भाषा

ENहिગુ
ग्रंथ पाठ

विनयसूत्र · अध्याय 16

16.1

। चत्वारि संक्षोपकरणानि ।

16.2

। पदार्थतथात्वे विप्रतिपत्तिर् वर्जनं सापत्तिका सामग्र्यदानं कर्माणि ।

16.3

। प्रथमनिमित्तस्यैकोतीकरणेन व्युपशमनम्* ।

16.4

। अनेन च शुद्धिदाने च द्वितीयनिमित्तस्य ।

16.5

। त्रितीयनिमित्तस्य प्रतिकरणे निवारणनियुक्तत्वादानेन च ।

16.6

। दापनेनान्त्यस्य ।

16.7

। सभ्यै स्वयम् अशक्तौ विवदित्रोः संप्र[58ब्5]तिपादनम्* ।

16.8

। भिक्षुभिर् अभिरुचितैः ।

16.9

। तयोर् एकतः स्थलस्थानारोचनं ।

16.10

। सम्मतिर् एषां संघेन साततिकानां ।

16.11

। अनुत्द्योजिनष्कलहे त्र संमन्तव्यता ।

16.12

। लज्जिनः शिक्षाकामस्य ।

16.13

। सुविनिश्चितस्य विनये ।

16.14

। कुशलस्याधिकरणवृत्ते ध्याचारे च ।

16.15

। विनिविष्टस्य ।

16.16

। धीर् अस्यासंरब्धय प्रस्थानस्य ।

16.17

। समस्य ।

16.18

। अवगन्तुः ।

16.19

। प्रत्यायकस्य ।

16.20

। [58ब्6] विदुषः ।

16.21

। अनुपशमने तैः ।

16.22

। संघे निक्षेपः ।

16.23

। असक्तौ तेन व्यूढानां संमतिः ।

16.24

। अनूनानां संघपरिमाणात्* ।

16.25

। समन्तृत्वं वर्गस्य स्वतो सक्तौ व्यूढकेषु ।

16.26

। अक्रिताव् उत्तरस्यासक्तौ यत आदानतन्त्रनिक्षेपः ।

16.27

। प्रत्यागते मूलसंघे नाधिकरणसंचारकसंमतिः ।

16.28

। तेन सस्थविरे सप्रातिमोक्षे न्यत्र संघ उपनिक्षेपः ।

16.29

। [59अ1] ॥ त्रिमास्यात् कालस्य दानं वृत्तारोचनपूर्वकं ।

16.30

। अस्यैतत्* ।

16.31

। प्रत्यर्पिते तेन सूत्रधरविनयधरमातृकधरेषु ।

16.32

। षण्मास्याः ।

16.33

। तैः प्रभाविते स्थविरे अपर्यन्तस्य ।

16.34

। वर्जयेद् असौ ततः स्वीकरणं कस्यचित्* ।

16.35

। ओषाटुकदन्तकाष्ठात्* ।

16.36

। एकासननिषदनैकचंक्रमचंक्रमणालापसंलापाश् च ।

16.37

। अनुपधूत इदं वदेत् तेषां च [59अ2] आयुष्मन्त अलाभानालाभादुर्लभो न सुलभा ये यूयं स्वाख्याते धर्मविनये प्रव्रज्या कलहजाता विहरत भण्डनजाता विकृहीता विवादम् आपन्नाम् आयुष्मन्तः कलहो मा भण्डनं विग्रहो मा विवादः ॥ नास्ति द्वयोर् युध्यतो जय एकस्य जय एकस्य पराजयः । नास्ति द्वयोर् धावतो जय एकस्य जय एकस्य पराजय [59अ3] इति ।

16.38

। बहुतरमतेन संस्थानम् इत्य् अपरः संप्रतिपादनप्रकारः ।

16.39

। धर्मविनिश्चितावश्यसंभवो न वृत्तिविनिश्चितौ ।

16.40

। विवदितृगतत्वात् तद्गतायाः प्रत्यवगतेः ।

16.41

। खरमर्थिप्रत्यर्थिकैर् गृहीतत्वे प्रगाढम्* च व्याढत्वे तेषां भेदाशंकितायाम् अस्य संस्रयणं ।

16.42

। असंवरणकरणीयेत्वे र्थस्य ।

16.43

। परिक्षिप्तेषु स्थविरपर्यन्तेषु ।

16.44

। मूलसंघेन ।

16.45

। [59अ4] शलाकाग्रहणेनात्र मतस्य गृहीतव्यता ।

16.46

। शलाकाचारकसंमतिः ।

16.47

। शलाकानां तेनोपस्थापनं द्विप्रकाराणां ।

16.48

। अजिह्मावंकाकुटिलसुवर्णसुगन्धस्पर्शवत्त्वे धर्मशला[का]स्व् इह रस्म विपर्ययः ।

16.49

। सन्निपातायारोचनं : संघे सर्वैः सन्निपति[त]व्यं* । शलाकाश् चारयिष्यामीति ।

16.50

। तथा चेद् अधर्मशलाकाधिक्यसंपत्तिं* [59अ5] मन्येत न छन्दानुप्रदानेन सामग्र्ये चारयेत ।

16.51

। दक्षिणेन पाणिना धर्मशलाकानां चारणकाले ग्रहणं वामेनेतरासां ।

16.52

। प्रतिछाद्यैनाश् पूर्वाः प्रकाशिकृत्योपयाचनम्* । स्थविरे यं धर्मशलाका अजिह्मा अवंका अकुटिल्[आ] सु[व]र्णा सुगन्धा सुखसंस्पर्शा गृहाणेति द्वयोर् वाचोर् इतरां मृगय तेन प्रयच्छेत्* ।

16.53

। यथा धर्मोद्भवम्* [59अ6] मन्येत तथा चारयेच् छन्नम् वा वृतं वा ।

16.54

। आयुस्मन्, उपाध्यायेन ते धर्मशलाका गृहीता आचार्येण समानोपाध्यायेन समानाचार्येणाल[प्त]केन न संलप्तकेन संस्तुतकेन सप्रेमकेन त्वम् अपि धर्मशलाकं गृहाण मात्रेतैः सार्धं विरुक्षणं भविष्यतीति वा कर्णमूले तन्तुनायं ।

16.55

। नाप्तधर्मशलाकां गृह्णीयात्* ।

16.56

। नापृष्ट्वा सूत्रधरविनय[59ब्1]धरमातृकधरान्* ।

16.57

। न भेदोद्भवक्षान्त्या नाधर्म्यस्य न जानन्नयो भविष्यत्तां ।

16.58

। समत्वे महाश्रा[व]कम् उद्देश्यैकधर्मशलाकाग्रहणं ।

16.59

। नाधर्मेणाप्य् एवम् उपशान्तं खोटयेत ।

16.60

। निरवद्यचोदनशुद्धिदानं ।

16.61

। चतुर्धा तच्चोदनावस्तुकमन्यानुष्ठानवशात् प्रतिकृत्यनपेक्षणाद् उन्मत्तकृतेन च ।

16.62

। त्रिष्व् आद्येषु स्मृतिविनयदानं ।

16.63

। अमूढविनयस्यान्ते

16.64

[59ब्2] त्रयः सापत्तिकत्वात् संक्षोभाः ।

16.65

। निर्विक्रियसविक्रियश् च द्विप्रकारः प्रादेशिकः सकलसंघगतश् च ।

16.66

। पक्षापरपक्षव्यवस्थानेन ।

16.67

। प्रथमतः प्रतिकरणं प्रतिज्ञाकारकः ।

16.68

। संमुखविनयो द्वितीयस्मात्* ।

16.69

। तृतीयस्मात् तृणप्रस्तारकः ।

16.70

। बहूनाम् अर्थे त्रासंघे देश्यानाम् एकेन प्रतिकरणं ।

16.71

। सह चानेकासां ।

16.72

। याम् इति चोलिङ्गन[59ब्3]तो ज्ञानोद्भासनेन ।

16.73

। पक्षान्तरे च समेते ।

16.74

। नाप्रतिज्ञातस्य वृथा वा प्रतिदेशनायारूढिः ।

16.75

। कल्पते सह्येन चोद्यत्वं ।

16.76

। तथा चोदकत्वं ।

16.77

। अनियमो ऽत्र संख्याविशेषाणां ।

16.78

। सम्वृतत्वं कायवाग्भ्यां पिटकानां वेतृत्वमदीयत्वम्* ।

16.79

। विपर्ययतो धर्मविनयतद्विपर्ययाणां संघमध्ये संचिन्त्येति त्रिकान्वितं चोदकम् आदृयेरन् ।

16.80

। उन्मोटनं दुः[59ब्4]शीलविपर्य[य]दीपिनोः ।

16.81

। संज्ञपनम संज्ञपनमरेन्तः पिटकानां धारयितुरन् एवंविधस्य समनुयुञ्जीरन्न् एनं भावः प्रतिबोधाय स्थानस्थापनेन ।

16.82

। कालदेशेर्यापथानुआनानि स्थानम्* ।

16.83

। अरूढिस्थानान्तरसंचारे कालष्योपसंपत्तौ च चोदनस्य ।

16.84

। प्रतिज्ञानं चोदितेन निष्ठा दृष्टसत्यत्वे प्रकृष्टतरत्वे च गुणतो न्यस्य चतुष्प्रमाणीकरणं गृहिणो पि ।

16.85

। संवा[59ब्5]दनं सात्यत्वे ।

16.86

। न संदिग्धतायापत्तौ ज्ञातत्वम् ।

16.87

। प्रतिज्ञानवद् अतो निश्चयः ।

16.88

। अप्रत्यवगतिर् अवज्ञानम्* ।

16.89

। प्रतिज्ञाप संघे वजानता निर्धारणनियोगदानम्* ।

16.90

। तत्स्वभावैषततत्वाद् अस्य तत्प्रभावैषियत्वं ।

16.91

। प्रणिधिकर्मरूपेणास्य केश् चिद् आम्नानम् ।

16.92

। असाधु तन् सूत्रविरोधात्* ।

16.93

। अनिष्टेस्वव्युपशमथेनापवर्गीकरणस्य ।

16.94

। तज्जनीयादीना[59ब्6]म् एतत्त्वेनाव्यवस्थापनात्* ।

16.95

। प्रतिपतो स्यैतद् अवज्ञानम् इति च प्रत्यवगतावदर्शकत्वप्रतीतायाजातत्वभावात्* ।

16.96

। न व्युपशमार्थमौत्सुक्यं नापद्येरन्* ।

16.97

। सर्वशमथानां कृत्याधिकरणे वतारः ।

16.98

। नानर्हस्य पूरणे संघव्यवहृतौ सभ्यत्वं ।

16.99

। सोपसंपत्कानाम् ऐतरेधिकारः ।

16.100

। अर्हत्वं पुंसां स्त्रैणे ।

16.101

। व्युपशा[60अ1] ॥न्तत्वं च्युतौ जीविताद् उपसंपदो वा ।

16.102

। वर्जता-पत्तावान्यपक्ष्यतात्* ।

16.103

। प्रक्रान्ताव् अन्येन दीर्घरोगजातस्य स्पृष्टौ वा ।

16.104

। अर्थादायिनो भियुक्तस्य वा ।

मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc