विशाखे त्वमिहाभ्येहि देवि साधारणे शुभे

3.101.105.3.104.80

मित्रमावाहयिष्यामि देवं दीप्तांशुतेजसम् ॥
एहि मित्र महाभाग भक्तानामभयं कुरु

3.101.105.81

ऋक्षमावाहयिष्यामि त्वनुराधां वरप्रदाम् ॥
अनुराधे त्वमभ्येहि मृदुकर्मसु शोभने

3.101.105.82

शक्रोस्यावाहनं प्रोक्तं ज्येष्ठायाः शृणु पार्थिव ॥
ज्येष्ठामावाहयिष्यामि नक्षत्रं शक्रदैवतम्

3.101.105.83

ज्येष्ठे देवि त्वमभ्येहि दारुणे चारुलोचने ॥
देवमावाहयिष्यामि निरृतिं वीरवन्दितम्

3.101.105.84

एहि देव विरूपाक्ष महाबल सदाश्रय ॥
मूलमावाहयिष्यामि नक्षत्रं दारुणं महत्

3.101.105.85

एहि मूल महाभाग भक्तानामभयप्रद ॥
आपस्त्वावाहयिष्यामि सर्वगा वरदाः शुभाः

3.101.105.86

आपस्त्वावाहयिष्यामि पूर्वाषाढेति संज्ञितम् ॥
एहि त्वमुग्रे वरदे पूर्वाषाढेतिसंज्ञिते

3.101.105.87

ऋक्षमावाहयिष्यामि यत्तदभिजिदुच्यते ॥
एहि धिष्ण्यवरिष्ठाय क्षिप्रकर्मप्रसाधक

3.101.105.88

ऋक्षमावाहयिष्यामि श्रवणं सर्वकामदम् ॥
प्रसन्नस्त्वं समभ्येहि चरकर्मप्रसाधक

3.101.105.89

धनिष्ठे त्वमिहाभ्येहि चरकर्मप्रसाधिके

3.101.105.3.104.90

ऋक्षमावाहयिष्यामि नाम्ना शतभिषां शुभाम् ॥
आगच्छ त्वं शतभिषे चरकर्मसु शोभने

3.101.105.91

अजैकपादं वरदं रुद्रमावाहयाम्यहम् ॥
आगच्छ रुद्र वरद त्रिशूलपरमायुध

3.101.105.92

ऋक्षमावाहयिष्यामि पूर्वभद्रपदामहम् ॥
एहि भद्रपदे पूर्वे उग्रकर्मप्रसाधनि

3.101.105.93

आहिर्बुध्न्यं महाभागं रुद्रमावाहयाम्यहम् ॥
आहिर्बुध्न्य समभ्येहि जटाजूटोपशोभित

3.101.105.94

ध्रुवमावाहयिष्यामि देशे भद्रपदोत्तराम् ॥
एहि त्वं सुमहाभागे मम भद्रपदोत्तरे

3.101.105.95

आवाहयाम्यहं देवं पूषणं पापनाशकम् ॥
पूषन्सम्यगिहाभ्येहि सर्वकल्मषनाशक

3.101.105.96

ऋक्षमावाहयिष्यामि रेवतीं भीरुदर्शनाम् ॥
एहि रेवति धर्मज्ञे मृदुकर्मप्रसाधके

3.101.105.97

ऋक्षमावाहयिष्यामि क्षिप्रमश्विनि संज्ञकम् ॥
एह्यश्विनि महाभागे वरदे कामदायिनि

3.101.105.98

यममावाहयिष्यामि धर्मराजमथाच्युतम् ॥
एहि धर्मभृतां श्रेष्ठ वैवस्वत महाभुज

3.101.105.99

ऋक्षमावाहयिष्यामि उग्रं भरणिसंज्ञकम् ॥
एहि त्वं देवि भरणि सुभगे चारुदर्शने

3.101.105.3.104.100

प्राचीमावाहयिष्यामि सूर्योदयविभूषणाम ॥
एहि त्वं वरदे पूर्वे शुभकर्मप्रसाधनि

3.101.105.101

दिशमावाहयिष्यामि वरदां पूर्वदक्षिणाम् ॥
वह्निप्रिये समभ्येहि वरदे पूर्वदक्षिणे

3.101.105.102

अहमावाहयिष्यामि दक्षिणां दक्षिणां दिशम् ॥
दक्षिणे त्वं समभ्येहि सर्वकर्मशुभप्रदे

3.101.105.103

दिशमावाहयिष्यामि शुभां दक्षिणपश्चिमाम् ॥
एहि त्वं नैरृते देवि सततं भूतिवर्धिनि

3.101.105.104

दिशमावाहयिष्यामि वारुणीं वरदां सदा ॥
आगच्छ पश्चिमे देवि वरदे वरुणप्रिये

3.101.105.105

आवाहयिष्यामि दिशं वायवीं पश्चिमोत्तराम् ॥
वरदे त्वं समभ्येहि वायव्ये पश्चिमोत्तरे

3.101.105.106

आवाहयामि धनदं देवं वैश्रवणं प्रभुम् ॥
राजराज समभ्येहि सर्वयज्ञेश्वराधिप

3.101.105.107

दिशमावाहयिष्यामि सौम्यां धनदपालिताम् ॥
उत्तरे त्वं समभ्येहि सर्वधर्मफलप्रदे

3.101.105.108

दिशमावाहयिष्यामि शुभां प्रागुत्तरामहम् ॥
एहि त्वं सुभगे देवि सततं शिवपालिते

3.101.105.109

सर्वानावाहयिष्यामि पूर्णकुम्भेषु सागरान् ॥
रत्नाध्यक्षाः समायान्तु चत्वार इह सागराः

3.101.105.3.104.110

ऐशान्यां दिशि यः कुम्भः पूर्वस्तस्यां तु सागरः ॥
आयातु शीघ्रमेवेह तरङ्गोर्मिसमाकुल

3.101.105.111

शीघ्रमभ्येहि निलय यादसां पूर्वसागर ॥
तरङ्गशतसंक्रांत बालभास्करमण्डल

3.101.105.112

आग्नेये च समायात दक्षिणे दक्षिणः शिवः ॥
बहुरत्नप्रभापुञ्जविमिश्र सलिलाशय

3.101.105.113

यादसां निलयाभ्येहि क्षिप्रं दक्षिणसागर ॥
तरङ्गधौत पादाग्र त्रिकूटशिखराच्युत

3.101.105.114

पश्चिमायाः समायातु कुम्भे दक्षिणपश्चिमे ॥
रत्नपुञ्जमहाज्वालाविराजितमहोदक

3.101.105.115

तरङ्गमण्डिताभ्येहि क्षिप्रं पश्चिमसागर ॥
अस्तार्कबिम्बसंक्रान्तगतमण्डलदुर्दृश

3.101.105.116

उत्तरश्च तथाभ्येतु कुम्भे वै पश्चिमोत्तरे ॥
हिमाद्रिशिखरच्छायाक्षीरोदसदृशः प्रभुः

3.101.105.117

महापवित्रसलिल शीघ्रमुत्तरसागर ॥
इहाभ्येहि महाभाग यजमानाभिवृद्धये

3.101.105.118

आवाहितानां कर्तव्यं भूमौ कृत्वा ततः शिरः ॥
प्रणाममभिवादं च ततो मन्त्रमुदीरयेत्

3.101.105.119

भवतां हि प्रसादेन भवतां प्रतिपूजने ॥
प्रयतिष्ये यथाशक्त्या तन्मेऽनुज्ञातुमर्हथ

3.101.105.3.104.120

युष्माकं पूजनं कर्तुं केन शक्यं यथाविधि ॥
युष्मत्पूजाविहीनेन केन लभ्यं महत्फलम्

3.101.105.121

ततः कर्तुं यथाशक्त्या भवतां प्रतिपूजनम् ॥
वरदाः प्रयतिष्यामि तन्मेऽनुज्ञातुमर्हथ

3.101.105.125

स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्ततेजसः ॥
उत्सादयन्तु सकलान्विघ्नान्यान्समुपस्थितान

3.101.105.123

विनायका विघ्नकराः समोग्रा यज्ञद्विषो ये पिशिताशनाश्च ॥
सिद्धार्थकैर्वज्रसमानकल्पैर्मया निरस्ता विदिशः प्रयान्तु

3.101.105.104

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मादिदेवाह्वान वर्णनो नाम चतुरुत्तरशततमोध्यायः

3.101.105.1

3.105
मार्कण्डेय उवाच ॥
लोकानावाहयिष्यामि हंसरूपान्मनोहरान्॥
आयान्तु वाहनत्वेन ये स्थिताः परमेष्ठिनः

3.101.105.2

वृषमावाहयिष्यामि चतुष्पादं ककुद्मिनम् ॥
वृषाभ्येहि महाभाग धर्ममूर्ते वरप्रद

3.101.105.3

शूलमावाहयिष्यामि गुणाधारं महाद्युतिम्॥
एहि शूल महाभाग दैत्यनाथगणान्तक

3.101.105.4

अहमावाहयिष्यामि देवं नन्दीश्वरं प्रभुम् ॥
अभ्येहि नन्दिन्भगवन् सर्वलोकनमस्कृत

3.101.105.5

आवाहयामि वरदं वीरभद्रं महाबलम् ॥
अभ्येहि वीरभद्राय महागणगणेश्वर

3.101.105.6

ज्वरमावाहयिष्यामि त्रिपादं त्रिभुजं प्रभुम् ॥
ज्वराभ्येहि महाभाग सततं चरणोज्ज्वल

3.101.105.7

देवीमावाहयिष्यामि भद्रकालीं सुखप्रदाम् ॥
आगच्छ वरदे दुर्गे सर्वलोकनमस्कृते

3.101.105.8

आवाहयामि पौलोमीं वरदां नित्यनन्दिनीम ॥
शक्रपत्नि त्वमभ्येहि वरदे कामरूपिणि

3.101.105.9

नागमावाहयिप्यामि तथैरावणसंज्ञितम् ॥
इहाभ्येहि महाभाग शक्रनाग जयावह

3.101.105.3.105.10

वज्रमावाहयिष्यामि सर्वभेदकमाशुगम् ॥
शीघ्रं वज्र त्वमभ्येहि सर्वदुष्टनिबर्हण

3.101.105.11

हयानावाहयिष्यामि छन्दोरू पान्मनोहरान् ॥
आगच्छन्तु ममाद्येह तुरगा व्योमगोचराः

3.101.105.12

अहमावाहयिष्यामि दण्डसंज्ञं बलोत्कटम् ॥
दण्ड शीघ्रमिहाभ्येहि महाबलपराक्रम

3.101.105.13

अहमावाहयिष्यामि पिङ्गलं सुमहाबलम् ॥
लोकसाक्षिस्त्वमभ्येहि पिङ्गलाय महाबल

3.101.105.14

ध्वजमावाहयिष्यामि चित्रं सूर्यसमप्रभम् ॥
धर्म शीघ्रं त्वमभ्येहि सूर्यध्वजगताच्युत

3.101.105.15

देवीमावाहयिष्यामि सूर्यभां कामरूपिणीम् ॥
देवि त्वं तूर्णमागच्छ सर्वलोकनमस्कृते ॥।

3.101.105.16

राज्ञीमावाहयिष्यामि सूर्यपत्नीं सुरूपिणीम्॥
आगच्छ वरदे राज्ञि जगद्धारिणि पूजिते

3.101.105.17

अहमावाहयिष्यामि सूर्यपत्नीं सुवर्चसाम्॥
ध्याये देवि त्वमागच्छ कृताकृतविचारिणि

3.101.105.19

अहमावाहयिष्यामि दशचन्द्रमसो हयान् ॥
सर्वे शीघ्रमिहायान्तु चन्द्राश्वाः कामरूपिणः॥.॥
अहमावाहयिष्यामि कान्तिं त्रिदशवल्लभाम् ॥
कान्ते शीघ्रं त्वमभ्येहि शशाङ्कदयिते शुभे

3.101.105.3.105.20

शोभामावाहयिष्यामि काङ्क्षितां भुवनेश्वरीम् ॥
शोभे शीघ्रं त्वमभ्येहि सर्वलोकैकसुन्दरि

3.101.105.23

दिनमावाहयिष्यामि समस्तध्वान्तनाशकम् ॥
दिन शीघ्रं त्वमभ्येहि दर्शिताखिलमण्डल ॥ ॥
रात्रिमावाहयिष्यामि सर्वभूतसुखावहाम् ॥
रात्रि देवि त्वमभ्येहि सर्वभूतवरप्रदे ।२२॥
सन्ध्यामावाहयिष्यामि देवीं ब्राह्मणपूजिताम् ॥
आगच्छ वरदे सन्ध्ये सर्वभूतनमस्कृते

3.101.105.24

स्वाहामावाहयिष्यामि वह्नेर्भागं विभावरीम् ॥
स्वाहेभ्येहि महाभागे वरदे कामरूपिणि

3.101.105.25

वेदानावाहयिष्यामि शुभरूपधरानहम् ॥
आयान्तु वाहनत्वेन धूम्रकेतुव्यवस्थिताः

3.101.105.26

आवाहयिष्ये महिषं महाबलपराक्रमम् ॥
आगच्छेह महाभाग सर्वदुष्टनिबर्हण

3.101.105.27

दण्डमावाहयिष्यामि सर्ववाहनपूजितम् ॥
एहि दण्ड महाभाग सर्वसत्त्वविनाशन

3.101.105.28

देवीमावाहयिष्यामि धूम्रोर्णां चारुलोचनाम् ॥
आगच्छ देवि धूम्रोर्णे सर्वलोकनमस्कृते

3.101.105.29

कालमावाहयिष्यामि सर्वत्राहतपूजितम् ॥
कालाभ्येहि महाभाग सर्वसत्त्वभयङ्कर

3.101.105.3.105.30

मृत्युमावाहयिष्यामि देवीं सर्वहरामहम् ॥
देवि मृत्यो त्वमभ्येहि सर्वगे कामरूपिणि

3.101.105.31

आवाहयामि वरदं चित्रगुप्तं सुखप्रदम् ॥
चित्रगुप्त समभ्येहि सर्वत्रसमदर्शन

3.101.105.32

अहमावाहयिष्यामि विरूपाक्षं महाबलम् ॥
विरूपाक्ष समभ्येहि निशाचरगणेश्वर

3.101.105.33

उष्ट्रमावाहयिष्यामि महामोहमिति श्रुतम् ॥
उष्ट्राभ्येहि महाभाग महाग्रीव महागते

3.101.105.34

गौरीमावाहयिष्यामि जलाधिपतिसुन्दरीम् ॥
एहि गौरि महादेवि वरदे कामरूपिणि

3.101.105.35

हंसानावाहयिष्यामि समुद्रेण सुपूजितान्॥
आयान्तु वरदा हंसा रसाचारा विहङ्गमाः

3.101.105.36

पाशमावाहयिष्यामि सर्वाकर्षणतत्परम् ॥
पाशाभ्येहि महाभाग सर्वसत्त्ववशङ्कर

3.101.105.37

गङ्गामावाहयिष्यामि सर्वकल्मषनाशिनीम् ॥
गङ्गे शीघ्रं त्वमभ्येहि पीयूषसदृशोदके

3.101.105.38

अहमावाहयिष्यामि यमुनां च यमानुजाम् ॥
आगच्छ यमुने देवि सर्वकल्मषनाशिनि

3.101.105.39

शिवामावाहयिष्यामि वायोः पत्नीं प्रभावतीम् ॥
शिवेभ्येहि महाभागे वरदे कामरूपिणि

3.101.105.3.105.40

अहमावाहयिष्यामि शिबिकां परमायताम् ॥
शिबिके त्वमिहाभ्येहि सर्वसत्त्वसुखङ्करि

3.101.105.41

नरमावाहयिष्यामि नराधिपतिवाहनम् ॥
नर शीघ्रं त्वमभ्येहि तथा नृपतिनायक

3.101.105.42

शङ्खमावाहयिष्यामि निधिप्रवरमुत्तमम् ॥
शीघ्रं शङ्ख त्वमभ्येहि धनाधिपतिवल्लभ

3.101.105.43

पद्ममावाहयिष्यामि निधिप्रवरमुत्तमम् ॥
पद्म शीघ्रं त्वमभ्येहि महाविभवकारक

3.101.105.44

देवीमावाहयिष्यामि पार्वतीं हरवल्लभाम् ॥
देवि शीघ्रं त्वमभ्येहि महाविभवकारिके

3.101.105.45

अहमावाहयिष्यामि जयन्तं शक्रनन्दनम् ॥
जयन्त शीघ्रमभ्येहि सर्वासुरविमर्दन

3.101.105.46

आवाहयिष्ये वरदं पुष्करं कामगं शुभम् ॥
पुष्कर त्वमिहाभ्येहि सर्वज्ञानप्रकाशक

3.101.105.47

ज्योत्स्नामावाहविष्यामि त्रैलोक्यस्यैकसुन्दरि ॥
आगच्छ वरदे ज्योत्स्ने सर्वभूतसुखङ्करि

3.101.105.48

अहमावाहयिष्यामि त्वामेव नलकूबरम् ॥
समभ्येहि महाभाग धनदस्यात्मसम्भव

3.101.105.49

आवाहयिष्यामि तथा रविपुत्रं यमाग्रजम् ॥
सूर्यपुत्र समभ्येहि भक्तकल्याणकारक

3.101.105.3.105.50

धर्ममावाहयिष्यामि सर्वलोकसुखावहम् ॥
धर्माभ्येहि महाभाग जगतां परिपालक

3.101.105.51

अर्थमावाहयिष्यामि सर्वलोकसुखावहम् ॥
अर्थभ्येहि महाभाग सर्वबाधाविनाशक

3.101.105.52

काममावाहयिष्यामि फलं सर्वस्य कारण ॥
काम शीघ्रं त्वम भ्येहि सर्वप्राणिहृदि स्थित

3.101.105.53

रात्रिमावाहयिष्यामि देवीं सर्वजगत्प्रियाम् ॥
अभ्येहि वरदे देवि रति त्वमपराजिते

3.101.105.54

निद्रामावाहयिष्यामि सर्वलोकसुखप्रदाम् ॥
आगच्छ वरदे निद्रे त्रैलोक्यपरिमोहिनि

3.101.105.55

आवाहयिष्ये वरदां महादेवीं सरस्वतीम्॥
शीघ्रं देवि त्वमभ्येहि सर्वकामवरप्रदे

3.101.105.56

अहमावाहयिष्यामि तथा धन्वतरिं प्रभुम् ॥
धन्वन्तरे त्वमभ्येहि क्षीरोदार्णवसम्भव

3.101.105.57

अहमावाहयिष्यामि उच्चैःश्रवसमश्वपम् ॥
हयराज समभ्येहि क्षीरोदार्णवसंभव

3.101.105.58

येषामावाहनं प्रोक्तं तेषां मन्त्रमिदं पठेत् ॥
अश्विनौ प्रणतः स्तौमि दर्भपाणिरतन्द्रितः

3.101.105.59

आवाहनानां च गणं तथोक्तं महाशुभं पापहरं पवित्रम् ॥
आवाहिताः सन्निहितास्त्ववश्यं देवा भवन्त्युत्तमवंशजाताः

3.101.105.105

इति श्रीविष्णुधर्मोत्तरे तृतीये खण्डे मार्कण्डेयवज्रसंवादे लोकाद्यावाहनवर्णनो नाम पञ्चोत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc