भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 38-2

38-2.38.1

॥सूत उवाच ॥
अतः परं प्रवक्ष्यामि दक्षिणान्दिशमाश्रिताः।
या द्रोण्यः सिद्धचरिताः शृणु ता ह्यनुपूर्वशः

38-2.38.2

शिशिरस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च।
श्लक्ष्णभूमिश्रिया युक्तं लतालिङ्गितपादपम्

38-2.38.3

पृथुक्षेपोच्चशिखरैः पादपैरुपशोभितम्।
उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम्

38-2.38.4

पक्वैर्विद्रुमसङ्काशै र्मधुपूर्णैर्मनोरमैः।
ज्वलितं तद्वनं भाति महाकुम्भोपमैः फलैः

38-2.38.5

तत् सिद्धयक्षगन्धर्वाः किन्नरा उरगास्तथा।
विद्याधराश्च मुदिता उपजीवन्ति नित्यशः

38-2.38.6

प्रसन्नस्वादुसलिलास्तत्र नद्यो बहूदकाः।
सुरसामलतोयास्ताः सरांसि च समन्ततः

38-2.38.7

तत्राश्रमं भगवतः कर्द्दमस्य प्रजापतेः।
रम्यं सुरगणाकीर्णं सर्वतश्चित्रकाननम्।
समन्ताद्योजनशतं तद्वनं परिमण्डलम्

38-2.38.8

ताम्रवर्णस्य शैलस्य पतङ्गस्यान्तरेण तु।
शतयोजनविस्तीर्णं द्वियोजनशतायतम्

38-2.38.9

तरुणादित्यसङ्काशैः पुण्डरीकैः समन्ततः।
सहस्रपत्रैर्विकचैर्महापद्मैरलङ्कृतम्

38-2.38.10

तथा भ्रमरसंलीनैः शतपत्रैः सुगन्धिभिः।
प्रफुल्ल्लैः शोभितजलं रक्तनीलैर्महोत्पलैः

38-2.38.11

सरोवरं महापुण्यं देवदानवसेवितम्।
महोरगैरध्युषितं नीलजाल विभूषितम्

38-2.38.12

तस्य मध्ये जनपदो ह्यायतः शतयोजनः।
त्रिंशद्योजनविस्तीर्णो रक्तधातुविभूषितः

38-2.38.13

तस्योपरि महारम्या प्रांशु प्राकारतोरणा।
नरनारीगणाकीर्णा स्फीता विभवविस्तरैः

38-2.38.14

वलभीकूटनिर्व्यूहैर्मणिभक्तिविचित्रितैः।
रत्नचित्रार्पिततलैः श्लक्ष्णचित्रोत्तरच्छदैः

38-2.38.15

महाभवनमालाभिर्महाप्रांशुभिरुत्तमैः।
विद्याधरपुरं तत्र शोभते भ्राजयच्छुभम्

38-2.38.16

विद्याधरपतिस्तत्र पुलोमा तत्र विश्रुतः।
चित्रवेषधरः स्रग्वी माहेन्द्रसदृशद्युतिः

38-2.38.17

दीप्तानां चित्रवेषाणां सूर्यप्रतिमतेजसाम्।
विद्याधरसहस्राणामनेकेषां स राजराट्

38-2.38.18

विशाखस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च।
सरसस्ताम्रवर्णस्य पूर्वे तीरे परिश्रुतम्

38-2.38.19

पञ्चेषुक्षेपणैर्विद्धं सुशाखं वर्णशोभितम् ।
सर्व कालफलं तत्र स्फीतं चाम्रवणं महत्

38-2.38.20

फलैः कनकसङ्काशैर्महास्वादैः सुगन्धिभिः।
महाकुम्भप्रमाणैश्चातनुशाखैः समन्ततः

38-2.38.21

गन्धर्वकिन्नरा यक्षा नागा विद्याधरास्तथा।
पिबन्त्याम्ररसं तत्र सुस्वादुं ह्यमृतोपमम्

38-2.38.22

तत्राम्ररसपीतानां मुदितानां महात्मनाम्।
श्रूयन्ते हृष्ट पुष्टानां नादास्तस्मिन् महावने

38-2.38.23

सुमूलस्याचलेन्द्रस्य वसुधारस्य चान्तरे।
समा सुरभिपूर्णाढ्या विहङ्गैरुपशोभिता

38-2.38.24

त्रिंशद्योजनविस्तीर्णा पञ्चाशद्योजनायता।
तत्र बिल्वस्थली विप्राः शुद्धा निम्नफलद्रुमाः

38-2.38.25

सुस्वादैर्विद्रुमनिभैः फलैर्बिल्वैर्महोपमैः।
शीर्यमाणैर्विशीर्णैश्च प्रक्लिन्नतलमृत्तिकाः

38-2.38.26

तां स्थलीमुपजीवन्ति यक्षगन्धर्वकिन्नराः।
सिद्धा नागाश्च बहुशो नित्यं बिल्वफलाशिनः

38-2.38.27

अन्तरे वसुधारस्य रत्नधारस्य चान्तरे।
त्रिंशद्योजनविस्तीर्णमायतं शतयोजनम्

38-2.38.28

सुगन्धं किंशुकवनं नित्यं पुष्पितपादपम्।
पुष्पलक्ष्म्यावृतं भाति प्रदीप्तमिव सर्वतः

38-2.38.29

यस्य गन्धेन दिव्येन वास्यते परिमण्डलम्।
समग्रं योजनशतं काननानि समन्ततः

38-2.38.30

तत् सिद्धचारणगणैरप्सरोभिश्च सेवितम् ।
रम्यं तत् किंशुक वनं जलाशयविभूषितम्

38-2.38.31

तत्रादित्यस्य देवस्य दीप्तमायतनं महत् ।
मासे मासेऽनतरति तत्र सूर्यः प्रजापतिः

38-2.38.32

तत्र कालस्य कर्त्तारं सहस्रांशुं सुरोत्तमम्।
सिद्धसङ्घा नमस्यन्ति सर्वलोकनमस्कृतम्

38-2.38.33

पञ्चकूटस्य शैलस्य कैलासस्यान्तरेण तु।
षट्‌त्रिंशद्योजनायामं विस्तीर्णं शतयोजनम्

38-2.38.34

क्षुद्रसत्त्वैरनाधृष्यं सर्वतो हंसपाण्डुरम्।
दुष्पारं सर्वसत्वानां दुर्गमं लोमहर्षणम्

38-2.38.35

इत्येता ह्यन्तरद्रोण्यो दक्षिणे परिकीर्तिताः।
यथानुपूर्वमखिलाः सिद्धसङ्घनिषेविताः

38-2.38.36

पश्विमायां दिशितथा येऽन्तरद्रोणिविस्तराः।
तान् वर्ण्यमानांस्तत्वेन श्रृणुतेमान् द्विजोत्तमाः

38-2.38.37

अन्तराले गिरौ तस्मिन् सुवक्षः शिखिशैलयोः।
समन्ताद्योजनशतमेकभूमं शिलातलम्

38-2.38.38

नित्यतप्तं महाघोरं दुःस्पर्शं रोमहर्षणम्।
अगम्यं सर्वसत्त्वानामीश्वराणां सुदारुणम्

38-2.38.39

मध्ये तस्यां शिलास्थल्यां त्रिंशद्योजनमण्डलम्।
ज्वालासहस्रकलिलं वह्निस्थानं सुदारुणम्

38-2.38.40

अनिन्धनस्तत्र सदा ज्वालामाली विभावसुः।
ज्वलत्येष सदा देवः शश्वत्तत्र हुताशनः

38-2.38.41

अधिदेवकृते योऽसावग्नेर्भागो विधीयते।
स तत्र ज्वलते नित्यं लोकसंवर्त्तकोऽनलः

38-2.38.42

अन्तरे शैलवरयोर्देवा वापि तयोः शुभाः ।
मातुलुङ्गस्थली तत्र ह्यायामाद्दशयोजना

38-2.38.43

मधुव्यञ्जनसंस्थानैः सुरसैः कनकप्रभैः।
फलैः परिणतैः सर्वा शोभिता सा महास्थली

38-2.38.44

तत्राश्रमं महा पुण्यं सिद्धसङ्घनिषेवितम्।
बृहस्पतेः प्रमुदितं सर्वकामगुणैर्युतम्

38-2.38.45

तथैव शैलवरयोः कुमुदाञ्जनयोरपि।
अन्तरे केसरद्रोणी ह्यनेकायाम योजना

38-2.38.46

द्विबाहुपरिणाहैस्तैस्त्रिहस्तायतविस्तृतैः।
चन्द्रांशुवर्णैर्व्याकोशैर्मत्तषट्पदनादितैः

38-2.38.47

मधुसर्पीरजः पृक्तैर्महागन्धैर्मनोहरैः।
शबलं तद्वनं भाति कुसुमैः सर्वकालजैः

38-2.38.48

तत्र विष्णोः सुरगुरोर्दीप्तमायतनं महत्।
प्रकाशन्त्रिषु लोकेषु सर्वलोकनमस्कृतम्

38-2.38.49

अन्तरे शैलवरयोः कृष्णपाण्डुरयोरपि।
त्रिंशद्योजनविस्तीर्णं नवत्यायतयोजनम्

38-2.38.50

श्लक्ष्णमेकशिलं देशं वृक्षवीरुद्विवर्जितम् ।
सुखपादप्रचा रञ्च निम्नोन्नतविवर्जितम्

38-2.38.51

मध्ये तु सरसस्तस्य रम्या तु स्थलपद्मिनी।
सहस्रपत्रैर्व्याकोशैः छत्रमात्रैरलङ्कृता

38-2.38.52

पुण्डरीकैर्महापद्मै रुचिरैर्गन्धशालिभिः ।
शतपत्रैश्च विकचैरुत्पलैर्नीलपत्रकैः

38-2.38.53

मदोत्कटैर्मधुकरैर्भ्रमरैश्च मदोत्कटैः।
मृदुगद्घदकण्ठानां किन्नराणाञ्च निस्वनैः

38-2.38.54

उपगीतपद्मखण्डाढ्या विस्तीर्णा स्थलपद्मिनी।
यक्षगन्धर्वचरिता सिद्धचारणसेविता

38-2.38.55

मध्ये तस्याश्च पद्मिन्याः पञ्चयोजनमण्डलः।
न्यग्रोधो विपुलस्कन्धो ह्यनेकारोहिमण्डितः

38-2.38.56

तत्र चन्द्रप्रभः श्रीमान् पूर्णचन्द्रनिभानन)।
सहस्रवदनो देवो नीलवासाः सुरारिहा

38-2.38.57

पद्म माल्यधरस्थल्यां महाभागोऽपराजितः।
इज्यते यक्षगन्धर्वैर्विद्याधरगणैस्तथा

38-2.38.58

तस्मिन्नायतने साक्षादनादिनिधनो हरिः।
पद्मोपहारौर्विविधै रिज्यते सिद्धचारणैः

38-2.38.59

तदनन्तसदो नाम सर्वलोकेषु विश्रुतम्।
पद्ममालावलम्बाभिर्मालाभिरुपशोभितम्

38-2.38.60

तथा सहस्रशिखरकुमुदस्यान्तरेण च।
पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् ।
इषुक्षेपोच्चशिखरं नानाविहगसेवितम्

38-2.38.61

महागन्धैर्महास्वादैर्गजदेहनिभैः फलैः।
मधुस्रवैर्महावृक्षैरुपेतं तत् समन्ततः

38-2.38.62

तत्राश्रमं महापुण्यं देवर्षिगणसेवितम्।
शुक्रस्य प्रथितं तत्र भास्वरं पुण्यकर्मणः

38-2.38.63

शङ्कुकूटस्य शैलस्य वृषभस्यान्तरेण च।
परूषकस्थली रम्या ह्यनेकायतयोजना

38-2.38.64

बिल्वप्रमाणैश्च शुभैर्महास्वादैः सुगन्धिभिः।
फलैः प्रक्लिद्यते भूमिः परुषैर्वृन्तविच्युतैः

38-2.38.65

तां स्थलीमुपजीवन्ति किन्नरोरगसाधवः।
परूषकरसोन्मत्ता मानाढ्यास्तत्र चारणाः

38-2.38.66

कपिञ्जलस्य शैलस्य नागशैलस्य चान्तरे।
द्वियोजनशतायामा विस्तीर्णा शतयोजना

38-2.38.67

स्थली मनोहरा सा हि नानावनविभूषिता ।
नानापुष्पफलोपेता किन्नरोरगसेविता

38-2.38.68

द्राक्षावनानि रम्याणि तथा नागवनानि च।
खर्जूरवनखण्डानि नीलाशोकवनानि च

38-2.38.69

दाडिमानाञ्च स्वादूनामक्षोटकवनानि च।
अतसीतिलकानाञ्च कदलीनां वनानि च

38-2.38.70

बदरीणाञ्च स्वादूनां वनखण्डानि सर्वशः।
स्वादुशीताम्बुपूर्णाभिर्नदीभिः शोभितानि च

38-2.38.71

तथा पुष्पकशैलस्य महामेघस्य चान्तरे।
षष्टियोजनविस्तीर्णा सा भूमिः शतमायता

38-2.38.72

समा पाणितलप्रख्या कठिना पाण्डुरा घना।
वृक्षगुल्मलतागुल्मैस्तृणैश्वापि विवर्जिता

38-2.38.73

वर्जिता विविधैः सत्वैर्न्नित्यमस्मिन् निराश्रया।
सा काननस्थली नाम दारुणा रोमहर्षणा

38-2.38.74

महासरांसि च तथा महावृक्षास्तथैव च।
महावनानि सर्वाणि कान्तनामानि सर्वशः

38-2.38.75

सरसाञ्च वनानाञ्च सा स्थली च प्रजापतेः।
क्षुद्राणां सरसाञ्चैव सङ्ख्या तत्र न विद्यते

38-2.38.76

दश द्वादश सप्ताष्टौ विंशत्र्रिंशच्च योजनाः।
स्थल्यो द्रोण्यश्च विख्याताः सरांसि च वनानि च

38-2.38.77

केचित् सन्ति महाघोराः श्यामाः पर्वतकुक्षयः।
सूर्यांशुजालैरस्पृष्टा नित्यं शीता दुरासदाः

38-2.38.78

तथा ह्यनलतप्तानि सरांसि द्विजसत्तमाः।
शैलकुक्ष्यन्तरस्थानि सहस्राणि शतानि च

38-2.38

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टत्रिंशोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc