भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 47

47.47.1

दुर्वासा उवाच ।
श्रावणस्य तु मासस्य शुक्लपक्षे तु द्वादशी ।
अर्चयेत् परमं देवं गन्धपुष्पैर्जनार्नम्

47.47.2

दामोदराय पादौ तु हृषीकेशाय वै कटिम् ।
सनातनेति जठरमुरः श्रीवत्सधारिणे

47.47.3

चक्रपाणयेति भुजौ कण्ठं च हरये तथा ।
मुञ्जकेशाय च शिरो भद्रायेति शिखां तथा

47.47.4

एवं संपूज्य संस्थाप्य कुम्भं पूर्ववदेव तु ।
विन्यस्य वस्त्रयुग्मं तु तस्योपरि ततो न्यसेत्

47.47.5

काञ्चनं देवदेवं तु दामोदरसनामकम् ।
तमभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात्

47.47.6

प्राग्वत् तं ब्राह्मणे दद्याद् वेदवेदाङ्गपारगे ।
एवं नियमयुक्तस्य प्रभावं तच्छृणुष्व मे

47.47.7

एष ते विधिरुद्दिष्टः श्रावणे मासि वै विभो ।
एतस्याश्च प्रभावं यत् श्रृणु पापप्रणाशनम्

47.47.8

पुरा कृतयुगे राजा नृगो नाम महाबलः ।
बभ्राम स वनं घोरं मृगयासक्तमानसः

47.47.9

स कदाचित् तुरङ्गेण हृतो दूरं महद्वनम् ।
व्याघ्रसिंहगजाकीर्णं दस्युसर्पनिषेवितम्

47.47.10

एकाकी तत्र राजा तु अश्वं मुच्य तरोरधः ।
स्वयं कुशमथास्तीर्य सुप्तो दुःखसमन्वितः

47.47.11

तावत् तत्रैव लुब्धानां सहस्त्राणि चतुर्दश ।
आगतानि मृगान् हन्तुं रात्रौ राज्ञः समन्ततः

47.47.12

तत्रापश्यन्त ते सुप्तं हेमरत्नविभूषितम् ।
नृगं राजानमत्युग्रं श्रिया परमया युतम्

47.47.13

ते गत्वा त्वरितं व्याधाः स्वभर्त्रे संन्यवेदयन् ।
सोऽपि रत्नसुवर्णार्थं राजानं हन्तुमुद्यतः

47.47.14

तुरगस्य च हेतोस्तु निस्त्रिंशा वनचारिणः ।
राजानं सुप्तमासाद्य निगृहीतुं प्रचक्रमुः

47.47.15

तावद् राज्ञः शरीरात् तु श्वेताभरणभूषिता ।
नारी काचित् समुत्तस्थौ स्त्रक्चन्दनविभूषिता ।
उत्थाय चक्रमादाय ते म्लेच्छा विनिपातिताः

47.47.16

दस्यून् निहत्य सा देवी तस्य राज्ञस्तनुं पुनः ।
प्रविशन्त्याशु राजाऽपि प्रतिबुद्धोऽथ दृष्टवान् ।
म्लेच्छांस्तु निहतान् दृष्ट्वा सा स्वमूर्त्तिलयं गता

47.47.17

अश्वमारुह्य स पुनर्वामदेवाश्रमं ययौ ।
तत्रापृच्छद् ऋषिं भक्त्या का स्त्री के ते निपातिताः ।
एतत् कार्यमृषे मह्यं कथयस्व प्रसीद मे

47.47.18

वामदेव उवाच ।
त्वमासीच्छूद्रजातीय अन्यजन्मनि पार्थिव ।
तत्र त्वया ब्राह्मणस्य प्रेषणं कुर्वता श्रुता ।
श्रावणस्य तु मासस्य शुक्लपक्षे तु द्वादशी

47.47.19

सविधानात् त्वया राजन् भक्त्या वै समुपोषिता ।
उपोषितायां तस्यां तु राज्यं लब्धं त्वयाऽनघ

47.47.20

सर्वापत्सु च सा देवी भवन्तं परिरक्षति ।
यया विनिहताः क्रूरा म्लेच्छाः पापसमन्विताः ।
भवांश्च रक्षितो राजन् श्रावणद्वादशी तु सा

47.47.21

एकैव पाति चापत्सु राज्यमेकैव यच्छति ।
किं पुनर्द्वादशैतास्तु येनैन्द्रं न ददुः पदम्

47.47

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तचत्वारिंशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc