भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 46

46.46.1

दुर्वासा उवाच ।
आषाढेऽप्येवमेवं तु संकल्प्य विधिना नरः ।
अर्चयेत् परमं देवं गन्धपुष्पैरनेकशः

46.46.2

वासुदेवाय पादौ तु कटिं संकर्षणाय च ।
प्रद्युम्नायेति जठरं अनिरुद्धाय वै उरः

46.46.3

चक्रपाणयेति भुजौ कण्ठं भूपतये तथा ।
स्वनाम्ना शङ्खचक्रौ तु पुरुषायेति वै शिरः

46.46.4

एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् ।
विन्यस्य वस्त्रसंयुक्तं तस्योपरि ततो न्यसेत् ।
काञ्चनं वासुदेवं तु चतुर्व्यूहं सनातनम्

46.46.5

तमभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् ।
प्राग्वत् तं ब्राह्मणे दद्याद् वेदवादिनि सुव्रते ।
एवं नियमयुक्तस्य यत्पुण्यं तच्छृणुष्व मे

46.46.6

वसुदेवोऽभवद् राजा यदुवंशविवर्द्धनः ।
देवकी तस्य भार्या तु समानव्रतधारिणी

46.46.7

सा त्वपुत्राऽभवत् साध्वी पतिधर्मपरायणा ।
तस्य कालेन महता नारदोऽभ्यगमद् गृहम्

46.46.8

वसुदेवेनासौ भक्त्या पूजितो वाक्यमब्रवीत् ।
वसुदेव श्रुणुष्व त्वं देवकार्यं ममानघ ।
श्रुत्वैतां च कथां शीघ्रमागतोऽस्मि तवान्तिकम्

46.46.9

पृथिवी देवसमितौ मया दृष्टा यदूत्तम ।
गत्वा च जल्पती भारं न शक्ता ऊहितुं सुराः

46.46.10

सौभकंसजरासन्धाः पुनर्नरक एव च ।
कुरुपाञ्चालभोजाश्च बलिनो दानवाः सुराः ।
पीडयन्ति समेता मां तान् हनध्वं सुरोत्तमाः

46.46.11

एवमुक्ताः पृथिव्या ते देवा नारायणं गताः ।
मनसा स च देवेशः प्रत्यक्षस्तत् क्षणात् बभौ

46.46.12

उवाच च सुरश्रेष्ठः स्वयं कार्यमिदं सुराः ।
साधयामि न सन्देहो मर्त्यं गत्वा मनुष्यवत्

46.46.13

किंत्वाषाढे शुक्लपक्षे या नारी सह भर्त्तृणा ।
उपोष्यति मनुष्येषु तस्या गर्भे भवाम्यहम्

46.46.14

एवमुक्त्वा गतो देवः स्वयं चाहमिहागतः ।
उपदिष्टं तु भवतो अपुत्रस्य विशेषतः ।
उपोष्य लभते पुत्रं सहभार्यो न संशयः

46.46.15

एतां च द्वादशीं कृत्वा वसुदेवस्तथाप्तवान् ।
महतीं च श्रियं प्राप्तः पुत्रपौत्रसमन्वितः

46.46.16

भुक्त्वा राज्यश्रियं सोऽथ गतः परमिकां गतिम् ।
एष ते विधिरुद्दिष्ट आषाढे मासि वै मुने

46.46

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्चत्वारिंशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc