भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 2-2

2-2.1

शुक उवाच॥
प्रत्यब्रुवन् पुनः सूतमृषयस्ते तपोधनाः।
कुत्र सत्रं समभवत् तेषामद्भुतकर्मणाम्

2-2.2

कियन्तं चैव तत्कालं कथं च समवर्त्तत।
आचचक्ष पुराणं च कथं तेभ्यः प्रभञ्चनः

2-2.3

आचक्ष्व विस्तरेणेदं परं कौतूहलं हि नः।
इति सन्नोदितः सूतः प्रत्युवाच शुभं वचः

2-2.4

श्रृणुध्वं यत्र ते धीरा ईजिरे सत्रमुत्तमम्।
यावन्तं चाभवत् कालं यथा च समवर्तत

2-2.5

सिसृक्षमाणा विश्वं हि यत्र विश्वसृजः पुरा।
सत्रं हि ईजिरे पुण्यं सहस्रं परिवत्सरान्

2-2.6

तपो गृहपतिर्यत्र ब्रह्मा ब्रह्माऽभवत् स्वयम्।
इलाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान्।
मृत्युश्चक्रे महातेजास्तस्मिन् सत्रे महात्मनाम्

2-2.7

विबुधा ईजिरे तत्र सहस्रं प्रतिवत्सरान्।
भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत।
कर्मणा तेन विख्यात नैमिषं मुनिपूजितम्

2-2.8

यत्र सा गोमती पुण्या सिद्धचारण सेविता।
रोहिणी सुषुवे तत्र ततः सौम्योऽभवत् सुतः

2-2.9

शक्तिर्ज्येष्ठः समभवद्वसिष्ठस्य महात्मनः।
अरुन्धत्याः सुता यत्र शतमुत्तमतेजसः

2-2.10

कल्माषपादो नृपतिर्यत्र शप्तश्च शक्तिना।
यत्र वैरं समभवद्विश्वामित्रवसिष्ठयोः

2-2.11

अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः।
पराभवो वसिष्ठस्य यस्मिन् जातेऽप्यवर्त्तत

2-2.12

तत्र ते ईजिरे सत्रं नैमिषे ब्रह्मवादिनः।
नैमिषे ईजिरे यत्र नैमिषेयास्ततः स्मृताः

2-2.13

तत्सत्रमभवत्तेषां समा द्वादश धीमताम्।
पुरूरवसि विक्रान्ते प्रशासति वसुन्धराम्

2-2.14

अष्टादश समुद्रस्य द्वीपानश्नन् पुरूरवाः।
तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम्

2-2.15

उर्वशी चकमे यं च देवहूतिप्रणोदिता।
आजहार च तत्सत्रं स्वर्वेश्यासहसङ्गतः

2-2.16

तस्मिन्नरपतौ सत्रं नैमिषेयाः प्रचक्रिरे।
यं गर्भे सुषुवे गङ्गा पावकाद्दीप्ततेजसम्।
तदुल्बं पर्वते न्यस्तं हिरण्यं प्रत्यपद्यत

2-2.17

हिरण्मयं ततश्चक्रे यज्ञवाटं महात्मनाम्।
विश्वकर्मा स्वयं देवो भावयन् लोकभावनम्

2-2.18

बृहस्पतिस्ततस्तत्र तेषाममिततेजसाम्।
ऐलः पुरूरवा भेजे तं देशं मृगयां चरन्

2-2.19

तं दृष्ट्वा महदाश्चार्यं यज्ञवाटं हिरण्मयम्।
लोभेन हतविज्ञानस्तदादातुं प्रचक्रमे

2-2.20

नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतेर्भृशम्।
निजघ्नुश्चापि संक्रुद्धाः कुशवज्रैर्मनीषिणः।
ततो निशान्ते राजानं मुनयो दैवनोदिताः

2-2.21

कुशवज्रैर्विनिष्पिष्टः स राजा व्यजहात्तनुम् ।
और्वशेयं ततस्तस्य पुत्रञ्चक्रुर्नृपं भुवि

2-2.22

नहुषस्य महात्मानं पितरं यं प्रचक्षते।
स तेषु वर्त्तते सम्यग् धर्मशीलो महीपतिः।
आयुरारोग्यमत्युग्रं तस्मिन् स नरसत्तमः

2-2.23

सान्त्वयित्वा च राजानं ततो ब्रह्मविदां वराः।
सत्रमारेभिरे कर्त्तुं यथावद्धर्मभूतये

2-2.24

बभूव सत्रं तत्तेषां बह्वाश्चर्यं महात्मनाम्।
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव

2-2.25

वैखानसैः प्रियसखैर्वालखिल्यैर्मरीचिकैः।
अन्यैश्च मुनिभिर्जुष्टं सूर्यवैश्वानरप्रभैः

2-2.26

पितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः।
सम्भारैस्तु शुभैर्जुष्टं तैरेवेन्द्रसदो यथा

2-2.27

स्तोत्रसत्रग्रहैर्देवान् पितृन् पित्र्यैश्च कर्मभिः।
आनर्चुश्च यथाजाति गन्धर्वादीन् यथाविधि

2-2.28

आराधयितुमिच्छन्तस्ततः कर्मान्तरेष्वथ।
जगुः सामानि गन्धर्वा ननृतुश्चाप्सरोगणाः

2-2.29

व्याजहुर्मुनयो वाचं चित्राक्षरपदां शुभाम्।
मन्त्रादितत्त्वविद्वांसो जगदुश्च परस्परम्

2-2.30

वितण्डावचनाश्चैके निजघ्नुः प्रतिवादिनः।
ऋषयस्तत्र विद्वांसः साङ्ख्यार्थन्यायकोविदाः

2-2.31

न तत्र दुरितं किंचिद्विदधुर्ब्रह्मराक्षसाः।
न च यज्ञहनो दैत्या न च यज्ञमुषोऽसुराः

2-2.32

प्रायश्चित्तं दुरिष्टं वा न तत्र समजायत।
शक्तिप्रज्ञा क्रियायोगैर्विधिरासीत् स्वनुष्ठितः

2-2.33

एवं वितेनिरे सत्रं द्वादशाब्दं मनीषिणः।
भृग्वाद्या ऋषयो धीरा ज्योतिष्टोमान् पृथक् पृथक्।
चक्रिरे पृष्ठगमनान् सर्वानयुतदक्षिणान्

2-2.34

समाप्तयज्ञास्ते सर्वे वायुमेव महाधिपम्।
पप्रच्छुरमितात्मानं भवद्भिर्यदहं द्विजाः।
प्रणोदितश्च वंशार्थं स च तानब्रवीत्प्रभुः

2-2.35

शिष्यः स्वयम्भुवो देवः सर्वप्रत्यक्षदृग्वशी।
अणिमादिभिरष्टाभिरैश्वर्यैर्यः समन्वितः

2-2.36

तिर्यग्योन्यादिभिर्धर्मैः सर्वलोकान्बिभर्त्ति यः।
सप्तस्कन्धादिकं शश्वत् प्लवते योजनाद्वरः

2-2.37

विषये नियता यस्य संस्थिताः सप्तका गणाः।
व्यूहांस्त्रयाणां भूतानां कुर्वन् यश्च महाबलः।
तेजसश्चात्त्युपध्यानन्दधातीमं शरीरिणम्

2-2.38

प्राणाद्या वृत्तयः पञ्च करणानां च वृत्तिभिः।
प्रेर्यमाणाः शरीराणां कुर्वते यास्तु धारणम्

2-2.39

आकाशयोनिर्हि गुणः शब्दस्पर्शसमन्वितः।
तैजसप्रकृतिश्चोक्तोऽप्ययं भावो मनीषिभिः

2-2.40

तत्राभि मानी भगवान् वायुश्चातिक्रियात्मकः।
वातारणिः समाख्यातः शब्दशास्त्रविशारदः

2-2.41

भारत्या श्लक्ष्णया सर्वान् मुनीन् प्रह्लादयन्निव।
पुराणज्ञः सुमनसः पुराणाश्रययुक्तया

2-2.2

इति श्रीवायुमहापुराणे वायुप्रोक्ते द्वादशवार्षिकसत्रनिरूपणं नाम द्वितीयोऽध्यायः

*
१.२.६ तपो गृहपतिः -- द्र. पञ्चविंश ब्राह्मणम् २५.१८

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc