भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 6-2

6-2.1

॥सूत उवाच॥
आपो ह्यग्नेः समभवन्नष्टेऽग्नौ पृथिवीतले।
सान्तरालैकलीनेऽस्मान्नष्टे स्थावरजङ्गमे

6-2.2

एकार्णवे तदा तस्मिन् न प्राज्ञायत किञ्चन।
तदा स भगवान् ब्रह्मा सहस्राक्षः सहस्रपात्

6-2.3

सहस्रशीर्षा पुरुषो रुक्मवर्णोऽह्यतीन्द्रियः।
ब्रह्मा नारायणाख्यः स सुष्वाप सलिले तदा

6-2.4

सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमुदीक्ष्य सः।
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति

6-2.5

आपो नारा वै तनव इत्यपां नाम शुश्रुमः।
अप्सु शेते च यत्तस्मात्तेन नारायणः स्मृतः

6-2.6

तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः।
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात्

6-2.7

ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत्।
निशायामिव खद्योतः प्रावृट्‌काले ततस्ततः

6-2.8

ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम्।
अनुमानादसंमूढो भूमेरुद्धरणं प्रति

6-2.9

अकरोत् स तनुं त्वन्यां कल्पादिषु यथा पुरा।
ततो महात्मा मनसा दिव्यं रूपमचिन्तयत्

6-2.10

सलिलेनाप्लुतां भूमिं दृष्ट्वा स तु समन्ततः।
किन्नु रूपं महत् कृत्वा उद्धरेयमहं महीम्

6-2.11

जलक्रीडासु रुचिरं वाराहं रूपमस्मरत्।
अधृष्यं सर्व्वभूतानां वाङ्मयं धर्मसंज्ञितम्

6-2.12

दशयोजनविस्तींर्ण शतयोजनमुच्छ्रितम्।
नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम्

6-2.13

महापर्व्वतवर्ष्माणं श्वेतं तीक्ष्णोग्रदंष्ट्रिणम्।
विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम्

6-2.14

पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम्।
पीनोन्नतकटीदेशं सुश्लक्ष्णं शुभलक्षणम्

6-2.15

रूपमास्थाय विपुलं वाराहममितं हरिः।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्

6-2.16

स वेदवाद्युपद्रष्टा क्रतुवक्षाश्चितीमुखः।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः

6-2.17

अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः।
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्

6-2.18

सत्यधर्ममयः श्रीमान् धर्म्मविक्रमसंस्थितः।
प्रायश्चित्तरतो घोरः पशुजानुर्महाकृति

6-2.19

ऊर्द्ध्वगात्रो होमलिङ्गः स्थानबीजो महौषधिः।
वेद्यान्तरात्मा मन्त्रस्फिगाज्यस्पृक् सोमशोणितः

6-2.20

- पा.भे.
वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः

6-2.21

दक्षिणाहृदयो योगी महासत्रमयो विभुः।
उपाकर्मेष्टिरुचिरः प्रवर्ग्यवित्तभूषणः

6-2.22

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः।
छायापत्नीसहायो वै मणिश्रृङ्ग इवोच्छ्रितः।
भूत्वा यज्ञवराहो वै अपः स प्राविशत् प्रभुः

6-2.23

अद्भिः संछादितामुर्वीं स तामश्नन् प्रजापतिः।
उपगम्योज्जहाराशु अपस्ताश्च स विन्यसत्

6-2.24

सामुद्रीर्वै समुद्रेषु नादेयीश्च नदीष्वथ।
रसातलतले मग्नां रसातलतले गताम्।
प्रभुर्ल्लोकहितार्थाय दंष्ट्रयाभ्युज्जहार गाम्

6-2.25

ततः स्वस्थानमानीय पृथिवीं पृथिवीकरः।
मुमोच पूर्वं मनसा धारयित्वा धराधरः

6-2.26

तस्योपरि जलौघस्य महती नौरिव स्थितः।
चरितत्वाच्च देवस्य न मही याति विप्लवम्

6-2.27

ततोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया।
पृथिव्याः प्रविभागाय मनश्चक्रेऽम्बुजेक्षणः।
पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद् गिरीन्

6-2.28

प्राक् सर्वे दह्यमानास्तु तदा संवर्त्तकाग्निना।
तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः

6-2.29

शैत्यादेकार्णवे तस्मिन्वायुनापस्तु संहृताः।
निषिक्ता यत्र यत्रासंस्तत्रतत्राचलोऽभवत्

6-2.30

स्कन्नाचलत्वादचलाः पर्व्वभिः पर्व्वताः स्मृताः।
गिरयोऽन्तर्निगीर्णत्वाच्चयनाच्च शिलोच्चयाः

6-2.31

ततस्तेषु विशीर्णेषु लोकोदधिगिरिष्वथ।
विश्वकर्म्मा विभजते कल्पादिषु पुनः पुनः

6-2.32

ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्व्वताम्।
भूराद्यां श्चतुरो लोकान् पुनः सोऽथ प्रकल्पयत्।
लोकान् प्रकल्पयित्वा च प्रजासर्गं ससर्ज्ज ह

6-2.33

ब्रह्मा स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः।
ससर्ज्ज सृष्टिन्तद्रूपां कल्पादिषु यथा पुरा

6-2.34

तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम्।
प्रधानसमकालं वै प्रादुर्भूतस्तमोमयः

6-2.35

तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः।
अविद्या पञ्चपर्व्वैषा प्रादुर्भूता महात्मनः

6-2.36

पप़ञ्चधा चाश्रितः सर्गो ध्यायतः सोऽभिमानिनः।
सर्व्वतस्तमसा चैव दीपः कुम्भवदावृतः।
बहिरन्तः प्रकाशश्च शुद्धो निःसंज्ञ एव च

6-2.37

यस्मात्तैः संवृता बुद्धिर्मुख्यानि करणानि च।
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः

6-2.38

मुख्यसर्गे तथाभूतं ब्रह्मा दृष्ट्वा ह्यसाधकम्।
अप्रसन्नमनाः सोऽथ ततो न्यासोऽभ्यमन्यत

6-2.39

तस्याभिध्यायतस्तत्र तिर्य्यक् स्रोतोऽभ्यवर्त्तत।
यस्मात्तिर्यग् व्यवर्त्तेत तिर्य्यक्स्रोतस्ततः स्मृतम्

6-2.40

तमोबहुत्वात्ते सर्व्वे ह्यज्ञानबहुलाः स्मृताः।
उत्पथग्राहिणश्चापि ते ध्यानाद्ध्यानमानिनः

6-2.41

तिर्य्यक्स्रोतस्तु दृष्ट्वा वै द्वितीयं विश्वमीश्वरः।
अहंकृता अहंमना अष्टाविंशद्विधात्मकाः

6-2.42

एकादशेन्द्रियविधा नवधा चोदयस्तथा।
अष्टौ च तारकाद्याश्च तेषां शक्तिविधाः स्मृताः

6-2.43

अतः प्रकाशास्ते सर्व्वे आवृताश्च बहिः पुनः।
यस्मात्तिर्यक् प्रवर्त्तेत तिर्य्यक्स्रोताः स उच्यते

6-2.44

तिर्यक्स्रोताश्च दृष्ट्वा वै द्वितीयं विश्वमीश्वरः।
अभिप्रायमथोद्धूतं दृष्ट्वा सर्व्वन्तथाभिधम्।
तस्याभिध्यायतो नित्यं सात्त्विकः समवर्त्तत

6-2.45

ऊर्द्ध्वस्रोतास्तृतीयस्तु स चैवोर्द्ध्वव्यवस्थितः।
यस्माद्व्यवर्त्ततोह्द्ध्वन्तु ऊर्द्ध्वस्रोतास्ततः स्मृतः

6-2.46

ते सुखप्रीतिबहुला बहिरन्तश्च संवृता।
प्रकाशा बहिरन्तश्च ऊर्द्ध्वस्रोतोद्भवाः स्मृताः

6-2.47

तेन वा तादयो ज्ञेयाः सृष्टात्मानो व्यवस्थिताः।
ऊर्द्ध्वस्रोतास्तृतीयो वै तेन सर्गस्तु स स्मृतः

6-2.48

ऊर्द्ध्वस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः।
प्रीतिमानभवद्ब्रह्मा ततोऽन्यं सोऽभ्यमन्यत।
ससर्ज्ज सर्गमन्यं स साधकं प्रभुरीश्वरः

6-2.49

अथाभिध्यायतस्तस्य सत्याभिध्यायिनस्तदा।
प्रादुर्ब्बभूव चाव्यक्तादर्व्वाक्‌स्रोतः सुसाधकम्।
यस्मादर्वाक्व्यवर्त्तेत ततोऽर्व्वाक्स्रोत उच्यते

6-2.50

ते च प्रकाशबहुलास्तमः सत्त्वरजोधिकाः।
तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः

6-2.51

प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते।
लक्षणैस्तारकाद्यैस्ते अष्टधा च व्यवस्थिताः

6-2.52

सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्म्मिणः।
इत्येष तेजसः सर्गो ह्यर्व्वाक्स्रोताः प्रकीर्त्तितः

6-2.53

पञ्चमोऽनुग्रहः सर्गश्चतुर्द्धा स व्यवस्थितः।
विपर्य्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च।
विवृत्तं वर्त्तमानञ्च तेऽर्थं जानन्ति तत्त्वतः

6-2.54

भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते।
विपर्य्ययेण भूतादिरशक्त्या च व्यवस्थितः

6-2.55

प्रथमो महतः सर्गो विज्ञेयो महतस्तु सः।
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते

6-2.56

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रिय कः स्मृतः।
इत्येष प्राकृतः सर्गः सम्भूतो भुद्धिपूर्वकः

6-2.57

मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः।
तिर्य्यक्सोताश्च यः सर्गस्तिर्य्यग्योनिः स पञ्चमः

6-2.58

तथोर्द्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः।
तथार्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः

6-2.59

अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः

6-2.60

प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः।
प्राकृतास्तु त्रयः सर्गाः कृतास्ते बुद्धिपूर्व्वकाः

6-2.61

बुद्धिपूर्व्वं प्रवर्त्तन्ते षट्सर्गा ब्रह्मणस्तु ते।
विस्तरानुग्रहं सर्गं कीर्त्त्यमानं निबोधत

6-2.62

चतुर्द्धावास्थितः सोऽथ सर्वभूतेषु कृत्स्नशः।
विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च

6-2.63

स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिता।
सिद्धात्मानो मनुष्यास्तु तुष्टिर्द्देवेषु कृत्स्नशः

6-2.64

इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः।
सर्गाः परस्परस्याथ प्रकारा बहवः स्मृताः

6-2.65

अग्रे ससर्ज्ज वै ब्रह्मा मानसानात्मनः समान्।
सनन्दनञ्च सनकं विद्वांसं च सनातनम्

6-2.66

विज्ञानेन निवृत्तास्ते वैवर्तेन महौजसः।
संबुद्धाश्चैव नानात्वादपविद्धास्त्रयोऽपिते।
असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः

6-2.67

तदा तेषु व्यतीतेषु तदान्यान् साधकांश्च तान्।
मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः।
आभूतसंप्लवावस्थान्नामतस्तान्निबोधत

6-2.68

आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा।
स्वर्गं दिवः समुद्रांश्च नदान् शैलान् वनस्पतीन्

6-2.69

ओषधीनां तथात्मानो ह्यात्मानो वृक्षवीरुधाम्।
लवाः काष्ठाः कलाश्चैव मुहूर्त्ताः सन्धिरात्र्यहाः

6-2.70

अर्द्धमासाश्च मासाश्च अयनाब्दयुगानि च।
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः

6-2.71

वक्राद्यस्य ब्राह्मणाः संप्रसूतास्तद्वक्षस्तः क्षत्रियाः पूर्वभागैः।
वैश्याश्चोर्वोर्यस्य पद्भ्याञ्च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः

6-2.72

नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम्।
अण्डाज्जज्ञे पुनर्ब्रह्मा लोकास्तेन कृताः स्वयम्

6-2.73

एष वः कथितः पादः समासान्न तु विस्तरात्।
अनेनाद्येन पादेन पुराणं संप्रकीर्तितम्

6-2.6

इति श्रीमहापुराणे वायुप्रोक्ते सृष्टिप्रकरणं नाम षष्ठोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc