भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 4-2

4-2.1

ऋषयस्तु ततः श्रुत्वा नैमिषारण्यवासिनः।
प्रत्यूचुस्ते ततः सर्वे सूतं पर्याकुलेक्षणाः

4-2.2

भवान् वै वंशकुशलो व्यासात् प्रत्यक्षदर्शवान्।
तस्मात्त्वं भवनं कृत्स्नं लोकस्यामुष्य वर्णय

4-2.3

यस्य यस्यान्वया ये ये तांस्तानिच्छाम वेदितुम्।
तेषां पूर्वर्षिसृष्टिं च विचित्रां तां प्रजापतेः

4-2.4

असकृत्परिपृष्टस्तैर्महात्मा लोमहर्षणः।
विस्तरेणानुपूर्व्या च कथयामास सत्तमः

4-2.5

॥लोमहर्षण उवाच॥
पृष्टां चैतां कथां दिव्यां श्लक्ष्णां पापप्रणाशिनीम्।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मताम्

4-2.6

यश्चेमांधारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः।
श्रावयेच्चापि विप्रेभ्यो यतिभ्यश्च विशेषतः

4-2.7

शुचिः पर्वसु युक्तात्मा तीर्थेष्वायतनेषु च।
दीर्घमायुरवाप्नोति स पुराणानुकीर्त्तनात्।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते

4-2.8

विस्तारावयवं तेषां यथाशब्दं यथाश्रुतम्।
कीर्त्त्यमानं निबोधध्वं सर्वेषां कीर्त्तिवर्द्धनम्

4-2.9

धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुर्विवर्धनम्।
कीर्त्तनं स्थिरकीर्त्तीनां सर्वेषां पुण्यकारिणाम्

4-2.10

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितञ्चेति पुराणं पंचलक्षणम्

4-2.11

कल्पेभ्योऽपि हि यः कल्पः शुचिभ्यो नियतः शुचिः।
पुराणं सम्प्रवक्ष्यामि मारुतं वेदसम्मितम्

4-2.12

प्रबोधः प्रलयश्चैव स्थितिरुत्पत्तिरेव च।
प्रक्रिया प्रथमः पादः कथ्यवस्तुपरिग्रहः

4-2.13

उपोद्वातोऽनुषङ्गश्च उपसंहार एव च।
धर्म्यं यशस्यमायुष्यं सर्वपापप्रणाशनम्

4-2.14

एवं हि पादाश्चत्वारः समासात् कीर्त्तिता मया।
वक्ष्याम्येतान् पुनस्तांस्तु विस्तरेण यथाक्रमम्

4-2.15

तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च।
अन्ताय प्रथमायैव विशिष्टाय प्रजात्मने।
ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयम्भुवे

4-2.16

महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणम्।
पञ्चप्रमाणं षट्श्येतं पुरुषाधिष्ठितं नुतम्।
असंशयात् प्रवक्ष्यामि भूतसर्गमनुत्तमम्

4-2.17

अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम्।
प्रधानं प्रकृतिं चैव यमाहुस्तत्त्व चिन्तकाः

4-2.18

गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्ज्जितम्।
अजातं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम्

4-2.19

जगद्योनिं महद्भूतं परं ब्रह्म सनातनम्।
विग्रहं सर्वभूतानामव्यक्तमभवत् किल

4-2.20

अनाद्यन्तमजं सूक्ष्मन्त्रिगुणं प्रभवाव्ययम्।
असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत

4-2.21

तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम्।
गुणसाम्ये तदा तस्मिन् गुणभावे तमोमये

4-2.22

गर्गकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै।
गुणभावाद्वाच्यमानो महान् प्रादुर्बभूव ह

4-2.23

सूक्ष्मेण महता सोऽथ अव्यक्तेन समावृतः।
सत्वोद्रिक्तो महानग्रे सत्त्वमात्रप्रकाशकम्।
मनो महांश्च विज्ञेयो मनस्तत्कारणं स्मृतम्

4-2.24

लिङ्गमात्रसमुत्पन्नः) क्षेत्रज्ञाधिष्ठितस्तु सः।
धर्मादीनान्तु रूपाणि लोकतत्त्वार्थहेतवः।
महांस्तु सृष्टिं कुरुते नोद्यमानः सिसृक्षया

4-2.25

मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः।
प्रज्ञा चितिः स्मृतिः संवित् विपुरं चोच्यते बुधैः

4-2.26

मनुते सर्वभूतानां यस्माच्चेष्टाफलं विभुः।
सौक्ष्मत्वेन विवृद्धानां तेन तन्मन उच्यते

4-2.27

तत्त्वानामग्रजो यस्मान्महांश्च परिमाणतः।
शेषेभ्योऽपि गुणेभ्योऽसौ महानिति ततः स्मृतः

4-2.28

बिभर्ति मानं मनुते विभागं मन्यतेऽपि च।
पुरुषो भोगसम्बन्धात् तेन चासौ मतिः स्मृतः

4-2.29

बृहत्त्वादृंहणत्वाच्च भावानां सलिलाश्रयात्।
यस्माद्‌बृंहयते भावान् ब्रह्मा तेन निरुच्यते

4-2.30

आपूरयित्वा यस्माच्च कृत्स्नान् देहाननुग्रहैः।
तत्त्वभावांश्च नियतां स्तेन पूरिति चोच्यते

4-2.31

बुध्यते पुरुषश्चात्र सर्वभावान् हिताहितान् ।
यस्माद्बोधयते चैव तेन बुद्धिर्निरुच्यते

4-2.32

ख्यातिः प्रत्युपभोगश्च यस्मात् संवर्त्तते ततः।
भोगश्च ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः

4-2.33

ख्यायते तद्गुणैर्वापि नामादिभिरनेकशः।
तस्माच्च महतः संज्ञा ख्यातिरित्यभिधीयते

4-2.34

साक्षात् सर्वं विजानाति महात्मा तेन चेश्वरः।
तस्माज्जाता ग्रहाश्चैव प्रज्ञा तेन स उच्यते

4-2.35

ज्ञानादीनि च रूपाणि क्रतुकर्मफलानि च।
चिनोति यस्माद्भोगार्थान्तेनासौ चितिरुच्यते

4-2.36

वर्त्तमानान्यतीतानि तथा चानागतान्यपि।
स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते

4-2.37

कृत्स्नं च विन्दते ज्ञानं तस्मान्माहात्म्यमुच्यते।
तस्माद्विदेर्विदेश्चैव संविदित्यभिधीयते

4-2.38

विद्यते स च सर्वस्मिन् सर्वं तस्मिश्च विद्यते।
तस्मात्संविदिति प्रोक्तो महान्वै बुद्धिमत्तरैः

4-2.39

ज्ञानात्तु ज्ञानमित्याह भगवान् ज्ञानसन्निधिः।
द्वन्द्वानां विपुरीभावाद्विपुरं प्रोच्यते बुधैः

4-2.40

सर्वेशत्वाच्च लोकानामवश्यं च तथेश्वरः।
बृहत्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भव उच्यते

4-2.41

क्षेत्रक्षेत्रज्ञविज्ञानादेकत्वाच्च स कः स्मृतः।
यस्मात् पुर्यनुशेते च तस्मात् पुरुष उच्यते।
नोत्पादितत्वात् पूर्वत्वात् स्वयम्भूरिति चोच्यते

4-2.42

पर्यायवाचकैः शब्दैस्तत्त्वमाद्यमनुत्तमम्।
व्याख्यातं तत्त्वभावज्ञैरेवं सद्भावचिन्तकैः

4-2.43

महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया।
सङ्कल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम्

4-2.44

धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः।
त्रिगुणस्तु स विज्ञेयः सत्त्वराजसतामसः

4-2.45

त्रिगुणाद्रजसोद्रिक्तादहङ्कारस्ततोऽभवत्।
महता चावृतः सर्गो भूतादिविकृतस्तु सः

4-2.46

तस्माच्च तमसोद्रिक्तादहङ्कारादजायत।
भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः

4-2.47

आकाशं शुषिरं तस्मादुद्रिक्तं शब्दलक्षणम्।
आकाशं शब्दमात्रन्तु भूतादिश्चावृणोत् पुनः

4-2.48

शब्दमात्रन्तदाकाशं स्पर्शमात्रं ससर्ज ह।
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज्ज ह

4-2.49

बलवान् जायते वायुः स वै स्पर्शगुणो मतः।
आकाशं शब्दमात्रन्तु स्पर्शमात्रं समावृणोत्

4-2.50

रसमात्रास्तु ता ह्यापो रूपमात्राभिरावृणोत्।
आपो रसान् विकुर्वन्त्यो गन्धमात्रं ससर्ज्जिरे

4-2.51

सङ्घातो जायते तस्मात्तस्य गन्धो गुणः स्मृतः।
रसमात्रन्तु तत्तोयं गन्धमात्रं समावृणोत्

4-2.52

तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता।
अविशेषवाचकत्वादविशेषास्ततः स्मृताः।
अशान्तघोरमूढत्वादविशेषास्ततः पुनः

4-2.53

भूततन्मात्रसर्गोऽयं विज्ञेयस्तु परस्परात्।
वैकारिकादहङ्कारात्सत्वोद्रिक्तात्तु सात्विकात्।
वैकारिकः स सर्गस्तु युगपत्सम्प्रवर्त्तते

4-2.54

बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाण्यपि।
साधकानीन्द्रियाणि स्युर्द्देवा वैकारिका दश।
एकादशं मनस्तत्र देवा वैकारिकाः स्मृता

4-2.55

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी।
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते

4-2.56

पादौ पायुरुपस्थञ्च हस्तौ वाग्दशमी भवेत्।
गतिर्विसर्गो ह्यानन्दः शिल्पं वास्यञ्च कर्म च

4-2.57

आकाशं शब्दमात्रञ्च स्पर्शमात्रं समाविशेत्।
द्विगुणस्तु ततो वायुः शब्द स्पर्शात्मकोऽभवत्

4-2.58

रूपन्तथैव विशतः शब्दस्पर्शगुणावुभौ।
त्रिगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान्

4-2.59

सशब्दस्पर्शरूपञ्च रसमात्रं समाविशत्।
तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः

4-2.60

सशब्दस्पर्शरूपेषु गन्धस्तेषु समाविशत्।
संयुक्ता गन्धमात्रेण आचिन्वन्ति महीमिमाम्।
तस्मात्पञ्चगुणा भूमिः स्थूलभूतेषु दृश्यते

4-2.61

शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः।
परस्परानुप्रवेशाद्धारयन्ति परस्परम्

4-2.62

भूमेरन्तस्तिवदं सर्वं लोकालोकघनावृतम्।
विशेषा इन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः

4-2.63

गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्।
तेषां यावच्च यद्यच्च तत्तत्तावद्गुणं स्मृतम्

4-2.64

उपलभ्य शुचेर्गन्धं केचिद्वायोरनैपुणात्।
पृथिव्यामेव तद्विद्यादेषां वायोश्च संश्रयात्

4-2.65

एते सप्त महावीर्या नानाभूताः पृथक् पृथक्।
नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः।
ते समेत्य महात्मानो ह्ययोन्यस्यैव संश्रयात्

4-2.66

पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च।
महदाद्या विशेषान्ता अण्डमुत्पादयन्ति ते

4-2.67

एककालं समुत्पन्नं जलबुद्‌बुदवच्च तत्।
विशेषेभ्योऽण्डमभवद् बृहत्तदुदकं च यत्।
तत्तस्मिन् कार्यकरणं संसिद्धं ब्रह्मणस्तदा

4-2.68

प्राकृतेऽण्डे विबुद्धे सन् क्षेत्रज्ञो ब्रह्मसंज्ञितः।
स वै शरीरी प्रथमः स वै पुरुष उच्यते

4-2.69

आदिकर्त्ता च भूतानां ब्रह्माऽग्रे समवर्त्तत।
हिरण्यगर्भः सोऽग्रोऽस्मिन् प्रादुर्भूतश्चतुर्मुखः।
सर्गे च प्रति सर्गे च क्षेत्रज्ञो ब्रह्मसंज्ञितः

4-2.70

करणैः सह सृज्यन्ते प्रत्याहारे त्यजन्ति च।
भजन्ते च पुनर्देहानसमाहारसन्धिषु

4-2.71

हिरण्मयस्तु यो मेरुस्तस्योल्बं तन्महात्मनः।
गर्भोदकं समुद्राश्च जराद्यस्थीनि पर्वताः

4-2.72

तस्मिन्नण्डे त्विमे लोका अन्तर्भूतास्तु सप्त वै।
सप्तद्वीपा च पृथ्वीयं समुद्रैः सह सप्तभिः

4-2.73

पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः।
अन्तस्तस्मिंस्त्विमे लोका अन्तर्विश्वमिदं जगत्

4-2.74

चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना।
लोकालोकं च यत् किंचिच्चाण्डे तस्मिन् समर्पितम्

4-2.75

अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम्।
आपो दशगुणा ह्येवन्तेजसा बाह्यतो वृताः

4-2.76

तेजौदशगुणेनैव बाह्यतो वायुना वृतम्।
वायोर्द्दशगुणेनैव बाह्यतो नभसा वृतम्

4-2.77

आकाशेन वृतो वायुः खं च भूतादिना वृतम्।
भूतादिर्महता चापि अव्यक्तेन वृतो महान्।
एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम्

4-2.78

एतास्वावृत्य चान्योन्यमष्टौ प्रकृतयः स्थिताः।
प्रसर्गकाले स्थित्वा च ग्रसन्त्येताः परस्परम्

4-2.79

एवं परस्परोत्पन्ना धारयन्ति परस्परम्।
आधाराधेयभावेन विकारस्य विकारिषु

4-2.80

अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते।
इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः।
अबुद्धिपूर्वं प्रागासीत् प्रादुर्भूता तडिद्यथा

4-2.81

एतद्धिरण्यगर्भस्य जन्म यो वेद तत्त्वतः।
आयुष्मान् कीर्तिमान् धन्यः प्रजावांश्च भवत्युत

4-2.82

निवृत्तिकामोऽपि नरः शुद्धात्मा लभते गतिम्।
पुराणश्रवणान्नित्यं सुखं च क्षेममाप्नुयात्

4-2.4

इति महापुराणे वायुप्रोक्ते सृष्टिप्रकरणं नाम चतुर्थोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc