विलोमाक्षररामकृष्णकाव्यम् · अध्याय 1
तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः ।
श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम्
चिरं विरञ्चिर्न चिरं विरञ्चिः साकारता सत्यसतारका सा ।
साकारता सत्यसतारका सा चिरं विरञ्चिर्न चिरं विरञ्चिः
तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा ।
माययाक्षसमक्षयायमा तामसीत्यसति सत्यसीमता
का तापघ्नी तारकाद्या विपापा त्रेधा विद्या नोष्णकृत्यं निवासे ।
सेवा नित्यं कृष्णनोद्या विधात्रे पापाविद्याकारताघ्नी पताका
श्रीरामतो मध्यमतोदि येन धीरोऽनिशं वश्यवतीवराद्वा ।
द्वारावतीवश्यवशं निरोधी नयेदितो मध्यमतोऽमरा श्रीः
कौशिके त्रितपसि क्षरव्रती योऽददाद्ऽद्वितनयस्वमातुरम् ।
रन्तुमास्वयन तद्विदादयोऽ तीव्ररक्षसि पतत्रिकेशिकौ
लम्बाधरोरु त्रयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा ।
ज्ञातागमा रक्ष हि याहि या त्वं सेना बलं यत्र रुरोध बालम्
लङ्कायना नित्यगमा धवाशा साकं तयानुन्नयमानुकारा ।
राकानुमा यन्ननु यातकंसा शावाधमागत्य निनाय कालम्
गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः ।
तामसाक्षरतातीते ये रावैरध्वजाधिगाः
तावदेव दया देवे यागे यावदवासना ।
नासवादवया गेया वेदे यादवदेवता
सभास्वये भग्नमनेन चापं कीनाशतानद्धरुषा शिलाशैः ।
शैलाशिषारुद्धनताशनाकी पञ्चानने मग्नभये स्वभासः
न वेद यामक्षरभामसीतां का तारका विष्णुजितेऽविवादे ।
देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन
तीव्रगोरन्वयत्रार्यो वैदेहीमनसो मतः ।
तमसो न महीदेवै- र्यात्रायन्वरगोव्रती
वेद या पद्मसदनं साधारावततार मा ।
मारता तव राधा सा नन्द सद्मप यादवे
शैवतो हननेऽरोधी यो देवेषु नृपोत्सवः ।
वत्सपो नृषु वेदे यो धीरोऽनेन हतोऽवशैः
नागोपगोऽसि क्षर मे पिनाकेऽ नायोऽजने धर्मधनेन दानम् ।
नन्दानने धर्मधने जयो ना केनापि मे रक्षसि गोपगो नः
ततान दाम प्रमदा पदाय नेमे रुचामस्वनसुन्दराक्षी ।
क्षीरादसुं न स्वमचारु मेने यदाप दाम प्रमदा नतातः
तामितो मत्तसूत्रामा शापादेष विगानताम् ।
तां नगाविषदेऽपाशा मात्रासूत्तमतो मिता
नासावद्यापत्रपाज्ञाविनोदी धीरोऽनुत्या सस्मितोऽद्याविगीत्या ।
त्यागी विद्यातोऽस्मि सत्त्यानुरोधी दीनोऽविज्ञा पात्रपद्यावसाना
सम्भावितं भिक्षुरगादगारं याताधिराप स्वनघाजवंशः ।
शवं जघान स्वपराधिताया रङ्गादगारक्षुभितं विभासम्
तयातितारस्वनयागतं मा लोकापवादद्वितयं पिनाके ।
केनापि यं तद्विदवाप कालो मातङ्गयानस्वरतातियातः
शवेऽविदा चित्रकुरङ्गमाला पञ्चावटीनर्म न रोचते वा ।
वातेऽचरो नर्मनटीव चापं लामागरं कुत्रचिदाविवेश
नेह वा क्षिपसि पक्षिकन्धरा मालिनी स्वमतमत्त दूयते ।
ते यदूत्तमतम स्वनीलमा- राधकं क्षिपसि पक्षिवाहने
वनान्तयानस्वणुवेदनासु योषामृतेऽरण्यगताविरोधी ।
धीरोऽवितागण्यरते मृषा यो सुनादवेणुस्वनयातनां वः
किं नु तोयरसा पम्पा न सेवा नियतेन वै ।
वैनतेयनिवासेन पापं सारयतो नु किम्
स नतातपहा तेन स्वं शेनाविहितागसम् ।
सङ्गताहिविनाशे स्वं नेतेहाप ततान सः
कपितालविभागेन योषादोऽनुनयेन सः ।
स नये ननु दोषायो नगे भाविलतापिकः
ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता ।
ताल्पिकभ्रमरसप्रकल्पना कालिमर्णव पिक प्रभासते
रावणेऽक्षिपतनत्रपानते नाल्पकभ्रमणमक्रमातुरम् ।
रन्तुमाक्रमणमभ्रकल्पना तेन पात्रनतपक्षिणे वरा
दैवे योगे सेवादानं शङ्का नाये लङ्कायाने ।
नेयाकालं येनाकाशं नन्दावासे गेयो वेदैः
शङ्कावज्ञानुत्वनुज्ञावकाशं याने नद्यामुग्रमुद्याननेया ।
याने नद्यामुग्रमुद्याननेया शङ्कावज्ञानुत्वनुज्ञावकाशम्
वा दिदेश द्विसीतायां यं पाथोयनसेतवे ।
वैतसेन यथोपायं यन्तासीद्ऽविशदे दिवा
वायुजोऽनुमतो नेमे सङ्ग्रामेऽरवितोऽह्नि वः ।
वह्नितो विरमे ग्रासं मेनेऽतोऽमनुजो युवा
क्षताय मा यत्र रघोरितायु- रङ्कानुगानन्यवयोऽयनानि ।
निनाय यो वन्यनगानुकारं युतारिघोरत्रयमायताक्षः
तारके रिपुराप श्री- रुचा दाससुतान्वितः ।
तन्वितासु सदाचारु श्रीपुरा पुरि के रता
लङ्का रङ्काङ्गराध्यासं याने मेया काराव्यासे ।
सेव्या राका यामे नेया सन्ध्यारागाकारं कालम्
॥ इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥
मूल पाठ: vilomākṣararāmakṛṣṇakāvyam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0