भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 41

41.41.1

दुर्वासा उवाच ।
एवं माघे सिते पक्षे द्वादशीं धरणीभृतः ।
वराहस्य श्रृणुष्वाद्यां मुने परमधार्मिक

41.41.2

प्रागुक्तेन विधानेन संकल्पस्नानमेव च ।
कृत्वा देवं समभ्यर्च्य एकादश्यां विचक्षणः

41.41.3

धूपनैवेद्यगन्धैश्च अर्चयित्वाऽच्युतं नरः ।
पश्चात् तस्याग्रतः कुम्भं जलपूर्णं तु विन्यसेत्

41.41.4

ॐ वाराहायेति पादौ तु माधवायेति वै कटिम् ।
क्षेत्रज्ञायेति जठरं विश्वरूपेत्युरो हरेः

41.41.5

सर्वज्ञायेति कण्ठं तु प्रजानां पतये शिरः ।
प्रद्युम्नायेति च भुजौ दिव्यास्त्राय सुदर्शनम् ।
अमृतोद्भवाय शङ्खं तु एष देवार्चने विधिः

41.41.6

एवमभ्यर्च्य मेधावी तस्मिन् कुम्भे तु विन्यसेत् ।
सौवर्णं रौप्यताम्रं वा पात्रं विभवशक्तितः

41.41.7

सर्वबीजैस्तु संपूर्णं स्थापयित्वा विचक्षणः ।
तत्र शक्त्या तु सौवर्णं वाराहं कारयेद् बुधः

41.41.8

दंष्ट्राग्रेणोद्धृतां पृथ्वीं सपर्वतवनद्रुमाम् ।
माधवं मधुहन्तारं वाराहं रूपमास्थितम्

41.41.9

सर्वबीजभृते पात्रे रत्नगर्भं घटोपरि ।
स्थापयेत् परमं देवं जातरूपमयं हरिम्

41.41.10

सितवस्त्रयुगच्छन्नं ताम्रपात्रं तु वै मुने ।
स्थाप्यार्च्चयेद् गन्धपुष्पैर्नैवेद्यैर्विविधैः शुभैः

41.41.11

पुष्पमण्डलिकां कृत्वा जागरं तत्र कारयेत् ।
प्रादुर्भावान् हरेस्तत्र वाचयेद् भावयेद् बुधः

41.41.12

एवं सन्नियमस्यान्तं प्रभाते उदिते रवौ ।
शुचिः स्नात्वा हरिं पूज्य ब्राह्मणाय निवेदयेत्

41.41.13

वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते ।
विष्णुभक्ताय विप्रर्षे विशेषेण प्रदापयेत्

41.41.14

देवं सकुम्भं तं दत्त्वा हरिं वाराहरूपिणम् ।
ब्राह्मणाय भवेद् यद्धि फलं तन्मे निशामय

41.41.15

इह जन्मनि सौभाग्यं श्रीः कान्तिस्तुष्टिरेव च ।
दरिद्रो वित्तवान् सद्यः अपुत्रो लभते सुतम् ।
अलक्ष्मीर्नश्यते सद्यो लक्ष्मीः संविशते क्षणात्

41.41.16

इह जन्मनि सौभाग्यं परलोके निशामय ।
अस्मिन्नर्थे पुरावृत्तमितिहासं पुरातनम्

41.41.17

इह लोकेऽभवद् राजा वीरधन्वेति विश्रुतः ।
स कदाचिद् वनं प्रायान् मृगहेतोः परंतपः

41.41.18

व्यापादयन् मृगगणान् तत्रर्षिवनमध्यगः ।
जघान मृगरूपान् सोऽज्ञानतो ब्राह्मणान् नृपः

41.41.19

भ्रातरस्तत्र पञ्चाशन्मृगरूपेण संस्थिताः ।
संवर्तस्य सुता ब्रह्मन् वेदाध्ययनतत्पराः

41.41.20

सत्यतपा उवाच ।
कारणं किं समाश्रित्य ते चक्रुर्मृगरूपताम् ।
एतन्मे कौतुकं ब्रह्मन् प्रणतस्य प्रसीद मे

41.41.21

दुर्वासा उवाच ।
ते कदाचिद् वनं याता दृष्ट्वा हरिणपोतकान् ।
जातमात्रान् स्वमात्रा तु विहीनान् दृश्य सत्तम ।
एकैकं जगृहुस्ते हि ते मृताः स्कन्धसंस्थिताः

41.41.22

ततस्ते दुःखिताः सर्वे ययुः पितरमन्तिकम् ।
ऊचुश्च वचनं चेदं मृगहिंसामृते मुने

41.41.23

ऋषिपुत्रका ऊचुः ।
जातमात्रा मृगाः पञ्च अस्माभिर्निहता मुने ।
अकामतस्ततोऽस्माकं प्रायश्चित्तं विधीयताम्

41.41.24

संवर्त्त उवाच ।
मत्पिता हिंसकस्त्वासीदहं तस्माद् विशेषतः ।
भवन्तः पापकर्माणः संजाता मम पुत्रकाः

41.41.25

इदानीं मृगचर्माणि परिधाय यतव्रताः ।
चरघ्वं पञ्चवर्षाणि ततः शुद्धा भविष्यथ

41.41.26

एवमुक्तास्तु ते पुत्रा मृगचर्मोपवीतिनः ।
वनं विविशुरव्यग्रा जपन्तो ब्रह्म शाश्वतम्

41.41.27

तथा वर्षे व्यतिक्रान्ते वीरधन्वा महीपतिः ।
तत्राजगाम यस्मिंस्ते चरन्ति मृगरूपिणः

41.41.28

ते चाप्येकतरोर्मूले मृगचर्म्मोपवीतिनः ।
जपन्तः संस्थितास्ते हि राज्ञा दृष्ट्वा मृगा इति ।
मत्वा विद्धास्तु युगपन्मृतास्ते ब्रह्मवादिनः

41.41.29

तान् दृष्ट्वा तु मृतान् राजा ब्राह्मणान् संशितव्रतान् ।
भयेन वेपमानस्तु देवराताश्रमं ययौ ।
तत्रापृच्छद् ब्रह्मवध्या ममायाता महामुने

41.41.30

आमूल्य तद् वधं वृत्तं कथयित्वा नराधिपः ।
भृशं शोकपरीतात्मा रुरोद भृशदुःखितः

41.41.31

स ऋषिर्देवरातस्तु रुदन्तं नृपसत्तमम् ।
उवाच मा भैर्नृपते अपनेष्यामि पातकम्

41.41.32

पाताले सुतलाख्ये च यथा धात्री निमज्जती ।
उद्धृता देवदेवेन विष्णुना क्रोडमूर्त्तिना

41.41.33

तद्वद् भवन्तं राजेन्द्र ब्रह्मवध्यापरिप्लुतम् ।
उद्धरिष्यति देवोऽसौ स्वयमेव जनार्दनः

41.41.34

एवमुक्तस्ततो राजा हर्षितो वाक्यमब्रवीत् ।
कतरेण प्रकारेण स मे देवः प्रसीदति ।
प्रसन्ने चाशुभं सर्वं येन नश्यति सत्तम

41.41.35

दुर्वासा उवाच ।
एवमुक्तो मुनिस्तेन देवरात इमं व्रतम् ।
आचख्यौ सोऽपि तं कृत्वा भुक्त्वा भोगान्सुपुष्कलान्

41.41.36

मुत्युकाले मुनिश्रेष्ठ सौवर्णेन विराजता ।
विमानेनागमत् स्वर्गमिन्द्रलोकं स पार्थिवः

41.41.37

तस्येन्द्रस्त्वर्घ्यमादाय प्रत्युत्थानेन निर्ययौ ।
आयान्तमिन्द्रं दृष्ट्वा तु तमूचुर्विष्णुकिंकराः ।
न द्रष्टव्यो देवराजस्त्वद्धीनस्तपसा इति

41.41.38

एवं सर्वे लोकपाला निर्ययुस्तस्य तेजसा ।
प्रत्याख्याताश्च तैर्विष्णुकिंकरैर्हीनकर्मणः ।
एवं स सत्यलोकान्तं गतो राजा महामुने

41.41.39

अपुनर्मारके लोके दाहप्रलयवर्ज्जिते ।
अद्यापि तिष्ठते देवैः स्तूयमानो महानृपः ।
प्रसन्ने यज्ञपुरुषे किं चित्रं येन तद्भवेत्

41.41.40

इह जन्मनि सौभाग्यमायुरारोग्यसम्पदः ।
एकैका विधिनोपास्ता ददात्यमृतमुत्तमम्

41.41.41

किं पुनर्वर्षसंपूर्णे स ददाति स्वकं पदम् ।
नारायणश्चतुर्मूर्त्तिः परार्ध्यं च न संशयः

41.41.42

यथैवोद्धृतवान् वेदान् मत्स्यरूपेण केशवः ।
क्षीराम्बुधौ मथ्यमाने मन्दरं धृतवान् प्रभुः ।
तद्वच्च कूर्मरूपाख्या द्वितीया पश्य वैष्णवी

41.41.43

यथा रसातलात् क्ष्मां च धृतवान् पुरुषोत्तमः ।
वराहरूपी तद्वच्च तृतीया पश्य वैष्णवी

41.41

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकचत्वारिंशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc