वराह पुराण · अध्याय 97.98
अथ पर्वाध्यायः ॥
धरण्युवाच ॥
योऽसौ सत्यतपा नाम लुब्धो भूत्वा द्विजो बभौ ॥
येनारुणिर्व्याघ्रभयाद्रक्षितो यः स्वशक्तितः
दुर्वासाः संश्रुतार्थश्च हिमवन्तं नगं ययौ ॥
तस्योपरि महच्चित्रं भवतीति त्वयेरितम्
कीदृशं तन्ममाचक्ष्व महत्कौतूहलं विभो ॥
श्रीवराह उवाच ॥
स हि सत्यतपा पूर्वं भृगुवंशोद्भवो द्विजः
दस्युसंसर्गसम्भूतो दस्युवत्समजायत ॥
ततः कालेन महता ऋषिसङ्गात्पुनर्द्विजः
बभौ दुर्वाससा सम्यग्बोधितश्च विशेषतः ॥
हिमाद्रेरुत्तरे पादे पुष्यभद्रा नदी शुभा
तस्यास्तीरे शिला दिव्या नाम्ना चित्रशिला धरे ॥
न्यग्रोधश्च महांस्तत्र नाम्ना भद्रो महावटः
तत्र सत्यतपाः स्थित्वा तपः कुर्वन्महातपाः ॥
स कदाचित्कुठारेण चकर्त्त समिधः किल
चिच्छेद चांगुलीमेकां वामतर्जनिकां मुनिः ॥
छिन्नायामंगुलौ तस्य भस्मचूर्णं भवत्किल
न लोहितं न मांसं तु न मज्जा तत्र दृश्यते ॥
अंगुली सन्धिता तेन पूर्ववच्चाभवत्कृते
तस्मिन् भद्रवटे चैकं मिथुनं किन्नरं स्थितम् ॥
रात्रौ सुप्तमृषेस्तस्य दृष्ट्वा तन्महदद्भुतम्
प्रभाते विमले प्राप्तमिन्द्रलोकमिति स्मृतिः ॥
अथेन्द्रेण सुराः सर्वे यक्षगन्धर्वकिन्नरैः
पृष्टाः किंचिदिहाश्चर्यमपूर्वं कथ्यतामिति ॥
तत्र रुद्रसरस्तीरे यदेतन्मिथुनं शुभम्
स्थितं किन्नरयोस्तच्च वाक्यं चेदमुवाच ह॥
दृष्टं तु मह दाश्चर्यं पुष्यभद्रातटे शुभे
यदेतत्सत्यतपसः समवोचत्ततः शुभे ॥
दृष्टं किंचिदिहाश्चर्यं दृष्टिस्तु हिमवद्गिरौ
पुष्यभद्रानदी तीरे महदाश्चर्यमुत्तमम् ॥
यदेतत्सत्यतपसः समवोचस्ततः शुभे
स्रवणं भस्मनश्चैव श्रुतं सर्वं शशंस ह ॥
तच्छुत्वा सहसा शक्रो विस्मितो विष्णुमब्रवीत्
आगच्छ विष्णो गच्छामो हिमवत्पार्श्वमुत्तमम् ॥
तत्राश्चर्यमपूर्वं मे कथितं किन्नरेण ह
एवमुक्तस्ततो विष्णुर्वाराहं रूपमग्रहीत् ॥
मृगयुश्च तथैवेन्द्रो जग्मतुस्तमृषिं प्रति
विष्णुर्वाराहरूपेण ऋषिदृष्टिपथे स्थितः ॥
भूत्वा दृश्योऽप्यदृश्योऽभूत्पुनरेव च दृश्यते
तावदिन्द्रो धनुष्पाणिस्तीक्ष्णसायकधृग्वने ॥
आगत्य सत्यतपतमृषिमेनमुवाच ह
भगवन्निह दृष्टस्ते वराहः पृथुलो महान् ॥
येन तं हन्मि भृत्यानां पोषणाय महामुने
एवमुक्तो मुनिस्तेन चिन्तयामास तत्क्षणात् ॥
यदि तं दर्शयाम्यस्मै वराहं हन्यते तदा
नो चेत्कुटुंबः क्षुधया सीदत्यस्य न संशयः ॥
जायापुत्रसमायुक्तो लुब्धकोऽयं क्षुधा न्वितः
सशल्यश्च वराहोऽयं ममाश्रममुपागतः ॥
एवं गते तु किं कार्यमथासौ चिन्तयन् प्रभुः
नाध्यगच्छत बुद्धिश्च क्षणात्तस्य व्यजायत
दृष्टं चक्षुर्निहितं जङ्गमेषु जिह्वा वक्तुं मृगयौ तद्विसृष्टम् ॥
द्रष्टुं चक्षुर्नास्ति जिह्वेह वक्तुं जिह्वायाः स्यात्तत्त्वतोऽस्तीह चक्षुः
एवं श्रुत्वा द्वावपि तस्य तुष्टौ इन्द्राविष्णू दर्शयन्तौ स्वमूर्तिम् ॥
वाक्यं चेदमूचतुर्ब्रूहि नौ ते तुष्टौ धन्यं वरमेकं वदस्व ॥
तच्छ्रुत्वाऽसौ सत्यतपा उवाच १
न चातिरिक्तोऽस्ति वरः पृथिव्यां यद्दृष्टो मे पुरतो देवदेवाः ॥
बलं वरेणापि कृतार्थतासीत् तथापीदं ये सदा पर्वकाले
विप्रा विप्राश्चार्चयन्तीह भक्त्या तेषां पापं नश्यतां मासमेकम् ॥
यत्सञ्चितं त्वेष एको वरोऽस्तु ह्यभीष्टो मे सांप्रतं देहि मह्यम्
मुक्तिं चाहं व्रजामीति द्वितीयोऽस्तु वरो मम॥
तथेत्युक्त्वा तु तौ देवौ दत्त्वा तस्य वरं शुभम्
।
अदर्शनं गतौ देवो सोऽपि तत्र व्यवस्थितः ॥
लब्ध्वा वरं सत्यतपा ब्रह्मभूतोऽभवद्धृदि
यावदास्ते शुभे देशे कृतकृत्यो महामुनिः ॥
तावत्तस्य गुरुस्तत्र त्वारुणिः समदृश्यत
पृथ्वीं प्रदक्षिणीकृत्य तीर्थहेतोर्विचक्षण ॥
तेन चासौ महाभक्त्या पूजितो मुनि पुङ्गवः
पाद्याचमनगोदानेः कृतासनपरिग्रहः ॥
ज्ञात्वा स शिष्यं सिद्धं तु तपसा दग्धकिल्बिषम्
उवाच विनयापन्नं प्राञ्जलिं पुरतः स्थितम् ॥
आरुणिरुवाच ॥
पुत्र सिद्धोऽसि तपसा ब्रह्मभूतोऽसि सुव्रत
इदानीमात्मना सार्द्धं मुक्तिकालो मतोऽस्ति ते ॥
उत्तिष्ठ गम्यतां पुत्र मया सार्द्धं परं पदम्
यद्गत्वा न पुनर्जन्म भवतीति न संशयः ॥
एवमुक्त्वा तु तौ सिद्धौ उभौ सत्यतपारुणी
ध्यात्वा नारायणं देवं तद्देहे तौ लयं गतौ ॥
यश्चापि शृणुयात्पादं पर्वाध्यायं सविस्तरम्
श्रावयेद्वापि स नरो गतिमिष्टामवाप्नुयात् ॥
इति श्रीवराहपुराणे पर्वाध्यायो नाम अष्टनवतितमोऽध्यायः
मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0