वराह पुराण · अध्याय 216
अथ गोकर्णशृंगेश्वरादिमाहात्म्यम् ॥
ब्रह्मोवाच ॥
तस्मात्स्थानादपक्रान्ते त्र्यम्बके मृगरूपिणि ॥
अन्योऽन्यं मन्त्रयित्वा तु मया सह सुरोत्तमाः
त्रिधाविभक्तं तच्छृङ्गं पृथक्पृथगवस्थितम् ॥
सम्यक्स्थापयितुं देवा विधिदृष्टेन कर्मणा
स्थापितं देवि नीत्वा वै शृंगाग्रं वज्रपाणिना ॥
मया तत्रैव तन्मध्यं स्थापितं विधिवत्प्रभोः
देवैर्देवर्षिभिश्चैव सिद्धैर्ब्रह्मर्षिभिस्तथा ॥
गोकर्ण इति विख्यातिः कृता वैशेषिकी वरा
विष्णुना देवतीर्थेन तन्मूलं स्थापितं ततः ॥
तस्य शृङ्गेश्वर इति नाम तत्राभवन्महत्
तत्र तत्रैव भगवांस्तस्मिन्शृंगे त्रिधा स्थिते ॥
सान्निध्यं कल्पयामास भागेनैकेन चोन्मना
शतं तेन तु भागानामात्मनो निहितं मृगे ॥
तस्माद्द्विकं तु भागानां शृंगाणां त्रितये न्यधात्
मार्गेण तच्छरीरेण निर्ययौ भगवान्विभुः ॥
शैशिरस्य गिरेः पादं प्रपेदे स्वयमात्मनः
शतसंख्या स्मृता व्युष्टिस्तस्मिञ्छैलेश्वरे विभोः ॥
त्रिधा विभक्ते शृंगेऽस्मिन्नेकाग्रगतिनिप्रभोः
ततः सुरासुरगुरुर्देवं भूतमहेश्वरम् ॥
तपसोऽग्रेण संसेव्य वव्रिरे विविधान्वरान्
देवदानवगन्धर्वाः सिद्धयक्षमहोरगाः ॥
श्लेष्मातकवनं कृत्स्नं सर्वतः परिमण्डलम्
तीर्थयात्रां पुरस्कृत्य प्रादक्षिण्यं च चक्रतुः ॥
फलान्निर्द्दिश्य तीर्थानां तथा क्षेत्रफलं महत्
यथास्थानानि ते तस्मान्निवृत्ताश्च सुरादयः ॥
एवं तस्मान्निवृत्तेषु दैवतेषु तदा ततः
पौलस्त्यो रावणो नाम भ्रातृभिः सह राक्षसैः ॥
आगम्योग्रेण तपसा देवमाराधयद्विभुम्
शुश्रूषया च परया गोकर्णेश्वरमव्ययम् ॥
यदा तु तस्य तुष्टो वै वरदः शंकरः स्वयम्
तदा त्रैलोक्यविजयं वरं वव्रे स राक्षसः ॥
प्रसादात्तस्य तत्सर्वं वाञ्छितं मनसा हि यत्
अवाप्य च दशग्रीवस्तदिष्टं परमेश्वरात् ॥
त्रैलोक्यविजयायाशु तत्क्षणादेव निर्ययौ
त्रैलोक्यं स विनिर्जित्य शक्रं च त्रिदशाधिपम् ॥
तदुत्पाट्यानयामास पुत्रेणेन्द्रजिता सह
शृंगाग्रं यत्पुरा नीत्वा स्थापितं वज्रपाणिना ॥
तदुत्पाट्यानयामास पुत्रेणेन्द्रजिता सह
तद्यावद्रावणः स्थाप्य मुहूर्त्तमुदधेस्तटे ॥
सन्ध्यामुपासते तत्र लग्नस्तावदसौ भुवि
न शशाक यदा रक्षस्तदुत्पाटयितुं बलात् ॥
वज्रकल्पं समुत्सृज्य तदा लंकां विनिर्ययौ
स तु दक्षिणगोकर्णो विज्ञेयस्ते महामते ॥
स्वयं प्रतिष्ठितस्तत्र स्वयं भूतपतिः शिवः
एतत्ते कथितं सर्वं मया विस्तरतो मुने ॥
यथावदुत्तरस्तस्य गोकर्णस्य महात्मनः
दक्षिणस्य च विप्रर्षे तथा शृंगेश्वरस्य च॥
शैलेश्वरस्य च विभो स्थित्युत्पत्तिर्यथाक्रमम्
व्युष्टिः क्षेत्रस्य महती तीर्थानां च समुद्भवः ॥
प्रोक्तं सर्वं मया वत्स किमन्यच्छ्रोतुमिच्छसि
इति श्रीवराहपुराणे गोकर्णशृंगेश्वरादीनां माहात्म्यं नाम षोडशाधिकद्विशततमोऽध्यायः
मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0