भाषा

ENहिગુ
ग्रंथ पाठ

वायुपुराणम् · श्लोक 12-2

12-2.12.1

॥ सूत उवाच ॥
अत ऊर्द्ध्वं प्रवक्ष्यामि उपसर्गा यथा तथा ।
प्रादुर्भवन्ति ये दोषा दृष्टतत्त्वस्य देहिनः

12-2.12.2

मानुष्यान् विविधान् कामान् कामयेत ऋतुं स्त्रियः।
विद्यादानफलञ्चैव उपसृष्टस्तु योगवित्

12-2.12.3

अग्निहोत्रं हविर्यज्ञमेतत् प्रायतनं तथा।
मायाकर्म धनं स्वर्गमुपसृष्टस्तु कांक्षति

12-2.12.4

एष कर्मसु युक्तस्तु सोऽविद्यावशमागतः।
उपसृष्टन्तु जानीयाद्वुद्ध्या चैव विसर्ज्जयेत्।
नित्यं ब्रह्मपरो युक्त उपसर्गात् प्रमुच्यते

12-2.12.5

जितप्रत्युपसर्गस्य जितश्वासस्य देहिनः।
उपसर्गाः प्रवर्त्तन्ते सात्त्वराजसतामसाः

12-2.12.6

प्रतिभाश्रवणे चैव न देवानाञ्चैव दर्शनम्।
भ्रमावर्तश्च इत्येते सिद्धिलक्षणसंज्ञिताः

12-2.12.7

विद्या काव्यं तथा शिल्पं सर्वं वाचावृतानि तु।
विद्यार्थाश्चोपतिष्ठन्ति प्रभावस्यैव लक्षणम्

12-2.12.8

श्रृणोति शब्दान् श्रोतव्यान् योजनानां शतादपि।
सर्वज्ञश्च विधिज्ञश्च योगी चोन्मत्तवद्भवेत्

12-2.12.9

यक्षराक्षसगन्धर्व्वान् वीक्षते दिव्यमानुषान्।
वेत्ति तांश्च महायोगी उपसर्गस्य लक्षणम्

12-2.12.10

देवदानवगन्धर्वान् ऋषींश्चापि तथा पितॄन्।
प्रेक्षते सर्वतश्चैव उन्मत्तं तं विनिर्द्दिशेत्

12-2.12.11

भ्रमेण भ्राम्यते योगी चोद्यमानोऽन्तरात्मना।
भ्रमेण भ्रान्तबुद्धेस्तु ज्ञानं सर्वं प्रणश्यति

12-2.12.12

वार्त्ता नाशयते चित्तं चोद्यमानोऽन्तरात्मना।
वर्त्तनाक्रान्तबुद्धेस्तु सर्वं ज्ञानं प्रणश्यति

12-2.12.13

आवृत्य मनसा शुक्लं पटं वा कम्बलं तथा।
ततस्तु परमं ब्रह्म क्षिप्रमेवानुचिन्तयेत्

12-2.12.14

तस्माच्चैवात्मनो दोषांस्तूपसर्गानुपस्थितान् ।
परित त्यजेत मेधावी यदीच्छेत् सिद्धिमात्मनः

12-2.12.15

ऋषयो देवगन्धर्वा यक्षोरगमहासुराः।
उपसर्गेषु संयुक्ता आवर्त्तन्ते पुनः पुनः

12-2.12.16

तस्माद्युक्तः सदा योगी लघ्वाहारी जितेन्द्रियः।
तथा सुप्तः सुसूक्ष्मेषु धारणां मूर्ध्नि धारयेत्

12-2.12.17

ततस्तु योगयुक्तस्य जितनिद्रस्य योगिनः।
उपसर्गाः पुनश्चान्ते जायन्ते प्राणसंज्ञकाः

12-2.12.18

पृथिवीं धारयेत्सर्वां ततश्चापो ह्यनन्तरम्।
ततोऽग्निञ्चैव सर्वेषामाकाशं मन एव च

12-2.12.19

ततः परां पुनर्बुद्धिं धारयेद्यत्नतो यती।
किद्धीनाञ्चैव लिङ्गानि दृष्ट्वा दृष्ट्वा परित्यजेत्

12-2.12.20

पृथ्वीं धारयमाणस्य मही सूक्ष्मा प्रवर्तते।
अपो धारयमाणस्य आपः सूक्ष्मा भवन्ति हि।
शीता रसाः प्रवर्त्तन्ते सूक्ष्मा ह्यमृतसन्निभाः

12-2.12.21

तेजो धारयमाणस्य तेजः सूक्ष्मा प्रवर्त्तते।
आत्मानं मन्यते तेजस्तद्भावमनुपश्यति

12-2.12.22

आत्मानं मन्यते वायुं वायुवन्मण्डलं प्रभो ।
आकाशं धारयाणस्य व्योम सूक्ष्मं प्रवर्त्तते

12-2.12.23

पश्यते मण्डलं सूक्ष्मं घोषश्चास्य प्रवर्त्तते ।
आत्मानं मन्यते नित्यं वायुः सूक्ष्मः प्रवर्त्तते

12-2.12.24

तथा मनो धारयतो मनः सूक्ष्मं प्रवर्त्तते ।
मनसा सर्वभूतानां मनस्तु विशते हि सः।
बुद्ध्या बुद्धिं यदा युञ्जेत्तदा विज्ञाय बुद्धयते

12-2.12.25

एतानि सप्त सूक्ष्माणि विदित्वा यस्तु योगवित्।
परित्यजति मेधावी स बुद्ध्या परमं व्रजेत्

12-2.12.26

यस्मिन् यस्मिंश्च संयुक्तो भूत ऐश्वर्यलक्षणे।
तत्रैव सङ्गं भजते तेनैव प्रविनश्यति

12-2.12.27

तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम्।
परित्यजति योबुद्ध्या स परं प्रप्नुयाद्द्विजः

12-2.12.29

दृश्यन्ते हि महात्मान ऋषयो दिव्यचक्षुषः।
संसक्ताः सूक्ष्मभावेषु ते दोषास्तेषु संज्ञिताः॥१२.२८
तस्मान्न निश्चयः कार्यः सूक्ष्मेष्विह कदाचन।
ऐश्वर्याज्जायते रागो विरागं ब्रह्म चोच्यते

12-2.12.30

विदित्वा सप्त सूक्ष्माणि षडङ्गञ्च महेश्वरम्।
प्रधानं विनियोगज्ञः परं ब्रह्माधिगच्छति

12-2.12.31

सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः।
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य

12-2.12.32

नित्यं ब्रह्मधनो युक्त उपसर्गैः प्रमुच्यते।
जितश्वासोपसर्गस्य जितरामस्य योगिनः।
एका बहिःशरीरेऽस्मिन् धारणा सर्वकामिकी

12-2.12.33

विशेद्यदा द्विजो युक्तो यत्र यत्रार्प्पयेन्मनः ।
भूतान्याविशते वापि त्रैलोक्यञ्चापि कम्पयेत्

12-2.12.34

एतया प्रविशेद्देहं हित्वा देहं पुनस्त्विह।
मनोद्वारं हि योगानामादित्यञ्च विनिर्द्दिशेत्

12-2.12.35

आदानादिक्रियाणान्तु आदित्य इति चोच्यते।
एतेन विधिना योगी विरक्तः सूक्ष्मवर्ज्जितः।
प्रकृतिं समतिक्रम्य रुद्रलोके महीयते

12-2.12.36

ऐश्वर्यगुणसम्प्राप्तं ब्रह्मभूतन्तु तं प्रभुम्।
देवस्थानेषु सर्वेषु सर्वतस्तु निवर्त्तते

12-2.12.37

पैशाचांशचव पिशाचांश्च राक्षसेन च राक्षसान् ।
गान्धर्वेण च गन्धर्वान् कौबेरेण कुबेरजान्

12-2.12.38

इन्द्रमैन्द्रेण स्थानेन सौम्यं सौम्येन चैव हि।
प्रजापतिं तथा चैव प्राजापत्येन साधयेत्

12-2.12.39

ब्राह्मं ब्राह्येन चाप्येवमुपामन्त्रयते प्रभुम्।
तत्र सक्तस्तु उन्मत्तस्तस्मात्सर्वं प्रवर्त्तते

12-2.12.40

नित्यं ब्रह्मपरो युक्तः स्थानान्येतानि वै त्यजेत् ।
असज्यमानः स्थानेषु द्विजः सर्वगतो भवेत्

12-2.12

इति श्रीमहापुराणे वायुप्रोक्ते योगोपसर्गनिरूपणं नाम द्वादशोऽध्यायः

मूल पाठ: vāyupurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc