विष्णुधर्मोत्तरपुराणम् · अध्याय 1.78
॥ वज्र उवाच ॥
सप्तमस्ते महाभाग जातस्य दिवसस्त्वयम् ॥
वर्तते ब्रह्मणो ब्रह्मँस्तत्र मन्वन्तरक्षये
कथं कालस्त्वया नीतः पुरा कल्पक्षये तदा ॥
एतन्मे संशयं छिन्धि त्वं समः परमेष्ठिनः
मार्कण्डेय उवाच ॥
नौगतेन मया नीतः कालो मन्वन्तरक्षये ॥
भूयोभूयो महाभाग देवदेवप्रसादतः
कल्पक्षयनुप्राप्य दाहकाल उपस्थिते ॥
जनलोकगतेनाथ कालो नीतस्स वै मया
दाहकाले तदा वृत्ते प्रलयाम्भोधिसंप्लवे ॥
जनलोकादहं भ्रष्टः पतितो धरणीतले
नूनं तस्यैव देवस्य सा माया भीमविक्रमा ॥
एकार्णवे भूमितले पतितस्यापि मे नृप
जीवितं न परिभ्रष्टं नूनं तस्य प्रसादतः ॥
तदाहं नष्टविज्ञानः पतितोंऽभसि दारुणे
ऊह्यमानोम्बुकल्लोलैरितश्चेतश्च यादव ॥
अपश्यमानो जगतीं सशैलवनकाननाम्
निर्वेदं जीविते दीर्घे तदा भूतोस्मि शत्रुहन् ॥
सोऽहमार्तोऽथ निर्विण्णस्तस्मिंस्तूदकसंप्लवे
पश्यामि जलमध्यस्थं विपुलं वटपादपम् ॥
महाशाखं घनच्छायं स्निग्धपल्लवशोभितम् ॥ 1.78.१ ० ॥
तमहं बाहुभिर्गत्वा तस्मिन्न्यग्रोधपादपे ॥
(शाखासक्तं तु पश्यामि सवितारं तथोज्ज्वलम्
दिव्यं पश्यामि पर्यङ्कं सर्वरत्नोपशोभितम् ॥)
पर्यङ्के तत्र पश्यामि बालं कमललोचनम्
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥
पद्मपत्राभचरणं तदाकारकरं तथा
अलङ्कृतं चाभरणैः शिखण्डैकविभूषितम् ॥
एकं साहस्रमध्यस्थं भ्राजमानमिव श्रिया
स मां दृष्ट्वा तदा बालः स्मितपूर्वमुवाच ह ॥
यदि श्रान्तोऽसि धर्मज्ञ विग्रहं वदनेन मे
प्रविश्य विश्रमस्वाद्य यावद्वा रुचितं तव ॥
एवमुक्तस्य सञ्जाता व्रीडा यदुकुलोद्वह
ततोऽहमवशस्तस्य प्रविष्टो नृप विग्रहम् ॥
जगतीं तत्र पश्यामि सशैलवनकाननाम्
यथापूर्वं महाभाग नगराकारशालिनीम् ॥
देवदैत्योरगाकीर्णां समुद्रवरभूषणाम्
नृपराष्ट्रसमाकीर्णां वणिग्भिरुपशोभिताम् ॥
द्विजाध्ययनसंघुष्टां वर्णाश्रमसमाकुलाम्
सरित्पर्वतवृक्षाढ्यां यज्ञोत्सवसमाकुलाम् ॥
तां दृष्ट्वा कौतुकं जातं तस्य बालस्य कर्मणा
द्रष्टुमिच्छामि तस्यान्तं भ्रममाणस्ततस्ततः ॥
यदा नासादयाम्यत्र तस्य बालस्य चेष्टितम्
पूर्णे युगसहस्रेऽपि तमेवाहं तदा शिशुम् ॥
संप्राप्तः शरणं राजन्नहं भाव्यर्थेन चोदितः
ततोऽहं वदनात्तस्य निर्गतश्शशिसन्निभात् ॥
यदा तस्योदरेऽपश्यं त्रैलोस्य सचराचरम्
तथा पश्यामि सकलं बहिर्भूमिपसत्तम ॥
ततोऽहं पतितस्तस्य पादयोस्सुमहात्मनः
ततस्सोऽन्तर्हितो बालस्सह तेनैव शाखिना॥
एवं मया तस्य निशा नरेन्द्र संप्राप्य पुण्यं जठरे हि नीता।
महाशरीरस्य महानुभाव महाप्रमेयस्य पितामहस्य
इति श्रीविष्णुधर्मोंतरे प्रथमखण्डे मा० सं० बालप्रभावकथनो नामाष्टसप्ततितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0