भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 48-2

48-2.48.1

॥सूत उवाच॥
दक्षिणेनापि वर्षस्य भारतस्य निबोधत।
दशयोजनसाहस्रं समतीत्य महार्णवम्

48-2.48.2

त्रीण्येव तु सहस्राणि योजनानां समायतम्।
अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम्

48-2.48.3

विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम्।
येन कूटतटैर्नैकैस्तद्द्वीपं समलंकृतम्

48-2.48.4

प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः।
वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः

48-2.48.5

तस्य शैलस्य छिद्रेषु विस्तीर्णेष्वायतेषु च।
अनेकेषु समृद्धानि नानाकाराणि सर्व्वशः

48-2.48.6

नरनारीसमाढ्यानि मुदितानि महान्ति च।
तेषां तलप्रवेशानि सहस्राणि शतानि च

48-2.48.7

पुराणि सन्निविष्टानि पर्वतान्तर्गतानि च।
सुसम्बद्धानि चान्योन्यमेकद्वाराणि चान्यथ

48-2.48.8

दीर्घश्मश्रुधरात्मानो नीला मेघसमप्रभाः।
जातमात्राः प्रजास्तत्र अशीतिपरमायुषः

48-2.48.9

शाखामृगसधर्माणः फलमूलाशिनस्तथा।
गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः

48-2.48.10

तद्द्वीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः ।
एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः

48-2.48.11

विंशत्र्रिंशच्च पञ्चाशत् षष्ट्यशीतिः शतं तथा।
सहस्रमपि चाप्युक्तं योजनानां समन्ततः

48-2.48.12

विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः।
बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः

48-2.48.13

जम्बूद्वीपप्रदेशात्तु षडन्ये विविधाश्रयाः।
अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ

48-2.48.14

अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च।
शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च

48-2.48.15

अङ्गद्वीपं निबोध त्वं नानासङ्घसमाकुलम्।
नानाम्लेच्छगणाकीर्णं तद्द्वीपं बहुविस्तरम्

48-2.48.16

हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ।
नदीशैलवनैश्चित्रं सन्निभं लवणाम्भसा

48-2.48.17

तत्र चक्रगिरिर्नाम नैक निर्झरकन्दरः।
तत्र सा तु दरी चास्य नानासत्वसमाश्रया

48-2.48.18

स मध्ये नागदेशस्य नैकदेशो महागिरिः।
कोटिभ्यां नागनिलयं प्राप्तो नदनदी पतिम्

48-2.48.19

यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् ।
तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः।
समुद्रगानां प्रभवः प्रभवः काञ्चनस्य तु

48-2.48.20

तथैव मलयद्वीपमेवमेव सुसंवृतम्।
मणिरत्नाकरं स्फीतमाकरं कनकस्य च

48-2.48.21

आकरं चन्दनानाञ्च समुद्राणां तथाकरम्।
नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम्

48-2.48.22

तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः।
महामलय इत्येवं विख्यातो वरपर्वतः

48-2.48.23

द्वितीयं मन्दरं नाम प्रथितञ्च सदा क्षितौ।
आगस्त्यभवनं तत्र देवासुरनमस्कृतम्

48-2.48.24

तथा काञ्चनपादस्य मलयस्यापरस्य हि।
निकुञ्जैस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम्

48-2.48.25

नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते।
तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु

48-2.48.26

तथा त्रिकूटनिलये नानाधातुविभूषिते ।
अनेकयोजनोत्सेधे चित्रसानुदरीगृहे

48-2.48.27

तस्य कूटतटे रम्ये हेमप्राकारतोरणा।
निर्यूहवलभीचित्रा हर्म्यप्रासादमालिनी

48-2.48.28

शतयोजनविस्तीर्णा त्रिंशदायामयोजना।
नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी

48-2.48.29

सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् ।
आवासो बलदृप्तानां तद्विद्याद्देवविद्विषाम्।
मानुषाणामसम्बाधा ह्यगम्या सा महापुरी

48-2.48.30

तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः।
गोकर्णनामधेयस्य शङ्करस्यालयं महत्

48-2.48.31

तथैकराज्यं विज्ञेयं शङ्खद्वीपसमास्थितम्।
शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम्

48-2.48.32

तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः।
नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः

48-2.48.33

शङ्ख नागा महापुण्या यस्मात् प्रभवते नदी।
यत्र शङ्खमुखो नाम नागराजः कृतालयः

48-2.48.34

तथैव कुमुदद्वीपं नानापुण्योपशोभितम्।
नानाग्रामसमा कीर्णं नानारत्नाकरं शिवम्

48-2.48.35

कुमुदाख्या महाभागा दुष्टचित्तनिबर्हणी।
महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते

48-2.48.36

तथा वराहद्वीपे च नानाम्लेच्छगणाकुले।
नानाजालिसमाकीर्णे नानाधिष्ठानपत्तने

48-2.48.37

धनधान्ययुते स्फीते धर्म्मिष्ठजनसङ्कुले।
नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपगैः

48-2.48.38

वराहपर्व्वतो नाम तत्र रम्यः शिलोच्चयः।
अनेककन्दरदरीगुहानिर्झरशोभितः

48-2.48.39

तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी।
वाराही नाम वरदा प्रवृत्तास्य महानदी

48-2.48.40

वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे।
अनन्यदेवतास्तस्मै नमस्कुर्वन्ति विप्रजाः

48-2.48.41

एवं षडेते कथिता अनुद्वीपाः समन्ततः।
भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः

48-2.48.42

एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते।
समुद्रजलसम्बिन्नं खण्डं खण्डीकृतं स्मृतम्

48-2.48.43

एवञ्चतुर्महाद्वीपः सान्तरद्वीपमण्डितः।
सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः

48-2.48

इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशो ध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc