भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 7-2

7-2.1

इत्येष प्रथमः पादः प्रक्रियार्थः प्रकीर्तितः।
श्रुत्वा तु संहृष्टमनाः काश्यपेयः सनातनः

7-2.2

सम्बोध्य सूतं वचसा पप्रच्छाथोत्तरां कथाम्।
अतःप्रभृति कल्पज्ञ प्रतिसंधिं प्रचक्ष्व नः

7-2.3

समतीतस्य कल्पस्य वर्त्तमानस्य चोभयोः।
कल्पयोरन्तरं यच्च प्रतिसंधिर्यतस्तयोः।
एतद्वेदितुमिच्छामः अत्यन्तकुशलो ह्यसि

7-2.4

॥लोमहर्षण उवाच॥
अत्र वोऽहं प्रवक्ष्यामि प्रतिसंधिञ्च यस्तयोः।
समतीतस्य कल्पस्य वर्त्तमानस्य चोभयोः

7-2.5

मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः।
यश्चायं वर्त्तते कल्पो वाराहः साम्प्रतः शुभः

7-2.6

अस्मात् कल्पाच्च यः कल्पः पूर्वोऽतीतः सनातनः।
तस्य चास्य च कल्पस्य मध्यावस्थान्निबोधत

7-2.7

प्रत्याहृते पूर्वकल्पे प्रतिसंधिं च तत्र वै।
अन्यः प्रवर्त्तते कल्पो जनाल्लोकात् पुनः पुनः

7-2.8

व्युच्छिन्नात् प्रतिसंधेस्तु कल्पात् कल्पः परस्परम्।
व्युच्छिद्यन्ते क्रियाःसर्वाः कल्पान्ते सर्वशस्तदा।
तस्मात् कल्पात्तु कल्पस्य प्रतिसंधिर्निगद्यते

7-2.9

मन्वन्तरयुगाख्यानामप्युच्छिन्नाश्च सन्धयः।
परस्पराः प्रवर्त्तन्ते मन्वन्तरयुगैः सह

7-2.10

उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः।
तेषां परार्द्धकल्पानां पूर्वो ह्यस्मात्तु यः परः।
आसीत् कल्पो व्यतीतो वै परार्द्धेन परस्तु सः

7-2.11

अन्ये भविष्या ये कल्पा अपरार्द्धाद्गुणीकृताः।
प्रथमः साम्प्रतस्तेषां कल्पोऽयं वर्त्तते द्विजाः

7-2.12

यस्मिन् पूर्वः परार्द्धे तु द्वितीये पर उच्यते।
एतावान् स्थितिकालश्च प्रत्याहारस्ततः स्मृतः

7-2.13

अस्मात् कल्पात्तु यः पूर्वं कल्पोऽतीतः सनातनः।
चतुर्युगसहस्रान्ते अहो मन्वन्तरैः पुरा

7-2.14

क्षीणे कल्पे तदा तस्मिन् दाहकाले ह्युपस्थिते।
तस्मिन् कल्पे तदा देवा आसन्वैमानिकास्तु ये

7-2.15

नक्षत्रग्रहतारास्तु चन्द्रसूर्यग्रहाश्च ये।
अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्मनाम्

7-2.16

मन्वन्तरे तथैकस्मिन् चतुर्दशसु वै तथा।
त्रीणि कोटिशतान्यासन् कोट्याद्विनवतिस्तथा।
अष्टाधिकाः सप्तशताः सहस्राणां स्मृताः पुरा

7-2.17

वैमानिकानां देवानां कल्पेऽतीते तु येऽभवन्।
एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः

7-2.18

अथ मन्वन्तरेष्वासंश्चतुर्दशसु वै दिवि।
देवाश्च पितरश्चैव मुनयो मनवस्तथा

7-2.19

तेषामनुचरा ये च मनुपुत्रास्तथैव च।
वर्णाश्रमिभिरीड्याश्च तस्मिन् काले तु ये सुराः।
मन्वन्तरेषु येह्यासन् देवलोके दिवौकसः

7-2.20

ते तैः संयोजकैः सार्द्धं प्राप्ते सङ्कलने तथा।
तुल्यनिष्ठास्तु ते सर्वे प्राप्ते ह्याभूतसंप्लवे

7-2.21

ततस्तेऽवश्यभावित्वाद् बुद्ध्वा पर्यायमात्मनः।
त्रैलोक्यवासिनो देवास्तस्मिन् प्राप्ते ह्युपप्लवे

7-2.22

तेऽनौत्सुक्यविषादेन त्यक्त्वा स्थानानि भावतः।
महर्ल्लोकाय संविग्नास्ततस्ते दधिरे मतिम्

7-2.23

ते युक्ता उपपद्यन्ते महसिस्थैः शरीरकैः।
विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः

7-2.24

तैः कल्प वासिभिः सार्द्धं महानासादितस्तु यैः।
ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्भक्तैश्चापरैर्ज्जनैः

7-2.25

मत्वा तु ते महर्ल्लोकं देवसङ्घाश्चतुर्द्दश।
ततस्ते जनलोकाय सो द्वेगा दधिरे मतिम्

7-2.26

विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः।
तैः कल्पवासिभिः सांर्द्ध महानासादितस्तु यैः

7-2.27

दशकृत्व इवावृत्त्या तस्माद्गच्छन्ति स्वस्तपः।
तत्र कल्पान् दशस्थित्वा सत्यं गच्छन्ति वै पुनः।
एतेन क्रमयोगेन यान्ति कल्पनिवासिनः

7-2.28

एवं देवयुगानान्तु सहस्राणि परस्परात्।
गतानि ब्रह्मलोकं वै अपरावर्त्तिनीं गतिम्

7-2.29

आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः।
भवन्ति ब्रह्मणस्तुल्या रूपेण विषयेण च

7-2.30

तत्र ते ह्यवतिष्ठन्ति प्रीतियुक्ताः प्रसङ्गमात्।
आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह

7-2.31

अवश्यम्भाविनाऽर्थेन प्राकृतेनैव ते स्वयम्।
नाना त्वेनाभिसम्बद्धास्तदा तत्कालभाविनः

7-2.32

स्वरूपतो बुद्धिपूर्वं यथा भवति जाग्रतः।
तत्कालभावि तेषां तु तथा ज्ञानं प्रवर्त्तते

7-2.33

प्रत्याहारे तु भेदानां येषां भिन्नाभिसूष्मणाम्।
तैः सार्द्धं प्रतिसृज्यन्ते कार्याणि करणानि च

7-2.34

नानात्वदर्शनात्तेषां ब्रह्मलोकनिवासिनाम्।
विनष्टस्वाधिकाराणां स्वेन धर्मेण तिष्ठताम्

7-2.35

ते तुल्यलक्षणाः सिद्धाः शुद्धात्मानो निरञ्जनाः।
प्रकृतौ कारणातीताः स्वात्मन्येव व्यवस्थिताः

7-2.36

प्रख्यापयित्वा ह्यात्मानं प्रकृतिस्तेषु सर्वशः।
पुरुषाव्यवहृतत्वेन प्रतीता न प्रवर्त्तते

7-2.37

प्रवर्तिते पुनः सर्गे तेषां वा कारणं पुनः।
संयोगे प्राकृते तेषां युक्तानां तत्त्वदर्शिनाम्

7-2.38

अत्रापवर्गिणां तेषामपुनर्मार्गगामिनाम्।
अभावः पुनरुत्पत्तौ शान्तानामर्च्चिषामिव

7-2.39

ततस्तेषु गतेषूर्द्ध्वं त्रैलोक्यात्सुमहात्मसु।
तैः सार्द्धं ये महर्ल्लोकात्तदा नासादिता जनाः।
तच्छिष्टाश्चेह तिष्ठन्ति कल्पाद्देहमुपासते

7-2.40

गन्धर्वाद्याः पिशाचान्ता मानुषा ब्राह्मणादयः।
पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः

7-2.41

तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु।
सहस्रं यत्तु रश्मीनां सूर्यस्येह विभासते।
ते सप्तरश्मयो भूत्वा ह्येकैको जायते रविः

7-2.42

क्रमेणोत्तिष्ठमानास्ते त्रीन् लोकान् प्रदहन्त्युत।
जङ्गमाः स्थावराः चैव नदीः संर्वाश्च पर्वतान्।
पूर्वे शुष्का ह्यनावृष्ट्या सूर्यैस्तैश्च प्रधूपिताः

7-2.43

तदा ते विविशुः सर्वे निर्द्दग्धाः सूर्यरश्मिभिः।
जङ्गमाः स्थावराः सर्वे धर्माधर्मात्मकास्तु वै

7-2.44

दग्धदेहास्ततस्ते वै गताः पापयुगात्यये।
योन्या तया ह्यनिर्मुक्ताः शुभपापानुबन्धया

7-2.45

ततस्ते ह्युपपद्यन्ते तुल्यरूपा जने जनाः।
विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः

7-2.46

उषित्वा रजनीं तत्र ब्रह्मणोऽव्यक्तजन्मनः।
पुनः सर्गे भवन्तीह ब्रह्मणो मानसीप्रजाः

7-2.47

ततस्तेषु प्रवृत्तेषु जने त्रैलोक्यवासिषु।
निर्दग्धेषु च लोकेषु तेषु सूर्यैस्तु सप्तभिः।
वृष्ट्या क्षितौ प्लावितायां विशीर्णेष्वालयेषु च

7-2.48

समुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः।
व्रजन्त्येकार्णवत्वं हि सलिलाख्यास्तदाश्रिताः

7-2.49

आगतागतिकं तद्वै यदा तु सलिलं बहु।
संछाद्येमां स्थितां भूमिमर्णवाख्या तदा च सा

7-2.50

आभाति यस्मान्नाभान्ति भासन्तो व्याप्तिदीप्तिषु।
सर्वतः समनुप्लाव्य तासाञ्चाम्भो विभाव्यते

7-2.51

तदम्भस्तनुते यस्मात् सर्वां पृथ्वीं समन्ततः।
धातुस्तनोतिर्विस्तारे तेनाम्भस्तनवः स्मृताः

7-2.52

अरमित्येष शीघ्रन्तु निपातः कविभिः स्मृतः।
एकार्णवे भवन्त्यापो न शीघ्रास्तेन ते नराः

7-2.53

तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि।
राजन्यां वर्त्तमानायान्तावत्तत् सलिलात्मना

7-2.54

ततस्तु सलिले तस्मिन्नष्टेऽग्नौ पृथिवीतले।
प्रशान्तवातेऽन्धकारे निरालोके समन्ततः

7-2.55

येनैवाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः।
विभागमस्य लोकस्य पुनर्वै कर्तुमिच्छति

7-2.56

एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे।
तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात्

7-2.57

सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः।
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा

7-2.58

सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमवेक्ष्य च।
इमञ्चोदाहरन्त्यत्र श्लोकं नारायणं प्रति

7-2.59

आपो नाराख्यास्तनव इत्यपान्नाम शुश्रुमः।
आपूर्य नाभिं तत्रास्ते तेन नारायणः स्मृतः

7-2.60

सहस्रशीर्षा सुमनाः सहस्रपात् सहस्रचक्षुर्वदनः सहस्रभुक्।
सहस्रबाहुः प्रथमः प्रजा पतिस्त्रयीपथे यः पुरुषो निरुच्यते

7-2.61

आदित्यवर्णो भुवनस्य गोप्ता एको ह्यपूर्वः प्रथमं तुराषाट्।
हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसःपरस्तात्

7-2.62

कल्पादौ रजसोद्रिक्तो ब्रह्मा भूत्वाऽसृजत् प्रजाः।
कल्पान्ते तमसोद्रिक्तो कालो भूत्वाऽग्रसत् पुनः

7-2.63

स वै नारायणा ख्यस्तु सत्त्वोद्रिक्तोऽर्णवे स्वपन्।
त्रिधा विभज्य चात्मानं त्रैलोक्ये समवर्त्तत

7-2.64

सृजते ग्रसते चैव वीक्षन्ते च त्रिभिस्तु तान्।
एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे

7-2.65

चतुर्युगसहस्रान्ते सर्वतः सलिलावृते।
ब्रह्मा नारायणाख्यस्तु अप्रकाशार्णवे स्वपन्

7-2.66

चतुर्विधाः प्रजा ग्रस्त्वा ब्राह्म्यां रात्र्यां महार्णवे।
पश्यन्ति तं महर्ल्लोकात् सुप्तं कालं महर्षयः

7-2.67

भृग्वादयो यथा सप्त कल्पे ह्यस्मिन् महर्षयः।
ततो विवर्त्तमानैस्तैर्महान् परिगतः परः

7-2.68

गत्यर्थाद् ऋषयो धातोर्न्नामनिर्वृत्तिरादितः।
तस्मादृषिपरत्वेन महांस्तस्मान्महर्षयः

7-2.69

महर्ल्लोकस्थितैर्दृष्टः कालः सुप्तस्तदा च तैः।
सत्याद्याः सप्त येह्यासन् कल्पेऽतीते महर्षयः

7-2.70

एवं ब्राह्मीषु रात्रीषु ह्यती तासु सहस्रशः।
दृष्टवन्तस्तथा ह्यन्ये सुप्तं कालं महर्षयः

7-2.71

कल्पयामास वै ब्रह्मा तस्मात् कालो निरुच्यते

7-2.72

स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः।
व्यक्ताव्यक्तो महादेवस्तस्य सर्वमिदं जगत्

7-2.73

इत्येष प्रतिसन्धिर्वः कीर्त्तितः कल्पयोर्द्वयोः।
साम्प्रतातीतयोर्मध्ये प्रागवस्था बभूव या

7-2.74

कीर्त्तिता तु समासेन कल्पे कल्पे यथा तथा।
साम्प्रतं ते प्रवक्ष्यामि कल्पमेतं निबोधत

7-2.7

इति श्रीमहापुराणे वायुप्रोक्ते प्रतिसन्धिकीर्त्तनं नाम सप्तमोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc