विष्णुधर्मोत्तरपुराणम् · अध्याय 1.72
राम उवाच॥
स्निग्धवैडूर्यसंकाश यादोगणजलेश्वर ॥
त्वत्तोहं श्रोतुमिच्छामि कालसंस्था महाभुज
वरुण उवाच ॥
अनादिनिधनः कालो रुद्रस्संकर्षणः स्मृतः ॥
सर्वभूतसमत्वाच्च स तु रुद्रः प्रकीर्तितः
अनादिनिधनत्वेन स महान्परमेश्वरः ॥
निमेषादपि सूक्ष्मत्वात्सूक्ष्मसूक्ष्मतरो ह्यति
तस्य सूक्ष्मातिसूक्ष्मस्य कालस्य परमेष्ठिनः ॥
दुर्विभाव्या महाभाग योगिनामपि सूक्ष्मता
पद्मपत्रसहस्रं तु सूच्या वै भिद्यते यदा ॥
समकालं तु तद्भिन्नमबुधो मन्यते जनः
कालक्रमेण तद्भिन्नं सा तस्य द्विज सूक्ष्मता ॥
तस्य सूक्ष्मातिसूक्ष्मस्य न चातिसहते द्विज
नामसंख्या बुधैर्ज्ञेया ग्रहगत्यनुसारतः ॥
तत्र ताराग्रहाः पञ्च द्वौ च ज्ञेयौ महाग्रहौ
उपग्रहौ च द्वौ ज्ञेयावेवं प्रोक्ता नव ग्रहाः ॥
भौमज्ञजीवभृगुजसौरास्ताराग्रहास्स्मृताः
चन्द्रादित्यौ तथा राम विज्ञेयौ द्वौ महाग्रहौ ॥
उपग्रहौ च द्वौ ज्ञेयौ राहुः केतुश्च भार्गव
चण्डार्कगत्या कालस्य परिच्छेदमुखो यदा ॥
तदा तयोः प्रवक्ष्यामि गतिमाश्रित्य भार्गव
भगणेन समग्रेण ज्ञेया द्वादश राशयः ॥
त्रिंशांशश्च तथा राशेर्भाग इत्यभिधीयते
आदित्याद्विप्रकृष्टस्तु भागे द्वादशके तथा ॥
चन्द्रमास्स्यात्तदा राम मासार्धेन न संशयः
भागद्वादशकेनैव तिथ्यांतिथ्यां क्रमेण तु ॥
चन्द्रमाः कृष्णपक्षान्ते सूर्येण सह युज्यते
सन्निकर्षादथारभ्यं सन्निकर्षमथा परम् ॥
चण्डार्कयोर्बुधैर्मासश्चान्द्र इत्यभिधीयते
सावने च तथा मासि त्रिंशत्सूर्योदयास्स्मृताः ॥
आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः
सर्वर्क्षपरिवर्तैश्च नाक्षत्रो मास उच्यते ॥
तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः
अहोरात्रेण चैकेन सावनो दिवसस्स्मृतः ॥
आदित्यभागभोगेन सौरो दिवस उच्यते
चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसस्स्मृतः ॥
माने मासस्तु नाक्षत्रः सप्तविंशतिभिर्दिनैः
परिशेषेषु मासेषु मासस्त्रिंशद्दिनः स्मृतः ॥
सौरेणाब्दस्तु मासेन यदा भवति भार्गव
सावनेन तु मानेन दिवसं केन पूर्यते॥
ऊनरात्राश्च ते राम प्रोक्तास्संवत्सरेण षट्
सौरसंवत्सरस्यान्ते मानेन शशिजेन तु ॥
एकादशातिरिच्यन्ते दिनानि भृगुनन्दन
समाद्वये साष्टमासे दिनषोडशकान्विते ।
नाडीचतुष्टयान्ते तु तस्मान्मासोऽतिरिच्यते
स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हितः ॥
यदा चान्द्रेण मानेन पूर्णस्संवत्सरो भवेत्
तदा नाक्षत्रमानेन स मासो वार्षिको भवेत्॥
एवं कालस्य सूक्ष्मस्य प्रोक्तं मानचतुष्टयम्
येनयेन च मानेन यद्यत्कार्यं निबोध तत्
अब्दायनं तु ग्रहचारकर्म सौरेण मानेन सदा व्यवस्येत् ॥
सत्राण्युपास्यान्यथ सावनेन लोके च यत्स्याद्व्यवहारकर्म
स्यात्पूर्वकालक्षयपूरणाभ्यां चान्द्रेण मानेन युगं च राहोः ॥
नक्षत्रसत्राण्ययनानि चेन्दोर्मानेन कुर्याद्भगणात्मकेन
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० वरुणं प्रति परशुरामप्रश्नेऽर्कादिमासवर्णनं नाम द्विसप्ततितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0