भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 41-2

41-2.41.1

॥सूत उवाच ॥
विविक्तचारुशिखरं पत्रितं शङ्खवर्चसम्।
कैलासं देवभक्तानामालयं सुकृतात्मनाम्

41-2.42.2

तस्य कूटतटे रम्ये मध्यमे कुन्दसन्निभे।
योजनानां शतायामे पञ्चाशच्च तथायतम्

41-2.41.3

सुवर्णमणिचित्राभि अनेकाभिरलंकृतम्।
महाभवनमालाभिर्भूषितं नैकविस्तरम्

41-2.41.4

धनाध्यक्षस्य देवस्य कुबेरस्य महात्मनः।
नगरन्तदनाधृष्यमृद्धियुक्तं मुदायुतम्

41-2.41.5

तस्य मध्ये सभा रम्या नानाकनकमण्डिता।
विपुला नाम विख्याता विपुलस्तम्भतोरणा

41-2.41.6

तत्र तत्पुष्पकं नाम नानारत्नविभूषितम्।
महाविमानं रुचिरं सर्वकामगुणैर्युतम्

41-2.41.7

मनोजवं कामगमं हेमजालविभूषितम्।
वाहनं यक्षराजस्य कुबेरस्य महात्मनः

41-2.41.8

तत्रैकपिङ्गलो देवो महादेवसखः स्वयम्।
वसति स्म स यक्षेन्द्रः सर्वभूतनमस्कृतः

41-2.41.9

तत्राप्सरोगणैर्य्यक्षैर्गन्धर्वैः सिद्धचारणैः।
वसति स्म महात्माऽसौ कुबेरो देवसत्तमः

41-2.41.10

तत्र पद्ममहापद्मौ तथा मकरकच्छपौ।
कुमुदः शङ्ख नीलौ च नन्दनो निधिसत्तमः

41-2.41.11

अष्टावेतेऽक्षया दिव्या धनेशस्य महात्मनः।
महानिधानास्तिष्ठन्ति सभायां रत्नसञ्चिताः

41-2.41.12

तथेन्द्राग्नियमादीनां देवानामप्सरोगणैः।
तेषां कैलास आवासो यत्र यक्षेश्वरः प्रभुः

41-2.41.13

कृत्वा पूर्वमुपस्थानं यक्षेन्द्रस्य महात्मनः।
पश्चाद्गच्छन्ति ये यस्य विहिताः परिचारकाः

41-2.41.14

तत्र मन्दाकिनी नाम सुरम्या विपुलोदका।
सुवर्णमणिसोपाना नानापुष्पोत्कटोत्कटा

41-2.41.15

जाम्बूनदमयैः पद्मैर्गन्धस्पर्शगुणान्वितैः।
नीलवैदूर्य्यपत्रैश्च गन्धोपैतैर्महोत्पलैः

41-2.41.16

तथा कुमुदखण्डैश्च महापद्मैरलङ्कृता ।
यक्षगन्धर्वनारीभिरप्सरोभिश्च शोभिता

41-2.41.17

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
उपस्पृष्टजला रम्या वापी मन्दाकिनी तथा

41-2.41.18

तथा अलकनन्दा च नन्दा च सरितां वरा ।
एतैरेव गुणैर्युक्ता नद्यो देवर्षिसेविताः

41-2.41.19

तस्यैव शैलराजस्य पूर्वे कूटे परिश्रुताः।
सहस्रयोजनायामास्त्रिंशद्योजन विस्तराः

41-2.41.20

दश गन्धर्वनगराः समृद्ध्या परया युताः।
महाभवनमालाभिरनेकाभिर्विभूषिताः

41-2.41.21

सुबाहुहरिकेशाद्या श्चित्रसेनजरादयः।
दश गन्धर्वराजानो दीप्तवह्निपराक्रमाः

41-2.41.22

तस्यैव पश्चिमे कूटे कुन्देन्दुसदृशप्रभे।
नानाधातुशतैश्चित्रैः सिद्ध देवर्षिसेविते

41-2.41.23

अशीतियोजनायामं चत्वारिंशत्प्रविस्तरम्।
एकैकयक्षभवनं महाभवनमालिनम्

41-2.41.24

महायक्षालयान्यत्र त्रिंशदाढ्यानि मे श्रृणु।
मुदाऽथ परमद्धर्या च संयुक्तानि समन्ततः

41-2.41.25

महामालिसुनेत्राद्यास्तथा मणिवरादयः।
उदीर्णा यक्षराजानस्तत्र त्रिंशत्सदा बभुः

41-2.41.26

इत्येते कथिता यक्षा वाय्वग्निसमतेजसः।
येषामधिपतिर्देवः श्रीमान् वैश्रवणः प्रभुः

41-2.41.27

तस्यैव दक्षिणे पार्श्वे हिमवत्यचलोत्तमे।
निकुञ्जनिर्झरगुहानैकसानुदरीतटे

41-2.41.28

अर्णवादर्णवं यावत् पूर्वपश्चायतेऽचले।
किन्नराणां पुरशतं निविष्टं वै व्कचित् व्कचित्

41-2.41.29

नैकश्रृङ्गकलापस्य शैलराजस्य कुक्षिषु।
नरनारीप्रमुदितं हृष्टपुष्टजनाकुलम्

41-2.41.30

द्रुमसुग्रीवसैन्याद्या भगदत्तपुरःसराः ।
यत्र राजशतं तेषां दीप्तानां बलशालिनाम्

41-2.41.31

विवाहो यत्र रुद्रस्य महादेव्योमया सह।
तपस्तप्तवती चैव यत्र देवी वराङ्गना

41-2.41.32

किरातरूपिणा चैव यत्र रुद्रेण क्रीडितम्।
यत्र चैव कृतं ताभ्यां जम्बूद्वीपावलोकनम्

41-2.41.33

यत्र ताः सम्मुदा युक्ता नानाभूतगणैर्युताः।
चित्रपुष्पफलोपेता रुद्रस्याक्रीडभूमयः

41-2.41.34

हृष्टा गिरिदरीवासाः कृशोदर्य्यो मनोरमाः।
कुन्दर्यो यत्र किन्नर्य्यो रमन्ते स्म सुलोचनाः

41-2.41.35

विशालाक्षास्तथा यक्षा अन्याश्चाप्सरसाङ्गणाः।
गन्धर्वाश्चाङ्गशालिन्यो यत्र तत्र मुदा युताः

41-2.41.36

तत्रैवोमावनं नाम सर्वलोकेषु विश्रुतम्।
अर्धनारीनरं रुपं धृतवान् यत्र शंकरः

41-2.41.37

तथा शरवणं नाम यत्र जातः षडाननः ।
यत्र चैव कृतोत्साहः क्रौञ्चशैलवनं प्रति

41-2.41.38

ध्वजापताकिनञ्चैव किङ्किणीजालमालिनम्।
यत्र सिंहरथं युक्तं कार्तिकेयस्य धीमतः

41-2.41.39

चित्रपुष्पनिकुञ्जस्य क्रौञ्चस्य च गिरेस्तटे।
देवारिस्कन्दनः स्कन्दो यत्र शक्तिं विमुक्तवान्

41-2.41.40

यत्राभिषिक्तश्च गुहः सेन्द्रोपेन्द्रैः सुरोत्तमैः।
सेनापत्ये च दैत्यारिर्द्वादशार्कप्रतापवान्

41-2.41.41

भूतसङ्घावकीर्णानि एतान्यन्यानि च द्विजाः।
तत्र तत्र कुमारस्य स्थानान्यायतनानि च

41-2.41.42

तथा पाण्डुशिला नाम ह्याक्रीडा क्रौञ्चघातिनः।
नानाभूतगणाकीर्णे पृष्ठे हिमवतः शुभे

41-2.41.43

तस्य पूर्वे तटे रम्ये सिद्धावासमुदाहृतम्।
कलापग्राममित्येवं नाम्ना ख्यातं मनीषिभिः

41-2.41.44

मृकण्डस्य वसिष्ठस्य भरतस्य नलस्य च।
विश्वामित्रस्य विप्रर्षेस्तथैवोद्दालकस्य च

41-2.41.45

अन्येषाञ्चोग्रतपसामृषीणां भावितात्मनाम्।
हिमवत्याश्रमाणाञ्च सहस्राणि शतानि च

41-2.41.46

नैकसिध्दगणावासं स्थानायतनमण्डितम्।
यक्षगन्धर्वचरितं नानाम्लेच्छगणैर्युतम्

41-2.41.47

नानारत्नाकरापूर्णं नानासत्त्वनिषेवितम्।
नानानदीसहस्राणां सम्भवं वरपर्वतम्

41-2.41.48

पश्चिमस्याचलेन्द्रस्य निषधस्य यथार्थवत्।
कीर्त्त्यमानमशेषेण विशेषं श्रृणुत द्विजाः

41-2.41.49

विस्तीर्णे मध्यमे कूटे हेमधा तुविबूषिते।
दीप्तमायतनं विष्णोः सिद्धर्षिगणसेवितम्।
यक्षाप्सरःसमाकीर्णं गन्धर्वगणसेवितम्

41-2.41.50

तत्र साक्षान्महादेवः पीताम्बरधरो हरिः।
वरदः सेव्यते सिर्द्धैर्लोककर्त्ता सनातनः

41-2.41.51

तस्यैवाब्यन्तरे कूटे नानाधातुविभूषिते।
तटे निषधकूटस्य श्लक्ष्णचारुशिलातले

41-2.41.52

रुक्मकाञ्चननिर्यूहं तप्तकाञ्चनतोरणम्।
अनेकवलभीकूटप्रलोलीशतसङ्कटम्

41-2.41.53

हर्म्यप्रासादमतुलं तप्तकाञ्चनभूषितम्।
हर्म्यप्रासादबद्धञ्च मुदितञ्चातिविस्तरम्

41-2.41.54

उद्यानमालाकलितं त्रिंशद्योजनमायतम्।
दुःप्रसह्यममित्रैस्तत् पूर्णमाशीविषोपमैः।
उलङ्घीनां प्रमुदितं रक्षसां राक्षसं पुरम्

41-2.41.55

तस्यैव दक्षिणे पार्श्वे नैकदैत्यगणालये।
गुहाप्रवेशं नगरं शैलकुक्षौ दुरासदम्

41-2.41.56

तथैव पश्चिमे कूटे पारिजातशिलोच्चये।
देवदानवभागानां समृद्धानि पुराणि तु

41-2.41.57

तत्र सोमशिला नाम गिरेस्तस्य महातटे।
सोमो यत्रावतरति सदा पर्वसु पर्वसु

41-2.41.58

उपासतेऽत्र श्रीमन्तं तारा पतिमनिन्दितम्।
ऋषिकिन्नरगन्धर्वाः साक्षाद्देवं तमोनुदम्

41-2.41.59

तत्रैव चोत्तरे कूटे ब्रह्मपार्श्वमिति स्मृतम्।
स्थानं तत्र सुरेशस्य ब्रह्मणः प्रथितं दिवि

41-2.41.60

इज्यापूजानमस्कारैस्तत्र सिद्धाः स्वयम्भुवम्।
उपासते महात्मानं यक्षगन्धर्वदानवाः

41-2.41.61

तथैवायतनं वह्नेः सर्वलोकेषु विश्रुतम्।
तत्र विग्रहवान् वाह्निः सेव्यते सिद्धचारणैः

41-2.41.62

तथैव चोत्तरे रम्ये त्रिश्रृङ्गे वरपर्वते।
ऋषिसिद्धानुचरिते नानाभूतगणालये।
पुरं तत् त्रिषु लोकेषु हेमचित्रन्तु विश्रुतम्

41-2.41.63

त्रयाणां देवमुख्यानां त्रीण्येवायतनानि च।
नारायणस्यायतनं पूर्वकूटे द्विजोत्तमाः ।
मध्यमे ब्रह्मणः स्थानं शङ्करस्य तु पश्चिमे

41-2.41.64

दैत्यदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
इजाना अभिपूज्यन्ते देवदेवा महाबलाः

41-2.41.65

तथा पुराणि रम्याणि देशे चैव व्कचित् व्कचित्।
यक्षगन्धर्वनागानां त्रिश्रृङ्गे वरपर्वते

41-2.41.66

तथैव चोत्तरे देशे चारुधौ देवपर्वते।
अनेकश्रृङ्गकलिते सिद्धसाधु निषेविते

41-2.41.67

यक्षाणां किन्नराणाञ्च गन्धर्वाणां सहस्रशः।
नागानां राक्षसानाञ्च दैत्यानाञ्च महाबले

41-2.41.68

कूटे तु मध्यमे तस्य सिद्धसङ्घ निषेविते।
रम्ये देवर्षिचरिते रत्नधातुविभूषिते

41-2.41.69

पझोत्पलवनैः फुल्लैः सौगन्धिकवनैस्तथा।
तथा कुमुदखण्डैश्च विकचैरुपशोभिते

41-2.41.70

विहङ्गसङ्घसंघुष्टं नानासत्वनिषेवितम्।
हंसकारण्डवाकीर्णं मत्तषट्‌पदसेवितम्

41-2.41.71

नानासत्वगणाकीर्णं विहङ्गैरुपशोभितम्।
चारुतीर्थसुसम्बाधं त्रिंशद्योजनमण्डलम्

41-2.41.72

सिद्धैरुपस्पृष्टजलं जलदोषविवर्जितम्।
तत्रानन्दजलन्नाम महापुण्यजलं सरः

41-2.41.73

तत्र नागपति श्चण्ड श्चण्डो नाम दुरासदः।
शतशीर्षा महाभागो विष्णुचक्राङ्कचिह्नितः।
इत्येवमष्टौ विज्ञेया विचित्रा देवपर्वताः

41-2.41.74

।
पुरैरायतनैः पुण्यैः पुण्योदैश्च सरोवरैः।
सुवर्णपर्वतैर्नैकैस्तथा रजतपर्वतैः

41-2.41.75

नानारत्नप्रभासैश्च नैकैश्च मणिपर्वतैः।
हरितालपर्वतैर्नैकैस्तथा हिङ्गुलकाञ्चनैः

41-2.41.76

शुद्धैर्मनः शिलाजालैर्भास्वरैररुणप्रभैः ।
नानाधातुविचित्रैश्च नैकैश्च मणिपर्वतैः

41-2.41.77

पूर्णा वसुमती सर्वा गिरिभिर्नैकविस्तरैः।
नदीकन्दरशैलाद्यैरनेकैश्चित्रसानुभिः

41-2.41.78

इत्येवमचलैर्युक्तैर्दैत्यराक्षससाधुभिः।
किन्नरोरगगन्धर्वैर्विचित्रैः सिद्धचारणैः

41-2.41.79

गन्धर्वैरप्सरोभिश्च सेविता नैक विस्तराः।
पुण्यकृद्भिः समाकीर्णा केसराकृतयो नगाः

41-2.41.80

गिरिजालन्तु तन्मेरोः सिद्धलोकमिति स्मृतम्।
चित्रं नानाश्रयोपेतं प्रचारं सुकृतात्मनाम्

41-2.41.81

नात्युग्रकर्मसिद्धानां प्रतिमा मध्यमाः स्मृताः।
स हि स्वर्ग इति ख्यातः क्रमस्त्वेष प्रकीर्तितः

41-2.41.82

चतुर्महाद्वीपवती सेयमुर्वी प्रकीर्तिता ॥
नानावर्णप्रमाणैर्हि नानावर्णबलैस्तथा

41-2.41.83

नानाभक्ष्यान्नपानैश्च नानाच्छादनभूषणैः।
प्रजाविकारैर्विविधैश्चित्रैरध्युषितैः सह

41-2.41.84

चत्वारो नैकवर्णाद्या महाद्वीपाः परिश्रुताः।
भद्राश्च भरताश्चैव केतुमालाश्च पश्चिमाः।
उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः

41-2.41.85

सैषा चतुर्महाद्वीपा नानाद्वीपसमाकुला।
पृथिवी कीर्तिता कृत्स्ना पद्माकारा मया द्विजाः

41-2.41.86

तदेषा सान्तरद्वीपा सशैलवनकानना।
पद्मेत्यभिहिता कृत्स्ना पृथिवी बहुविस्तरा

41-2.41.87

सब्रह्मसदनं लोकं सदेवासुरमानुषम्।
त्रिलोकमिति विख्यातं यत्सत्त्वैर्व्यवहार्यते

41-2.41.88

चन्द्रादित्यावतप्तं यत्तज्जगत् परिगीयते।
गन्धवर्णरसोपेतं शब्दस्पर्शगुणान्वितम्

41-2.41.89

तं लोकपद्मं श्रुतिभिः पद्ममित्यभिधीयते।
एष सर्वपुराणेषु क्रमः सुपरिनिश्चितः

41-2.41

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामैकचत्वारिंशोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc