भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 3-2

3-2.1

सूत उवाच॥
महेश्वरायोत्तमवीर्यकर्मणे सुरर्षभायामितबुद्धितेजसे।
सहस्रसूर्यानलवर्च्चसे नमस्त्रिलोकसंहारविसृष्टये नमः

3-2.2

प्रजापतीन् लोकनमस्कृतां स्तथा स्वयम्भुरुद्रप्रभृतीन् महेश्वरान्।
भृगुं मरीचिं परमेष्ठिनं मनुं रजस्तमोधर्ममथापि कश्यपम्

3-2.3

वसिष्ठदक्षात्रिपुलस्त्यकर्द्दमान् रुचिं विवस्वन्तमथापि च क्रतुम्।
मुनिं तथैवाङ्गिरसं प्रजापतिं प्रणम्य मूर्ध्ना पुलहं च भावतः

3-2.4

तथैव चुक्रोधनमेकविंशतिं प्रजा विवृद्ध्यार्पितकार्यशासनम्।
पुरातनानप्यपरांश्च शाश्वतांस्तथैव चान्यान् सगणानवस्थितान्

3-2.5

तथैव चान्यानपि धैर्यशोभिनो मुनीन् बृहस्पत्युशनःपुरोगमान्।
तपःशुभाचारऋषीन् दयान्वितान् प्रणम्य वक्ष्ये कलिपापनाशिनीम्

3-2.6

प्रजापतेः सृष्टिमिमामनुत्तमां सुरेश देवर्षिगणैरलंकृताम्।
शुबामतुल्यामनघामृषिप्रियां प्रजापतीनामपि चोल्बणार्च्चिषाम्

3-2.7

तपोभृतां ब्रह्मदिनादिकालिकीं प्रभूतमाविष्कृतपौरुषश्रियम्।
श्रुतौ स्मृतौ च प्रसृतामुदाहृतां परां पराणामनिलप्रकीर्त्तिताम्

3-2.8

समासबन्धैर्नियतैर्यथातथं विशब्दनेनापि मनःप्रहर्षिणीम्।
यस्याञ्च बद्धा प्रथमा प्रवृत्तिः प्राधानिकी चेश्वरकारिता च

3-2.9

यत्तत्स्मृतं कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः।
आत्मा गुहा योनिरथापि चक्षुः क्षेत्रं ततैवामृतमक्षरञ्च

3-2.10

शुक्रं तपः सत्त्वमतिप्रकाशं तद्व्यष्टि नित्यं पुरुषं द्वितीयम्।
तमप्रमेयं पुरुषेण युक्तं स्वयम्भुवा लोकपितामहेन

3-2.11

उत्पादकत्वाद्रजसोतिरेकात् कालस्य योगान्निगमावधेश्च।
क्षेत्रज्ञयुक्तान् नियतान्विकारान् लोकस्य सन्तानाविवृद्धिहेतून्।
प्रकृत्यवस्था सुषुवे तथाष्टौ सङ्कल्पमात्रेण महेश्वरस्य

3-2.12

देवासुराद्रिद्रुमसागराणां मनुप्रजेशर्षिपितृद्विजानाम्।
पिशाचयक्षोरगराक्षसानां ताराग्र हार्क्कर्क्षनिशाचराणाम्

3-2.13

मासर्त्तु संवत्सररात्र्यहानां दिक्कालयोगादियुगायनानाम्।
वनौषधीनामपि वीरुधाञ्च जलौकसामप्सरसां पशूनाम्

3-2.14

विद्युत्सरिन्मेघविहङ्गमानां यत्सूक्ष्मगं यद्भुवि यद्वियत्स्थम्।
यत्स्थावरं यत्र यदस्ति किञ्चित् सर्वस्य तस्यास्ति गतिर्विभक्तिः

3-2.15

छन्दांसि वेदाः सऋचो यजूंषि सामानि सोमस्व तथैव यज्ञः।
आजीव्यमेषां यदभीप्सितञ्च देवस्य तस्यैव च वै प्रजापतेः

3-2.16

वैवस्वतस्यास्य मनोः पुरस्तात् सम्भू तिरुक्ता प्रसवश्च तेषाम्।
येषामिदं पुण्यकृतां प्रसूत्या लोकत्रयं लोकनमस्कृतानाम्।
सुरेशदेवर्षिमनुप्रधीनामापूरितञ्चोपरिभूषितञ्च

3-2.17

रुद्रस्य शापात् पुनरुद्भवश्च दक्षस्य चाप्यत्र मनुष्यलोके।
वासः क्षितौ वा नियमाद्भवस्य दक्षस्य चात्र प्रतिशापलाभः

3-2.18

मन्वन्तराणां परिवर्त्तनानि युगेषु सम्भूतिविकल्पनञ्च।
ऋषित्वमार्षस्य च संप्रवृद्धिर्यथा युगादिष्वपि चेत्तदत्र

3-2.19

ये द्वापरेषु प्रथयन्ति वेदान् व्यासाश्च तेऽज्ञ क्रमशो निबद्धाः।
कल्पस्य संख्या भुवनस्य संख्या ब्राह्मस्य चाप्यत्र दिनस्य संख्या

3-2.20

अण्डोद्भिजस्वेदजरायुजानां धर्मात्मनां स्वर्गनिवासिनां वा।
ये यातनास्थानगताश्च जीवास्तर्केण तेषामपि च प्रमाणम्

3-2.21

आत्यन्तिकः प्राकृतिकश्च योऽयं नैमित्तिकश्च प्रतिसर्गहेतुः।
बन्धश्च मोक्षश्च विशिष्य तत्र प्रोक्ता च संसारगतिः परा च

3-2.22

प्रकृत्यवस्थैषु च कारणेषु याच स्थितिर्या च पुनः प्रवृत्तिः।
तच्छास्त्रयुक्त्या स्वमतिप्रयत्नात् समस्तमाविष्कृतधीधृतिभ्यः।
विप्रा ऋषिभ्यः समुदाहृतं यद्यथातथं तच्छृणुतोच्यमानम्

3-2.3

इति श्रीमहापुराणे वायुप्रोक्ते सृष्टिप्रकरणं नाम तृतीयोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc