भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 8-2

8-2.1

॥सूत उवाच॥
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः।
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्

8-2.2

ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत्।
अन्धकारे तदा तस्मिन् नष्टे स्थावरजङ्गमे

8-2.3

जलेन समनुव्याप्ते सर्वतः पृथिवीतले।
अविभागेन भूतेषु समन्तात्सुस्थितेषु च

8-2.4

निशायामिव खद्योतः प्रावृट्‌काले ततस्ततः।
तदाकाशे चरन् सोऽथ वीक्ष्यमाणः स्वयम्भुवः

8-2.5

प्रतिष्ठाया ह्यपायन्तु मार्गमाणस्तदा प्रभुः।
ततस्तु सलिले तस्मिन् ज्ञात्वा ह्यन्तर्गतां महीम्

8-2.6

अनुमानात्तु सम्बुद्धो भूमेरुद्धरणं प्रति।
चकारान्यां तनुञ्चैव पूर्वकल्पादिषु स्मृताम्

8-2.7

स तु रूपं वराहस्य कृत्वाऽपः प्राविशत् प्रभुः।
अद्भिः सञ्छादितामुर्वीं समीक्ष्याथ प्रजापतिः

8-2.8

उद्धृत्योर्वीमथाद्भ्यस्तु अपस्तास्तु स विन्यसत्।
सामुद्रीस्तु समुद्रेषु नादेयीर्निम्नगास्वपि।
पार्थिवीस्तु स विन्यस्य पृथिव्यां सोऽचिनोद्गिरीन्

8-2.9

प्राक्सर्गे दह्यमाने तु तदा संवर्त्तकाग्निना।
तेनाग्निना प्रलीनास्ते पर्वता भुवि सर्वशः

8-2.10

शैत्यादेकार्णवे तस्मिन् वायुनापस्तु संहृताः।
निषक्ता यत्र यत्रासंस्तत्रतत्राऽचलोऽभवत्

8-2.11

स्कन्नाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः।
गिरयोऽद्भिर्निगीर्णत्वाच्चयनाच्च शिलोच्चयाः

8-2.12

ततस्तु तां समुद्धृत्य क्षितिमन्तर्ज्जलात् प्रभुः।
स्वस्थाने स्थापयित्वा च विभागमकरोत् पुनः

8-2.13

सप्त सप्त तु वर्षाणि तस्या द्वीपेषु सप्तसु।
विषमाणि समीकृत्य शिलाभिरचिनोद्गिरीन्

8-2.14

द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव च।
तावन्तः पर्वताश्चैव वर्षान्ते समवस्थिताः।
सर्गादौ सन्निविष्टास्ते स्वभावेनैव नान्यथा

8-2.15

सप्त द्वीपाः समुद्राश्च अन्योन्यस्य तु मण्डलम्।
सन्निकृष्टाः स्वभावेन समावृत्य परस्परम्

8-2.16

भूराख्यांश्चतुरो लोकांश्चन्द्रादित्यौ ग्रहैः सह।
पूर्वं तु निर्म्ममे ब्रह्मा स्थानानीमानि सर्वशः

8-2.17

कल्पस्य चास्य ब्रह्मा वै ह्यसृजत् स्थानिनः पुरा।
आपोऽग्रिः पृथिवी वायुरन्तरिक्षं दिवं तथा

8-2.18

स्वर्गं दिशः समुद्रांश्च नदीः सर्वांश्च पर्वतान्।
ओषधीनां तथात्मानमात्मानं वृक्षवीरुधाम्

8-2.19

लवाः काष्ठाः कलाश्चैव मुहूर्तं सन्धिरात्र्यहम्।
अर्द्धमासांश्च मासांश्च अयनाब्दयुगानि च

8-2.20

स्थानाभिमानिनश्चैव स्थानानि च पृथक् पृथक्।
स्थानात्मानः स सृष्ट्वा वै युगावस्थां विनिर्ममे

8-2.21

कृतं त्रेता द्वापरं च कलिं चैव तथा युगम्।
कल्पस्यादौ कृतयुगे प्रथमे सोऽसृजत् प्रजाः

8-2.22

प्रागुक्ता या मया तुभ्यं पूर्वकालं प्रजास्तु ताः।
तस्मिन् संवर्त्तमाने तु कल्पे दग्धास्तदाऽग्निना

8-2.23

अप्राप्ता यास्तपोलोकं जनलोकं समाश्रिताः।
प्रवर्तन्ति पुनः सर्गे बीजार्थं ता भवन्ति हि

8-2.24

बीजार्थेन स्थितास्तत्र पुनः सर्गस्य कारणात्।
ततस्ताः सृज्यमानास्तु सन्तानार्थं भवन्ति हि

8-2.25

धर्म्मार्थकाममोक्षाणामिह ताः साधकाः स्मृताः।
देवाश्च पितरश्चैव ऋषयो मनवस्तथा

8-2.26

ततस्ते तपसा युक्तः स्थानान्यापूरयन्ति हि।
ब्रह्मणो मानसास्ते वै सिद्धात्मानो भवन्ति हि

8-2.27

ये सर्गा द्वेषयुक्तेन कर्मणा ते दिवं गताः।
आवर्त्तमाना इह ते सम्भवन्ति युगे युगे

8-2.28

स्वकर्मफलशेषेण ख्याताश्चैव तथात्मिकाः।
संभवन्ति जनाल्लोकात् कर्मसंशयबन्धनात्

8-2.29

आशयः कारणं तत्र बोद्धव्यं कर्मणां तु सः।
तैः कर्मभिस्तु जायन्ते जनाल्लोकाः शुभाशुभैः

8-2.30

गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु।
देवाद्यस्थावरान्ते च उत्पद्यन्ते परस्परम्

8-2.31

तेषां ये यानि कर्माणि प्राक् सृष्टेः प्रतिपेदिरे।
तान्येते प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः

8-2.32

हिस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते

8-2.33

कल्पेष्वासन् व्यतीतेषु रूपनामानि यानि च।
तान्येवानागते काले प्रायशः प्रतिपेदिरे

8-2.34

तस्मात्तु नामरूपाणि तान्येव प्रतिपेदिरे।
पुनः पुनस्ते कल्पेषु जायन्ते नामरूपतः

8-2.35

ततः सर्गे ह्यवष्टब्धे सिसृक्षोर्ब्रह्मणस्तु वै।
प्रजास्ता ध्यायतस्तस्य सत्याभिध्यायिनस्तदा

8-2.36

मिथुनानां सहस्रन्तु सोऽसृजद्वै मुखात्तदा।
जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुचेतसः

8-2.37

सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज्ज ह।
ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यशुष्मिणः

8-2.38

सृष्ट्वा सहस्रमन्यत्तु द्वन्द्वानामूरुतः पुनः।
रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः

8-2.39

पद्भ्यां सहस्रमन्यत्तु मिथुनानां ससर्ज्ज ह।
उद्रिक्तास्तमसा सर्वे निःश्रीका ह्यल्पतेजसः

8-2.40

ततो वै हर्षमानास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः।
अन्योन्या हृच्छपाविप्टा मैथुनायोपचक्रमुः

8-2.41

ततःप्रभृति कल्पेऽस्मिन् मिथुनोत्पत्तिरुच्यते।
मासे मासेर्त्तवं यद्यत्तदाज्ञासिद्धि योषितात्

8-2.42

तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः।
आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ते सकृत्

8-2.43

कुटकाः कुविकाश्चैव उत्पद्यन्ते मुमूर्षिताः।
ततःप्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः

8-2.44

ध्याते तु मनसा तासां प्रजानां जायते सकृत्।
शब्दादि विषयः शुद्धः प्रत्येकं पञ्चलक्षणः

8-2.45

इत्येवं मनसा पूर्वं प्राक्सृष्टिर्या प्रजापतेः।
तस्यान्ववाये सम्भूता यैरिदं पूरितं जगत्

8-2.46

सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि।
तदा नात्यम्बुशीतोष्णा युगे तस्मिन् चरन्ति वै

8-2.47

पृथ्वीरसोद्भवं नाम आहारं ह्याहरन्ति वै।
ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमास्थिताः

8-2.48

धर्माधर्मौ न तास्वास्तां निर्विशेषाः प्रजास्तु ताः।
तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे

8-2.49

धर्माधर्मौ न तास्वास्तां कल्पादौ तु कृते युगे।
स्वेन स्वेनाधिकारेण जज्ञिरे ते कृते युगे

8-2.50

चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया।
आद्यं कृतयुगं प्राहुः सन्ध्यानान्तु चतुः शतम्

8-2.51

ततः सहस्रशस्तासु प्रजासु प्रथितास्वपि।
न तासां प्रतिघातोऽस्ति न द्वन्द्वन्नापि च क्रमः

8-2.52

पर्वतोदधिसेविन्यो ह्यनिकेताश्रयास्तु ताः।
विशोकाः सत्त्वबहुला एकान्तसुखितप्रजाः

8-2.53

ता वै निकामचारिण्यो नित्यं मुदितमानसाः।
पशवः पक्षिणश्चैव न तदासन् सरीसृपाः

8-2.54

नोद्भिज्जा नारकाश्चैव ते ह्यधर्मप्रसूतयः।
न मूलफलपुष्पञ्च नार्त्तवं ह्यृतवो न च

8-2.55

सर्वकामसुखः कालो नात्यर्थं ह्युष्णशीतता।
मनोभिलषिताः कामास्तासां सर्वत्र सर्वदा

8-2.56

उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसोत्थिताः।
बलवर्णकरी तासां सिद्धिः सा रोगनाशिनी

8-2.57

असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः।
तासां विशुद्धात् सङ्कल्पाज्जायन्ते मिथुनाः प्रजाः

8-2.58

समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम्।
तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः

8-2.59

निर्विशेषाः कृताः सर्वा रूपायुःशीलचेष्टितैः।
अबुद्धिपूर्वकं वृत्तं प्रजानां जायते स्वयम्

8-2.60

अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः।
वर्णाश्रमव्यवस्थाश्च न तदासन्न सङ्करः

8-2.61

अनिच्छाद्वेषयुक्तास्ते वर्त्तयन्ति परस्परम्।
तुल्यरूपायुषः सर्वा अधमोत्तमवर्ज्जिताः

8-2.62

सुखप्राया ह्यशोकाश्च उत्पद्यन्ते कृते युगे।
नित्यप्रहृष्टमनसो महासत्त्वा महाबलाः

8-2.63

लाभालाभौ नास्वास्तां मित्रामित्रे प्रियाप्रिये।
मनसा विषयस्तासान्निरीहाणां प्रवर्त्तते।
न लिप्सन्ति हि ताऽन्योन्यन्नानुगृह्णन्ति चैव हि

8-2.64

ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते।
प्रवृत्तं द्वापरे यज्ञं दानं कलियुगे वरम्

8-2.65

सत्त्वं कृतं रजस्त्रेता द्वापरन्तु रजस्तमौ।
कलौ तमस्तु विज्ञेयं युगवृत्तवशेन तु

8-2.66

कालः कृते युगे त्वेष तस्य संख्यान्निबोधत।
चत्वारि तु सहस्राणि वर्षाणां त्त कृतं युगम्

8-2.67

सन्ध्यांशौ तस्य दिव्यानि शतान्यष्टौ च संख्यया।
तदा तासां बभूवायुर्न्न च क्लेशविपत्तयः

8-2.68

ततः कृतयुगे तस्मिन् सन्ध्यांशे हि गते तु वैः।
पादावशिष्टो भवति युगधर्मस्तु सर्वशः

8-2.69

सन्ध्यायामप्यतीतायामन्तकाले युगस्य तु।
पादतश्वावतिष्ठेत्तु सन्ध्याधर्मो युगस्य तु।
एवं कृते तु निःशेषे सिद्धि स्त्वन्तर्दधे तदा

8-2.70

तस्याञ्च सिद्धौ भ्रष्टायां मानस्यामभवत्ततः।
सिद्धिरन्या युगे तस्मिस्त्रेतायामन्तरे कृताः

8-2.71

सर्गादौ या मयाष्टौ तु मानस्यो वै प्रकीर्त्तिताः।
अष्टौ ताः क्रमयोगेन सिद्धयो यान्ति संक्षयम्

8-2.72

कल्पादौ मानसी ह्येषा सिद्धिर्भवति सा कृते।
मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः।
वर्णाश्रमाचारकृतः कर्मसिद्धोद्भवः स्मृतः

8-2.73

सन्ध्याकृतस्य पादेन सन्ध्यापादेन चांशतः।
कृतसन्ध्यांशका ह्येते त्रींस्त्रीन् पादान् परस्परान्।
ह्रसन्ति युगधर्मैस्ते तपः श्रुतबलायुषैः

8-2.74

ततः कृतांशे क्षीणे तु बभूव तदनन्तरम्।
त्रेतायां युगमन्यन्तु कृताशमृषिसत्तमाः

8-2.75

तस्मिन् क्षीणे कृतांशे तु तच्छिष्टासु प्रजास्विह।
कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रमुखे तदा

8-2.76

प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा।
तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्त्तत

8-2.77

अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु तौ।
मेघेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्ज्जनम्

8-2.78

सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले।
प्रादुरासंस्तदा तासां वृक्षास्तु गृहसंस्थिताः

8-2.79

सर्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते।
वर्त्तयन्ति हि तेभ्यस्तास्त्रेतायुगमुखे प्रजाः

8-2.80

ततः कालेन महता तासामेव विपर्ययात्।
रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत्

8-2.81

यत्तद्भवति नारीणां जीवितान्ते तदार्त्तवम्।
तदा तद्वै न भवति पुनर्युगबलेन तु

8-2.83

तासां पुनः प्रवृत्तं तु मासे मासे तदार्त्तवम्।
ततस्तेनैव योगेन वर्त्ततां मिथुने तदा ॥८२।.
तासां तत्कालभावित्वान्मासि मास्युपगच्छताम्।
अकाले ह्यार्त्तवोत्पत्तिर्गर्भोत्पत्तिरजायत

8-2.84

विपर्ययेण तासां तु तेन कालेन भाविना।
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंस्थिताः

8-2.85

ततस्तेषु प्रणष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः।
अभि ध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा

8-2.86

प्रादुर्बभूवुस्तासां च वृक्षास्ते गृहसंस्थिताः।
वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च

8-2.87

तेष्वेव जायते तासां गंधवर्णरसान्वितम्।
अमाक्षिकं महावीर्यं पुटके पुटके मधु

8-2.88

तेन ता वर्तयन्ति स्म मुखे त्रेतायुगस्य च।
हृष्टतुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः

8-2.89

पुनः कालांतरेणैव पुनर्ल्लोभावृतास्तु ताः।
वृक्षांस्तान् पर्यगृह्णन्त मधु वा माक्षिकं बलात्

8-2.90

तासां तेनापचारेण पुनर्ल्लोककृतेन वै।
प्रणष्टा मधुना सार्द्धं कल्पवृक्षाः व्कचित् व्कचित्

8-2.91

तस्यामेवाल्पशिष्टायां संध्याकालवशात्तदा।
प्रावर्तंत तदा तासां द्वंद्वान्यभ्युत्थितानि तु

8-2.92

शीतवातातपैस्तीव्रैस्ततस्ता दुःखिता भृशम्॥
द्वंद्वैस्ताः पीड्यमानास्तु चक्रुरावरणानि च

8-2.93

कृत्वा द्वंद्व प्रतीकारं निकेतानि हि भोजिरे।
पूर्वं निकमिपारास्ते अनिकेताश्रया भृशम्

8-2.94

यथायोग्यं यथाप्रीति निकेतेष्ववसन् पुनः।
मरुधन्वसु निम्नेषु पर्वतेषु नदीषु च।
संश्रयन्ति च दुर्गाणि धन्वानं शाश्वतोदकम्

8-2.95

यथायोगं यथाकामं समेषु विषमेषु च।
आरब्धास्ते निकेता वै कर्त्तं शीतोष्ण वारणम्

8-2.96

ततः संस्थापयामास खेटानि च पुराणि च।
ग्रामांश्चैव यथाभागं तथैवान्तः पुराणि च

8-2.97

तासामायामविष्कम्भान् संनिवेशान्तराणि च।
चक्रुस्तदा यथाप्रज्ञं प्रदेशः संज्ञितस्तु तैः

8-2.98

अंगुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते।
तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया

8-2.99

कनिष्ठया वितस्तिस्तु द्वादशाङुल उच्यते।
रत्निरङ्गुलपर्व्वाणि संख्यया त्वेकविंशतिः

8-2.100

चतुर्विंशतिभिश्चैव हस्तः स्यादङ्गुलानि तु।
किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदङ्गुलम्

8-2.101

चतुर्हस्तं धनुर्दण्डो नालिकायुगमेव च।
धनुः सहस्रे द्वे तत्र गव्यूतिस्तैर्विभाव्यते

8-2.102

अष्टौ धनुःसहस्राणि योजनं तौर्निरुच्यते।
एतेन योजनेनैव सन्निवेशस्ततः कृतः

8-2.103

चतुर्णामेव दुर्गाणां स्वसमुत्थानि त्रीणि तु।
चतुर्थं कृत्रिमं दुर्गं तस्य वक्ष्याम्यहं विधिम्

8-2.104

सौधोच्चवप्रप्राकारं सर्वतश्चातकावृतम्।
तदेकं स्वस्तिकद्वारं कुमारीपुरमेव च

8-2.105

श्रोतसीसह तद्द्वारं निखातं पुनरेव च।
हस्ताष्टौ च दश श्रेष्ठा नवाष्टौ वाऽपरे मताः

8-2.106

खेटानां नगराणाञ्च ग्रामाणाञ्चैव सर्व्वशः।
त्रिविधानाञ्च दुर्गाणां पर्व्व तोदकबन्धनम्

8-2.107

त्रिविधानाञ्च दुर्गाणां विष्कम्भायाममेव च।
योजनानाञ्च विष्कम्भमष्टभागार्द्धमायतम्

8-2.108

परमार्द्धार्द्धमायामं प्रगुदक्‌प्रवरं पुरम्।
छिन्नकर्णं विकर्णन्तु व्यञ्जनं कृशसंस्थितम्

8-2.109

वृत्तं हीनञ्च दीर्घञ्च नगरं न प्रशस्यते।
चतुरस्रार्जवं दिक्स्थं प्रशस्तंवै पुरं परम्

8-2.110

चतुर्विंशतिराद्यन्तु हस्तानष्टशतं परम्।
अत्र मध्यं प्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम्

8-2.111

अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यनिवेशनम्।
नगरादर्धविष्कम्भं खेटं ग्रामं ततो बहिः

8-2.112

नगराद्योजनं खेटं शेटाद्ग्रामोऽर्द्धयोजनम्।
द्विक्रोशं परमा सीमा क्षेत्रसीमा चतुर्द्धनुः

8-2.113

विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः।
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु

8-2.114

धनूंषि दश विस्तीर्णः श्रीमान् राजपथः स्मृतः।
नृवाजिरथनागानामसम्बाधः सुसञ्चरः

8-2.115

धनूंषि चैव चत्वारि शाखारथ्यास्तु तैः कृताः।
गृहरथ्योपरथ्याश्च द्विकाश्चाप्युपरथ्यकाः

8-2.116

घण्टापथश्चतुष्पादस्त्रिपदञ्च गृहान्तरम्।
वृत्तिमार्गास्त्वर्द्धपदं प्राग्वंशः पदिकः स्मृतः

8-2.117

अवस्करं परीवाहं पदमात्रंसमन्ततः।
कृतेषु तेषु स्थानेषु पुनस्वक्रुर्गृहाणि वै

8-2.118

यथा ते पूर्वमासन्वै वृक्षास्तु गृहसंस्थिताः।
तथा कर्तुं समारब्धाश्चिन्तयित्वा पुनः पुनः

8-2.119

वृक्षाश्चैवगताः शाखा न ताश्चैव परागताः।
अत ऊर्द्ध्वंगता श्चान्या एवं तिर्य्यग्गताः पुरा

8-2.120

बुद्ध्वाऽन्विष्यस्तथा न्यायो वृक्षशाखा यथा गताः।
तथा कृतास्तु तैः शाखास्तस्माच्छालास्तु ताः स्मृताः

8-2.121

एवं प्रसिद्धाः शाखाभ्यः शालाश्चैव गृहाणि च।
तस्मात्ता वैस्मृताः शालाः शालात्वं चैव तासु तत्

8-2.122

प्रसीदति मनस्तासु मनः प्रसादयन्ति ताः।
तस्माद्गृहाणि शालाश्च प्रासादाश्चैव संज्ञिताः

8-2.123

कृत्वा द्वन्द्वोपघातांस्तान् वार्त्तोपायमचिन्तयन्।
नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा।
विषादव्याकुलास्तावै प्रजास्तृष्णाक्षुधात्मिकाः

8-2.124

ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः।
वार्तार्थसाधिकाप्यन्या वृत्तिस्तासां हि कामतः

8-2.125

तासां वृष्ट्युदकानीह यानि निम्नैर्गतानि तु।
वृष्ट्या तदभावत्स्रोतः खातानि निम्नगाः स्मृताः

8-2.126

एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्ज्जने।
ये परस्तादपां स्तोका आपन्नाः पॄथिवीतले

8-2.127

अपाम्भूमेश्च संयोगादोषध्यस्तासु चाभवन्।
पुष्पमूलफलिन्यस्तु ओषध्यस्ताः प्रजज्ञिरे

8-2.128

अफालकृष्टाश्चानुप्ता ग्राम्याऽरण्याश्चतुर्दश।
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे

8-2.129

प्रादुर्भावश्च त्रेतायां वार्त्तायामौषधस्य तु।
तैनौषधेन वर्त्तन्ते प्रजास्त्रेतायुगे तदा

8-2.130

ततः पुनरभूत्तासां रागो लोभश्च सर्वशः।
अवश्यम्भाविनार्थेन त्रेतायुगवशेन तु

8-2.131

ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान्।
वृक्षान् गुलर्मौषधीश्चैव प्रसह्य तु यथाबलम्

8-2.132

सिद्धात्मानस्तु ये पूर्वं व्याख्याताः प्राकृते मया।
ब्रह्मणा मानवास्ते वै उत्पन्ना योजनादिह

8-2.133

शान्ताश्च सुष्मिणश्चैव कर्मिणो दुःखिनस्तदा।
ततः प्रवर्त्तमानास्ते त्रेतायां जर्ज्ञिरे पुनः

8-2.134

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्रोहिजनास्तथा।
भाविताः पूर्वजातीषु कर्मभिश्च शुभाशुभैः

8-2.135

इतस्तेभ्यो बला ये तु सत्यशीला ह्यहिंसकाः।
वीतलोभा जितात्मानो निवसन्ति स्म तेषु वै

8-2.136

प्रतिगृह्णन्ति कुर्वन्ति तेभ्यश्चान्येऽल्पतेजसः।
एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम्

8-2.137

तेन दोषेण तेषां ता ओषध्यो मिषतां तदा।
प्रणष्टा ह्रियमाणा वै मुष्टिब्यां सिकता यथा

8-2.138

अग्रसद्भूर्युगबलाद्ग्राम्यारण्याश्चतुर्दश।
फलं गृह्णन्ति पुष्पैश्च पुष्वं पत्रैश्च याः पुनः

8-2.139

ततस्तासु प्रणष्टासु विभ्रान्तास्ताः प्रजास्तदा।
स्वयम्भुवं प्रभुं जग्मुः क्षुधाविष्टाः प्रजापतिम्

8-2.140

वृत्त्यर्थमभि लिप्सन्त आदौ त्रेतायुगस्य तु।
ब्रह्मा स्वयम्भूर्भगवान् ज्ञात्वा तासां मनीषितम्

8-2.141

युक्तं प्रत्यक्षदृष्टेन दर्शनेन विचार्य च।
ग्रस्ताः पृथिव्या ओषध्यो ज्ञात्वा प्रत्यदुहत्पुनः

8-2.142

कृत्वा वत्सं सुमेरुं तु दुदोह पृथिवीमिमाम्।
दुग्धेयं गौस्तदा तेन बीजानि पृथिवीतले

8-2.143

जज्ञिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः।
ओषध्यः फलपाकान्ताः सप्तसप्तदशास्तु ताः

8-2.144

व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः।
प्रियङ्गवौ ह्युदाराश्च कारषाश्च सतीनकाः

8-2.145

माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः।
आढक्यश्वणकाश्चैव सप्तसप्तदशाः स्मृताः

8-2.146

इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः।
ओषध्यो यज्ञियाश्चैव ग्राम्यारण्या श्चतुर्द्दश

8-2.147

व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः।
प्रियङुसप्तमा ह्येते अष्टमी तु कुलत्थिका

8-2.148

श्यामाका स्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः।
कुरुविन्दा वेणुयवास्तथा मर्कटकाश्च ये

8-2.149

ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्द्दश।
उत्पन्नाः प्रथमा ह्येता आदौ त्रेतायुगस्य तु

8-2.150

अफालकृष्टा ओषध्यो ग्राम्यारण्यास्तु सर्वशः।
वृक्षा गुल्मलतावल्लीवीरुधस्तृणजातयः

8-2.151

मूलैः फलैश्च रोहिण्यो गृह्णन् पुष्पैश्च जायते।
पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयम्भुवा

8-2.152

ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह।
यदा प्रसृष्टा ओषध्यो न प्ररेहन्ति ताः पुनः

8-2.153

ततः स तासां वृत्त्यर्थं वार्त्तोपायं चकार ह।
ब्रह्मा स्वयंभूर्भगवान् दृष्ट्वा सिद्धिं तु कर्मजाम्

8-2.154

ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे।
संसिद्धायान्तु वार्त्तायान्ततस्तासां स्वयंभुवः।
मर्यादाः स्थापयामास यथारब्धाः परस्परम्

8-2.155

ये वै परिगृहीतारस्तासामासन्विधात्मकाः।
इतरेषां कृतत्राणाः स्थापयामास क्षत्रियान्

8-2.156

उपतिष्ठन्ति ये तान्वै यावन्तो निर्भयास्तथा।
सत्यं ब्रह्म यथा भूतं यथा भूतं ब्रुवन्तो ब्राह्मणाश्च ते

8-2.157

ये चान्येप्यबलास्तेषां वैश्यसंकर्मसंस्थिताः।
कीनाशा नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः।
वैश्यानेव तु तानाहुः की नाशान् वृत्तिसाधकान्

8-2.158

शोचन्तश्च द्रवन्तश्च परिचर्यासु ये रताः।
निस्तेजसोऽल्पवीर्याश्च शूद्रास्तानब्रवीत्तु सः

8-2.159

तेषां कर्माणि धर्माश्च ब्रह्मा तु व्यदधात् प्रभुः।
संस्थितौ प्राकृतायां तु चातुर्वर्णस्य सर्वशः

8-2.160

पुनः प्रजास्तु ता मोहात् तान् धर्मांस्तानपालयन्।
वर्ण धर्मैरजीवन्त्यो व्यरुध्यन्त परस्परम्

8-2.161

ब्रह्मा तमर्थं बुद्ध्वा तु याथातथ्येन वै प्रभुः।
क्षत्रियाणां बलं दण्डं युद्धमाजीवमादिशत्

8-2.162

याजनाध्यापनं चैव तृतीयं च परिग्रहम्।
ब्राह्मणानां विभुस्तेषां कर्माण्येतान्यथादिशत्

8-2.163

पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ।
शिल्पाजीवं भृतिञ्चैव शूद्राणां व्यदधात् प्रभुः

8-2.164

सामान्यानि तु कर्माणि ब्रह्मक्षत्रविशां पुनः।
यजनाध्ययनं दानं सामान्यानि तु तेषु च

8-2.165

कर्माजीवं ततो दत्त्वा तेभ्यश्चैव परस्परम्।
लोकान्तरेषु स्थानानि तेषां सिद्ध्याऽददत् प्रभुः

8-2.166

प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्।
स्थानमैन्द्रं क्षत्रियाणां संग्रामष्वेपलायिनाम्

8-2.167

वैश्यानां मारुतं स्थानं स्वधर्ममुपजीविनाम्।
गान्धर्वं शूद्रजातीनां प्रतिचारेण तिष्ठताम्

8-2.168

स्थानान्येतानि वर्णानां व्यत्याचारवतां स्वयम्।
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान्

8-2.169

गृहस्थो ब्रह्मचारित्वं वानप्रस्थं सभिक्षुकम्।
आश्रमांश्चतुरो ह्येतान् पूर्वमास्थापयत् प्रभुः

8-2.170

वर्णकर्माणि ये केचित्तेषामिह न कुर्वते ।
कुतः कर्मा क्षितिं प्राहुराश्रमस्थानवासिनः

8-2.171

ब्रह्मा तान् स्थापयामास आश्रमान्नामनामतः।
निर्द्देशार्थं ततस्तेषां ब्रह्मा धर्मान् प्रभाषत।
प्रस्थानानि च तेषां वै यमांश्च नियमांश्च ह

8-2.172

चातुर्वर्णात्मकः पूर्वं गृहस्थश्चाश्रमः स्मृतः।
त्रयाणामाश्रमाणाञ्च प्रतिष्ठायोनिरेव च।
यथाक्रमं प्रवक्ष्यामि यमैश्च नियमैश्च ते

8-2.173

दाराऽग्नयोऽथातिथेय इज्याश्राद्धक्रियाः प्रजाः।
इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः

8-2.174

दण्डी च मेखली चैव ह्यधः शायी तथा जटी।
गुरुशुश्रूषणं भैक्षं विद्याद्वै ब्रह्मचारिणः

8-2.175

चीरपत्राजिनानि स्युर्द्धान्यमूलफलौषधम्।
उभे सन्ध्येऽवगाहश्च होमश्वारण्य वासिनाम्

8-2.176

आसन्नमुसले भैक्षमस्तेयं शौचमेव च।
अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा

8-2.177

अक्रोधो गुरुशुश्रूषा सत्यञ्च दशमं स्मृतम्।
दशलक्षणिको ह्येष धर्मः प्रोक्तः स्वयम्भुवा

8-2.178

भिक्षोर्व्रतानि पञ्चात्र पञ्चैवोपव्रतानि च।
आचारशुद्धिर्नियमः शौचञ्च प्रतिकर्म च।
सम्यग्दर्शनमित्येवं पञ्चैवोपव्रतान्यपि

8-2.179

ध्यानं समाधिर्मनसेन्द्रियाणां ससागरैर्भैक्षमथोपगम्य।
मौनं पवित्रोपचितैर्विमुक्तिः परिव्रजो धर्ममिमं वदन्ति

8-2.180

सर्वे ते श्रेयसे प्रोक्तो आश्रमा ब्रहमणा स्वयम्।
सत्यार्ज्जवन्तपः क्षान्तिर्योगेज्या दमपूर्विका

8-2.181

वेदाः साङ्गाश्च यज्ञाश्च व्रतानि नियमाश्च ये।
न सिद्ध्यन्ति प्रदुष्टस्य भावदोष उपागते

8-2.182

बहिः कर्माणि सर्वाणि प्रसिद्धयन्ति कदाचन।
अन्तर्भावप्रदुष्टस्य कुर्वतोऽपि पराक्रमान्

8-2.183

सर्वस्वमपि योदद्यात् कलुषेणान्तरात्मना।
न तेन धर्मभाक् स स्याद्भाव एवात्र कारणम्

8-2.184

एवं देवाः सपितर ऋषयो मनवस्तथा।
तेषां स्थानममुष्मिस्तु संस्थितानां प्रचक्षते

8-2.185

अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम्।
स्मृतं तु तेषां तत्स्थानं तदेव गुरुवासिनाम्

8-2.186

सप्तर्षीणान्तु यत्श्थानं स्मृतन्तद्वै दिवौकसाम्।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयः।
योगिनाममृतं स्थानं नानाधीनां न विद्यते

8-2.187

स्थानान्याश्रमिणां तानि ये स्वधर्मे व्यवस्थिताः।
चत्वार एते पन्थानो देवयाना विनिर्मिताः

8-2.188

ब्रह्मणा लोकतन्त्रेण आद्ये मन्वन्तरे भुवि।
पन्थानो देवयानाय तेषां द्वारं रविः स्मृतः

8-2.189

तथैव पितृयाणानां चन्द्रमाद्वारमुच्यते।
एवं वर्णाश्रमाणां वै प्रविभागे कृते तदा।
यदास्य न व्यवर्त्तन्त प्रजा वर्णाश्रमात्मिकाः

8-2.190

ततोऽन्या मानसीः सोऽथ त्रेतामगध्येऽसृजत् प्रजाः।
आत्मनः स्वशरीराच्च तुल्याश्वैवात्मना तु वै

8-2.191

तस्मिस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु।
ततोऽन्या मानसीस्तत्र प्रजाः स्रष्टुं प्रचक्रमे

8-2.192

ततः सत्त्वरजोद्रिक्ताः प्रजाः सोऽथासृजत् प्रभुः।
धर्मार्थकाममोक्षाणां वार्त्तायाश्चैव साधिकाः

8-2.193

देवाश्च पितरश्चैव ऋषयो मनवस्तथा।
युगानुरूपा धर्मेण यैरिमा विचिताः प्रजाः

8-2.194

उपस्थिते तदा तस्मिन् प्रजाधर्मे स्वयम्मुवः।
अभिदध्यौ प्रजाः सर्वा नानारूपास्तु मानसीः

8-2.195

पूर्वोक्ता या मया तुभ्यञ्जनलोकं समाश्रिताः।
कल्पेऽतीते तु ते ह्यासन् देवाद्यास्तु प्रजा इह

8-2.196

ध्यायतस्तस्य ताः सर्वाः सम्भूत्यर्थमुपस्थिताः।
मन्वन्तरक्रमेणेह कनिष्ठे प्रथमे मताः

8-2.197

ख्यात्यानुबन्धैस्तैस्तैस्तु सर्वार्थैरिह भाविताः।
कुशलाकुशलप्रायैः कर्मभिस्तैः सदा प्रजाः।
तत्कर्मफलशेषेण उपष्टब्धाः प्रजज्ञिरे

8-2.198

देवासुरपितृत्वैश्च पशुपक्षिसरीसृपैः।
वृक्षनारकिकीटत्वै स्तैस्तैर्भावैरुपस्थिताः।
आधीनांर्थ प्रजानाञ्च आत्मनो वै विनिर्ममे

8-2.8

इति श्रीमहापुराणे वायुप्रोक्ते चतुराश्रमविभागो नामाष्टमोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc