भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 9-2

9-2.1

॥ सूत उवाच ॥
ततोऽभिध्यायतस्तस्य जज्ञिरे मानसीप्रजाः।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह।
क्षेत्रज्ञाः समवर्त्तन्त गात्रेभ्यस्तस्य धीमतः

9-2.2

ततो देवासुरपितॄन् मानवञ्च चतुष्टयम्।
सिसृक्षुम्भांस्येतांश्च स्वात्मना समयूयुजत्

9-2.3

युक्तात्मनस्ततस्तस्य ततो मात्रा स्वयम्भुवः।
तमभिध्यायतः सर्गं प्रयत्नोऽभुत् प्रजापतेः

9-2.4

ततोऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः।
असुः प्राणः स्मृतो विप्रा स्तज्जन्मानस्ततोऽसुराः

9-2.5

यया सृष्टाः सुरास्तन्वा तां तनुं स व्यपोहत।
सापविद्धा तनुस्तेन सद्यो रात्रिरजायत

9-2.6

सा तमोबहुला यस्मात्ततो रात्रिस्त्रियामिका।
आवृतास्तमसा रात्रौ प्रजास्तस्मात् स्वयम्भुवः

9-2.7

दृष्ट्वा सुरांस्तु देवेशस्तनुमन्यामपद्यत।
अव्यक्तां सत्त्वबहुलां ततस्तां सोऽभ्ययूयुजत्।
ततस्तां युञ्जतस्तस्य प्रियमासीत् प्रभोः किल

9-2.8

ततो मुखे समुत्पन्ना दीव्यतस्तस्य देवताः।
यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्त्तिताः

9-2.9

धातुर्द्दिवीति यः प्रोक्तः क्रीडायां स विभाव्यते।
तस्यान्तन्वान्तु दिव्यायां जज्ञिरे तेन देवताः

9-2.1.9.10

देवान् सृष्ट्वाथ देवेशस्तनुमन्यामपद्यत।
सत्त्वमात्रात्मिकां देवस्ततोऽन्यां सोऽभ्यपद्यत

9-2.11

पितृवन्मन्यमानस्तान् पुत्रान् प्राध्यायत प्रभुः।
पितरो ह्युपपक्षाभ्यां रात्र्यह्नोरन्तरासृजत्।
तस्मात्ते पितरो देवाः पुत्रत्वन्तेन तेषु तत्

9-2.12

यया सृष्टास्तु पितरस्तान्तनुं स व्यपोहत।
सापविद्धा तनुस्तेन सद्यः सन्ध्या प्रजायत

9-2.13

तस्मादहस्तु देवानां रात्रिर्या साऽसुरी स्मृता।
तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी

9-2.14

तस्माद्देवासुराः सर्वे ऋषयो मनवस्तथा।
ते युक्तास्तामुपासन्ते ब्रह्मणो मध्यमान्तनुम्

9-2.15

ततोऽन्यां स पुनर्ब्रह्मा तनुं वै प्रत्यपद्यत।
रजोमात्रात्मिकायान्तु मनसा सोऽसृजत् प्रभुः

9-2.16

रजःप्रायात् ततः सोऽथ मानसानसृजत् सुतान्।
मनसस्तु ततस्तस्य मानसा जज्ञिरे प्रजाः

9-2.17

दृष्ट्वा पुनः प्रजाश्चापि स्वान्तनुन्ता मपौहत।
सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत

9-2.18

तस्माद्भवन्ति संदृष्टा ज्योत्स्नाया उद्भवे प्रजाः।
इत्येतास्तनवस्तेन व्यपविद्धा महात्मना

9-2.19

सद्यो रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च जज्ञिरे।
जयोत्स्ना सन्ध्या तथाहश्च सत्त्वमात्रात्मकं स्वयम्।
तमोमात्रात्मिका रात्रिः सा वै तस्मात्र्त्रियामि का

9-2.1.9.20

तस्माद्देवा दिव्यतत्त्वात् दृष्‌टा सृष्टा मुखात्तु वै।
यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा

9-2.21

तन्वा यदसुरान् रात्रौ जघनादसृ जत् प्रभुः ॥
प्राणेभ्यो रात्रिजन्मानो ह्यसह्या निशि तेन ते

9-2.22

एतान्येव भविष्याणां देवानामसुरैः सह।
पितॄणां मानवानाञ्च अतीतानागतेषु वै।
मन्वन्तरेषु सर्वेषां निमित्तानि भवन्ति हि

9-2.23

ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्याभासितानि वै।
भान्ति यस्मात्ततो भासि भाशब्दोऽयं मनीषिभिः।
व्याप्तिदीप्त्यां निगदितः पुनश्चाह प्रजापतिः

9-2.24

सोऽम्भांस्येतानि दृष्ट्वा तु देवदानवमानवान्।
पितॄंश्च वासृजत्सोऽन्यानात्मनो विबुधान् पुनः

9-2.25

तामुत्कृत्य तनुं कृत्स्नान्ततोऽन्यामसृजत् प्रभुः।
मूर्तिं रजस्तमःप्रायां पुनरेवाभ्ययूयुजत्

9-2.26

अन्धकारे क्षुधाविष्ट स्ततोऽन्यां सृजते पुनः।
तेन सृष्टाः क्षुधात्मानस्तेऽम्भांस्यादातुमुद्यताः

9-2.27

अम्भांस्येतानि रक्षाम उक्तवन्तश्च तेषु च।
राक्षसास्ते स्मृता लोके क्रोधात्मानो निशाचराः

9-2.28

येऽब्रुवन् क्षिणुमोऽम्भांसि तेषां दृष्टाः परस्परम्।
तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः

9-2.29

रक्षणे पालने चापि धातुरेष विभाव्यते।
य एष क्षितिधातुर्वै क्षयणे सन्निरुच्यते

9-2.1.9.30

तान्दृष्ट्वा ह्यप्रियेणास्य केशा अशीर्यंत धीमतः।
शीतोष्णाच्चोच्छ्रिता ह्यूर्द्ध्वं तदारोहन्त तं प्रभुम्

9-2.31

हीना मच्छिरसो व्याला यस्माच्चैवापसर्पिताः।
व्यालात्मानः स्मृता व्यालाद्धीनत्वादहयः स्मृताः

9-2.32

पन्नत्वात्पन्नगाश्चैव सर्पाश्चैवापसर्पिणः।
तेषां पृथिव्यां निलयाः सूर्याचन्द्रमसोरधः

9-2.33

तस्य क्रोधोद्भवो योऽसावग्निगर्भस्सुदारुणः।
स तु सर्पसहोत्पन्नानाविवेश विषात्मिकान्

9-2.34

सर्पान् दृष्ट्वा ततः क्रोधात् क्रोधात्मानो विनिर्ममे।
वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः

9-2.35

भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात्।
वयतो गास्ततस्तस्य गन्धर्वो जज्ञिरे तदा

9-2.37

ध्यायतीत्येष धातुर्वै यात्रार्थे परिपठ्यते।
पिबतो जज्ञिरे गास्तु गंधर्वास्तेन ते स्मृताः ।.३६॥
अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः।
ततः स्वच्छन्दतोऽन्यानि वयांसि वय सोऽसृजत्

9-2.38

छाद्यतस्तानि छन्दांसि वयसोऽपि वयांस्यपि।
शून्यान् दृष्ट्वा तु देवो वैऽसृजत्पक्षिगणानपि

9-2.39

मुखतोऽजान् ससर्ज्जाथ वक्षसश्चवयोऽसृजत्।
गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे

9-2.1.9.40

पद्भ्याञ्चाश्चान् समातङ्गान् शरभान् गवयान् मृगान्।
उष्ट्रानश्चतरांश्चैव ताश्वान्याश्चैव जातयः

9-2.41

ओषध्यः फलमूलानि रोमतस्तस्य जज्ञिरे।
एवं पश्वोषधीः सृष्ट्वा न्ययुञ्जत्सोऽध्वरे प्रभुः

9-2.42

तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा।
गौरजः पुरुषो मेषो ह्यश्वोऽश्वतरगर्द्दभौ।
एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोधत

9-2.43

श्वापदा द्विखुरो हस्ती वानरः पक्षिपञ्चमाः।
उन्दकाः पशवः सृष्टाः सप्तमास्तु सरीसृपाः

9-2.44

गायत्रं वरुणञ्चैव त्रिवृत्सौम्यं रथन्तरम्।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्

9-2.45

छन्दांसि त्रैष्टुभङ्कर्म स्तोमं पञ्चदशन्तथा।
बृहत्साममथोक्थञ्च दक्षिणात्सोऽसृजन्मुखात्

9-2.46

सामानि जगती च्छन्दस्तोमं पञ्चदशन्तथा।
वैरूप्यमतिरात्रञ्च पश्चिमादसृजन्मुखात्

9-2.47

एकविंशमथर्वाणमाप्तोर्यामाणमेव च।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्

9-2.48

विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च।
वयांसि च ससर्ज्जादौ कल्पस्य भगवान् प्रभुः

9-2.49

उच्चावचानि भूतानि गात्रेब्यस्तस्य जज्ञिरे।
ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः

9-2.1.9.50

सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः।
ततः सृजति भूतानि स्थावराणि चराणि च

9-2.51

यक्षान् पिशाचान् गन्धर्वान् तथैवाप्सरसाङ्गणान्।
नरकिन्नररक्षांसि वयः पशुमृगोरगान्

9-2.52

अव्ययञ्च व्ययं चैव यदिदं स्थाणु जङ्गमम्।
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः

9-2.53

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते

9-2.54

महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु।
विनियोगञ्च भूतानां धातैव व्यदधात् स्वयम्

9-2.55

केचित् पुरुषकारन्तु प्राहुः कर्म च मानवाः।
दैवमित्यपरे विप्राः स्वभावं दैवचिन्तकाः

9-2.56

पौरुषं कर्म दैवञ्च फलवृत्तिस्वभावतः।
न चैकं न पृथग्भावमधिकं न तयोर्विदुः।
एतदेवञ्च नैकञ्च न चोभे न च वाप्युभे

9-2.57

कर्मस्थान् विषयान् ब्रूयुः सत्त्वस्थाः समदर्शिनः।
नामरूपञ्च भूतानां कृतानाञ्च प्रपञ्चनम्।
वेदशब्धेभ्य एवादौ निर्ममे स महेश्वरः

9-2.58

ऋषीणां नामधेयानि याश्च देवेषु दृष्टयः।
शर्वर्यन्ते प्रसूतानां तान्येवास्य दधाति सः

9-2.59

यथर्त्तावृतुलिङ्गानि नानारूपाणि पर्यये।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु

9-2.1.9.60

एवंविधासु सृष्टासु ब्रह्मणाऽव्यक्तजन्मना।
शर्वर्यन्ते प्रदृश्यन्ते सिद्धिमाश्रित्य मानसीम्

9-2.61

एवंभूतानि सृष्टानि चराणि स्थावराणि च।
यदास्य ताः प्रजाः सृष्टा न व्यवर्धन्त धीमतः

9-2.62

अथान्यान्मानसान् पुत्रान् सदृशानात्मनोऽसृजत्।
भृगुं पुलस्त्यं पुलहं क्रतुमाङ्गिरसन्तथा

9-2.63

मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसम्।
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ।
तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम्

9-2.64

ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्मसंभवम्।
संकल्पं चैव धर्मं च पूर्वेषामपि पूर्वजः

9-2.65

अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्।
सनन्दनं ससनकं विद्वांसं च सनातनम्

9-2.66

सनत्कुमारं च विभुं सनकं च सनन्दनम्।
न ते लोकेषु सर्ज्जन्ते निरपेक्षाः सनातनाः

9-2.67

सर्वे ते ह्यागतज्ञाना वीतरागा विमत्सराः।
तेष्वेवं निरपेक्ष्येषु लोकवृत्तानुकारणात्

9-2.68

हिरण्यगर्भो भगवान् परमेष्ठी ह्यचिन्तयत्।
तस्य रोषात्समुत्पन्नः पुरुषोऽर्क्कसमद्युतिः।
अर्द्धनारीनरवपुस्तेजसा ज्वलनोपमः

9-2.69

सर्वं तेजोमयं जातमादित्यसमतेजसम्।
विभजात्मानमित्युक्त्वा तत्रैवान्तरधीयत

9-2.1.9.70

एवमुक्त्वा द्विधाभूतः पृथक् स्त्री पुरुषः पृथक्।
स चैकादशधा जज्ञे अर्द्धमात्मानमीश्वरः

9-2.71

तेनोक्तास्ते महात्मानः सर्व एव महात्मना।
जगतो बहुलीभावमधिकृत्य हितैषिणः

9-2.72

लोकवृत्तान्तहेतोर्हि प्रयतध्वमतन्द्रिताः।
विश्वं विश्वस्य लोकस्य स्थापनाय हिताय च

9-2.73

एवमुक्तास्तु रुरुदुर्दुद्रुवुश्च समन्ततः।
रोदनाद्द्रावणाच्चैव रुद्रा नाम्नेतिविश्रुताः

9-2.74

यैर्हि व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्।
तेषामनुचरा लोके सर्वलोकपरायणाः

9-2.75

नैकनागा युतबला विक्रान्ताशचव गणेश्वराः।
तत्र या सा महाभागा शंकरस्यार्द्धकायिनी

9-2.76

प्रागुक्ता तु मया तुभ्यं स्त्री स्वयंभोर्मुखोद्गता।
कायार्द्धं दक्षिणन्तस्याः शुक्लं वामं तथाऽसितम्

9-2.77

आत्मानं विभजस्वेति सोक्ता देवी स्वयंभुवा।
सा तु प्रोक्ता द्विधाभूता शूक्ला कृष्णा च वै द्विजाः।
तस्या नामानि वक्ष्यामि श्रृणुध्वं सुसमाहिताः

9-2.78

स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती।
अपर्णा चैकपर्णा च तथा स्यादेव पाटला

9-2.79

उमा हैमवती षष्ठी कल्याणी चैव नामतः।
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता

9-2.1.9.80

विश्वरूपमथार्यायाः पृथग्देहविभावनात्।
श्रृणु संक्षेपतस्तस्या यथावदनुपूर्वशः

9-2.81

प्रकृतिर्नियता रौद्री दुर्गा भद्रा प्रमाथिनी।
कालरात्रिर्महामाया रेवती भुतनायिका

9-2.82

द्वापरान्तविकारेषु देव्या नामानि मे श्रृणु।
गौतमी कौशिकी आर्या चण्डी कात्यायनी सती

9-2.83

कुमारी यादवी देवी वरदा कृष्णपिङ्गला।
बर्हिर्ध्वजा शूलधरा परमब्रह्मचारिणी

9-2.84

माहेन्द्री चेन्द्रभगिनी वृषकन्यैकवाससी।
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी

9-2.85

एकानसा दैत्यहनी माया महिषमर्द्दिनी।
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका

9-2.86

देवीनामविकाराणि इत्येतानि यथाक्रमम्।
भद्रकाल्यास्तवोक्तानि देव्या नामानि तत्त्वतः

9-2.87

ये पठन्ति नरास्तेषां विद्यते न पराभवः।
अरण्ये प्रान्तरे वापि पुरे वापि गृहेऽपि वा

9-2.88

रक्षामेतां प्रयुञ्जीत जले वापि स्थलेऽपि वा।
व्याध्रकुम्भीरचौरेभ्यो भूतस्थाने विशेषतः।
आधिष्वपि च सर्वासु देव्या नामानि कीर्त्तयेत्

9-2.89

अर्भकग्रहभूतैश्च पूतनामातृभिः सदा।
अभ्यर्दितानां बालानां रक्षामेतां प्रयोजयेत्

9-2.1.9.90

महादेवी कुले द्वे तु प्रज्ञा श्रीश्च प्रकीर्त्त्यते।
आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत्

9-2.91

साऽसृजद् व्यवसायन्तु धर्मं भूतसुखावहम्।
सङ्कल्पञ्चैव कल्पादौ जज्ञिरेऽव्यक्तयोनितः

9-2.92

मानसश्च रुचिर्न्नाम विज्ञेयो ब्रह्मणः सुतः।
प्राणात् स्वादसृजद्दक्षञ्चक्षुर्भ्याञ्च मरीचिकम्

9-2.94

भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः।
शिरसोऽङ्गिरसञ्चैव श्रोत्रादत्रिन्तथैव च ॥९३।
पुलस्त्यञ्च तथोदानाद्य्वानाच्च पुलहं पुनः।
समानजं वसिष्ठन्तु अपानान्निर्ममे क्रतुम्

9-2.95

अभिमानात्मकं भद्रं निर्ममे नीललोहितम्।
इत्येते ब्रह्मणः पुत्राः प्राणजा द्वादश स्मृताः

9-2.96

इत्येते मानसाः पुत्रा विज्ञेया ब्रह्मणः सुताः।
भृग्वादयस्तु ये सृष्टा ना चैते ब्रह्मवादिनः

9-2.97

गृहमेधिनः पुराणास्ते धर्मस्तैः प्राक् प्रवार्त्तितः।
द्वादशैते प्रवर्त्तन्ते सह रुद्रेण वैप्रजाः

9-2.98

ऋभुः सनत्कुमारस्तु द्वावेतावूर्द्ध्वरेतसौ।
पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ

9-2.99

व्यतीते प्रथमे कल्पे पुराणे लोकसाधकौ।
वैराजे तावुभौ लोके तेजः संक्षिप्य चास्थितौ

9-2.1.9.100

तावुभौ योगधर्माणावारोप्यात्मानमात्मनि।
प्रजाधर्मञ्च कामञ्च वर्त्तयेतां महौजसा

9-2.101

यथोत्पन्नस्तथैवेह कुमार इति चोच्यते।
तस्मात्सनत्कुमारोयमिति नामास्य कीर्तितम्

9-2.102

तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः।
क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः

9-2.103

इत्येष करणोद्भूतो लोकान् स्रष्टुं स्वयंभुवः।
महदादिविशेषान्तो विकारः प्रकृतेः स्वयम्

9-2.104

चन्द्रसूर्यप्रभालोको ग्रहनक्षत्रमण्डितः।
नदीभिश्च समुद्रैश्च पर्वतैश्च समावृतः

9-2.105

पुरैश्च विविधाकारैः प्रीतैर्ज्जनपदैस्तथा।
तस्मिन् ब्रह्मवनेऽव्यक्ते ब्रह्मा चरति शर्वरीम्

9-2.106

अव्यक्तबीजप्रभवस्तस्यैवानुग्रहोत्थितः।
बुद्धिस्कन्धमयश्चैव इन्द्रियाङ्कुरकोटरः

9-2.107

महाभूतप्रशाखश्च विशेषैः पत्रवांस्तथा।
धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः

9-2.108

आजीवः सर्वभूतानामयं वृक्षः सनातनः।
एतद्ब्रह्मबलं चैव ब्रह्मवृक्षस्य तस्य ह

9-2.109

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्।
इत्येषोऽनुग्रहः सर्गो ब्रह्मणः प्राकृतस्तु यः

9-2.1.9.110

मुख्यादयस्तु षट्‌सर्गा वैकृता बुद्धिपूर्वकाः।
त्रैकाले समवर्तन्त ब्रह्मणस्तेऽभिमानिनः

9-2.111

सर्गाः परस्परस्याथ कारणं ते बुधैः स्मृताः।
दिव्यौ सुपर्णौ सयुजौ सशाखौ पटविद्रुमौ ॥
एकस्तु योद्रुमं वेत्ति नान्यः सर्वात्मनस्ततः

9-2.112

द्यौर्मूर्द्धानं यस्य विप्रास्तुवन्ति खन्नाभिं वै चन्द्रसूर्यौ च नेत्रे।
दिशः श्रोत्रे चरणौ चास्य भूमिः सोऽचिन्त्यात्मा सर्वभूत प्रसूतिः

9-2.113

वक्राद्यस्य ब्राह्मणाः संप्रसूता यद्वक्षस्तः क्षत्रियाः पूर्वभागे।
वैश्याश्वोरोर्यस्य पद्भयां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः

9-2.114

महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम्।
अण्डाज्जज्ञे पुनर्ब्रह्मा येन लोकाः कृतास्त्विमे

9-2.1.9

इति श्रीमहापुरणे वायुप्रोक्ते देवादिसृष्टिवर्णनं नाम नवमोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc