भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.76.80

2.76.80.1

2.76
पुष्कर उवाच ।
द्विजं न निर्हरेत्प्रेतं शूद्रेण तु कथंचन ।
न च शूद्रं द्विजेनापि तयोर्दोषोऽभिजायते

2.76.80.2

अनाथं ब्राह्मणप्रेतं ये वहन्ति द्विजातयः ।
पदेपदे क्रतुफलं चानुपूर्वाल्लभन्ति ते

2.76.80.3

संस्कारार्थमनाथस्य यस्तु काष्ठं प्रयच्छति ॥
काष्ठाग्निदाता प्राकाश्यं संग्रामे लभते जयम्

2.76.80.4

संज्वाल्य बान्धवं प्रेतमपसव्येन तां चितिम् ॥
परिक्रम्य ततः स्नानं कुर्युः सर्वे स्वबान्धवाः

2.76.80.5

प्रेताय च तथा दद्युस्तिस्रो वै चोदकाञ्जलीः ॥
द्वार्यश्मनि पदं दत्त्वा प्रविशेयुस्तथा गृहम् ॥

2.76.80.6

अक्षता निक्षिपेयुश्च तथा वह्नौ समाहिताः ॥
विदश्य निम्बपत्राणि शयीरंश्च पृथक् क्षितौ

2.76.80.7

क्रीतलब्धाशनाश्चैव भवेयुः सुसमाहिताः ॥
न चैव मांसमश्नीयुर्व्रजेयुर्न च योषितम्

2.76.80.8

निवर्तयेयुस्तथैवैकं पिण्डं प्रेतस्य नित्यदा ॥
अशौचं यावदेव स्यात्तस्मिन्व्यपगते पुनः

2.76.80.9

श्मश्रुकर्म तदा कृत्वा स्नाताः सिद्धार्थकैस्तिलैः ॥
पूजयेयुर्द्विजान्राम परिवर्तितवाससः

2.76.80.2.76.10

अदन्तजातेस्तनये शिशौ गर्भच्युते तथा ॥
कार्यो नैवाऽग्निसंस्कारो नैव चास्योदकक्रिया

2.76.80.11

चतुर्थे च दिने कार्यश्चैवास्थ्नां राम संचयः ॥
अस्थिसंचयनादूर्ध्वं कुलस्पर्शो विधीयते

2.76.80.12

मृतस्य बान्धवैः सार्धं कृत्वाश्रुपतनं नरः ॥
अस्थिसंचयनादर्वाक् सचैलं स्नानमाचरेत्

2.76.80.13

स्नातश्च शुद्धिमाप्नोति ततः परमिति श्रुतिः ॥
अस्थ्नां गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत्

2.76.80.14

अस्थ्नां हि प्लावनार्थाय सागराणां महात्मनाम् ॥
गगनाद्भुवमानीता गङ्गा गगनमेखला

2.76.80.15

भगीरथेन धर्मज्ञ तपसा महता पुरा ॥
सगरस्य सुताः सर्वे नरकस्था भृगूत्तम

2.76.80.16

गङ्गातोयाप्लुता राम दिवमक्षय्यमागताः ॥
गङ्गातोयेन यस्यास्थि यावत्संख्यं निमज्जति

2.76.80.17

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया

2.76.80.18

तेषामपि तथा गङ्गातोये स्यात्पतनं हितम् ॥
पतितानां तु यद्दत्तं श्राद्धं चाथ जलाञ्जलिः

2.76.80.19

न तत्प्रेतः समाप्नोति गगने प्रविलीयते ॥
अनुग्रहेण सहिता प्रेतस्य पतितस्य तु

2.76.80.2.76.20

नारायणबलिः कार्यस्तेनानुग्रहमश्नुते ॥
अनादिनिधनो देवः शंखचक्रगदाधरः

2.76.80.21

अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ॥
यथाकथंचिद्यद्दत्तं देवदेवे जनार्दने

2.76.80.22

अविनाशि तु तद्विद्धि पात्रमेको जनार्दनः ॥
परस्मात्त्रायते यस्मात्तस्मात्पात्रं प्रकीर्तितम् ॥
पततां त्राणदस्त्वेको देवो मधुनिषूदनः

2.76.80.23

अमितबलपराक्रमो महौजा दुरितभयापहरो हरिर्महात्मा ॥
अघशतमलिनैश्च सेव्यमानो भवति नृणां त्रिदिवाय वासुदेव

2.76.80.76

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने प्रेतनिर्हणोनाम षट्सप्ततितमोऽध्यायः

2.76.80.3

2.77
॥ पुष्कर उवाच ॥
अशौचे तु व्यतिक्रान्ते स्नातः प्रयतमानसः ॥
स्नातानलङ्कृतान्भक्त्या गन्धवस्त्रोज्ज्वलान्द्विजान् ।

2.76.80.2

उदङ्मुखान्भोजयीत स्वासीनान्सुसमाहितान् ॥
मन्त्रोहाश्चात्र कर्तव्यास्तथैकवचनेन च

2.76.80.3

उच्छिष्टसन्निधावेकं तथा पिण्डं निवेशयेत् ॥
कीर्तयेच्च तथा तस्य नामगोत्रे समाहितः ।

2.76.80.4

भुक्तवत्सु च विप्रेषु पूजितेषु तथा धनैः ॥
विसृष्टाक्षयतोयेषु गोत्रनामानुकीर्तनैः

2.76.80.5

चतुरङ्गुलविस्तारमुत्खातं तावदन्तरम् ॥
वितस्तिदीर्घं कर्तव्यं कर्षूणां च तथा त्रयम्

2.76.80.6

कर्षूणां तु समीपे च ज्वालयेज्ज्वलनत्रयम् ॥
सोमाय वह्नये राम यमाय च समाहितः

2.76.80.7

जुहुयादाहुतीः सम्यक् तथैव च त्रयस्त्रयः ॥
पिण्डनिर्वपणं कुर्यात्प्राग्वदेव पृथक्पृथक्

2.76.80.8

अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ॥
मध्ये चेदधिवासः स्यात्कुर्यादभ्यधिकं ततः

2.76.80.9

अथवा द्वादशाहेन सर्वमेतत्समापयेत् ॥
संवत्सरस्य मध्ये चेद्यदि स्यादधिमासकः

2.76.80.2.77.10

ततो द्वादशके श्राद्धे कार्यं तदधिमासिकम् ॥
ततो द्वादशके श्राद्धे कार्यं तदधिकं भवेत्

2.76.80.11

संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥
प्रेताय तस्मादूर्ध्वं च तस्यैव पुरुषत्रये

2.76.80.12

पिण्डान्विनिर्वपेच्चात्र चतुरः सुसमाहितः ॥
संसृजं पृथिवीं दत्त्वा समानावेति चाप्यथ

2.76.80.13

योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥
प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत्

2.76.80.14

पृथक्पृथक् च कर्तव्यं कर्मैतत्कर्मणां त्रये ॥
मन्त्रवर्जमिदं कर्म शूद्रस्यापि विधीयते

2.76.80.16

अमन्त्रोच्चारणं स्त्रीणां कार्यमेतत्तथा भवेत् ॥
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ॥
अनेनैव विधानेन भक्त्त्या प्रयतमानसः॥१५।
प्रेतायान्नं सोदकुम्भं प्रदेयं नित्यं भक्त्या यावदब्दावसानम् ॥
एतत्कार्यं बान्धवैर्नैव कार्यः शोकः शोचन्नैव किञ्चित्प्रकुर्यात्

2.76.80.77

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये प्रेतक्रिया नाम सप्तसप्ततितमोऽध्यायः

2.76.80.1

२.७८
पुष्कर उवाच ॥
बुधैराश्वसनीयाश्च बान्धवैर्मृतबान्धवाः ॥
वचनैर्धर्मसंयुक्तैस्तानि चान्यानि मे शृणु

2.76.80.2

नित्यमस्मिन्निरालम्बे काले सततयायिनि ॥
न तद्भूतं प्रपस्यामि स्थितिर्यस्य भवेद्ध्रुवा

2.76.80.3

गङ्गायाः सिकताधारास्तथा वर्षति वासवे ॥
शक्या गणयितुं लोके न व्यतीताः पितामहाः

2.76.80.4

चतुर्दश विनश्यन्ति कल्पेकल्पे सुरेश्वराः ॥
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश

2.76.80.5

बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ॥
विनष्टानीह कालेन मनुजेष्वथ का कथा

2.76.80.6

राजर्षयश्च बहवः सर्वे समुदिता गुणैः ॥
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः

2.76.80.7

ये समर्था जगत्यस्मिन्सृष्टिसंहारकारणे॥
तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः

2.76.80.8

आक्रम्य सर्वं कालेन परलोकाय नीयते ॥
कर्म पश्यति नो जन्तुस्तत्र का परिदेवना

2.76.80.9

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ॥
अस्मिन्दुष्परिहार्येऽर्थे नास्ति लोके सहायता

2.76.80.2.78.10

शोचन्तो नोपकुर्वन्ति मृतस्य हि जना यदा ॥
अतो न शोचितव्यं स्यात्क्रिया कार्या सुयत्नतः

2.76.80.11

सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ॥
बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा

2.76.80.12

बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति ॥
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः

2.76.80.13

अर्वाक् सपिण्डीकरणात्प्रेतो भवति यो मृतः ॥
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत

2.76.80.14

पितृलोकगतश्चान्नं श्राद्धं भुङ्क्ते सुधासमम् ॥
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयत्नतः

2.76.80.15

देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ॥
मानुष्ये च तथाऽप्नोति श्राद्धे दत्ते स्वबान्धवैः

2.76.80.16

प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् ॥
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम्

2.76.80.17

एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः॥
नोपकुर्यान्नरः शोचन्प्रेतस्यात्मन एव च

2.76.80.18

दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् ॥
धर्ममेकं सहायार्थे कारयध्वं सदा नराः

2.76.80.19

मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरैर्यतः ॥
जायावर्ज्यं हि सर्वस्य यस्या भर्ता विभिद्यते

2.76.80.2.78.20

धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ॥
नन्वसारे त्रिलोके ऽस्मिन्धर्म कुरु मा चिरम्

2.76.80.21

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे त्वपराह्णिकम् ॥
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम

2.76.80.22

क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् ॥
वृकीवाऽरण्यमासाद्य मृत्युरादाय गच्छति

2.76.80.23

न कालस्य प्रियः कश्चिद्वेष्यश्चास्य न विद्यते ॥
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम्

2.76.80.24

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति

2.76.80.25

नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः ॥
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम्

2.76.80.26

आगामिनमनर्थं तु प्रतिघातशतैरपि ॥
न निवारयितुं शक्तास्तत्र का परिदेवना

2.76.80.27

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ।

2.76.80.28

अव्यक्तादीनि सर्वाणि व्यक्तमध्यानि चाप्यथ ॥
अव्यक्तनिधनान्येव तत्र का परिदेवना

2.76.80.29

देहिनोस्मिन्यथा देहं कौमारं यौवनं जरा ॥
तथा जन्मान्तरप्राप्तिर्धीरस्तत्र न मुह्यति

2.76.80.2.78.30

गृह्णातीव यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः॥
गृह्णात्येवं नवं देहं देहीकर्मनिबन्धनः

2.76.80.31

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः

2.76.80.32

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ॥
नित्यः सर्वगतःस्थाणुरचलोऽयं सनातनः

2.76.80.33

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमेव च ॥
तस्मादेवं विदित्त्वैनं नानुशोचितुमर्हथ

2.76.80.34

आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ॥
आश्चर्यवश्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्

2.76.80.78

।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बान्धवसमाश्वासनं नामाष्टसप्ततितमोऽध्यायः

2.76.80.1

2.79
॥ पुष्कर उवाच । ।
मृन्मयं भाजनं सर्वं पुनः पाकेन शुध्यति ॥
मद्यैर्मूत्रपुरीषैर्वा ष्ठीवनैः पूयशोणितैः

2.76.80.2

संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥
एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम्

2.76.80.3

शुध्यत्यातापितं पश्चादन्यथा केवलाम्भसा॥
अम्लोदकेन ताम्रस्य सीसस्य त्रपुसस्तथा

2.76.80.4

क्षारेण शुद्धिं कांस्यस्य लोहस्य च विनिर्दिशेत्॥
मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु

2.76.80.5

अन्येषां चैव भाण्डानां सर्वस्याश्ममयस्य च ॥
शाकरज्जुमूलफलवैदलानां तथैव च

2.76.80.6

मार्जनाद्यज्ञभाण्डानां पाणिना चाग्निकर्मणि ॥
उष्णाम्भसा तथा शुद्धिः सस्नेहानां विनिर्दिशेत्

2.76.80.7

शयनासनयानानां स्फ्यशूर्पशकटस्य च ॥
शुद्धिः संक्षेपणाज्ज्ञेया पलालेन्धनयोस्तथा

2.76.80.8

मार्जनाद्वेश्मनां शुद्धिः क्षितौ शोधनतः क्षणात् ॥
संमार्जितेन तोयेन वाससां शुद्धिरिष्यते ॥

2.76.80.9

बहूनां प्रोक्षणाच्छुद्धिः धान्यानां च विनिर्दिशेत् ॥
शुद्धिर्द्रुमाणा विज्ञेया नित्यसत्पवनेन तु

2.76.80.2.79.10

प्रोक्षणात्संहतानां तु दारवाणां च तक्षणात् ॥
सिद्धार्थकाणां कल्केन शृङ्गदन्तमयस्य च

2.76.80.11

गोवालैः फलपत्राणामस्थ्नां स्याच्छृङ्गवस्तथा ॥
निर्यासानां गुडानां च लवणानां तथैव च

2.76.80.12

कुसुम्भकुंकुमानां च ऊर्णाकार्पासयोस्तथा ॥
प्रोक्षणात्कथिता शुद्धिरित्याह भगवान् हि सः

2.76.80.13

भूमिष्ठमुदकं शुद्धं तथैव च शिलागतम् ॥
वर्णगन्धरसैर्दुष्टैर्वर्जितं यदि तद्भवेत्

2.76.80.14

शुद्धं नदीगतं तोयं सर्व एव तथाकराः ॥
शुद्धं प्रसारितं पण्यं शुद्धे चाश्वाजयोर्मुखे

2.76.80.15

मुखवर्जं च गौः शुद्धा मार्जारः श्वा च नो शुचिः ॥
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ॥

2.76.80.16

आत्मनः कथितं शुद्धं न परस्य कथञ्चन ॥
नारीणां चैव वत्सानां शकुनीनां शुनां मुखम्

2.76.80.17

रतौ प्रस्रवणे वृक्षे मृगयायां सदा शुचिः ॥
शुद्धा भर्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला

2.76.80.19

दैवकर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥
कृत्वा मूत्रपुरीषं वा स्नात्वा भोक्तुमनास्तथा ॥ १८ ।!
भुक्त्वा क्षुत्त्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च ॥
रथ्यामाक्रम्य वाचामेद्वासो विपरिधाय च

2.76.80.2.79.20

कृत्वा मूत्रपुरीषं च लेपगन्धापहं बुधः ॥
उद्धृतेनाम्भसा शौचं मृदा शौचं समाचरेत्

2.76.80.21

मेहने मृत्तिकाः पञ्च लिङ्गे द्वे परिकीर्तिते ॥
एकस्मिन्विंशतिर्हस्ते द्वयो ज्ञेयाश्चतुर्दश

2.76.80.22

तिस्रस्तु मृत्तिका ज्ञेयाः कृत्वा तु नखशोधनम् ॥
तिस्रस्तिस्रः पादयोश्च शौचकामैस्तु नित्यदा

2.76.80.23

शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥
त्रिगुणं तु वनस्थानां यतीनां च चतुर्गुणम्

2.76.80.24

मृत्तिका च विनिर्दिष्टा त्रिपूर्वं पूर्यते यया ॥
शुद्धिश्च काचभाण्डानां केवलेन तथाम्भसा

2.76.80.25

श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥
शुद्धिः पद्माक्षतोयेन मृगलोम्नां प्रकीर्तिता ॥
पुष्पाणां चन्दनानां च प्रोक्षणाच्छुद्धिरिष्यते

2.76.80.26

सिद्धार्थकैः शुद्धिमुदाहरन्ति लोम्नां तथा भार्गववंशमुख्य ॥
सर्वस्य जीवस्य विशुद्धिरुक्ता मृदा च तोयेन विगन्धलेपात्

2.76.80.79

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने द्रव्यशुद्धिर्नामैकोनशीतितमोऽध्यायः

2.76.80.1

2.80
राम उवाच ॥
वर्णानामाश्रमाणां च वेत्ति सर्वमिदं भवान् ॥
पुष्कर उवाच ॥
अहिंसासत्यवचनं ते स्याद्भूतेष्वनुग्रहः

2.76.80.2

तीर्थानुसरणं दानं ब्रह्मचर्यममत्सरम् ॥
देवद्विजातिशुश्रूषा गुरूणां च भृगूत्तम

2.76.80.3

श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा ॥
भक्तिश्च भूपतौ नित्यं तथा सच्छास्त्रनेत्रता

2.76.80.4

आनृशंस्यन्तितिक्षा च तथा चास्तिक्यमेव हि ॥
धर्मसामान्यमेतत्ते कथितं भृगुसत्तम

2.76.80.5

यजनं याजनं दानं तथैवाध्यापनक्रिया ॥
प्रतिग्रहं चाध्ययनं विप्रकर्माणि निर्दिशेत्

2.76.80.6

दानमध्ययनं चैव यजनं च यथाविधि॥
क्षत्त्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम्

2.76.80.7

क्षत्रियस्य विशेषस्तु प्रजानां परिपालनम् ॥
कृषिगोरक्षवाणिज्यं वैश्यस्य परिकीर्तितम्

2.76.80.8

शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः

2.76.80.9

तेषां जन्माद्वितीयं तु विज्ञेयं मौञ्जिबन्धनम् ॥
आचार्यस्तु पिता तत्र सावित्री जननी तथा ॥
ब्राह्मणक्षत्रियविशां मौञ्जीबन्धनजन्मनि

2.76.80.2.80.10

वृत्त्या द्विजाः शूद्रसमा भवन्ति यावन्न वेदे प्रभवन्ति राम ॥
ततः परं ते द्विजतां लभन्ते समस्तकार्येष्वधिदैवतं च

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने वर्णधर्माध्यायो नामाशीतितमोऽध्यायः ॥ ८०

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc