भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 22

22.22.1

महातपा उवाच ।
तस्मिन् निवसतस्तस्य रुद्रस्य परमेष्ठिनः ।
चुकोप गौरी देवस्य पितुर्वैरमनुस्मरन्

22.22.2

चिन्तयामास दक्षस्य अनेनापकृतं पुरा ।
यज्ञो विध्वंसितो यस्मात् तस्माच्चान्यां तनूमहम्

22.22.3

आराध्य तपसा तस्य गृहे भूत्वा व्रजाम्यहम् ।
कथं गच्छामि पितरं दक्षं क्षपितबान्धवम्

22.22.4

भवपत्नी च दुहिता एवं संचिन्त्य सुन्दरी ।
जगाम तपसे शैलं हिमवन्तं महागिरिम्

22.22.5

तत्र कालेन महता क्षपयन्ती कलेवरम् ।
स्वशरीराग्निना दग्धा ततः शैलसुताऽभवत्

22.22.6

उमा नामेति महती कृष्णा चेत्यभिधानतः ।
लब्ध्वा तु शोभनां मूर्तिं हिमवन्तगृहे शुभा

22.22.7

पुनस्तपश्चकारोग्रं देवं स्मृत्वा त्रिलोचनम् ।
असावेव पतिर्मह्यमित्युक्त्वा तपसि स्थिता

22.22.8

कुर्वन्त्या तत् तपश्चोग्रं हिमवन्ते महागिरौ ।
कालेन महता देवस्तपसाराधितस्तया

22.22.9

आजगामाश्रमं तस्या विप्रो भूत्वा महेश्वरः ।
वृद्धः शिथिलसर्वाङ्गः स्खलंश्चैव पदे पदे

22.22.10

कृच्छ्रात् तस्याः समीपं तु आगत्य द्विजसत्तमः ।
बुभुक्षितोऽस्मि मे देहि भद्रे भोज्यं द्विजस्य तु

22.22.11

एवमुक्ता तदा कन्या उमा शैलसुता शुभा ।
उवाच ब्राह्मणं भोज्यं दद्मि विप्र फलादिकम् ।
कुरु स्नानं द्रुतं विप्र भुञ्जस्वान्नं यदृच्छया

22.22.12

एवमुक्तस्तदा विप्रस्तस्य पार्श्वे महानदीम् ।
गङ्गां जगाम स्नानार्थी स्नानं कर्त्तुमवातरत्

22.22.13

स्नानं तु कुर्वता तेन रुद्रेण द्विजरूपिणा ।
भूत्वा मायामयं भीमं मकरं भयदर्शनम् ।
ग्राहितस्तु तदा विप्रस्तेन दुष्टेन मद्गुना

22.22.14

दृष्ट्वा धृतमथात्मानं मकरेण बलीयसा ।
वृद्धमात्मानमन्यं तां दर्शयन् वाक्यमब्रवीत्

22.22.15

अब्रह्मण्यं गतं कन्ये धावस्वानय मां रुषः ।
यावन्नायाति विकृतिं तावन्मां त्रातुमर्हसि

22.22.16

एवमुक्ता तदा कन्या चिन्तयामास पार्वती ।
पितृभावेन शैलेन्द्रं भर्तृभावेन शंकरम् ।
स्पृशामि तपसा पूता कथं विप्रं स्पृशाम्यहम्

22.22.17

यद्येनं नापकर्षामि मकरेण जले धृतम् ।
तदानीं ब्रह्मवध्या मे भवतीति न संशयः

22.22.18

अन्यव्यतिक्रमे धर्ममपनेतुं च शक्यते ।
ब्रह्मवध्या पुनर्नैवमेवमुक्तवा गता त्वरम्

22.22.19

सा गत्वा त्वरितं भीरुर्गृहीत्वा पाणिना द्विजम् ।
चकर्षान्तर्जलात् तावत् स्वयं भूतपतिर्हरः

22.22.20

यमाराध्य तपश्चर्त्तुमारब्धं शैलपुत्राया ।
स एव भगवान् रुद्रस्तस्याः पाणौ विलम्बत

22.22.21

तं दृष्ट्वा लज्जिता देवी पूर्वत्यागमनुस्मरन् ।
न किंचिदुत्तरं सुभ्रूर्वदति स्म सुलज्जिता

22.22.22

तूष्णींभूतां तु तां दृष्ट्वा गौरीं रुद्रो हसन्निव ।
पाणौ गृहीत्वा मां भद्रे कथं त्यक्तुमिहार्हसि

22.22.23

मत्पाणिग्रहणं भद्रे वृथा यदि करिष्यसि ।
तदानीं ब्रह्मणः पुत्र्यामाहारार्थं ब्रवीम्यहम्

22.22.24

न भवेत् परिहासोऽयमुक्ता देवी परापरा ।
लज्जमाना तदा वाक्यं वदति स्मितपूर्वकम्

22.22.25

देवदेव त्रिलोकेश त्वदर्थोऽयं समुद्यमः ।
प्राग्जन्माराधितो भर्त्ता भवान् देवो महेश्वरः

22.22.26

इदानीं मे भवान् देवः पतिर्नान्यो भविष्यति ।
किन्तु स्वामी पिता मह्यं शैलेन्द्रो मे व्रजामि तम् ।
अनुज्ञाप्य विधानेन ततः पाणिं गृहीष्यसि

22.22.27

एवमुक्त्वा तदा देवी पितरं प्रति भामिनी ।
कृताञ्जलिपुटा भूत्वा हिमवन्तमुवाच ह

22.22.28

अतोऽन्यजन्मभर्त्ता मे रुद्रो दक्षमखान्तकः ।
इदानीं तपसा सैव ध्यातोऽभूद् गतिभावनः

22.22.29

स च विश्वपतिर्भूत्वा ब्राह्मणो मे तपोवनम् ।
आगत्य भोजनार्थाय याचयामास शंकरः ।
मया स्नातुं व्रजस्वेति चोदितो जाह्नवीं गतः

22.22.30

तत्रासौ वृद्धकायेन द्विजरूपेण शंकरः ।
मकरेण धृतस्तूर्णं अब्रहह्मण्यमुवाच ह

22.22.31

ब्रह्महत्याभयात् तात मया पाणौ धृतस्ततः ।
धृतमात्रः स्वकं देहं दर्शयामास शंकरः

22.22.32

ततो मामब्रवीद् देवः पाणिग्रहणमागताम् ।
भवती देवि मा किंचिद् विचारय तपोधने

22.22.33

एवमुक्ता त्वहं तेन शंकरेण महात्मना ।
तदनुज्ञाप्य देवेशं भवन्तं प्रष्टुमागता ।
इदानीं यत् क्षमं कार्यं तच्छीघ्रं संविधीयताम्

22.22.34

एवं श्रुत्वा तदा वाक्यं शैलराजो मुदा युतः ।
उवाच दुहितां धन्यां तस्मिन् काले वराननाम्

22.22.35

पुत्रि धन्योऽस्म्यहं लोके यस्य रुद्रः स्वयं हरः ।
जामाता भविता देवि त्वयाऽपत्यवतामहम् ।
स्थापितो मूर्ध्नि देवानामपि पुत्रि त्वया ह्यहम्

22.22.36

स्थीयतां क्षणमेकं तु यावदागमनं मम ।
एवमुक्त्वा गतो राजा शैलानां ब्रह्मणोऽन्तिकम्

22.22.37

तत्र दृष्ट्वा महात्मानं सर्वदेवपितामहम् ।
उवाच प्रणतो भूत्वा ब्रह्माणं शैलराट् ततः

22.22.38

देवोमा दुहिता मह्यं तां रुद्राय ददाम्यहम् ।
त्वया देव अनुज्ञातस्तत्करोमि प्रशाधि माम्

22.22.39

ततो ब्रह्मा प्रीतमना याहि रुद्राय तां शुभाम् ।
प्रयच्छोवाच देवानां तदा लोकपितामहः

22.22.40

एवमुक्तः शैलराजः स्ववेश्मागम्य सत्वरम् ।
देवानृषीन् सिद्धसंघान् चामन्त्रयत सत्वरम्

22.22.41

तुम्बुरुं नारदं चैव हाहाहूहूं तथैव च ।
स गत्वा किन्नरांश्चैव असुरान् राक्षसानपि

22.22.42

पर्वताः सरितः शैला वृक्षा ओषधयस्तथा ।
आगता मूर्त्तिमन्तो वै पर्वताः सङ्गमोपलाः ।
हिमवद्दुहितुर्द्रष्टुं विवाहं शंकरेण ह

22.22.43

तत्र वेदिः क्षितिश्चासीत् कलशाः सप्त सागराः ।
सूर्यो दीपस्तथा सोमः सरितो ववहुर्जलम्

22.22.44

एवं विवाहसामग्रीं कृत्वा शैलवराधिपः ।
प्रेषयामास रुद्राय समीपं मन्दरं गिरिम्

22.22.45

स तदा मन्दरोक्तस्तु शंकरो द्रुतमाययौ ।
विधिना सोमया पाणिं जग्राह परमेश्वरः

22.22.46

तत्रोत्सवे पर्वतनारदौ द्वौ
जगुश्च सिद्धा ननृतुर्वनस्पतीः ।
पुष्पाण्यनेकानि विचिक्षिपुः शुभाः
ननर्तुरुच्चैः सुरयोषितो भृशम्

22.22.47

तस्मिन् विवाहे सलिलप्रवाहे
चतुर्मुखो लोकपरः स्वसंस्थः ।
उवाच कन्यां भव पुत्रि लोके
नारी प्रभर्त्ता तव चान्यपुंसाम् ।
इत्येवमुक्त्वा स उमां सरुद्रां
पितामहः स्वं पुरमाजगाम

22.22.48

जामातरं पर्वतराट् सुपूज्य
विसर्जयामास विभुं स सोमम् ।
देवांश्च दैत्यान् विविधानृषींश्च
संपूज्य सर्वान् विविधैस्तु वस्तुभिः ।
विभूषणैर्वस्त्रवरान्नदानै -
र्विसर्जयामास तदाद्रिमुख्यान्

22.22.49

स वीतशोको विरजो विशुद्धः
शुभाननां देववराय दत्त्वा ।
उमां महात्मा हिमवानद्रिराजः
पैतामहे लोक इवाध्वरे भात्

22.22.50

इतीरितेयं तव राजसत्तम
प्रसूतिरेषा न विदुर्यां सुरासुराः ।
स्वयंभुदक्षादिराजः त्रिजन्मभि-
र्गौरीविवाहोऽपि मया सुकीर्तितः

22.22.51

श्रीवराह उवाच ।
एवं सा गौरिनाम्ना तु कारणान्मूर्त्तिमागता ।
संबभूव यथा प्रोक्तं प्रजापालाय पृच्छते ।
ऋषिणा महता पूर्वं तपसा भावितात्मना

22.22.52

गौर्या उत्पत्तिरेषा वै कथिता परमर्षिणा ।
विवाहश्च यथा वृत्तस्तत्सर्वं कथितं तव

22.22.53

एतत्सर्वं तु गौर्या वै संपन्नं तु तृतीयया ।
तस्यां तिथौ तृतीयायां लवणं वर्जयेन्नरः ।
यश्चोपोष्यति नारी वा सा सौभाग्यं तु विन्दति

22.22.54

दुर्भगा या तु नारी स्यात् पुरुषश्चातिदुर्भगः ।
एतच्छ्रुत्वा तृतीयायां लवणं तु विवर्जयेत्

22.22.55

सर्वकामानवाप्नोति सौभाग्यं द्रव्यसम्पदम् ।
आरोग्यं च सदा लोके कान्तिं पुष्टिं च विन्दति

22.22

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्वाविंशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc