विष्णुधर्मोत्तरपुराणम् · अध्याय 3.1.5
ॐ श्रीगणेशाय नमः ॥
॥ ॐनमो नारायणाय ॥
॥ अथ श्रीविष्णुमहापुराणे विष्णुधर्मोत्तरतृतीयखण्डप्रारम्भः ॥
॥ वज्र उवाच ॥
किं कर्तव्यं मनुष्येण किं कुर्वन्सुखमेधते ॥
अस्मिँल्लोके परे चैव केनाप्नोति महत्सुखम्
मार्कण्डेय उवाच ॥ ॥
अन्तर्वेदि बहिर्वेदि पुरुषेण विजानता ॥
देवतापूजनं कार्यं लोकद्वयमभीप्सता
यज्ञेषु देवयजनमन्तर्वेदि प्रकीर्तितम् ॥
बहिर्वेदि तथैवोक्तमुपवासव्रतादिकम् ॥
इष्टापूर्तेन लभ्यन्ते ये लोकास्तान्बुभूषता
देवानामालयः कार्यो द्वयमप्यत्र दृश्यते ॥
विशेषेण कलौ काले कर्तव्यं देवतागृहम्
कृतत्रेताद्वापरेषु नराः पश्यन्ति देवताम् ॥
तिष्यं प्राप्य न पश्यन्ति पूजास्त्वर्चागता यतः
कृतादिष्वपि दृष्ट्वा च देवान्मनुजसत्तम ॥
अर्चागतविशेषेण पूजयन्ति विधानतः
चित्रसूत्रविधानेन देवतार्चां विनिर्मिताम् ॥
सुरूपां पूजयेद्विद्वांस्तत्र संनिहिता भवेत्
स्वाकारां लक्षणोपेतां यस्तां संपूजयेन्नरः ॥
स सर्वकामानाप्नोति नात्र कार्या विचारणा ॥
अस्मिँल्लोके परे चैव सुखवान्स भवेत्सदा
अथार्चां लक्षणैर्हीनां यस्तु पूजयते नरः ॥
तस्यानर्था विवर्धन्ते तस्मात्तां च विवर्जयेत्
प्रासादकरणं पुण्यं देवार्चाकरणं तथा ॥
सुरार्चापूजनं पुण्यं तत्र पुण्या नमस्क्रिया
तस्मात्सर्वप्रत्नेन सुरार्चां लक्षणान्विताम् ॥
कारयेत्पूजनं विद्वान्न त्वलक्षणसंयुताम्
धर्ममर्थं तथा कामं मोक्षं च यदुनन्दन ॥
प्रयच्छन्ति महाराज नराणामिह देवताः
कामानिष्टान्प्रयच्छन्ति स्वर्गमत्यन्तमेव च ॥
तस्मात्सर्वप्रयत्नेन नृणां पूज्या दिवौकसः
नित्यं नराणां सुरपूजकानां लोका मनोज्ञाः सुलभा भवन्ति ॥
लोके तथास्मिन्धनधान्ययुक्ताः समृद्धिभाजश्च नरा भवन्ति
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे प्रथमोऽध्यायः
3.2
वज्र उवाच ॥
देवतारूपनिर्माणं कथयस्व ममानघ ॥
यस्मात्सन्निहिता नित्यं शास्त्रवत्साकृतिर्भवेत्
मार्कण्डेय उवाच॥
चित्रसूत्रं न जानाति यस्तु सम्यङ् नराधिप ॥
प्रतिमालक्षणं वेत्तुं न शक्यन्तेन कर्हिचित्
वज्र उवाच ॥
चित्रसूत्रं समाचक्ष्व भृगुवंश विवर्धन ॥
चित्रसूत्रविदेवाथ वेत्ति वाग्लक्षणं यतः ॥
मार्कण्डेय उवाच॥
विना तु नृत्यशास्त्रेण चित्रसूत्रं सुदुर्विदम्
जगतो न क्रिया कार्या द्वयोरपि यतो नृप ॥
वज्र उवाच ॥
नृत्यशास्त्रं समाचक्ष्व चित्रसूत्रं वदिष्यसि॥
नृत्यशास्त्रविधानं च चित्रं वेत्ति यतो द्विज
मार्कण्डेय उवाच॥
आतोद्यं यो न जानाति तस्य वृत्तं हि दुर्विदम् ॥
आतोद्येन विना नृत्तं विद्यते न कथंचन
वज्र उवाच ॥
आतोद्यं त्वं हि धर्मज्ञ नृत्यशास्त्रं वदिष्यसि ॥
तस्मिन्सुविदिते वेत्ति नृत्यं भार्गवसत्तम
मार्कण्डेय उवाच ॥
न गीतेन विना शक्यं ज्ञातुमातोद्यमप्युत ॥
गीतशास्त्रविधानज्ञः सर्वं वेत्ति यथाविधि
वज्र उवाच ॥
गीतशास्त्रं समाचक्ष्व सर्वधर्मभृतां वर ॥
गीतशास्त्रविदेवाथ सर्वज्ञः पुरुषोत्तमः
मार्कण्डेय उवाच ॥
संस्कृतं प्राकृतं चैव गीतं द्विविधमुच्यते ॥
अपभ्रष्टं तृतीयं च तदनन्तं नराधिप
देशभाषाविशेषेण तस्यान्तो नेह विद्यते ॥
गीतं पाठवशाज्ज्ञेयं स च पाठो द्विधा मतः
गद्यं पद्यं च धर्मज्ञ गद्यं सकथया स्मृतम् ॥
पद्यं छन्दोविशेषेण च्छन्दश्च बहुधा भवेत्
गद्यपद्यानुभावेन ज्ञेयौ लक्षणसंयुतौ ॥
पद्यं च द्विविधं तत्र सुवृत्रमतिमुक्तकम्
एकविंशतिसंख्याः स्युः सुपः सुप्तिङ्परं स्मृतम् ॥
प्रथमः पुरुषस्त्वेको द्वितीयो मध्यमो मतः
उत्तमाख्यस्तृतीयस्तु तत्क्रियावचनं त्रिकम् ॥
तिङश्च नवकं तत्र परस्मैपदसंज्ञकम् ॥
आत्मनेपदसंज्ञं च नवकं परिकीर्तितम् ॥
युष्मद्युपपदे तत्र मध्यमः पुरुषो भवेत्
अस्मद्युपपदे चैव स्यात्तथोत्तमसंजकः ॥
शेषे प्रथममिच्छन्ति पुरुषं यदुसत्तम
अर्थे प्रातिपदिकस्य स्वादौ वचनमन्त्रणे ॥
परिमाणे च कथिता विभक्तिः प्रथमा बुधैः
द्वितीया कर्मणि मता तृतीया करणे स्मृता ॥
कारके कमर्णि तथा सैव चान्यैः प्रकीर्तिता
चतुर्थी संप्रदाने स्यादपादाने च पञ्चमी ॥
संबन्धे च तथा षष्ठी सप्तम्याधारभावयोः
तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन॥
द्वितीयं तव धर्मज्ञ मया तत्परिकीर्तितम्
प्रातिपदिकमिह स्वं प्रकृतिः स्यात्तत्प्रकृतिमपि धातुमिच्छन्ति ॥
वाङ्मयमखिलमनेन निबद्धं गद्यमपि यदथ पद्यसमेतम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शब्दाध्यायो नाम द्वितीयोऽध्यायः
3.3
मार्कण्डेय उवाच ॥
षडक्षरेण पादेन गायत्रं छन्द उच्यते ॥
उष्णिक् सप्ताक्षरं चैव अष्टाक्षरमनुष्टुभम्
नवाक्षरा च बृहती पंक्तिसंज्ञं दशाक्षरम् ॥
एकादशाक्षरं त्रिष्टुब्जगती द्वादशाक्षरम्
त्रयोदशाक्षरं ज्ञेयमतिपूर्वं तथैव हि ॥
चतुर्दशाक्षरा चैव शक्वरी यदुनन्दन
अतिशक्वरी च कथिता तथा पञ्चदशाक्षरा ॥
षोडशाक्षरमिच्छन्ति च्छन्दोऽष्टिरिति यत्स्मृतम्
अत्यष्टिसंज्ञं छन्दश्च तथा सप्तदशाक्षरम्॥
अष्टादशाक्षरं चैव वृत्तिसंज्ञं प्रकीर्तितम्
तथातिवृत्तिसंज्ञं च विंशति स्त्वेकवर्जिता॥
विंशतिश्चाक्षराणि स्युः कृतिसंज्ञं यदूत्तम
विंशतिस्त्वेकसंयुक्ता प्रकृतिः परिकीर्तिता॥
द्वाविंशतिश्च कथितं तथैवाकृतिसंज्ञकम
त्रयोविंशतिश्च विकृतिः सा चैकात्संकृतिर्मता ॥
संकृतिश्चैकसंयुक्ता कथिता विकृतिर्नृप
षड्विंशतिश्चातिकृतिश्छन्दश्चोक्तं मनीषिभिः ॥
यथायथं चतुर्भिः स्वैः पादैरेतानि निर्दिशेत्
मात्रकस्तु लघुर्वर्णः स्पष्टलेखाभिचिह्नितः ॥
संस्थाप्यः स्याद्द्विमात्रस्तु गुरुर्वक्रस्तथा भवेत्
लघुश्चान्त्यश्च यो वर्णः स गुरुश्च भवेन्नृप ॥
दीर्घप्लुतौ च कथितौ तथैव गुरुसंज्ञकौ
संयोगाद्याः परे यस्मात्स लघुश्च गुरुः स्मृतः ॥
लघुगुरुविभागेन प्रस्तारोनेन यादव
सर्वे छन्दोविकल्पाश्च भवन्ति बहुशो नृप ॥
स्याद्यथानयनं तेषां तथा वक्ष्यामि तच्छृणु
यावत्संख्याक्षरं च्छंदस्तावन्तो गुरुवो नृप ॥
स्थाप्या अधश्च पूर्वाणां लघु पूर्वस्य विन्यसेत्
अतोऽन्येषु त्ववस्थाप्यं नृपमुख्य यथास्थितम् ॥
एवमेव विधिं कुर्यादादिश्च गुरुभिः पुनः
पूरयेदक्षरैस्तावत्कुर्यादेतं नृपोत्तम ॥
यावदक्षरसंख्या स्युः सर्वे हि लघवो नृप
एतत्स्यादक्षरैच्छन्दो मात्राश्छन्दास्तथैव हि ॥
उक्तवर्णाक्षरं छन्दो भवेदेकविवर्जितः
यदा तदा निवृत्संज्ञो ह्यधिकेन तमत्तथा ॥
वर्णद्वयेन रहितं विराडिति हि शब्दितम्
अधिकं च सुरासंज्ञं कथितं यदुसत्तम ॥
तेभ्यो भवन्ति सर्वाणि मात्राच्छन्दांसि यादव
दिङ्मात्रमेतत्कथितं नरेन्द्र विस्तारजिज्ञासुरतो मनुष्यः ॥
संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे छन्दोविधिर्नाम तृतीयोऽध्यायः
3.4
मार्कण्डेय उवाच ॥
तत्राज्ञायुक्तमद्वैधं दीप्तं गम्भीरशब्दवत् ॥
क्वचिन्निरुक्तसंयुक्तं वाक्यमेतत्स्वयंभुवः
यत्किंचिन्मिश्रसंयुक्तं युक्तं नाम विभक्तिभिः ॥
प्रत्यक्षाभिहितं यच्च तादृशीनां वचः स्मृतम्
नैगमैर्विविधैः शब्दैर्निपातं बहुलं च यत् ॥
न चापि सुमहद्वाक्यमृचीकानां वचः स्मृतम्
अविस्पष्टपदं ज्ञेयमृषिपुत्रवचो नृप ॥
भूतभव्यभवज्ञानं जन्मदुःखविकुत्सनम्
मित्राणां तद्भवेद्वाक्यं गर्भेषु च प्रवर्तनम् ॥
आज्ञायुक्तं च वचनं तथा हेतुविवर्जितम्
राजर्षीणां तु विज्ञेयं बह्वर्थं बहुविस्तरम् ॥
बह्वभिधानं बह्वर्थे देवतानां प्रकीर्तितम्
बह्वभिधानमल्पार्थं दानवानां प्रकीर्तितम् ॥
अल्पाभिधानमल्पार्थं गन्धर्वाणां तथा भवेत्
दुर्बोधं विषमं चैव राक्षसानां प्रकीर्तितम् ॥
गूढाक्षरं तु यक्षाणां किन्नरैरुक्तवत्तथा
नागानामतिविस्पष्टं पुनरुक्तसमन्वितम् ॥
रागद्वेषसमायुक्तं हेतुमत्पौरुषं भवेत्
मन्त्रा नवविधाः प्रोक्ताः ऋग्यजुःसामलक्षणाः ॥
स्तुतिर्निन्दा प्रशंसा च आक्रोशः प्रेष्य एव च
प्रश्नोऽनुज्ञा तथाख्यानमाशास्तिर्विषया मताः ॥
एवं ते सर्वविद्यानां विहितं सर्वलक्षणम् ॥॥॥
पौरुषे विद्यते तच्च नान्यत्रेति विनिश्चयः ॥
स्वभावान्न च्यवन्त्येव ये प्रोक्ता नरवर्जिंताः
दृश्यते हि पुमान्कश्चित्कश्चिच्छ्रेष्ठतमो धिया ॥
तस्मात्तत्रैव तस्योक्ता बुद्धिः श्रेष्ठतमा नृप
एतन्मयोक्तं सुपरीक्षणं ते वाक्यस्य भो वाक्यविदां वरिष्ठ ॥
विचक्षणैरत्र च रागतस्तु ज्ञेयं तथा द्वेषसमागमाच्च
दिव्येन तुल्यं यदि वार्षवाक्यं वाक्येन तुल्यं यदि वा परेण॥
वाक्यं नराणां नृपरागतस्तु ज्ञेयं यथाद्वेषसमांगमत्वात्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वाक्यपरीक्षाध्यायो नाम चतुर्थोऽध्यायः
3.5
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम ॥
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः
उत्सर्गेणापवादेन द्विविधं तत्प्रकीर्तितम् ॥
सूत्रं व्युदासश्च तथा तथोदाहरणं नृप
प्रत्युदाहरणं चैव चतुरङ्गं प्रकीर्तितम् ॥
वाक्यं चैवार्थवाक्यार्थं पदार्थः पदमेव च
चतुरङ्गमिदं चेति तथैवान्यत्प्रकीर्तितम ॥
प्रतिज्ञा हेतुदृष्टान्तावुपसंहार एव च
तथा निगमनं चैव पञ्चावयवमिष्यते ॥
आरम्भोऽथापि संबन्धः सूत्रार्थस्तद्विशेषणम्
चोदना परिहारश्च व्याख्या सूत्रस्य षड्विधा ॥
सूत्रेष्वेव हि तत्सर्वं यद्धृतं समुदाहृतम्
विस्तरोक्तं मतिं हन्ति समासोक्तं न गृह्यते॥
समासविस्तरौ हित्वा वक्तव्यं यद्विवक्षितम्
अपार्थं व्याहतं चैव पुनरुक्तं तथैव च ॥
तथा विभिन्न संस्थानं युक्तिहीनं विवर्जयेत्
क्रमभेदो विभक्तश्च गुरुसूत्रं तथैव च ॥
अभिधानस्य चान्यत्वं नैतानि स्युरकारणात्
सर्वं कृत्वा पदच्छेदं समासं तदनन्तरम् ॥
समासे तु कृते पश्चादर्थं ब्रूयाद्विचक्षणः
सूत्रार्थश्च पदार्थश्च हेतुश्च क्रमशस्तथा ॥
निरुक्तमथ विन्यासो व्याख्या योगस्य षड्विधा
प्रत्यक्षमनुमानं च तथाप्तवचनं भवेत् ॥
त्रिभिः प्रमाणैः संयुक्तैस्तन्त्री प्रामाण्यमर्हति
प्रत्यक्षाभासमप्युक्तं तथा वै मृगतृष्णिका ॥
आभासमनुमानस्य वाष्परेणुचयौ यथा
धूमशंकाञ्जनयतो न च वह्न्युपलब्धये ॥
आप्तत्वं दर्शयित्वा तु यदनाप्तेन भाषितम्
तदाप्तवचनाभासं वदन्ति नृपसत्तम ॥
रागद्वेषविनिर्मुक्त आप्त इत्यभिधीयते
नैरुक्तं द्विविधं विद्धि सिद्धमौत्पातिकं तथा ॥
निर्वक्तव्यं तु तत्सिद्धमर्थसिद्धिस्तु सर्वदा
तत्र त्वौत्पत्तिकं सर्वं गौरश्वः पुरुषो यथा ॥
दशधा तु गणोद्गीतं तद्वक्ष्यामि यथागतम्
गणो नैमित्तिकोभ्यक्तः संवादः कार्त्तिकस्तथा ॥
उपचारश्च सम्बन्धः गौणिको यौगिकस्तथा
गुणात्तु गौणं पश्यामो महदित्येव मादयः ॥
निमित्ततस्तु नैमित्तं खण्डमुण्डादिकं यथा
भक्त्या भक्तं नृसिंहास्यादमातरि च मातृवत् ॥
समं वदन्ति यस्मिँश्च संवादश्चित्वरी यथा
कार्तकः स्यात्तु कृतको देववत्तादिको यथा ॥
उपचारस्तूपचारात्तैलपाशं तुला यथा
संबन्धतस्तु साबन्धश्छत्री मीमांसको यथा ॥
संयोगादपि संयोगः क्रियायाः क्रयिकः स्मृतः
पटकृल्लगुडच्छेद्यो ज्ञेयः शाकटिकस्तथा ॥
एवं परेषां च परं स्यान्नैगमनिचण्वकम् ॥
सुखार्थो न प्रसिद्धश्चेत्साधनानां विधिं शृणु ॥
यद्विपन्नं तु दृश्येत तत्साध्यं साधनैरिमैः
आत्मेन्द्रियमनोर्थानां संयोग उपदिश्यते ॥
ज्ञानदेशादिसंविष्टं प्रत्यक्षमिति तद्भवेत्
बुद्ध्या शरीरभूतात्मा यश्च युक्तोऽनुमीयते ॥
सोग्निर्धूमाद्यथा विद्यादनुमानं तदिष्यते
वेदविद्याविरुद्धं यत्सा स्मृतिः शिष्टसंमता ॥
अप्रत्यक्षफलं विद्यात्साधनं शास्त्रसंज्ञितम्
द्वयोः सदृशयोरेकं निर्दिष्टं साधयेत्परम् ॥
गवयादिव गोः सिद्धिरुपमानं तदिष्यते
साध्योर्थश्चेदतत्कार्यो वाक्ये यस्मिन्प्रकल्प्यते ॥
सार्थापत्तिर्दिवा भुङ्क्ते देवरात इतीति यत्
निपातनाद्योगविभागदर्शनाद्गुरूपदेशादनुवार्तिकादपि ॥
स्वतन्त्रसिद्धेः परतन्त्रदर्शनात्प्रसाधयेल्लक्षणतश्च षड्विधम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रगुणदोषवर्णनो नाम पञ्चमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0