विंशिकावृत्ति · श्लोक 1-20
विंशिकावृत्तिः (व्वृ)
विज्ञप्तिमात्रमेवेदमसदर्थावभासनात् ।
यद्वत् तैमिरिकस्यासत्केशोण्ड्रकादिदर्शनं
न देशकालनियमः सन्तानानियमो न च ।
न च कृत्यक्रिया युक्ता विज्ञप्तिर्यदि नार्थतः
देशादिनियमः सिद्धः स्वप्नवत् प्रेतवत्पुनः ।
सन्तानानियमः सर्वैः पूयनद्यादिदर्शने
स्वप्नोपघातवत्कृत्यक्रिया नरकवत्पुनः ।
सर्वं नरकपालादिदर्शने तैश्च बाधने
तिरश्चां सम्भवः स्वर्गे यथा च नरके तथा ।
न प्रेतानां यतस्तज्जं दुःखं नानुभवन्ति ते
यदि तत्कर्मभिस्तत्र भूतानां सम्भवस्तथा
इष्यते परिणामश्च किं विज्ञानस्य नेष्यते
कर्मणो वासनान्यत्र फलमन्यत्र कल्प्यते ।
तत्रैव नेष्यते यत्र वासना किं नु कारणं
रूपाद्यायतनास्तित्वं तद्विनेयजनं प्रति ।
अभिप्रायवशादुक्तमुपपादुकसत्त्ववत्
नास्तीह सत्व आत्मा वा धर्मास्त्वेते सहेतुकाः
यतः स्वबीजाद्विज्ञप्तिर्यदाभासा प्रवर्तते ।
द्विविधायतनत्वेन ते तस्या मुनिरब्रवीत्
तथा पुद्गलनैरात्म्यप्रवेशो हि अन्यथा पुनः ।
देशना धर्मनैरात्म्यप्रवेशः कल्पितात्मना
न तदेकं न चानेकं विषयः परमाणुशः ।
न च ते संहता यस्मात्परमाणुर्न सिध्यति
षट्केन युगपद्योगात्परमाणोः षडंशता ।
षण्णां समानदेशत्वात्पिण्डः स्यादणुमात्रकः
परमाणोरसंयोगे तत्सङ्घाते ऽस्ति कस्य सः ।
न चानवयवत्वेन तत्संयोगाद् न सिध्यति
दिभागभेदो यस्यास्ति तस्यैकत्वं न युज्यते ।
छायावृती कथं वा अन्यो न पिण्डश्चेन्न तस्य ते
एकत्वे न क्रमेणेतिर्युगपन्न ग्रहाग्रहौ ।
विच्छिन्नानेकवृत्तिश्च सूक्ष्मानीक्षा च नो भवेत्
प्रत्यक्षबुद्धिः स्वप्नादौ यथा स च यदा तदा ।
न सो ऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतं
उक्तं यथा तदाभासा विज्ञप्तिः स्मरणं ततः ।
स्वप्नदृग्विषयाभावं नाप्रबुद्धो ऽवगच्छति
अन्योन्याधिपतित्वेन विज्ञप्तिनियमो मिथः ।
मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलं
मरणं परविज्ञप्तिविशेषाद्विक्रिया यथा ।
स्मृतिलोपादिकान्येषां पिशाचादिमनोवशात्
कथं वा दण्डकारण्यशून्यत्वमृषिकोपतः ।
मनोदण्डो महावद्यः कथं वा तेन सिध्यति
मूल पाठ: Viṃśikāvṛtti · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0