भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.30

1.30.1

॥ मार्कण्डेय उवाच ॥
स ददर्श ततो गत्वा विपुलं सूर्यमण्डलम् ॥
चन्द्रमण्डलमानेन मानं यस्य च संस्कृतम्

1.30.2

यत्तत्प्रज्वलितं पिण्डं पिण्डितस्य विभावसोः ॥
देवदेवस्य यद्धाम वासुदेवस्य धीमतः

1.30.3

तस्य धर्मः परं पिण्डं ब्रह्माण्डान्तरदीपनम् ॥
आगारं सर्वभूतानां जठरस्थं हुताशनम्

1.30.4

पञ्चधाऽवस्थितं देहे सर्वेषां प्राणिनां स्मृतः ॥
आलोचकः पाचकश्च रोचको गञ्जकस्तथा

1.30.5

भ्राजकश्च तथा देवः सर्वेषां प्राणिनां तथा ॥
यन्मयं देहिनां चक्षुर्यश्चक्षुर्दक्षिणस्तथा

1.30.6

स वै देवातिदेवस्य वासुदेवस्य कीर्तितः ॥
अग्नौ प्रास्ताहुतिः सम्यङ्नित्यं यत्रोपतिष्ठते

1.30.7

यस्य दत्तं सदा तेजः सर्वेषामेव तेजसा ॥
यस्मादम्बुधरोत्पत्तिर्यस्माद्वर्षणसम्भवः

1.30.8

यस्मात्प्रवर्तते सर्वं कालचक्रं तथैव च ॥
औषधीनां परः पाकः परं यस्मान्न विद्यते

1.30.9

तन्मण्डलमथासाद्य कृत्वा रूपं तु तैजसम् ॥
विवेश मण्डलं भित्त्वा तन्मध्यं शङ्करस्तदा

1.30.1.30.10

सोऽङ्गुष्ठमात्रं पुरुषं दृक्शक्तिमिव वेष्टितम् ॥
तैजसं दृष्टवान् रुद्रः तुष्टाव च महाद्युतिः

1.30.11

रुद्र उवाच ॥
त्वां नमस्यामि देवेश तेजसां तु परं निधिम् ॥
आराध्यस्त्वं वरेण्यस्त्वं सर्वभूतभवोद्भवः

1.30.12

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं तथा भवान्॥
अनन्तश्चाप्रमेयस्त्वं सूक्ष्मात्सूक्ष्मतरस्तथा

1.30.13

मया समर्पितं तेजः सकलं त्वयि भास्कर ॥
मत्तस्त्वं न हि भिन्नोऽसि न च देवाज्जनार्दनात्

1.30.14

अहं विष्णुर्भवान् विष्णुर्ब्रह्मा विष्णुः प्रभाकर ॥
अस्माकं सकलं धाम त्वयि तिष्ठति भास्कर

1.30.15

धामकार्यं हि क्रियते येनास्य जगतः सदा ॥
प्रजानां तु प्रसवनात्सवितेति निगद्यसे

1.30.16

रसानाञ्च तथा दानाद्रविरित्यभिधीयसे ॥
आदित्यस्त्वं तथा दानान्मित्रस्त्वं मैत्रभावतः

1.30.17

पुष्णासि सकलाँल्लोकांस्तेन पूषा निगद्यसे ॥
धारणाच्च तथा धाता यमनादर्यमा तथा

1.30.18

अंशुस्त्वमंशुधारित्वाद्विसर्गाद्वरुणस्तथा ॥
भवः सौभाग्यवाच्यत्वात्त्वष्टा सर्वक्रियाकृतेः

1.30.19

सर्वजन्तुसमत्वाच्च विवस्वानभिधीयते ॥
क्रमणाच्च तथा विष्णुरीशत्वादिन्द्र उच्यते

1.30.1.30.20

तस्मात्त्वया प्रजाकार्यं कर्तव्यमविचारितम् ॥
स्थावरैर्जंगमस्थैर्वा भूमिर्भाराभिपीडिता

1.30.21

कदाचिजङ्गमैर्भूमिः सूर्यभारेणपीडिता ॥
कदाचित्स्थावरैरद्य भारद्वितयपीडिता

1.30.22

अर्जुने नृपतौ वृद्धिः परा भास्कर शाखिनाम् ॥
दैत्याः क्षत्त्रियतां प्राप्य पीडयन्ति च मेदिनीम्

1.30.23

सूर्य उवाच ॥
तव दर्शनकामेन प्रागेव न कृता मया ॥
स्थावरैर्जङ्गमैः सर्वां प्रकृतिस्थां वसुन्धराम्

1.30.24

यथा पूर्वं तथाऽद्याहं करिष्यामि महेश्वर ॥
साम्प्रतं ब्राह्मणो भूत्वा चार्जुनेनेव पादपान्

1.30.25

सर्वान्विनाशयिष्यामि शासनेन तथार्जुनम् ॥
वसिष्ठाद्योजयिष्यामि ततोंशेन वसुन्धराम्

1.30.26

भृगुवंशे करिष्यामि ततो निःक्षत्त्रियां प्रजाम् ॥
मार्कण्डेय उवाच ॥
इत्येवमुक्तस्त्रिपुरान्तकारी सूर्येण सद्रश्मिविराजितेन ॥
जगाम धाम स्वमसौ बिभेति यत्सर्वलोकाञ्जगतां प्रधानः

1.30.30

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आदित्यदर्शनं नाम त्रिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc