वासवदत्ता · श्लोक 1-19
ओं नमो भारत्यै ॥
करबदरसदृशम् अलिखं भुवनतलं यत्प्रसादतः कवयः ।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी
खिन्नो ऽसि मुञ्च शैलं बिभृमो वयम् इति वदत्सु शिथिलभुजः ।
भरभुग्नविततबाहुषु गोपेषु हसन् हरिर् जयति
कठिनतरदामवेष्टनलेखासन्देहदायिनो यस्य ।
राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः
स जयति हिमकरलेखा चकास्ति यस्योत्सुकोमया निहिता ।
नयनप्रतीपकज्जलजिघृक्षया शिरसि रजतशुक्तिर् इव
भवति सुभगत्वम् अधिकं विस्तारितपरगुणस्य सुजनस्य ।
वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्योतः
विषधरतो ऽप्य् अतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।
यद् अयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः
अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः
हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सुजनम् ।
दर्पणम् इव तं कुरुते तथा तथा निर्मलच्छायम्
विध्वस्तपरगुणानां भवति खलानाम् अतीव मलिनत्वम् ।
अन्तरितशशिरुचाम् अपि सलिलमुचां मलिनिम् आभ्यधिकः
सा रसवत्ता निहता नवका विलसन्ति चरति नो कङ्कः ।
सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये
अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला
गुणिनाम् अपि निजरूपप्रतिपत्तिः परत एव संभवति ।
स्वमहिमदर्शनम् अक्ष्णोर् मुकुरतले जायते यस्मात्
सरस्वतीदत्तवरप्रसादश् चक्रे सुबन्धुः सुजनैकबन्धुः ।
प्रत्यक्षरश्लेषमयप्रबन्धं विन्यासवैदग्ध्यनिधिर् निबन्धम्
1) अभूद् अभूतपूर्वः, सर्वोर्वीपतिचक्रचूडामणिश्रेणीशाणकोणकषणनिर्मलीकृतचरणनखमणिः, णृसिंह इव दर्शितकशिपुक्षेत्रदानविस्मयः, कृष्ण इव कृतवसुदेवतर्पणः, नारायण इव सौकर्यसमासादितधरणीमण्डलः, कंसारातिर् इव जनितयशोदानन्दसमृद्धिः, आनकदुन्दुभिर् इव कृतकाव्यादरः, सागरशायीवानन्तभोगीचूडामणिरञ्जितपादः, वरुण इवाशान्तरक्षणः, अगस्त्य इव दक्षिणाशाप्रसाधकः, जलनिधिर् इव वाहिनीशतनायकः समकरप्रचारश् च, हर इव महासेनानुयातो निर्जितमारश् च, मेरुर् इव विबुधालयो विश्वकर्माश्रयश् च, रविर् इव क्षणदानप्रियश् च्छायासन्तापहरश् च, कुसुमकेतुर् इव जनितानिरुद्धसंपद् रतिसुखप्रदश् च, विद्याधरो ऽपि सुमनाः, धृतराष्ट्रो ऽपि गुणप्रियः, क्षमानुगतो ऽपि सुधर्माश्रितः, बृहन्नलानुभावो ऽप्य् अन्तःसरलः, महिषीसंभवो ऽपि वृषोत्पादी, अतरलो ऽपि महानायकः राजा चिन्तामणिर् नाम ।
2) यत्र च शासति धरणिमण्डलं छलनिग्रहप्रयोगा वादेषु, नास्तिकता चार्वाकेषु, कण्टकयोगो नियोगेषु, परीवादो वीणासु, खलसंयोगः शालिषु, द्विजिह्वसङ्गृहीतिर् आहितुण्डिकेषु, कर[च्छेदः कॢप्तकर]ग्रहणेषु, नेत्रोत्पाटनं मुनीनां, राजविरुद्धता पङ्कजानां, सर्वभौमयोगो दिग्गजानां, शूलसंयोगो युवतिप्रसवे, अग्नितुलाशुद्धिः सुवर्णानां, दुःशासनदर्शनं भारते, करपत्रदारणं जलजानां, परम् एवं व्यवस्थितम् । महावराहो गोत्रोद्धरणप्रवृत्तो ऽपि गोत्रोद्दलनम् अकरोत् । राघवः परिहरन्न् अपि जनकभुवं जनकभुवा सह वनं विवेश । भरतो ऽपि रामदर्शितभक्तिर् अपि राज्ये विरामम् अकरोत् । नलस्य दमयन्त्या मिलितस्यापि पुनर् भूपरिग्रहो जातः । पृथुर् अपि गोत्रसमुत्सारणाद् विस्तारितभूमण्डलः । इत्थं नास्ति वागवसरः पूर्वतरराजेषु ।
3) स पुनर् अन्य एव त्यक्तसर्वपूर्वोर्वीपतिचरितः । तथा हि । सर्वतः कटकसंचारिणो गन्धर्वान् दर्शितशृङ्गोन्नतिः सुखयन् न विरराम । स हिमालयो नावश्यायोच्छलितः नो मायाजन्मने हितश् च । असौ हि मानी गिरि स्थितो वृषध्वजश् च । [असौ] सद्गतिः, अवधूताखिलकान्तारः, पावकाग्रेसरः, न भोगोत्सुकः सुमनोहरः[श् च] । स रत्नाकरो ऽनहिमयः, कथम् अगाधः, समर्यादः, नोद्रेको ऽप्य् अस्य विस्मयः, हिमकराश्रयो ऽमृतमयः, सत्पात्रः, तस्याचलो न क्रोधः, महानदीनः, सपोतः स समुद्रः । [स चन्द्र इव] क्षणदानन्दकरः, कुमुदवनबन्धुः, सकलकलाकुलगृहं, नतारातिबलः । [स समुद्रो] मित्रोदयहेतुः, काञ्चन शोभां बिभ्रत्, अचलाधिकलक्ष्मीः सुमेरुर् इव । यस्य च रिपुवर्गः सदा पार्थो ऽपि न महाभारतरणयोग्यः, भीष्मो ऽप्य् अशान्तनवे हितः, सानुचरो ऽपि न गोत्रभूषितः । अपि च स त्रिशङ्कुर् इव नक्षत्रपथस्थलितः, शङ्करो ऽपि न विषादी, पावको ऽपि न कृष्णवर्त्मा, आश्रयाशो [ऽपि] न दहनः, नान्तक इवाकस्माद् अपहृतजीवनः, न राहुर् मित्रमण्डलग्रहणवर्धितरुचिः, न नल इव कलिविलसितविनटितः, न चक्रीव शृगालवधस्तुतिसमुल्लसितः, नन्दगोप इव यशोदयान्वितः, जरासन्ध इव घटितसन्धिविग्रहः, भार्गव इव सदानभोगः, दशरथ इव सुमित्रोपेतः सुमन्त्राधिष्ठितश् च, दिलीप इव सुदक्षिणानुगतो रक्षितगुश् च, राम इव जनितकुशलवयो रूपोच्छ्रायः । तस्य च पारिजात इवाश्रितनन्दनः, हिमालय इव जनितशिवः, मन्दर इव भोगिभोगाङ्कितः, कैलास इव महेश्वरोपभुक्तकोटिः, मधुर् इव नानारामानन्दकरः, क्षीरोदमथनोद्यतमन्दर इव मुखरितभुवनः, रागरज्जुर् इवोल्लासितरतिः, ईशानभूतिसञ्चय इव सन्ध्योच्छलितः, शरन्मेघ इवावदातहृदयो विष्णुपदावलम्बी च, पार्थ इव समरसाहसोचितः, कंस इव कुवलयापीडभूषितः, तार्क्ष्य इव [विनतानन्दकरः] सुमुखनन्दन[श् च], विष्णुर् इव क्रोडीकृतसुतनुः, शान्तनव इव स्ववशस्थापितकालधर्मः, कौरवव्यूह इव सुशर्माधिष्ठितः, सुबाहुर् अपि रामानन्दी, समदृष्टिर् अपि महेश्वरो, मुक्तामयो ऽप्य् अतरलमध्यो,
जलद इव विमलतरवारिधारात्रासितराजहंसः, वंशप्रदीपो ऽप्य् अक्षतदशः, तनयः कन्दर्पकेतुर् नाम ।
4) येन च चन्द्रेणेव सकलकलाकुलगृहेण, शर्वरीतिहारिणा, कुमुदवनबन्धुना, प्रसादिताशेन, विलोकिता जलधय इवोल्लसितगोत्राः, सुदूरवर्तितजीवनाः, प्रसन्नसत्त्वाः सन्तः पराम् ऋद्धिम् अवापुः प्रजालोकाः । यस्य च जनितानिरुद्धलीलस्य, रतिप्रियस्य, कुसुमशरासनस्य, मकरकेतोर् इव दर्शनेन वनिताजनस्य हृदयम् उल्ललास । यस्मै चानुगतदक्षिणसदागतये, नेत्रश्रुतिसुखदकोमलकोकिलरुताय, विकासितपल्लवाय, कृतकान्तारतरङ्गाय, सुरभिसुमनोऽभिरामाय, सर्वजनसुलभपद्माय, विस्तृतकरसंपदे, अतिक्रान्तदमनकाय वसन्तायेव, वनलता इवोत्कलिकासहस्रसंकुलाः, भ्रमरसङ्गताः, प्रवालहारिण्यः, विलसद्वयसस् तरुण्यः स्पृहयांचक्रुः । यस्य [च] समरभुवि भुजदण्डेन कोदण्डं, कोदण्डेन बाणाः, बानै रिपुशिरः, तेनापि भूमण्डलं, तेन चाननुभूतपूर्वो नायकः, नायकेन च कीर्तिः, कीर्त्या च सप्तसागराः, सागरैः कृतयुगादि राजचरितस्मरणं, अनेन च स्थैर्यं, अमुना च प्रतिक्षणम् आश्चर्यम् आसादितम् । यस्य च प्रतापानलदग्धानां रिपुसुन्दरीणां करतलताडनभीतैर् इव मुक्ताहारैः पयोधरपरिसरो मुक्तः । यस्य च निहितनाराचजर्जरितमत्तमातङ्गकुम्भस्थलविगलितमुक्ताफलदन्तुरितपरिसरे, तरत्पत्ररथे, रक्तवारिसंचरत्करिकच्छपोत्फुल्लपुण्डरीकशतसमाकुले, नृत्यत्कबन्धे, सुरसुन्दरीसंगमोत्सुकचारभटाहङ्कारसंभारभीषणे, समरसरसि, भिन्नपदातिकरितुरगरुधिरार्द्रो जयलक्ष्मीपादालक्तकरागरञ्जित इव खड्गो रराज ।
5) अथ स कदाचिद् अवसन्नायां यामवत्यां दधिधवले कालक्षपणकपिण्ड इव निशायमुनाफेनस्तबके, मेनकानखमर्जनशिलाशकल इव मधुच्छत्रच्छायमण्डलोदरे, पश्चिमाचलोपधानसुखनिलीनशिरसः, ताडङ्क इव शेषमधुभाजि, चषक इव विभावरीवध्वाः, अपरजलनिधिपयसि शङ्खकान्तिकामुके निमज्जति कुमुदिनीनायके, शिशिरकर्दमितकुमुदपरागमध्यबद्धचरणेषु, षट्चरणेषु, कलप्रलापबोधितचकिताभिसारिकासु सारिकासु, प्रबुद्धाध्यापककर्मठेषु मठेषु, भासरागमुखरकार्पटिकोपगीयमानकाव्यकथासु रथ्यासु, सकलनिपीतनिशातिमिरसंघातम् अतितनीयस्तया सोढुम् असमर्थेष्व् इव कज्जलव्याजाद् उद्वमत्सु, कामिमिथुननिधुवनलीलादर्शनार्थम् इवोद्ग्रीविकाशतदानखिन्नेषु, विविधबुधाश्रयभवनविचित्रसुरतक्रीडासाक्षिषु, शरणागतम् इवाधोनिलीनं तिमिरम् अवत्सु, दुर्जनवचनेष्व् इव दग्धस्नेहतया मन्दिमानम् उपगतेषु, अतिवृद्धेष्व् इव दशान्तम् उपगतेषु, विपन्नसदीश्वरेष्व् इव पात्रमात्रशेषेषु, दानवेष्व् इव निशान्तपथचारिषु, अस्तगिरिशिखरेष्व् इव पतितपतङ्गेषु, प्र्दीपेषु, अनवरतमकरन्दबिन्दुसंदोहमोहमुखरमधुकरनिकुरुम्बहुंकारमुखरितेषु, म्लानिमानम् उपगच्छत्सु वासागारकुसुमोपहारेषु, विगलितकुन्दैर् अलकैः प्रियविरहशोकाद् बाष्पबिन्दून् उत्सृजद्भिर् इव प्रियतमगमननिषेधम् इव कुर्वतीषु वाचालतुलाकोटिभिश् चरणपल्लवैर् विलसितासु, रजनिशेषसुरतपरिश्रमविगलितकेशपाशदरदलितमालतीमालापरिमललुब्धमुखरमधुकरनिकुरुम्बपक्षानिलपीतनिदाघजलशीकरकणासु, उद्वेल्लद्भुजवल्लीझणत्कारसुभगासु, [नव]नखपददष्टकेशनिर्मोकवेदनाकृतसीत्कारविनिर्गतदुग्धमुग्धदशनकिरणच्छटाधवलितभोगवासासु, पुनर्दर्शनपृच्छाविधुरसखीजनानुक्षणवीक्ष्यमाणप्रियतमासु, क्षणदागतसुरतवैयात्यवचनशतसंस्मारकगृहशुकचाटुव्याहृतिक्षणजनितमन्दाक्षासु, शरद्वासरलक्ष्मीष्व् इव नखालङ्कृतपयोधरासु, आसन्नमरणास्व् इव जीवितेशपुराभिमुखीषु, वसन्तवनराजिष्व् इवोत्कलिकाबहुलासु, प्रियैर् आलिङ्ग्यमानासु कामिनीषु,
आन्दोलितकुसुमकेसरे, केशरेणुमुषिरणितमधुकरमणीनां रमणीनां, विकचकुमुदाकरे मुदाकरे सङ्गभाजि, प्रियविरहितासु रहितासु सुखेन मुर्मुरम् इव वर्षति समन्ताद् अर्पके दर्पकेषु दहनस्य, दूरप्रसारितकोकप्रियतमारुते मारुते वहति, जघनमदननगरतोरणेन, मन्मथमहानिधिमन्दिरकनकप्राकारेण, रोमलतालवालवलयेन, गगनचन्द्रमण्डलपरिवेषेण, त्रिभुवनविजयप्रशस्तिरोमावलीकनकपत्रेण, सकलजनहृदयबन्दीनिवासपरिखावलयेन, जगल्लोचनविलासशलाकागुणेनेव मेखलादाम्ना परिकलितजघनस्थलाम्, उन्नतपयोधरभारान्तरितमुखदर्शनाप्राप्तिखेदेनेव गुरुनितम्बपयोधरकुम्भपीडाजनितायासेनेव, पयोधरकलशयोः कथं मय्य् एव पातो भविष्यतीति चिन्तयेव, गृहीतगुरुकलत्रानुशयेनेव, विधातुर् अतिपीडयतो हस्तपरामर्शजनितपरिक्लेशेनेव क्षीणतरताम् उपगतेन मध्यभागेनालङ्कृताम्, अनुरागरत्नमयकनकपरुवकाभ्यां चूचुक[मुद्रा]सनाथाभ्याम्, अतिगुरुपरिणाहतया पतनभयखिल्लिताभ्याम् इव चूचुकच्छलेन विधिना इव कीलिताभ्यां, सकलावयवनिषिक्तशेषलावण्ययुक्ताभ्यां, [हृदय]तटाककमलाभ्यां [इव] हृच्छयचातुरिकाविभ्रमाभ्यां, रोमावलीलताफलाभ्यां, कन्दर्पदर्पवर्धनवशीकरणचूर्णपूर्णसमुद्राभ्यां, अशेषजनहृदयपतनसञ्जातगौरवाभ्यां, संसारमहातरुफलाभ्यां, यौवनमहापादपप्रसवाभ्यां, हारलतामृणाललोभनीयचक्रचाकाभ्यां, हारलतारोमावलीसङ्गमव्याजप्रयागतरुफलाभ्यां, त्रिभुवनविजयपरिश्रमखिन्नस्य मकरकेतोर् विजनवासगृहाभ्याम् उद्भासमानां स्तनभ्यां, मुखचन्द्रसंततसंनिहितसन्ध्यारागेण, दन्तमणिरक्षासिन्दुरमुद्रानुकारिणा, निःसरता हृदयानुरागेणेव रञ्जितेन, रागसागरविद्रुमशकलेनेवाधरपल्लवेनोपशोभमानां, तरुणकेतकदलद्राघीयसा पक्ष्मलचटुलालसेन हृदयावासगृहावस्थितस्य हृच्छयविलासिनो गवाक्षशङ्काम् उपजनयता, सरागेणापि निर्वाणं जनयता, गतिप्रसररोधकश्रवणकृतकोपेनेवोपान्तलोहितेन धवलयतेव
जगदशेषं, उत्फुल्लकमलकाननसनाथम् इव गगनं कुर्वता, दुग्धाम्भोनिधिसहस्राणीवोद्वमता, कुन्दलीलोत्पलमालतीमालालक्ष्मीम् उपहसता नयनयुगलेन विभूषितां, दशनरत्नतुलादण्डेन नयनसेतुसमुद्धतबन्धेन यौवनमन्मथवारणवरण्डकेनेव नासावंशेन परिष्कृता, विलोचनकुवलयभ्रमरपङ्क्तिभ्यां मुखमदनमन्दिरतोरणाभ्यां, रागसागरवेणिकाभ्यां, यौवननर्तकलासिकाभ्यां भ्रूलताभ्यां विराजितां, घनसमयाकाशलक्ष्मीम् इवोल्लसच्चारुपयोधरां, जयघोषणापन्नजनताम् इवोल्लसत्तुलाकोटिप्रतिष्ठितां, सुयोधनधृतिम् इव कर्णविश्रान्तलोचनां, वामनलीलाम् इव दर्शितवलिभङ्गां, वृश्चिकरविस्थितिम् इवातिक्रान्तकन्यातुलां, उषाम् इवानिरुद्धदर्शनसुखां, शचीम् इव वन्दनेक्षणरुचिं, पशुपतिताण्डवलीलाम् इवोल्लसच्चक्षुःश्रवसं, अटवीम् इवोत्तुङ्गश्यामलकुचां, वानरसेनाम् इव सुग्रीवाङ्गशोभितां, शनैश् चरेण पादेन सौम्येन दर्शनेन गुरुणा नितम्बेन, लोहितेनाधरेण विकचेन विलोचनेन भास्वतालङ्कारेण, ग्रहमयीम् इव संसारभित्तिचित्रलेखाम् इव त्रैलोक्यसौन्दर्यसङ्केतभूमिम् इव रसाञ्जनसिद्धिम् इव यौवनस्य, संकल्पवृत्तिम् इव शृङ्गारस्य, निधानम् इव कौतुकस्य, विजयपताकाम् इव मकरध्वजस्य, अभिभूतिम् इव मदनकान्ताभ्याः, सङ्केतभूमिम् इव लावण्यस्य, स्तंभनचूर्णम् इवेन्द्रियाणां, मोहनशक्तिम् इव मन्मथस्य, विहारस्थलीम् इव सौन्दर्यस्य, एकायतनशालाम् इव सौभाग्यस्य, उत्पत्तिस्थानम् इव कान्तेः, [आकर्षणमन्त्रसिद्धि]म् इव मनसः, चक्षुर्बन्धनमहौषधिम् इव मन्मथेन्द्रजालिनः, त्रिभुवनविलोचनमृष्टिम् इव प्रजापतेः कन्यकाम् अष्टादशवर्षदेशीयाम् अपश्यत् स्वप्ने ।
6) अथ तां प्रीतिविस्तारितेन पिबन्न् इव चक्षुषा, जनितेर्ष्ययेव निद्रया चिरसेवितया मुमुचे । विबुद्धस् तु विषसरसीव दुर्जनवचसीव निमग्नम् आत्मानम् अवधारयितुं न शशाक । तथा हि क्षणम् आकाशतलालिङ्गनार्थं प्रसारितबाहुयुगलः "एह्य् एहि प्रियतमे, मा गच्छ मा गच्छेति" दिक्षु विदिक्षु च विलिखिताम् इवोत्कीर्णाम् इव चक्षुषि निखाताम् इव हृदये प्रियाम् आजुहाव । ततस् तत्रैव शय्यातले निलीनो निषिद्धाशेषपरिजनदर्शनो दत्तकपाटः परिहृतताम्बूलाहारादिसकलोपभोगस् तं दिवसम् अनयत् । तथाइव निशाम् अपि स्वप्नसमागमेच्छाभिर् अनैषीत् ।
7) अथ तस्य प्रियसखो मकरन्दो नाम कथम् अपि लब्धप्रवेशः कन्दर्पसायकप्रहारविवशं कन्दर्पकेतुम् उवाच । "सखे, किम् इदम् असाम्प्रतम् असाधुजनोचितचरितम् आश्रितो ऽसि? तवैतद् आलोक्य [चरितं] वितर्कदोलासु निवसन्ति सन्तः । खला(ः) पुनस् तत् तद् अनिष्टम् अनुचितम् एवावधारयन्ति । अनिष्टोद्भावनरसान्तरं खलहृदयं भवति । को नामास्य तत्त्वनिरूपणे समर्थः । तथा हि भीमो ऽपि न बकद्वेषी, आश्रयाशो ऽपि मातरिश्वा, अतिकटुर् अपि महारसः, सर्षपस्नेह इव करयुगलालितो ऽपि शिरसा धृतो ऽपि न काटवं जहाति । तालफलरस इवापातमधुरः परिणामविरसस् तिक्तश् च । पादपराग इवाधूतो ऽपि मूर्धानां कषाययति । विषतरुप्रसव इव यथा यथानुभूयते तथा तथा मोहम् एव द्रढयति । न वारिविरहो ऽस्य जायते नीचदेशस्येव । निदाघदिवस इव मत्सरो वहति संतापं सुमनसाम् । अन्धकार इव दोषानुबन्धचतुरः विश्वकर्मावलोपनोद्यतः । विरूपाक्षो ऽपि चक्रधरः, शक्रश् च इवोच्चैःश्रवाः नदेशजप्रशंसी च । शरस्येव निर्भिन्नस्यापि सतः स्नेहं दर्शयति । तक्राट इव हृदयं विलोडयति । यक्षबलिर् इवात्मघोषमुखरो मण्डलभ्रमणकथकश् च । मत्तमातङ्ग इव स्ववशालोलमुखो ऽधरीकृतदानश् च । वृषभ इव सुरभियानविकलः कामीव गोत्रस्खलनविधुरो वामाध्वानुरक्तश् च । अजीर्णविकार इव कलेवरे ऽपि वचसि मन्दिमानम् आवहति । वञ्चक इव रक्तः कटुकफलेन विभावरीरक्तश् च । परेत इव बन्धुतापदर्शनः । परशुर् इव भद्रश्रियम् अपि खण्डयति । कुद्दाल इव दलितगोत्रः क्षमाभाजः प्राणिनो निकृन्तति । रतकील इव जघन्यकर्मलग्नो ऽपि ह्रेपयति साधून् । दुष्टशूर्पश्रुतिर् इव काननरुचिर् अनुगतम् अपि यवसं ततं नानुमोदते । अबीजाद् एव जायन्ते ऽकाण्डात् प्रसरन्ति खलव्यसनाङ्कुराः दुरुच्छेदाश् च भवन्ति । असतां हृदि प्रविष्टो हि दोषलवः करालायते, सतां न विशत्य् एव हृदयम्, भूयो यदि कथम् अपि विशति तदा पारद इव क्षणमात्रं न तिष्ठति । मृगा इव [विनोद]बिन्दोः श्रमगाः भवन्ति साधवः । सुखं जना हि भवादृशाः शरत्समया इव हरन्ति न च मित्रस्य सचेतना विसदृशम् उपदिशन्ति
। अचेतनानाम् अपि मैत्री समुचितपक्षनिक्षिप्ता । [तथा हि] माधुर्यशैत्यशुचित्वतापशान्तिभिः पयः पय इति निमित्तताम् उपगतस्य दुग्धस्य मत्समागमाद् वर्धितस्य क्वाथे पुरो ममैव क्षयो युक्त इति विचिन्त्येव वारिणापि क्षीयते । तद् इदम् असांप्रतम् आचरितम् । सखे गृहाण साधुजनोचितम् अध्वानम् । साधवो हि मोहात् परम् उत्पथप्रवृत्ता भवन्तीत्यादि" वदति तस्मिन् कथम् अपि स्मरप्रहारपरवशः परिमिताक्षरम् उवाच [कन्दर्पकेतुः] । "वयस्य, दितिर् इव शतमन्युसमाकुला भवति सज्जनचित्तवृत्तिः । नायम् उपदेशकालः । पच्यन्त इवाङ्गानि क्वथ्यन्त इवेन्द्रियाणि । भिद्यन्त इव मर्माणि । निःसरन्तीव प्राणाः । उन्मूल्यन्त इव विवेकाः । नष्टेव स्मृतिः । तद् अधुना यदि त्वं सहपांसुकृईडितसमदुःखसुखो ऽसि तदा माम् अनुगच्छेत्य्" उक्त्वा परिजनालक्षितस् तेन सहैव पुरान् निर्जगाम ।
8) अनन्तरं कतिपयनल्वशतम् अध्वानं गत्वागस्त्यवचनसमाहृतब्रह्माण्डगतशिखरसहस्रः, कन्दरान्तरलतागृहसुखप्रसुप्तविद्याधरमिथुनगीताकर्णनसुखितचमरीगणमारणोत्सुकितशबरशतसंबाधकक्षतटः, कटककरिकराकृष्टभग्नस्यन्दमानहरिचन्दनामोदवाहिगन्धवाहसुरभितशिलातलः, सुदूरपतनभग्नतालफलरसार्द्रकरतलास्वादसोत्सुकशाखामृगकदम्बकः, प्रलम्बमाननिर्झरवरसविधोपविष्टजीवंजीवकमिथुनलिह्यमानविविधफलरसामोदसुरभितपरिसरः, सरभसकेसरिसहस्रखरनखरधाराविदारितमत्तमातङ्गकुम्भस्थलगलितमुक्ताफलशबलशिखरतया शिरोलग्नं तारागणम् इवोद्वहन्, सुग्रीव इव ऋक्षगवयशरभकेसरिकुमुदसेव्यमानपादच्छायः, पशुपतिर् इव नागनिःश्वाससमुत्क्षिप्तभूतिः, जनार्दन इव विचित्रवनमालः, सहस्रकिरण इव सप्तपत्रस्यन्दनोपेतः, विरूपाक्ष इव सन्निहितगुहः शिवानुगतश् च, कामीव कान्तारोषरसानुगतः समदनश् च, श्रीपर्वतः इव सन्निहितमल्लिकार्जुनः, नरवाहनदत्त इव प्रियङ्गुश्यामासनाथः, शिशुर् इव कृतधात्रीधृतिः, वासरारम्भ इवारुणप्रभापाटलितपत्रवनराजिः, कृष्णपक्ष इव बहुलतागहनः, कर्ण इवानुभूतशतकोटिदानः, भीष्म इव शिखण्डिमुक्तैर् अर्धचन्द्रै राचितः, कामसूत्रविन्यास इव मल्लनागघटितकान्तारसामोदितः, हिरण्यकशिपुर् इव शम्बरकुलाश्रयः, गैरिकरागव्याजाद् उपरिरविरथमार्गमार्गणार्थम् इवारुणेनोपास्यमानः, शिखरगतसूर्याचन्द्रमस्तया विस्तारितविलोचनो ऽगस्त्यमार्गम् इवोद्वीक्षमाणः, स्रस्तान्त्रनाल इव जरदजगरभोगैः, कुम्भकर्ण इव दन्तान्तरालगतवानरव्यूहः, पिण्डालक्तकाङ्कितपदपङ्क्तिसूचितसञ्चरितशचीपतिवारविलासिनीसङ्केतकेतकीमण्डपः, अकुलीनो ऽपि सद्वंशभूषितः, दर्शिताभयो ऽपि मृत्युफलदायी, सप्रस्थो ऽप्य् अपरिमाणः, सनदो ऽपि निःशब्दः, भीमो ऽपि कीचकसुहृत्, पिहिताम्बरो ऽप्य् उल्लसदंशुको विन्ध्यो नाम महागिरिर् अदृश्यत ।
9) यश् च प्रवृद्धगुल्मतयैवेह दृश्यमानबहुधातुविकारः, साधुर् इव सानुग्रहप्रचारप्रकटितमहिमा, मीमांसान्याय इव पिहितदिगम्बरदर्शनः । यश् च हरिवंशैर् इव पुष्करप्रादुर्भावरमणीयैः, राशिभिर् इव मीनमिथुनकुलीरसङ्गतैः, करणैर् इव शकुनिनागभद्रबालबकुलोपेतैः खातकैर् उपशोभितोपान्तः । यश् च कुसुमविचित्राभिः, वंशपत्रपतिताभिः, सुकुमारललिताभिः पुष्पिताग्राभिः शिखरिणीभिः प्रहर्षिणीभिर् लताभिर् दर्शितानेकवृत्तविलासः । यश् च समदकलहंससारसरसितोद्भ्रान्तभाकूटविकटपुच्छकच्छव्याधूतविकचकमलखण्डविगलितमकरन्दबिन्दुसन्दोहसुरभितसलिलया, सायन्तनसमयोन्मज्जद्राजसुन्दरिनाभिमण्डलनिपीतसलिलया, मदमुखरराजहंसकुलकोलाहलमुखरितकूलपुलिनया, तटनिकटमत्तमातङ्गगण्डपिण्डनिर्गतमदधारास्तबकितसलिलया, तीरप्ररूढकेतकीकानननिपतितधूलीनिकुरुम्बजातसैकतसुखोपविष्टतरुणसुरमिथुननिधुवनलीलापरिमलसाक्षिकूलोपवनया, तटावटनिकटनिपतितजम्बूखण्डमण्डपावस्थितजलदेवतावगाह्यमानपयसा, तीरप्ररूढवेतसलताभ्यन्तरनिलीनदात्यूहव्यूहमदकलकुहकुहारावकौतुकाकृष्टसुरमिथुनसंस्क्रियमाणोपभोगया, उपकूलसञ्जातकुलालकुक्कुटघटाघूत्कारतीरया, जलमानुषमृदितसुकुमारपुलिनया, उपवनवातान्दोलिततरलतरङ्गया, नलनिकुञ्जपुञ्जनिविष्टबकोटककुटुम्बिनीनिरीक्ष्यमाणार्द्धशफरया, पोताधानलुब्धककोयष्टिकस्कभनभीमवेतसवनया, तरङ्गमालासन्तरदुद्दण्डपालदर्शनधावदतिचपलराजिलराजिराजितोपकूलसलिलया, खञ्जरीटकणाटीनमिथुनमैथुनोपजातनिधिग्रहणकौतुककिरातशतखन्यमानतीरया, क्रुद्धयेव दर्शितमुख्भङ्गया, मत्तयेव स्खलद्गत्या, दिनारम्भलक्ष्म्येव वर्धमानवेलया, भारतसमरभूम्येव नृत्यत्कबन्धया, प्रावृषेव विजृम्भमाणशतपत्रपिहितविषधरया, धनकामयेव कृतभूभृत्सेवया रेवया प्रियतमयेव प्रसारितवीचिहस्तोपगूढः । यश् च
हरिखरनखरविदारितकुम्भस्थलविकलवारणध्वानैः ।
अद्यापि कुम्भसम्भवम् आह्वयतीवोच्चतालभुजः
ततो मकरन्दस् तम् उवाच:
पश्योदञ्चदवाञ्चदञ्चितवपुःपश्चार्धपूर्वार्धभाक् स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् ।
दंष्ट्राकोटिविसङ्कटास्यकुहरः कुर्वन् सटाम् उत्कटाम् उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केसरी
अपि च
उत्कर्णो ऽयम् अकाण्डचण्डिमकुटः स्फारत्स्फुरत्केसरः क्रूराकारकरालकायविकटः स्तब्धोर्ध्वलाङ्गूलभृत् ।
चित्रेणापि न शक्यते विलिखितुं सर्वाङ्गसङ्कोचभाक् चीत्कुर्वद्गिरिकुञ्जकुञ्जरशिरः कुम्भस्थलस्थो हरिः
10) अनन्तरं च नीचदेशनद्येव न्यग्रोधोपचितया, उत्तरगोग्रहणसमरभूम्येव विजृम्भितबृहन्नलया, मरुदेशटक्कयात्रयेव घनसारसार्थवाहिन्या, विदग्धमधुगोष्ठ्येव नानाविटपीतासवया, नलकूबरचित्तवृत्त्येव सततधृतरम्भया, मत्तमातङ्गगत्येव घण्टारवविदितमार्गया, सदीश्वरसेवयेव दूरोद्गतबहुफलया, विराटलक्ष्म्येव आनन्दितकीचकशतया विन्ध्याटव्या कतिपयपदं गत्वा, कामिन इव मदनशलाकाङ्कितस्य, विकर्तनस्येव स्निग्धच्छायस्य, वैकुण्ठस्येव लक्ष्मीभृतः, यात्रोद्यतनृपतेर् इव घनपत्रशोभितस्य, वेदस्येव भूरिशाखालङ्कृतस्य, गाणिक्यस्येवानेकपल्लवोज्ज्वलस्य, जम्बूवृक्षस्य तलच्छायायां विशश्राम ।
11) अत्रान्तरे भगवान् अपि मरीचिमाली आतपक्लान्तमत्तमहिषलोचनपाटलमण्डलश् चरमाचलशृङ्गम् आरुरोह ।
12) ततो मकरन्दः फलमूलान्य् आदाय कथम् अपि तम् अभिनिन्दिताहारपरिचयम् अकार्षीत् । स्वयं च तदुपभुक्तशेषम् अशनम् अकरोत् । अथ ताम् एव प्रियतमां ःऋदयफलके संकल्पतूलिकया लिखिताम् अवलोकयन् निष्यन्दकरणग्रामः कन्दर्पकेतुर् मकरन्दविरचितपल्लवशयने सुष्वाप । अथार्धयाममात्रखण्डितायां विभावर्यां तत्र जम्बूतरुशिखरे मिथः कलहायमानयोः शुकशारिकयोः कलकलं श्रुत्वा, कन्दर्पकेतुर् मकरन्दम् उवाच । "वयस्य श्रुणुवस् तावद् एतयोर् आलापम्" इति । ततः सारिका प्रकोपतरलाक्षरम् उवाच । "कितव शारिकान्तरम् अन्विष्य समागतो ऽसि, कथम् इतरथा रात्रिर् इयती तवेति" । तच् छ्रुत्वा शुकस् ताम् अब्रवीत् । "भद्रे ऽपूर्वा मया कथा श्रुता" । अथ समुपजातकुतूहलयानुबध्यमानः स कथयितुम् आरेभे ।
13) अस्ति प्रशस्तसुधाधवलैः बृहत्कथालम्बैर् इव शालभञ्जिकोपशोभितैः, वृत्तैर् इव समाणवकक्रीडितैः, करियूथैर् इव समत्तवारणैः, सुग्रीवसैन्यैर् इव सगवाक्षैः, बलिभवनैर् इव सुतलसन्निवेशैर् वेश्मभिर् उद्भासितं, धनदेनापि प्रचेतसा, प्रजापालेनापि रामेण, प्रियंवदेनापि पुष्पकेतुना, भरतेनापि शत्रुघ्नेन, तिथिपरेणाप्य् अतिथिसत्कारप्रवणेन, असङ्ख्येनापि सङ्ख्यावता, मर्मभेदेनापि वीरतरेण, अपतितेनापि नानासवासक्तेन, सुदर्शनेनाप्य् अचक्रेण, अज्ञातमदेनापि सुप्रतीकेन, अपक्षपातिनापि हंसेन, अविदितस्नेहक्षयेणापि कुलप्रदीपेन, अग्रहेणापि काव्यजीवज्ञेन, निदाघदिवसेनेव वृषवर्धितरुचिना, माघविरामदिवसेनेव तपस्यारम्भिना, नभस्वतेव सत्पथगामिना, विवस्वतेव गोपतिना, महेश्वरेणेव चन्द्रं दधता निवासिजनेनानुगतं, घनाघनेनेव प्रवालमणिमण्डलेन, देवाङ्गनाजनेनेवेन्द्राणीपरिचितविदग्धेन, वनगजेनेव नवपल्लवपल्लवितरुचिना, कोकिलेनेव परपुष्टेन, भ्रमरेणेव कुसुमेषु लालितेन, जलौकेनेव रक्ताकृष्टिनिपुणेन, यायजूकेनेव सुरतार्थिना, महानटबाहुनेव बद्धभुजङ्गेन, गरुडेनेव विलासिहृदयतापकारिणा, अन्धासुरेणेव शूलानाम् उपरिगतेन वेश्याजनेनाधिष्ठितं कुसुमपुरं नाम नगरम् ।
14) यत्र च सुरासुरमौलिमणिमालालालितचरणारविन्दा, शुम्भनिशुम्भबलमहावनदावानलज्वाला, महिषमहासुरगिरिवरवज्रधारा, प्रणयप्रणतगङ्गाधरजटाजूटस्खलितजाह्नवीजलधाराधौतपादपद्मा भगवती कात्यायनी चण्डाभिधाना स्वयं निवसति । यस्य परिसरे सुरासुरमुकुटकुसुमरजोराजिपरिमलवाहिनी, प्रजापतिकमण्डलुधर्मद्रवधारा, धरातलगतसगरसुतशतसुरनगरसमारोहणपुण्यरज्जुः, ऐरावणकटकमठकम्पिततटा, हरिचन्दनस्यन्दनसुरभितसलिला सलीलसुरसुन्दरीनितम्बबिम्बाहतितरलिततरङ्गा, स्नानावतीर्णसप्तर्षिमालाविमलजटाटवीपरिमलपुण्यवेणिः, एणतिलकमुकुटजटाजूटकुहरभ्रान्तिजनितसंस्कारतयैव कुटिलावर्ता, धरणीव सार्वभौमकरस्पर्शोपभोगक्षमा, जलदकालसरसीव गन्धान्धोपरिभ्रमद्भ्रमरमालानुमीयमानजलमग्नकुमुदपुण्डरीका, छन्दोविचितिर् इव मालिनीसनाथा, ग्रहपङ्क्तिर् इव सूर्यात्मजोपशोभिता सराजहंसा च, शरत्कालदिनश्रीर् इवोज्ज्वलत्कोकनदा प्रबुद्धपुण्डरीकाक्षा च, हतान्धतमसापि तमसान्विता, [वीचिकलिताप्य् अवीचिदुर्गमा] भगवती भागरथी प्रवहति ।
15) [यच् च] दिशि दिशि कुसुमनिकरम् इव तारागणम् उद्वहद्भिः, उत्तम्भितजलदैः, अनूरुकशाभिघातपरवशरविरथतुरगग्रासविषमितपल्लवैः, चन्द्रचमूरुरुचिरचरणसङ्क्रान्तामृतकणनिकरसेकसञ्जातबहलसुकुमारनवकिसलयसहस्रकलिताकालसन्ध्याविभ्रमैः, भरतचरितैर् इव सदारामाश्रितैः, महावीरैर् इव नारिकेलधरैः, असंस्कृततरुणैर् इव दूरप्रसारिताक्षैः, तपस्विभिर् इव जपासक्तैः, प्रसाधितैर् इव मालोपशोभितैः, मातङ्गकुम्भस्थलदारणोद्यतसिंहैर् इवोत्कर्णकेसरैः, सारिष्टैर् अपि चिरजीविभिः, मुनियुतैर् अपि मदनाधिष्ठितैः, उपवनपादपैर् उपशोभितं, अदितिजठरम् इवानेकदेवकुलाध्यासितं, पातालम् इव महाबलिशोभितं भुजङ्गाधिष्ठितं च, सुरालयैर् अपि पवित्रं, भोगिभिर् अपि निरुपद्रुतम् ।
16) तत्र च सुरतभरखिन्नसुप्तसीमन्तिनीरत्नताटङ्कमुद्राङ्कितबाहुदण्डः, प्रचण्डप्रतिपक्षलक्ष्मीकेशपाशकुसुममालामोदसुरभितकरकमलः, प्रशस्तकेदार इव बहुधान्यकार्यसंपादकः, पार्थ इव सुभद्रान्वितः सभीमसेनश् च, कृष्ण इव सत्यभामोपेतः शृङ्गारशेखरो नाम राजा प्रतिवसति । यो बलभित् पावको धर्मराण् निरृतिः प्रचेताः सदागतिर् धनदः शङ्कर इत्य् अष्टमूर्तिर् अप्य् अनष्टमूर्तिः ।
सुराणां पातासौ स पुनर् अतिपुण्यैकहृदयो ग्रहस् तस्यास्थाने गुरुरुचितमार्गे स निरतः ।
करस् तस्यात्यर्थं वहति शतकोटिप्रणयितां स सर्वस्वं दाता तृणम् इव सुरेशं विजयते
जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुर् आसीद् गतासुर् लक्षाप्तिर् मार्गणानाम् अभवद् अरिबले तद् यशस् तेन लब्धम् ।
मुक्ता तेन क्षमेति त्वरितम् अरिगणैर् उत्तमाङ्गैः प्रतीष्टो पञ्चत्वं द्वेषिसैन्ये स्थितम् अवनिपतिर् नाप सङ्ख्यान्तरं सः
17) यत्र च राजनीतिचतुरे चतुरम्बुधिमेखलाया भुवो नायके शासति वसुमतीं पितृकार्ये वृषोत्सर्गः, शशिनः कन्यातुलारोहः, योगेषु शूलघातादिचिन्ता, दक्षिणवामकरणं दिग्विनिश्चयेषु, शरभेदो दधिषु, शृङ्खलाबन्धो वर्णग्रथनासु, उत्प्रेक्षाषेपः काव्यालङ्कारेषु, लक्षदानच्युतिः सायकानां, क्विपां सर्वविनाशः, कोशसङ्कोचः कमलाकरेषु, जातिहीनता दुष्कुलेषु न पुष्पमालासु, शृङ्गारहानिर् जरत्करिषु न जनेषु, दुर्वर्णयोगः कम्बिकादिषु न कामिनीकान्तिषु, गान्धारविच्छेदो रागेषु न पौरवनितासु, मूर्च्छाधिगमो गानेषु, खर्माभावो नीचसेवकेषु न परिधानेषु, मलिनाम्बरत्वं निशासु न जनेषु, चलरागता गीतेषु न विदग्धजनेषु, वृषहानिः निधुवनलीलासु न पौरेषु, भङ्गुरत्वं रागविकृतिषु न चित्तेषु, अनङ्गता कामदेवे न परिजने, मारागमो यौवनोदयेषु न प्रकृतिषु, द्विजघातः सुरतेषु न प्रजासु, रशनाबन्धो रतिकलहेषु न दानानुमतिषु, अधररागता तरुणीषु न परिजनेषु, कर्तनम् अलकभ्रूषु न पुरन्ध्रीषु, निस्त्रिंशत्वम् असीनां, करवालनाशो योधानां परं व्यवस्थितः ।
18) तस्य च महिषी दिग्गजमदलेखेवानन्दितालिमाला, पार्वतीव सुकुमारा चन्द्रलेखालङ्कृता च, वनराजिर् इव नवमालिकोद्भासिता सचित्रका च, अप्सरस्संहतिर् इव संहतसुकेशी समञ्जुघोषा च, सर्वान्तःपुरप्रधानभूता अनङ्गवती नाम । तयोश् च मध्यमोपान्तवयसि वर्तमानयोः कथम् अपि दैव(व)शात् त्रिभुवनविलोभनीयाकृतिः, पुलोमतनयेवानन्दितसहस्रनेत्रा वासवदत्ता नाम [तनया] बभूव । अथ सा रावणभुजवन इवोल्लासितगोत्रेव परिणामम् उपयात्य् अपि यौवनभावे परिणयपरङ्मुखी तस्थौ ।
19) अथैकदा तु विजृम्भमाणसहकारकोरकनिकुरुम्बनिपतितमधुकरमालामदहुङ्कारजनितपथिकसंज्वरः, कोमलमलयमारुतोद्भूतचूतप्रसवसरसास्वादकषायकण्ठकलकण्ठकुहरितभरितसकलदिङ्मुखः, विकचकमलखण्डलीयमानमत्तकलहंसकुलकोलाहलमुखरितकमलसरोवरः, परभृतनखकोटिपाटितपाटलकुड्मलविवरविनिर्गतमधुधारासारशीकरकणनिकरसमारब्धदक्षिणसमीरबाणदुर्व्रणितपथिकवधूहृदयः, मधुमदमुदितकामिनीगण्डूषसीधुसेकपुलकितबकुलः, मदनरयपरवशविकासिनीतुलाकोटिविकटचटुलचरणारविन्दामन्दप्रहारहृष्टकङ्केलिशतः, प्रतिदिशम् अश्लीलप्रायगीयमानश्रवणोत्सुकखिङ्गजनप्रायप्रारब्धचर्चरीगीताकर्णनमुह्यदनेकपथिकशतः, दुर्जन इव सतामरसः, दुष्कुल इव जातिहीनः, रावण इवापीतलोहितपलाशशतसेवितः, महाशृङ्गारीव सुगन्धवहः, सुराजेव समृद्धकुवलयः, वास्तविक इव वर्धितसुखाशः, सत्कविकाव्यबन्ध इवाबद्धतुहीनः, सत्पुरुष इव दोषानुबन्धरहितः, कैवर्त इव बद्धराजीवोत्पलमालः, समृद्धकासारशकुनिसार्थ इव निन्दितमरुवकः, शक्र इवेन्द्राणीरुचितः, महावीर इवाधरीकृतदमनकः, खिङ्ग इवाम्लानसुभगो वसन्तकाल आजगाम ।
20) अतिदूरप्रवृद्धेन मधुना जगति को वा न विक्रियते यद् अतिमुक्तो ऽपि मुनिर् अपि विचकास । कुसुमशरस्य नवचूतशरमूलनिलीनमधुकरावलि पत्रेणेव रेजे । वृन्तनिर्गतविचकिलविवरे गुञ्जन्मधुकरो मकरकेतोस् त्रिभुवनविजयशङ्खध्वनिम् इव चकार । नवयावकपङ्कपल्लवितसनूपुरतरुणीचरणप्रहारानुरागवशान् नवकिसलयच्छलेन तम् एव रागम् उदवहद् अशोकपादपः । मधुरमधुध्वनितकामिनीमुखकमलसङ्गानुरागाद् इव तद्रसम् आत्मकुसुमेषु बिभ्रद् बकुलतरू रराजत । अन्तरान्तरानिपतितमधुकरनिकरकिर्मीरः कङ्केलिगुच्छो ऽर्धनिर्वाणमनोभवचिताचक्रानुकारी पथिकजनदाहम् उवाह । विकचविचकिलराजिर् अलिकुलशबलेन्द्रनीलमुक्तावलीव मधुश्रियो रुरुचे । विरहिणीहृदयमथनाय कुसुमशरस्य चक्रम् इव नागकेसरकुसुमम् अशोभत । पथिकहृदयम् अस्त्यं ग्रहीतुं मकरकेतोः पलाव इव पाटलिपुष्पम् अदश्यत ।
21) कन्दर्पकेलिसंपल्लम्पटलाटीललाटतटविकटधम्मिलमलनमिलितपरिमलसमृद्धमधुरिमगुणः, कामकलाकलापचारुसुन्दरीसुन्दरस्तनकलशघुसृणधूलिपरिमलामोदवाही, रणरणकरसितकान्तकुन्तलीकुन्तलोल्लासनसङ्क्रान्तपरिमलमिलितालिमाला मधुरतरझङ्कारमुखरितनभस्तलः, नवयौवनरागतरलकेरलीकपोलपालिपत्रावलीपरिचयचतुरः, चतुःषष्टिकलाकलापविदग्धमुखमालवीनितम्बबिम्बसंवाहकुशलः, सुरतश्रमवशाङ्घ्रीनीरन्ध्रपीनपयोधरभारनिदाघकणशिशिरितो मलयानिलो ववौ ।
22) अत्रान्तरे वासवदत्तासखीजनाद् विदिताभिप्रायः शृङ्गारशेखरः स्वसुतास्वयंवरार्थम् अशेषधरणितलभाजां भूभुजां सङ्गतम् अकरोत् । ततो दग्धकृष्णागुरुपरिमलामोदितमधुव्रतमालाबहलगुमगुमायितमुखरितं, अतिरभसहासच्छटादीधितिपरिमिलितं, अनेककथालापविदग्धशृङ्गारमयजनसमाकुलं, दह्यमानसुगन्धसौरभाकृष्टपुरोपवनषट्पदकुलसमाकुलं, अर्जुनसमरम् इव नन्दिघोषमुखरितदिगन्तं मञ्चम् आरुरोह वासवदत्ता ।
23) तत्र केचित् कलाङ्कुरा इव विजितनगरमण्डनाः, अपरे पाण्डवा इव दिव्यचक्षुःकृष्णागुरुपरिमिलिताः, अन्ये शरद्दिवसा इव दूरप्रवृद्धाशाः, इतरे प्य् आहर्तुम् उद्यता इव स्वबलार्थिनः, केचिद् व्याधा इव शकुनश्रावकाः, केचिद् आखेटिन इव रूपानुसारप्रवृत्ताः, केचिज् जैमिनिमतश्राविण इव तथागत[मत]ध्वंसिनः, केचित् खञ्जना इव सांवत्सरफलदर्शिनः, केचित् सुमेरुपरिसरा इव कार्तस्वरमयाः, केचित् कुमुदाकरा इव भास्वद्दर्शननिमीलिताः, केचिद् धार्तराष्ट्रा इव विश्वरूपावलोकनजनितेन्द्रजालोद्भूतप्रत्ययाः, केचिद् आत्मनिवारणबुद्ध्या बलवन्तो ऽपि सुवाहाः, केचित् पाणिग्रहणार्थिनो ऽप्य् असुकरं मन्यमानाः, केचिद् अधरीभूता (अ)पि स्थिराः, केचित् पाण्डुपुत्रा इवा[क्षहृदया]ज्ञानहृतक्षमाः, केचिद् बृहत्कथाबन्धिनो गुणाढ्याः, केचित् तिर्यग्गतयो गन्धवाहाः, केचित् कौरवसैनिका इव द्रोणाशासूचकाः, केचित् कुमुदाकरा इवासोढभासः क्षणम् एवं स्थिता राजपुत्राः । सा च क्षणेनैकैकशः समवलोक्य कुमारिका त(स्)मात् कर्णीरथाद् अवततार ।
24) अथ सा तस्याम् एव रात्रौ स्वप्ने वालिनम् इवाङ्गदोपशोभितं, कुहूमुखम् इव हारिकण्ठं, कनकमृगम् इव रामाकर्षणनिपुणं, जयन्तम् इव वचनामृतानन्दितवृद्धश्रवसं, कृष्णम् इव कं सहर्षं न कुर्वन्तं, महामेघम् इव विलसत्करकं, [समुद्रम् इव] महासत्त्वं, मालिन्या कबरिकया, तुङ्गभद्रया नासिकया, शोणेनाधरेण, नर्मदया वाचा, गोदया भुजया स्वर्वाहिन्या कीर्त्या च पुण्यमयम् इव, आदिकन्दं शृङ्गारपादपस्य, रोहणगिरिं सकलगुणरत्नसमूहस्य, प्रभवशैलं सुन्दरकथानदीनां, सुरभिमासं वैदग्ध्यसहकारस्य, आदर्शतलं सौजन्यमुखस्य, आदिकन्दं विद्यालतानां, स्वयंवरपतिं सरस्वत्याः, स्पर्धागृहं कीर्तिलक्ष्म्योः, आदिगृहं शीलसंपदां, कोशम् इव महासौन्दर्यस्य त्रिभुवनलोभनीयाकृतिं युवानं ददर्श ।
25) "स चिन्तामणिनाम्नो राज्ञस् तनयः कन्दर्पकेतुर् नामेति" सा स्वप्न एव नामादिकम् अश्रौषीत् । अनन्तरं "अहो प्रजापते रूपनिर्माणकौशलम् इदं, मन्ये स्वस्यैव नैपुण्यस्य सौन्दर्यदर्शनोत्सुकमनसा कमलभुवा जगत्त्रयसमवाये रूपपरमाणून् आदाद्य विरचितो ऽयम् अन्यथा कथम् अयम् अस्य कान्तिविशेष" इति, "वृथैव दमयन्ती नलस्य कृते वन[वास]वैशसम् अवाप, मुधैवेन्दुमती महिष्य् अप्य् अजानुरागिणी बभूव, अफलम् इव दुष्यन्तस्य कृते शकुन्तलापि दुर्वाससः शापम् अनुबभूव, निरर्थकम् इव मदनमञ्जुका नरवाहनदत्तं चकमे, निष्कारणम् एवोरुगरिमनिर्जितरम्भा[रम्भा] नलकूबरम् अचीकमत, विफलम् एव धूमोर्णा स्वयंवरार्थगतदेवग्रहगन्धर्वसहस्रेषु धर्मराजम् अकाङ्क्षतेति" बहुधिया चिन्तयन्ती विरहमुर्मुरमध्यम् आरूढेव वाडवाग्निशिखा[कवलितेव], कालाग्निरुद्रपावकग्रस्तेव, पातालगुहाप्रविष्टेव, [शून्यकरण]ग्रामालिखितम् इव, उत्कीर्णम् इव, निगलितम् इव, वज्रलेपघटितम् इव, अस्तिपञ्जरप्रविष्टम् इव, मर्मान्तरास्थितम् इव, [मज्जारसशबलितम् इव], प्राणपरीतम् इव, अन्तरात्मानम् अधिष्ठितम् इव, रुधिराशयद्रवीभूतम् इव, पललसंविभक्तम् इव कन्दर्पकेतुं मन्यमाना, उन्मत्तेव, बधिरेव, मूकेव, शून्येव, निरस्तकरणग्रामेव, मूर्च्छागृहीतेव, ग्रहग्रस्तेव, यौवनसागरतरङ्गपरम्परापरिगतेव, रागरज्जुभिर् अपवारितेव, कन्दर्पकुसुमबाणैः कीलितेव, शृङ्गारविषघूर्णितेव, रूपपरिभावनशल्यखिल्लितेव, मलयानिलाहतजीवितेव "प्रियसख्य् अनङ्गलेखे वितर[मे] हृदये पाणिपादं दुःसहो विरहसन्तापः, मुग्धे मदनमञ्जरि सिञ्च चन्दनोदकेन, सरले वसन्तसेने संवृणु केशकलापपाशम्, तरले लवङ्गवति विकिर केतकधूलिं, मालिनि अलं शैवलदलेन, चपले चित्रलेखे लिख चित्रे चित्तचोरं जनं, भामिनि विलासवति विक्षिप मुक्ताचूर्णनिकरम्, रागिणि रागलेखे स्थगय नलिनीदलसमूहेन पयोधरभरम्, सुकान्ते कान्तिमति मन्दं मन्दम् अपनय बाष्पबिन्दून्, यू(थि)कालङ्कृते यू(थि)के सञ्चारय नलिनीदलार्द्रवातान्, एहि भगवति निद्रे अनुगृहाण माम्, धिग् इन्द्रियैर् अपरैः, किम् इति लोचनमयानि ममाङ्गानि विधिना न कृतानि,
भगवन् कुसुमायुध तवायम् अञ्जलिर् अनुचरो, भव भाववति तादृशे जने, [मलयानिल] सुरतोत्कण्ठदीक्षागुरो वह यथेच्छम्" इति बहुविधं भाषमाणा वासवदत्ता सखीजनेन समं मुमूर्च्छ ।
26) अनन्तरं परिजनप्रयत्नोच्छ्वासितजीविता च, क्षनम् अतिशिशिरघनसाररजोनिम्नगाकूलपुलिने, क्षनम् अतितुहिनजडमलयरजसः सरित्परिसरे, क्षणम् अरविन्दकाननपरिवारितसरस्तटविटपच्छायासु, क्षणम् अनिलोल्लासितदलेषु कदलीकाननेषु, क्षणं कुसुमशय्यासु, क्षणं नलिनीदलस्रस्तरेषु, क्षणं तुषारसंघातशिशिरितशिलातलेषु परिजनेन नीयमाना, प्रलयकालोदितद्वादशरविकिरणकलापतीव्रविरहाग्निदह्यमाना सती, अतिकृशां विप्राणाम् इव तनुं बिभ्रती, प्रचलदमन्दमन्दरान्दोलितदुःखसिन्धुतरलतरतरङ्गच्छटाधवलहासच्छुरिताधरपल्लवं तन्मुखारविन्दं, द्विजकुलम् इव श्रुतिप्रणयि तदीक्षणयुगलं, सहजसुरभिमुखपरिमलामोदम् आघ्रातुकामा सुदूरनिर्गतनासावंशलक्ष्मीः, कलङ्कमुक्तेन्दुकलाकोमला, पीयूषफेनपटलपाण्दुरास्यद्विजपङ्क्तिः, तददृष्टचरम् अनङ्गम् अतिशयानं रूपं, धन्यानि तानि [स्थानानि] ते च जनपदाः, पुण्यनामाक्षराणि च तानि सुकृतभाञ्जि यान्य् अमुना परिष्कृतानीति मुहुर् मुहुः परिभावयन्ती, दिक्षु विलिखितम् इव, नभस्य् उत्कीर्णम् इव, लोचने प्रतिबिम्बितम् इव, चित्रपटलिखितम् इव, पुरो दर्शितम् इवेतस् ततो विलोकयन्ती व्यतिष्ठत ।
27) अथ तस्याः सारिका तमालिका नाम तत्सखीभिः सहालोच्य कन्दर्पकेतोर् भावम् आकलयितुं [प्र]स्थिता । आगता च मयैव सार्धम् अत्रैव तरोर् अधस् तिष्ठतीत्य्" उक्त्वा विरराम ।
28) अथ सहर्षम् उत्थाय मकरन्दो विदितवृत्तान्तां तमालिकाम् अकरोत् । सा च कृतप्रणामा कन्दर्पकेतवे पत्रिकाम् उपानयत । अथ स तां स्वयम् अवाचयत ।
प्रत्यक्षदृष्टभावाप्य् अस्थिरहृदया हि कामिनी भवति ।
स्वप्नानुभूतभावा द्रढयति न प्रत्ययं युवतिः
मूल पाठ: Vāsavadattā · Edition: Jaydev Mohanlal Shukla: Vāsavadattā of Subandhu, Jodhpur 1966. · Data entry Christian Ferstl · GRETIL (Göttingen) · CC BY-NC-SA 4.0