भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 33

33.33.1

श्रीवराह उवाच ।
अथापरां रुद्रसंभूतिमाद्यां श्रृणुष्व राजन्निति सोऽभ्युवाच ।
महातपाः प्रीतितो धर्म्मदक्षः क्षमास्त्रधारी ऋषिरुग्रतेजाः

33.33.2

जातः प्रजानां पतिरुग्रतेजा ज्ञानं परं तत्त्वभावं विदित्वा ।
सृष्टिं सिसृक्षुः क्षुभितोऽतिकोपाद वृद्धिकाले जगतः प्रकामम्

33.33.3

तपस्यतोऽतः स्थिरकीर्तिः पुराणो रजस्तमोध्वस्तगतिर्बभूव ।
वरो वरेण्यो वरदः प्रतापी कृष्णारुणः पुरुषः पिङ्गनेत्रः

33.33.4

रुदन्नुक्तो ब्रह्मणा मा रुद त्वं रुद्रस्ततोऽसावभवत् पुराणः ।
नयस्व सृष्टिं विततस्वरूपां भवान् समर्थोऽसि महानुभाव

33.33.5

इत्युक्तमात्रः सलिले ममज्जमग्ने ससर्जात्मभवाय दक्षः ।
कस्थे तदा देववरे वितेनुः सृष्टिं तु ते मानसा ब्रह्मजाताः

33.33.6

तस्यां ततायां तु सुराधिपे तु पैतामहं यज्ञवरं प्रकामम् ।
मग्नः पुरा यत्सलिले स रुद्रः उत्सृज्य विश्वं तु सुरान् सिसृक्षुः

33.33.7

सुस्त्राव यज्ञं सुरसिद्धयक्षानुपागतान् क्रोधवशं जगाम ।
मन्युं प्रदीप्तं परिभाव्य केन सृष्टं जगन्मां व्यतिरिच्य मोहात्

33.33.8

हा हेति चोक्ते ज्वलनार्चिषस्तु तत्राभवन् क्षुद्रपिशाचसङ्घा वेतालभूतानि च योगिसङ्घाः

33.33.9

घनं यदा तैर्विततं वियच्च भूमिश्च सर्वाश्च दिशश्च लोकाः ।
तदा स सर्वज्ञतया चकार धनुश्चतुर्विंशतिहस्तमात्रम्

33.33.10

गुणं त्रिवृत्तं च चकार रोषादादत्त दिव्ये च धनुर्गुणं च ।
ततश्च पूष्णो दशनानविध्यद् भगस्य नेत्रे वृषणौ क्रतोश्च

33.33.11

स विद्धबीजो व्यपयात्क्रतुश्च मार्गं वायुर्धारधन् यज्ञवाटात् ।
देवाश्च सर्वे पशुपतिमुपेयुर्जग्मुश्च सर्वे प्रणतिं भवस्य

33.33.12

आगम्य तत्रैव पितामहस्तु भवं प्रतीतः संपरिष्वज्य देवान् ।
भक्त्योपेतान् वीक्षयद् देवदेवान् विज्ञानमन्तः कुरु वीरबाहो

33.33.13

रुद्र उवाच ।
सृष्टः पूर्वं भवताऽहं न चेमे कस्मान्न भागं परिकल्पयन्ति ।
यज्ञोद्भवं तेन रुषा मयेमे हृतज्ञाना विकृता देवदेव

33.33.14

ब्रह्मा उवाच ।
देवाः शंभुं स्तुतिभिर्ज्ञानहेतोर् यजध्वमुच्चैरसुराश्च सर्वे ।
येन रुद्रो भगवांस्तोषमेति सर्वज्ञता तोषमात्रस्य च स्यात्

33.33.15

इत्युक्तास्तेन ते देवाः स्तुतिं चक्रुर्महात्मनः

33.33.16

देवा ऊचुः ।
नमो देवातिदेवाय त्रिनेत्राय महात्मने ।
रक्तपिङ्गलनेत्राय जटामुकुटधारिणे

33.33.17

भूतवेतालजुष्टाय महाभोगोपवीतिने ।
भीमाट्टहासवक्त्राय कपर्दिन् स्थाणवे नमः

33.33.18

पूष्णो दन्तविनाशाय भगनेत्रहने नमः ।
भविष्यवृषचिह्नाय महाभूतपते नमः

33.33.19

भविष्यत्रिपुरान्ताय तथान्धकविनाशिने ।
कैलासवरवासाय करिकृत्तिनिवासिने

33.33.20

विकरालोद्र्ध्वकेशाय भैरवाय नमो नमः ।
अग्निज्वालाकरालाय शशिमौलिकृते नमः

33.33.21

भविष्यकृतकापालिव्रताय परमेष्ठिने ।
तथा दारुवनध्वंसकारिणे तिग्मशूलिने

33.33.22

कृतकङ्कणभोगीन्द्र नीलकण्ठ त्रिशूलिने ।
प्रचण्डदण्डहस्ताय वडवाग्निमुखाय च

33.33.23

वेदान्तवेद्याय नमो यज्ञमूर्ते नमो नमः ।
दक्षयज्ञविनाशाय जगद्भयकराय च

33.33.24

विश्वेश्वराय देवाय शिवशंभुभवाय च ।
कपर्दिने करालाय महादेवाय ते नमः

33.33.25

एवं देवैः स्तुतः शंभुरुग्रधन्वा सनातनः ।
उवाच देवदेवोऽहं यत्करोमि तदुच्यताम्

33.33.26

देवा ऊचुः ।
वेदशास्त्राणि विज्ञानं देहि नो भव माचिरम् ।
यज्ञं सरहस्यं नो यदि तुष्टोऽसि नः प्रभो

33.33.27

महादेव उवाच ।
भवन्तः पशवः सर्वे भवन्तु सहिता इति ।
अहं पतिर्वो भवतां ततो मोक्षमवाप्स्यथ ।
तथेति देवास्तं प्राहुस्ततः पशुपतिर्भवत्

33.33.28

ब्रह्मा पशुपतिं प्राह प्रसन्नेनान्तरात्मना ।
चतुर्द्दशी ते देवेश तिथिरस्तु न संशयः

33.33.29

तस्यां तिथौ भवन्तं ये यजन्ते श्रद्धयान्विताः ।
उपोष्य पश्चाद्भुञ्जीयाद्गोधूमान्नेन वै द्विजान् ॥
तस्य त्वं तुष्टिमापन्नो नय स्थानमनुत्तमम्

33.33.30

एवमक्तस्तदा रुद्रो ब्रह्मणाऽव्यक्तजन्मना ।
दन्तान् नेत्रे फले प्रादाद्भगपूष्णोः क्रतोरपि ।
परिज्ञानं च सकलं स प्रादाच्च सुरेष्वपि

33.33.31

एवं रुद्रस्य संभूतिः संभूता ब्रह्मणः पुरा ।
अनेनैव प्रयोगेन देवानां पतिरुच्यते

33.33.32

यश्चैनं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात्

33.33

॥ इति श्रीवराहरपुराणे भगवच्छास्त्रे त्रयस्त्रिंशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc