विनयसूत्र · अध्याय 17
। परः प्रातिमोक्षसंवरेण प्रव्रजितस्य वन्द्यः ।
। समानश् च वृद्धः ।
। अनन्यव्यंजनः ।
। पुमांश् चाहीन [स्त्रि]याः ।
। भूम्यन्त[60अ2]रस्थध्वस्तभिक्षुणीदूषकाधर्मपक्ष्यनानासंवासिकानन्तर्यच्छ्[अ]यितसमापन्नव्यग्रान्यचित्तस्यष्ठाभिमुखान्तर्गृहभक्ताग्रस्थवर्जम् ।
। आगारिकस्य प्रव्रजितः ।
। बुद्धः सर्वस्य ।
। कुर्वीत्* विहारम्* ।
। एकस्य गन्धकुटेर् मध्ये पक्षस्य कर्तव्यता ।
। तदभिमुखं द्वारकोष्ठकस्य ।
। चतुरस्रस्य साधुत्वं ।
। त्रिशालस्य च ।
। प्रतिगृह्णीत्*[.. .. ।
।] वसेद् विहारे
[60अ3] अनुजानियुर् अन्येषां सांघिके वस्तुनि संघाय पुद्गलाय वा भिक्षवे वासवस्तु(न)करणं ।
। संश्चेद् दानपतिर् अनुज्ञातेन ।
। कल्पन्ते प्रतिक्रमणकबहिरन्तर्वा नगरस्य ।
। व्यवध्यर्थ भित्तिकरणेन स्वरूपे संरागप्रत्ययं विहन्युः ।
। अंजलिपूरणिकया पायनेन मातृग्रामम् अनुग्[ऋ]ह्णीत नाच्छिन्नधारादानेन ।
। अर्हस्तु काल[त्]व्[ए] न्तर्वर्षम् आ[60अ4]गतो लाभे ।
। बहुतरत्वं वर्षाकालस्य तल्लाभकालः ।
। न कर्मण्यलाभो भोक्ता ।
। देयत्वम् अप्राप्नुवल्लाभे भक्तस्य ।
। नान्यलाभे सन्निपत्* ।
। निर्दोषम् अतदर्थं गतस्य वेलाप्राप्तौ विहारान्तरे भोजनम्* ।
। दुर्भक्षे चानन्तस्य स्वे ।
। अतिरिक्ततायां भिक्षु मात्रर्थाद् ग्रहणन् न विहारम् अव्युपेरन्* ।
। दानपतेः प्रतिसंस्करणायोत्साहणम् ।
। [60अ5] असंपत्तौ सांघिकस्य यावच् छक्तिविनियोगः ।
। स्वयञ् च प्रतिसंस्करणम् ।
। लाभग्राहिणो विहारस्य सम्मार्जनम्* ।
। न प्रसादलाभस्य वैहारत्वं ।
। बध्वा द्वारम् विहारात् प्रवरेयुः ।
। पालञ् च स्थापयित्वा ।
। पिण्डकस्यासत्वो स्मै दा[ना]म्* ।
। नानिर्याय चौरतन्त्रत्वाभावं सद्वारम् अनुप्रयच्छेत ।
। दर्शनमतिरुक्षशरणपृष्ठं मा त्वं ज्वरित इति [60अ6] संज्ञया ख्यापनम् इत्य् अत्रोपाय[ः] ।
। निवासानाम् अपितृमात्रादेः प्रत्यभिज्ञाने ।
। नाप्रत्यभिज्ञाताय सभयताया द्वारं दद्[य्]उः ।
। धारयेद् आरण्यकष्कुक्करं ।
। उत्थायैवासौ काल्यम् अवलोकयेद् विहारम्* चैत्या[ङ्]गनं च ।
। [..] उच्चारश् चेत् तत्कृतः छोरयेत्* प्रस्रावश् चेद् उ[द्धू]षेन्नखरिकाभिलिखितं चेत् समं कुर्यात्* ।
। म[ण्ड][60ब्1]लकम् एषां स्थानेषु ।
। पात्रशेषस्यास्मै दाने ।
। बहिश् चेत्यविहारोपविचारतः ।
। यवैष्टम् ईर्यापथा उद्देशदाने ।
। धातुसाम्यं पृष्ट्वा साम्[ई]चीकरणपूर्वकं न[ः]कस्य ग्रहणायेर्यपथभजणं ।
। बद्धक्रतोः ।
। अनवनतकायचित्तस्य ।
। रिजोः ।
। चंक्रम्यमाणे पदपरिहाणिका चंक्रम्यस्य ।
। स्थानस्य तिष्ठति ।
। निषण्णे निपन्ने च नि[60ब्2]षादस्य ।
। नीचतरासने ।
। उक्ते नवकस्य ।
। उक्ते डुकिकयानुक्ते ।
। बहुत्वे ग्राह्यस्यावलोकनम्* ।
। मुक्त्वो श्रमणोपविचारं स्वाध्यायनम्* ।
। दर्शनोपविचारे स्थित्वा ।
। अववादम् एकान्ते पक्रम्य संवादयेत्* ।
। सुस्वाध्यायितं सुपरिमृष्टं निःसंधिग्धं कृत्वोद्देशधारणं च ।
। संमन्ये[र]न् विहारभग्तौद्देशकयवागूखाद्यकफल[60ब्3]भाजकम् ।
। अवरमात्रकस्य ।
। शिष्टम् अन्येद्यु(ह्य)श् चार्यं तदाख्यम् ।
। भाण्डगोपकं* ।
। वर्षाशा[ट्]याः (॥) कठिनस्य चीवराणां (॥) भाजकञ् चो
पधिवारिकप्रेषकौ ।
। भाजनवारिकम्* ।
। चारणे स्यैषां व्यापारो भुक्ते च गोपने ।
। पानीयवारिकं ।
। प्रासादकवारिकं ।
। अवलोक्य तेनाच्छटाशब्दकरणपूर्वक(मु)ं संस्थाभजसा[60ब्4]नानां प्रव्रजितानां ।
। संस्थायां विनियोजनम्* ।
। तद्यथान्यशब्दतया भोजने सुसंवृततया (॥) सुप्रतिछन्नतया चैत्यवन्दने यथावृद्धिकया च ।
। परिषण्डाधारिकं ।
। तत् प्रथतो भुक्त्वा वंसम् आदाय काकचटकपार([त])तादीनां भुञ्जनेषु तेन वारणं ।
। शयनासनवारिकं
मुण्डशयनासनवारिकं ।
। लोकप्रवेशसकल्पि[60ब्5]कतयोः भोजने
छण्डिकवारिकम् ।
। सप्रणामां वचम् अन्धकारवन्दनस्थाने निश्चारयेत्* ।
। लोपचारप्राप्तप्रसृतो न्यस्य वन्दनेन वन्देत्* ।
। कृतत्वम् अस्य ब्राह्म्यां षामीच्यम् ।
। न सान्तरस्य सामीचीं* कुर्यात्* ।
। न वन्दमानं नारोग्ययेत्* ।
। नावन्द्यत्वम् अतीतायातत्प्रत्ययाः ।
। न पलिगुद्धं वन्देत्* ।
। [60ब्6] न पलिगुद्ध चरेत्* ।
। नैनां स्वीकुर्वीत्* ।
। न पलिगुद्धम्* ।
। द्वयं पलिगोधो भक्ष्यमाणेन वा दन्तकाष्ठाद् अशुचिना वा तद्भूमिपरिकर्मणात्* ।
। पलिगोध तत्र नाग्न्यम् एकचीवरता चदेवन्दने पञ्चमण्डलकेन जंघप्रपी[ड]निकया च ।
। न क्षुत्*वन्तं जीव्[ए]त्य् अभिवन्देद् उत्सृज्यान्त्यावयसमागारिकां च ।
। नवकम् एनम् आरोग्ययेत ।
। [61अ1] । । वन्देद् वृद्धम्* ।
। क्षुत्वा च ।
। नायुष्मन् नामगोत्रवादेन तथागतं समुदाचरेत्* ।
। नास्य निरूपापदं नाम गोत्रम् वा गृह्णीयात्* ।
। न वृद्धस्य ।
। प्रतिरूपम् अत्र स्थविरायुष्मतोर् उपपदत्वम्* ।
। न पूर्वत्र ।
। गमनागमनसंपन्नव[स्तु]नि नवकर्मिको विहारं प्रति स्थापयेत्* ।
। वृक्षवापीचंक्रमैः ।
। उपविचारेण ।
। अव्याकीर्णवि[61अ2]लापशब्दनिर्घोषे ।
। कारणम् अनुज्ञाते दात्राविहारकरणार्थाद् वस्तुनस् तत्करणभाण्डस्य ।
। लयनस्यास्य स्थापनाय दानम्* ।
। क्रयस् तदुपयोज्यस्य तैलादेः मात्रया ।
। भोजनं नवकर्मकेण तादृशस्य यादृश्यं यवने ।
। निर्विहारस्य तस्य स्थानस्य ।
। प्रग्रहणं स्नेहलाभस्य ।
। सामन्तकविहारे पञ्च[पु]रत्वं विहारेषु पर्य[61अ3]न्तः ।
। त्रिपुरत्वं भिक्षुणीनां ।
। अतिरेचनं गन्धकुटिवाताग्रपोतिकयोः पुरद्वयेन ।
। निरवद्यम् एषां पुरोजित्वे भरस्य पुरोद्वेष्टनम्* ।
। प्रारब्धस्य च वृहत्तो ल्पस्य वा करणार्थं भञ्जनम्* ।
। बृहत्वार्थं [स्तू]पप्रतिमयोः ।
। सीर्णतानिमित्तं तुल्ययोर् अपि निष्ठितयोश् च ।
। प्रदेशस्य च प्रतिसंस्करणार्थम् ।
। अवतारणञ् च कत्रादीनां ।
। अन्या[61अ4]रोपनायापि ।
। नैतदर्थम् अनुष्ठापिता नयेत्* ।
। जातकादिचित्रबुद्धवचनलेखनयोश् च ।
। भंग्यस्यैष विशेषस्य क्रियायै ।
। करणम् अकृतावारभ्यान्येन शेषस्य ।
। देयत्वम् अर्धोत्थिते संघार्थञ् चे[द्] उत्थानकस्य ।
। पश्चाद्भक्तं तद्दाने कालो हेमन्तश् चे[द्] ग्रीष्मश् चेति पूर्वभक्तं ।
। भक्तकरणीयकालस्य शेषणं ।
। नासज्जी[61अ5]भूय ततो यत्रायां प्रवर्तेत्* ।
। प्रक्षालितं हस्तपात्तत्वं तदन्तः ।
। पुरोभक्तिकम् उत्थानकारकः समादापयेत्* ।
। पश्चद्भक्ते पानकहस्तपादाभ्यंगं ।
। नयनानां द्वारकरणं ।
। कचाटदानम्* ।
। आयामकटकचर्मखण्डिकयोः ।
। वातायनकरणम् ।
। मध्येबहिःसंवृतस्याभ्यन्तरे विशालस्य समुद्राकृतेः ।
। जालि[61अ6]कादानम्* ।
। कवाटिकायाश् चक्रिकाघटिकाशूचीनां ।
। अजपादकदण्डधारणम्* ।
। अरामथैन वाननं ।
। करणं प्रासादस्य [व्य]यनाग्रतः ।
। सप्ताष्टेष्टकास्तरदानम्* ।
। तदुपरिन्यासपट्टस्य ।
। तस्य स्तंभपंक्तेः ।
। तेषां त्रिकटपत्राणां ।
। तेषां सिकानां ।
। तासां धरणीनां ।
। तासां पट्टानाम्* ।
। [61ब्1] तेषाम् इष्टकास्तरस्य ।
। तस्य क्षोदकस्य ।
। अप्रपातार्थं वेदिककरणं ।
। अकम्पनायाम् अस्याम् अवसंगदानं ।
। लोहकीलकैर् अस्य संपर्वणम्* ।
। सोपानस्यातिरोहार्थं करणं ।
। अधःशैलमयस्य ।
। मृन्मयस्य ।
। मध्ये ।
। उपरि दारुमयस्य ।
। अधिरोहेन् निःश्रयण्या ।
। दारुवंस(ं)रज्जुमय्याम् अपि ।
। इष्टकास्तरणपु[61ब्2]ष्करिणिकायां द्वारकोष्टके चाकर्दमीभावाय दानम्* ।
। तदुपरि क्षोदकस्य ।
। सुधायास् तस्य ।
। अभावे काष्ठपट्टस्य पदत्राणार्थम्* ।
। अन्तरे न्तरे वैष्टकायाः ।
। चैत्ये प्य् एतत्* ।
। कृतत्वम् अस्याव्याममात्रे कृततायाम् ।
। सि[ं]हानस्य करणञ् चतुरस्रकस्य ।
। सि[ं]हमुखत्वं पादकेषु ।
। ग्रहणाय संचारणे लोहकण्टकानां चतु[61ब्3]ष्के प्य् एषु दानम् ।
। पट्टिकाभिः दानम्* ।
। मसूकरस्यादानम्* ।
। उपरि वितानस्य ।
। लम्बनानां सोपानकस्य करणम् इष्टकामयस्य स्थिरे ।
। संचार्ये काष्ठमयस्य ।
। असंपत्तौ निःश्रयणिकायाः ।
। पादपीठस्य करणम्* ।
। पत्रवैभङ्गुकानाम् उपरि दानम्* ।
। कक्षपिण्डकस्य वा ।
। पादयोर् आलम्बनम् अत्रा[61ब्4]र्थः ।
। संपत्तिर् अस्य शिलया काकचटकयोः ।
। पारावतेभ्यो भुञ्जानाना[मिवि]हेठाय जालदानम्* ।
। चातुर्विध्यम् अस्य ।
। मौञ्जे वावल्वजः साणकः कार्प्यासिका इति ।
। चक्रिकाणां चतुर्षु कोनेषु दानं ।
। तासु बन्धः ।
। स्फुट(ना)नं क्लेदश् च काष्ठस्य तस्माद् अयोमयीनां ।
। छिद्रस्यास्यैकदेशे करणम् ।
। भुक्ते प्रवे[61ब्5]शाय ।
। वेलायामस्य पिधानम्* ।
। पानीयेन प्रासादस्याप्लवनाय वर्षासु पट्टानां दानं [स्त]म्भान्तरेषु ।
। आलोकाय प्रदेशम् उत्सृज्य ।
। अभावे किटकानां किलिञ्जानाम् वा ।
। वार्षिकमासचतुष्टयान्ते पनयनम्* ।
। करणं मण्डलवाटस्य ।
। शीतलस्थानतायै बहिः भित्तिदानम्* ।
। स्तम्भपंक्तेः ।
। वा[61ब्6]तयनमुक्तिः ।
। आसनोत्तमसमानकक्ष्यापरिमानान्तानाम्* ।
। जालिकाकवाटिकयोः दानम्* ।
। करणभक्ताग्न्युपस्थापनचंक्रमणशालानाम्* ।
। अवच्छादनकानाञ् च कण्ठादेशपरिक्षिप्तानां ।
। कल्पते भूमिगृहकम्* ।
। प्रासादवद् अत्र वेदिकागतं ।
। वेष्टिकत्वञ् च कन्थायां प्रव्रजितारामस्य ।
। [62अ1] । । मुक्तोदकभ्रमत्वञ् च भित्त्[ए]ः ।
। वाटपरिखाभ्यां च ।
। पुद्गलस्य च विहारः सपरिकरः ।
। करणं नीलादिकृत्स्ननिमित्तामुखीभावाय नीलादिचतुर्विध्यस्य लयनभित्तीनां ।
। कल्पत्[ए] चित्रितत्वं प्रव्रजितारामस्य ।
। द्वारे यक्षाणां चित्रणं वज्रधरादिहस्तानां ।
। द्वारकोष्ठके संसारचक्रस्य ।
। गण्डपञ्चकस्य करणं ।
। ऊर्धं द्[ए]वमनुष्या[62अ2]णाम् ।
। चतुर्णां द्वीपानां ।
। औपपादुकानां सत्वानां घटियंत्रवच्च्यवमानानाम् उपपद्यमानानां च रागद्वेषमोहानां पारावतभुजंगसूकराकारेण ।
। ग्रस्यमानयोर् मोहेन पूर्वयोः ।
। प्रतीतसमुत्पादस्य सामन्तके द्वादशाङ्गस्य ।
। सर्वस्यानित्यतया ग्र[स्त]स्य ।
। ऊर्धं बुद्धस्य शुक्लं निर्वाणमण्डलम् उपदर्शयेत्* ।
। गाथयो[62अ3]र् आरब्धम् इति द्वयोर् अधस्तात्* ।
। आख्यातुर् अस्य स्थापनम्* ।
। सामन्तकेनास्य महाप्रातिहार्यमारभङ्गयोः ।
। प्रासादे जातकानां ।
। मालाधाराणां यक्षाणां गन्धकुटिद्वारे
उपस्थापनशालायां स्थविरपंक्तेः ।
। गन्*जद्वारे ङ्कुरहस्तानां यक्षाणां ।
। खाद्यहस्तानां भोजनमण्डपे ।
। जेन्ताकाशालायाम् अङ्कुरकशहस्तानां कुभा[62अ4]ण्डानां चाग्निद्वीपयतां ।
। अग्निशालायां मेचकादि कुर्वताम् अग्निं* च ज्वालयतां कुम्भाण्डपुत्राणां ।
। दानपतेर् दीपं धारयतो देवदूति यस्य च ।
। नानालंकारविभूषितानां कलश[हस्ता]नां नागकन्यकानां चोदकं धारयन्तीनां पानीयमण्डपे ।
। ग्लानकल्पिकशालायां तथागतस्य ग्लानम् उपतिष्ठतः ।
। वर्चःप्र[62अ5]स्रावकुट्योः शिवपथिकायाः शिरष्करोटेर् वा ।
। न विहारे नभ्यवकाशे सधूमम् अग्निं* कुर्याद् धारयेद् धारकुट्टिमे सर्वं ।
। धारयेत् तदर्थं भ्रष्टिकां ।
। समावर्तनार्थञ् चायोमयं दण्डतपकम्* ।
। ढिं*सुकेनापि दारुमयेनैतत्कार्यसम्पत्तिः ।
। विहारम् उपधिवारिकः संमृ[ह्या]त् प्रत्यहं ।
। असक्ताव् उपयुज्यमानं प्रदेशं ।
। अवशिष्टम् अष्टम्यां चतुर्दश्यां च सर्वसंघे [62अ6] गण्डीम् आकोट्ट्य धर्म्यया वा कथयार्येण वा तूष्णीम्भावेन ।
। धर्मोत्सवे सेकः सुकुमार्याश् च गोमयकार्षाः प्रदानम्* ।
। स्नानम् अन्तेर ।
। हस्तपादप्रक्षालनम् वा ।
। गात्रस्य चोदकदिग्धेनानुपरिमार्जनम्* ।
। स्नेहलाभस्य करणं ।
। रत्नार्थं संमृष्टामृष्टयोर् गन्धकूटिप्रतिमाचैत्ययष्टिछयानां चार्यां गाथां पठता लंघणं ।
। शयना[62ब्1]सनस्यानयोर् एवाह्नोः प्रत्यवेक्षणं संस्करणं निःसृतैः ।
। सेकसंमार्गसुकुमारिगोमयकार्षाप्रदानानि वासवस्तुनि कुर्वीत्* ।
। शयनासनं मलिनं प्रस्फोटयेत्* ।
। अतीव चेद् धावेत्* ।
। ऊर्धं सेकास्संसृष्टिः ।
। तत[श्] च प्रज्ञपनम्(अ) ।
। न प्रस्फोटिते सरजस्कतायाम् आधारे ।
। प्रज्ञ[प्र]नीयेभ्यो वस्त्रस्यैकस्य प्रस्फोटने विनियोगः ।
। लूहस्य ।
। प्रति[62ब्2]संस्करणम् अस्य ।
। अशक्यतायां चीरीकृत्य यष्ट्याम् उपनिबध्य प्रस्फोटनम्* ।
। तथाप्य् अयोग्यत्वे गोमयमृदास्तम्भसुशिरे कुण्यस्य वा लेपनम्* ।
। पुण्याभिवृद्धिचिरतायै दात्तः ।
। न द्वारकोष्ठके प्रासादे वा शय्याप्रज्ञप्तिं कृत्वा वा धारणं कुर्यात्* ।
। कुर्याद् अशद्रव प्रतिपक्षेणार्थम् अष्टमीचतुर्दशै प्रासादे ।
। धारयेत्* मंचपीठम्* ।
। कुटिमाविनाशार्थम्* [[62ब्3] मण्डलम् अधःपादकछेदं कारये[नु]षमुटके चैनं स्थापयेन् नतुकेन वा वेष्टयेत्* ।
। नासंघो लेख्यपादकपीठकास्वीकृतं [भ]जेत ।
। न भद्रासनमायाङ्गासनयोः ।
। न दीपवृक्षस्य ।
। अनेकलतकस्येत्य् अन्यपरम्* ।
। धारयेच् चतुरस्रकं वृषीम् [वो(पि)]पधानकं च ।
। चतुर्द्विगुण्यद्विगुणीकृत्य सेवनम्* ।
। तूलेन पूरणं ।
। नाकृतं प्रत्यवेक्षणे शय्यां [62ब्4] कल्पयेत्* ।
। नानुपस्थाप्य स्मृतिम्* ।
। नापरेणे सार्धम् एकत्र मंचे सं[स्]तरे न्यत्र वा ।
। कल्पयेद् असंभवे लज्जी पृथ[क्] प्रत्यास्थी[त्या]न्तरे वृषिकापात्रस्थाविकादि दत्त्वा स्मृतिम् उपस्थाप्य ।
। न त्रयाद् ऊर्धं प्रचितिः साह्येन मंचरूढतां भजेत्* ।
। न द्वया धीर्घपीठि ।
। नासंत्याम् अनेकः ।
। न त्रिवर्षाः परेणान्तरितेन सार्धम् आसनस्य ।
। भजे[द्] आन्तर्गृहे [62ब्5] उपाध्यायेनाप्य् आसनाभावे स्मृतिम् उपस्थाप्य ।
। न क्वचिद् गृहिणानुपसं[(न्)प]न्नेन वा ।
। न षण्णदृपण्डकमातृघातकादितीर्थ्यतीर्थ्याक्रान्तक[स्ते]यसंवासिकनानासंवासिकासंवासिकैः ।
। न शि[क्षा]दत्तकः ।
। शिक्षादत्तकेनासनत्वं चिलिनिमिकायाः सोपसंपत्संघसन्निपाताद् अन्यत्र ।
। न स्थलिकायाः संकटसंबाधप्राप्ता[62ब्6]व् अनापत्तिः ।
। संचारणे शयनासनस्य द्वौ चेद् एकेन मंचपीठस्य वा ग्रहणम् अपरेण वृश्यादेः ।
। नैत[त्सा]ंघिकमदयम् आकर्षेन्निष्कर्षेद् धीन तथा कुर्याद् यथास्य
। नास्याशुचिकुट्योः सा[न्नि]हित्यम् भजेत्* ।
। न विनस्य छोरयेत्* ।
। आतपनं स्ये शोषणं प्रस्फोटनं छिद्रेर् गडकदानम्* ।
। द[ण्ड]कस्य स्फोटो ।
। [63अ1] क्षीणमध्यस्यान्तयोर् मध्यताकरणम् ।
। रंजनं तद् अर्हस्य ।
। अशक्यप्रतिसंस्करणतायां दीपेषु विनियोगो वर्तिकात्वेन रत्नोपयोगेषु पुद्गलदातृकेष्व् अपि ।
। अनुपयज्यमानस्यात्र कर्दमेन भित्तिस्तम्भकवाटसुषिरेषु रत्नेषु लेपनम् इत्य् अनुप्रतिपत्तिः ।
। अद्देष्टस्ये गृहीत्रा ।
। शिष्टस्य संघ्[ए]न संनिपत्य गण्ड्याकोटनेन ।
। न श[63अ2]क्यं सांघिकम् अपहरन्तं दृष्[ट्र] न निवारयेत्* ।
। नो त्रासे सांघिकम् अव्युपेक्षेरन्* ।
। असंप्राप्तस्य स्थानम्* ।
। नेतरूपत्रैयोज्यत्वं ।
। परिभुक्तिर् असंभवे स्वस्थानोपनयनस्य स्थानान्तरे परिभोगेन ।
। न स्थानान्तरीयं भक्तोपकरणलाभं स्थानान्तरे परिभुञ्जीत्* ।
। तेनमन्यस्मै दद्युः ।
। दास्यत्वं ग्रहीतुः ।
। दातुर् अप्रगमे ।
। निरव[द्]योंसिभिः [63अ3] सांघिकस्य स्वस्यैव निरुपयोज्यस्य तृणकाष्ठस्योपयोगः ।
। यथागतिकानुद्दिष्ट अवृत्त्योपयोज्येन यथावृद्धिका ।
। साह्ये याचनस्यैषां ।
। नातो विप्रयुक्तं वियोजयेत्* ।
। शुद्धत्वम् उदकेन पादस्यैतत् तद्भावने ।
। प्रविष्टत्वं कुटौ तत्* ।
। न निषद्यायोनिषद्याषण्णम् उत्थापयेत ।
। नास्यां यथावृद्धिका ।
। न कर्दमामिषपरिशुद्धं [63अ4] भिक्षुं ।
। नागन्त्र्या निषीदेत्* ।
। न सत्य् अर्थिनि कृतकृत्य आवृद्धि भोज्यम्* धारय्[ए]त्* ।
। अकृतकृत्यत्वम् अन्तरालार्थतन्त्रतायां मुक्तावासनस्य ।
। चीवरेणैनदायपट्टेन वा तदाधिष्ठितं कुर्वीत्* ।
। नार्थिसद्भावे सत्यां गतौ सांघिकस्य पलिगुद्धतां भजेत्* ।
। निरवद्यम् एवंविधाद् वियोजनं सत्यर्थे ।
। धारयेत् संघो निषदां पुत्रकं चा[63अ5]स्याः ।
। नापितभाण्डञ् च सुक्त्यां प्रक्षिप्य भित्तो स्थापनम्* ।
। वासी च सपरशुनखादनादि त[द्] भाण्डम्* ।
। दानम् अनेनामृन्मयस्य भिक्षोः याचितकत्वेन ।
। न भिक्षुणीकाचभाण्डं धारयेत्* ।
। धारयेत् सर्वं तैलभाजनम्* ।
। कौर्डवात् प्रभृत्यर्धकौडवात्* ।
। स्थालीमायसीञ् [च] ।
। अस्याः पर्यङ्किकां ।
। मृन्मयञ् चेद् धानम्* ।
। [63अ6] लब्धसंवृतिः दण्डां ।
। सिक्यं चैकवर्णं ।
। द[द्यु]र् एने? ।
। जीर्णग्लानयोः ।
। संभवत्य् अनयोर् एकेन वचसा दानम्* ।
। धारणं सशब्दस्य शरीसृपादिप्रतिक्रियार्थं दण्डस्य ।
। बन्धनं यष्टे मूलास्फोटे कूटेन ।
। प्रान्तादट्टनेन ।
। धारये[च्छ]त्रं वा रूढं [व]र्णमयम् वा ।
। पञ्जरप्रमाण दण्डम्* ।
। नानेकग्राममध्ये गच्छेत ।
। मार्गवशत चेत्* पा[63ब्1]र्श्वावनतेन ।
। प्रचरेत् पण्डाय वर्षत्तायां देवस्य ।
। नाकल्पिकत्वम्* ।
। दण्डे निलीनस्य ।
। स्थिते गृहेषु स्थापनम्* ।
। निर्गच्छता ग्रहणम्* ।
। न घोषवेशपानागारराजकुलचण्डलाकठिनस्थतां भजेत्* ।
। नाशुचिकुटिसमीपे वस्थानम्* ।
। न रत्नभूतेन वस्त्रेनारण्ये निवसेत्* ।
। न मेरुकाचचूर्णेन प्रणाकासंजाताः ।
। [63ब्2]हिं*गोः ।
। निम्वावासकप्र[त्रं]णाम् वा ।
। तत्पुटस्य तत्रोपकरणत[र]त्वम्* ।
। शोषणम् अस्ये तदर्थम्* ।
। दिग्मार्गतिथिदिवसनक्षत्रेष्व् अरण्यककुशलः स्यात्* ।
। नित्यसन्निहिताग्निपानीयः ।
। सक्तुत् संनिदध्यान्नतुकानि मधुसर्प्पिष्यि यथाशक्ति ।
। शेषं भोजना ज्ञायते चेत्* ।
। न भिक्षुण्य् अरण्ये वसेत्* ।
। करणं वर्षकस्य नगराभ्यंतरे ।
। [63ब्3] नास्यैषाय द्वारे तिष्ठेत्* ।
। नावलोकनके ।
। न चतुष्पथो ।
। नाप्रावृतवती ।
। प्रावरणत्वम् अत्र संकक्षिकायाः ।
। नापिधायिनो बाहोर् गृहिसंनिधाने ।
। अर्धपर्यङ्को स्याः पर्यङ्कस्थाने
ददीत्* प्रस्रावकरणद्वारे प्राणकाप्रवेशाय वस्त्रप्रभृति ।
। न प्रवेशावरणं विहारे भिक्षुणीनां ।
। भिक्षवष्कुर्युः ।
। अनालापाने [63ब्4] अववादपोषधप्रवारणास्थापनैर् एनाः परिदमयेयुः ।
। नाननुज्ञास्येषा भिक्षुं विहारं प्रविशेत्* ।
। सत्यसिनसान्तरे भ्यनुज्ञानं ।
। प्रस्ने निर्जयो प्रदुष्टतां ।
। शूचीघटिकाचक्रिकताटकाकुञ्चिकानां बन्धनाय विहारे समायोजनम्* ।
। प्रदोषबध्वा प्रत्यवेक्षणम् उपधिवारिकेन विहारस्य ।
। जागरणं सभयतायां प्राहरिकत्वेन ।
। त[त्व्यू]ते[63ब्5]न वर्जनं स्वप्नसमाप[त्योः] ।
। कृतताम् अत्र संविधानस्य उपधिवारिकं संघस्थविरः पृच्छेत्* ।
। विहारमोषे न चेद् बद्धत्वं समायुक्तैर् उपधिवारिकस्य दास्य ।
। हापने यावताम् एतत्तावतामंशानां ।
। धारयेत् कुञ्चिकां ताडकं च ।
। नाबद्ध्वा यावद् भावं बन्धनैः द्वारं प्रक्रामेत ।
। शून्यावासं चेत् प्रविशे सेकाद्य् अनुकुर्यात्* ।
। भाण्डं विप्रकृतं प्रतिशमयेत्* [63ब्6]निर्मृज्य द[क्ष]मं चेत्* ।
। संश्चेत् कल्पकार्[ओ] ल्पहरिततां कारयेत्* ।
। गृहिणश् चेद् अत्रागच्छेयुर् धर्म्यम् एभ्यष्कथाम् अन्यच् च
शक्यधर्मः कुर्यात्* ।
। नाकल्पिकं वृक्षरोपणम्* ।
। नैनम् उप्त्वा न पालयेत्* ।
। आयुष्मणा तद्वृक्षम् ।
। अन्यमाफलनात्* ।
। चिरत्वे पंचकं वर्षाणां ।
। स्वत्वन् नियुक्तस्यात्र भिक्षोः ।
। हस्तयोः शचनम्* ।
। पादयोः [64अ1] । । दन्तकाष्ठविसर्जनम्* ।
। पात्रनिर्मादनं स्नानम् इति यापनम्* ।
। गर्भगृहकस्य शीतवारणार्थं करणं ।
। गवाक्षाकानाम् अस्योच्छ्वासाय मोक्षः ।
। अवच्छादनदानम्* ।
। गृष्मे स्याश् चेदार्थम् अपनयः पूर्वस्यापि वर्षाः स्वक्लेदान्तम्* ।
। निर्वाहस्य चाम्भसकरणं ।
। न मूलवृत्तिम् अव्युपेक्षरन्* ।
। वर्षद्विभागेन विभज्य परिकर्मणाम्* ।
। क्वचिद् दन्तका[64अ2]ष्ठभक्ष्यणम्* क्वचिन् मुखशोचनं क्वचित्* पादयोर् इत्य् एवं न तत्प्रसृततया ।
। पुष्पफलरक्ष[णा]य भिक्षूणाम् उद्देशः ।
। भक्तकालाध्वम् अपरेषाम्* ।
। प्रथमतरं भुक्त्वा तैर् गमनम्* ।
। पृथग् प्रवृत्त्यापि पाठको बहुतरोपस्थापनकारिणाम् अशक्त सानुकम्पेत्* ।
। अनुकम्पेतोद्गृह्य तद्विनयं तदुद्देशस्वाध्यायनिकपरिपृच्छानिकदानैः
भिक्षुणीः ।
। लिखेल् लेखम्* ।
। [64अ3] असमर्थश् च स्मर्तुं धारणाय विनयं ।
। अलेख्यत्वम् अस्य ।
। तद्वद् अत्र प्रातिमोक्षः ।
। तत्प्रतिसंयुक्तम् ।
। पैङ्गलिगस्य च ।
। अदोषं निमित्तकरणं ।
। सांघिके नाम्नः शयनासने लेखनं ।
। देयधर्मोयममुकस्येदंनाम्नि विहार इति ।
। वस्त्रेषु च ।
। अन्यत्र चैवंविधे ।
। न बुद्धवचनं छन्दसि पदे क्रमे वा तत्परायणतयारोप्य पठित उ[द्]गृह्णीतद् वहिः [64अ4] शास्त्राणि समर्थः परसंज्ञपने अनु[त्]सृजन् बुद्धवचनाभियोगम्* ।
। तृतीयो दिवसभागस् तत्कालो प्रणातः ।
। रात्रेश् च ।
। उद्गृह्णीतानुग्राहिणो मन्त्रान्* ।
। प्रयुञ्जीत्* ।
। नोपघातिनः ।
। रत्रत्रयस्यैषु नमस्यस्थाने व्याहारः ।
। नान्यदेवतां नमस्येत्* ।
। न पूजयेत्* ।
। नासत्कुर्यात्* ।
। आर्षा गाथां भाषणेनैनाम् अभिमुखं स्थित्वा संबो[64अ5]ध्यछटाशब्देनायनप्राप्तो ऽनुगृह्णी[ता] ।
। न शिल्पम् अनुतिष्ठेत्* ।
। शिक्षेयेर् उपस्थापयेद् वा ।
। तद्भाण्ड समुत्सृज्य शस्त्रकोशं सूचीगृहकं मेलंदुकं च ।
। उपतिष्ठेत् कुशलश् चिकित्सया तीर्थ्यं पुण्यभिप्रायेनानभृतिकया ।
। न विवेकं दत्त्वान्यत्र गच्छेत्* ।
। गच्छेत् तद्रूपेषु प्रत्ययेषु प्रतिविहारे साव् उपद्रवे व्यपदिश्य ।
। कुर्यान् नापितकरणीयं सब्रह्मचारि[64अ6]णसुल्यव्यज्जनस्य प्रतिगुप्तप्रदेशे ।
। घटनं च भग्नं मञ्चाङ्गस्य ।
। ग्रन्थनञ् च रत्नार्थं मालागुणानां ।
। लेखनञ् च रत्नपूजभूतस्यासत्वकृतेर् आलेख्यस्य ।
। तत्वं तदर्थलेखायाः ।
। मृतस्य सब्रह्मचारिणः शरीरपूजाकरणं ।
। दहनम् अस्य न चेत् सप्राणकव्रणत्वं ।
। प्रत्यवेक्षणेन निश्चयः ।
। निखनम् आप्लावनम् वा नद्यां ।
। अयुक्तो दव[64ब्1]मध्ये स्थापनम्* ।
। निपद्ययोदक्थिरसो दक्षिणपार्श्वेन ।
। कक्षपिण्डकस्य शिरसि दानम्* ।
। तृणैः पत्रैः वा प्रतिच्छादनम्* ।
। धर्मश्रवणदक्षिणादेशनयोः करणं ।
। स्पृष्टवद्भिः सचेलस्नानस्य ।
। अन्यैर् हस्तपादप्रक्षालनं ।
। चैत्यम् अभिवन्द्य प्रवेशः ।
। द्वैविध्यं स्तूपे ।
। सहगतत्वं स्तम्भभूतता च ।
। अर्हत्वम् अस्य प्रव्रजितानां कल्याण[ञ्] चेत्* ।
। [64ब्2] सर्वाकारस्य बुद्धानां ।
। जगतीचतुष्कं जङ्घाण्डकहर्मिकायष्टयस्त्रयोदश छत्राणि
वर्षस्थालकनित्याकाराः ।
। विवर्षस्थालकस्य प्रत्येकबुद्धानां ।
। फलपरिमाणैः छत्रैर् एकाधिकैर् अस्य श्रवकानां ।
। तथागतपा[र्श्व]देशवैवृत्तता चेत् तस्यां दिशि करणं यत्रैषां
तत्परिवारदाने च स्थानम् अभूत्* ।
। नान्यस्मिन् न यथावृद्धिका ।
। मुण्डकस्य पृ[64ब्3]थग्भजनानां ।
। बहिर् एषां संघारामात् कर्तव्यत्वं ।
। अर्हत्यार्षस्तूपम् अहं ।
। सब्रह्मचारिणां श्रवकस्तूपे निर्यातितस्येसित्वम्* ।
। धर्म्यं बुद्धस्य लोहमयं स्तूपकरणम्* ।
। सुवर्णरूप्यवैदूर्यस्फटिकमयानां केशनखस्तूपानां च ।
। अनुपरिवारस्यात्र करणं ।
। तुषितभवनवासादिपरिनिर्वाणा[न्तं] वृत्तं तदाख्यम्* ।
। सुधादानम्* ।
। [64ब्4] श्वेतनम्* ।
। दीपप्रतिग्रहणं ।
। वेदिकया वेष्टणं ।
। तोरणस्योत्स्रयणं ।
। ध्वजानां दानं ।
। चातुर्विध्यम् अस्य ।
। सिं*हध्वजो मकरध्वजो नागराजध्वजो वृषभध्वज इति ।
। गहने पि करणं ।
। तोरण[स्यो]त्*[त्स्र]यणं ।
। चैरकस्य करणम् वेदिकयास्य परिक्षेपः ।
। स्तम्भानां गेरिकेन लेपनम्* ।
। भित्तिः लाक्षया चित्रणं गन्धाभिषेकदानम्* ।
। [64ब्5] तैलालचन्दनकुंकुमशेकानाञ् च ।
। न कण्टकानां रोप[ण]ं नागदन्तकानां माससंयोजनाय दानम् उत्तिष्ठति ।
। न छिद्रणां ।
। नोपरिदीपदानं आगारिकैष्पूजनार्थम् अधिरोहणम् अभावे श्रमणोद्द्[ए]शैष्पादो प्रक्षाल्य गन्धोदकेन ।
। न चेद् अनेन गन्धैर् उद्वर्त्य वस्त्रेण वा वेष्टयित्वा शास्तु संज्ञामामुखीकृत्यार्थम् अभिध्याय स्मृतैः ।
। तेषाम् अपि भिक्षुभि[64ब्6]र् एवम् एव ।
। तदर्थं रज्ज्वासंजनम्* ।
। अवछेदनगर्भेण नासकं प्रतिबन्धाय छादनम्* ।
। द्वाराणाम् अनन्धकारायास्य मोचनम्* ।
। बुद्धप्रतिकृतैस्करणम्* ।
। महस्यास्याष्प्रस्थापनं ।
। जातिजटाचूडाबोधिमहानाञ् च ।
। नगरप्रवेशे चास्याष्करणं ।
। कल्पते त्र भिक्षोस् तद्वहनम्* ।
। [65अ1] ॥ नवकेष्व् अस्य प्राप्तिः पंचभिः निकायैः परिवारदानं ।
। आर्घ्येयस्य वृद्धेर् ग्रहणं ।
। वादित्रेणैतद्वाद्यमानेन सार्[द्]वन्येन च महता स[त्]कारेण निरावद्यं वादनाय कुरु कुरु भोष् पुरुष [शास्तु]ः पूजाम् इत्य् उदीरणम्* ।
। उद्घोषणं रथ्यावीथिच[फ्व?] सृङ्गाटकेषु श्वः परश्वो वा भविष्यत्तायां लिखितस्य इति बुद्धप्रवेशो भविष्यतीति भुजादावारोपितस्य [65अ2] हस्तिस्कन्धे छ[त्र]ध्वजपताकापरिवृतस्य ।
। धर्म्यं बोधिसत्वप्रतिमाकरणम्* ।
। ध्वजैर् अस्याः परिवारो वेदिकयावेष्टनम्* लोहस्तम्भेश् च ।
। पताकानां तेषु बन्धः ।
। अनुमानकरणम् ।
। आभरणप्रतियुक्तिर् उत्सृज्य पादाभरणं कर्णपूरं च ।
। गन्धार्गददानम्* ।
। शिविक कायाम् वा हिण्डनम्* ।
। रथेन च ।
। छत्रध्वजपताकानां तत्रो[65अ3]त्स्रयनम्* ।
। पुष्पन्नतन्सकस्य शिरसि दानं ।
। अर्घपाद्ययोश् च ।
। अभिसारस्य निःश्रितैस् तरुणवृद्धेश् च नयनम्* ।
। चक्षण स्थविरैः ।
। पालशमुद्गकस्य रथे करणं गन्धसमु[द्ग]केन सम्विधानम्* ।
। मालामुक्तिः ।
। समाप्तायां पूजायां निर्वृतेषु वाद्येषु विप्रक्रान्ते जनकाये मण्डनापनमनम्* ।
। नात्रौ ।
। धर्म्यं प्रव्रजितवा[65अ4]सम् अर्ह प्रस्थापनं ।
। भक्तकल्पिकस्य कल्पिकस्य प्रतिवो[द्द्रि]त्य कल्पिकसमासः ।
। उत्तरस्य भक्तृप्रतिपूर्वस्य्[ए]ति कल्पिकस्य ।
मूल पाठ: Vinayasūtra · Edition: Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana · Data entry Yoshiyasu Yonezawa et al. · GRETIL (Göttingen) · CC BY-NC-SA 4.0