भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 15-2

15-2.15.1

॥ वायुरुवाच ॥
चतुर्द्दशविधं ह्येतद्बुद्ध्वा संसारमण्डलम्।
तथा समारभेत् कर्म्म संसारभयपीडितः

15-2.15.2

ततः स्मरति संसारचक्रेण परिवर्त्तितः।
तस्मात्तु सततं युक्तो ध्यानतत्परयुञ्जकः।
तथा समारभेद्योगं यथात्मानं स पश्यति

15-2.15.3

एष आद्यः परं ज्योतिरेष सेतुरनुत्तमः।
विवृद्धो ह्येष भूतानां न सम्भेदश्च शाश्वतः

15-2.15.4

तदेनं सेतुमात्मानं अग्निं वै विश्वतोमुखम्।
हृदिस्थं सर्वभूतानामुपासीत विधानवित्

15-2.15.5

हुत्वाष्टावाहुतीः सम्यक् शुचिस्तद्गतमानसः।
वैश्वानरं हृदिस्थन्तु यथावदनुपूर्वशः।
अपः पूर्व सकृत् प्राश्य तुष्णीं भूत्वा उपासते

15-2.15.6

प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता।
अपानाय द्वितीया तु समानायेति चापरा

15-2.15.7

उदानाय चतुर्थीति व्यानायेति च पञ्चमी।
स्वाहा कारैः परं हुत्वा शेषं भुञ्जीत कामतः।
अपः पुनः सकृत् प्राश्य त्र्याचम्य हृदयं स्पृशेत्

15-2.15.8

ॐप्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः।
स रुद्रो ह्यात्मनः प्राणा एवमाप्याययेत् स्वयम्

15-2.15.9

त्वं देवानामपि ज्येष्ठ उग्रस्त्वं चतुरो वृषा ।
मृत्युघ्नोऽसि त्वमस्मभ्यं भद्रमेतद्धुतं हविः

15-2.15.10

एवं हृदयमालभ्य पादाङ्गुष्ठे तु दक्षिणे।
विश्राव्य दक्षिणं पाणिं नाभिं वै पाणिना स्पृशेत् ।
ततः पुनरुपस्पृश्‌य चात्मानमभिसंस्पृशेत्

15-2.15.11

अक्षिणी नासिका श्रोत्रे हृदयं शिर एव च।
द्वावात्मानावुभावेतौ प्राणापानावुदाहृतौ

15-2.15.12

तयोः प्राणोऽन्तरात्मास्य बाह्योऽपानोऽत उच्यते।
अन्नं प्राणस्तथापानं मृत्युर्ज्जीवितमेव च

15-2.15.13

अन्नं ब्रह्म च विज्ञेयं प्रजानां प्रसवस्तथा।
अन्नाद्भूतानि जायन्ते स्थितिरन्नेन चेष्यते।
वर्द्धन्ते तेन भूतानि तस्मादन्नन्तदुच्यते

15-2.15.14

तदेवाग्नौ हुतं ह्यन्नं भुञ्जते देवदानवाः।
गन्धर्वयक्षरक्षांसि पिशाचाश्चान्नमेव हि

15-2.15

इति श्रीमहापुराणे वायु प्रोक्ते पाशुपतयोगो नाम पञ्चदशोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc