भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 208

208.1

अथ पतिव्रतोपाख्यानवर्णनम् ॥
ऋषिपुत्र उवाच ॥
मुहूर्त्तस्य तु कालस्य दिव्याभरणभूषितान् ॥
प्रयातान्दिवि संप्रेक्ष्य विमानैः सूर्यसन्निभैः

208.2

ब्राह्मणास्तपसा सिद्धाः सपत्नीकाः सबान्धवाः ॥
सानुरागा ह्युभयतो मन्युनाभिपरिप्लुताः

208.3

विवर्णवदनो राजा प्रभातेजोविवर्जितः ॥
अचिरादेव सञ्जातः क्रोधेन भृशदुःखितः

208.4

तं तथा निष्प्रभं दृष्ट्वा धर्मराजं तपोधनः ॥
नारदश्चाब्रवीत्तत्र ज्ञात्वा तस्य मनोगतम्

208.5

अपि त्वं भ्राजमानस्तु पशोः पतिरिवापरः ॥
कस्मात्ते शोभनं वक्त्रं क्षणाद्वैवर्ण्यमापतत्

208.6

विनिःश्वसन्यथा नागः कस्मात्त्वं परितप्यसे ॥
राजन्कस्माद्बिभेषि त्वमेतदिच्छामि वेदितुम्

208.7

यम उवाच ॥
विवर्णं जायते वक्त्रं शुष्यते न च संशयः ॥
यन्मया हीदृशं दृष्टं श्रूयतां तन्महामुने

208.8

यायावरास्तु ये विप्रा उञ्छवृत्तिपरायणाः ॥
दृढस्वाध्यायतपसो ह्रीमन्तो ह्यनसूयकाः

208.9

अतिथिप्रियकाश्चैव नित्ययुक्ता जितेन्द्रियाः ॥
ते त्वहंमानिनः सर्वे गच्छन्त्युपरि मे द्विज

208.208.10

न च मामुपतिष्ठन्ति न चैव वशगा मम ॥
मस्तकं मम गच्छन्ति सपत्नीकाः सहानुगाः

208.11

दिव्यगन्धैर्विलिप्ताङ्गा माल्यभूषितवाससः ॥
सृजन्तो मम माल्यानि तेन ताम्ये द्विजोत्तम

208.12

मृत्यो तिष्ठसि कस्यार्थे को वा मृत्युः कथं भवेत् ॥
कि त्वं न भाषसे मृत्यो ब्रूहि लोके निरर्थकः

208.13

लोभासक्तान्सदा हंसि पापिष्ठान्धर्मवर्जितान् ॥
एषां तपसि सिद्धानां नाहं विग्रहवानिह

208.14

निग्रहानुग्रहौ नापि मया शक्यौ महात्मनाम् ॥
कर्त्तुं वा प्रतिषेद्धुं वा तेन तप्ये भृशं मुने .

208.15

एतस्मिन्नन्तरे तत्र विमानेन महाद्युतिः ॥
पतिव्रता समं भर्त्रा सानुगा सपरिच्छदा

208.16

महता तूर्यघोषेण सम्प्राप्ता प्रियदर्शना ॥
धर्मराजहितं सर्वं धर्मज्ञा धर्मवत्सला

208.17

साब्रवीत्तु विमानस्था साधयन्ती शुभाङ्गना ॥
विचित्रं प्रसृतं वाक्यं सर्वसत्त्वसुखावहम्

208.19

पतिव्रतोवाच॥
धर्मराज महाबाहो कृतज्ञः सर्वसम्मतः ॥
मैवमीर्षां कुरुष्व त्वं ब्राह्मणेषु तपस्विसु॥
एतेषां तपसां वीर माहात्म्यं बलमेव च ॥
अचिन्त्याः सर्वभूतानां ब्राह्मणा वेदपारगाः

208.208.20

ब्राह्मणाः सततं पूज्या ब्राह्मणाः सर्वदेवताः ॥
मात्सर्यं क्रोधसंयुक्तं न कर्त्तव्यं द्विजातिषु

208.21

त्वया शुभाशुभं कर्म नित्यं पूजा मनस्विनाम् ॥
रागो वा रोषमोहौ वा न कर्तव्यौ सदा सताम्

208.22

प्रयाता गगने दृष्टा विद्युत्सौदामिनी यथा ॥
दृष्ट्वा पतिव्रतां नारीं धर्मराजेन पूजिताम्

208.23

अब्रवीन्नारदस्तत्र धर्मराजं तथागतम्

208.24

नारद उवाच ॥
का चैषा सुमहाभागा सुरूपा प्रमदोत्तमा ॥
या त्वया पूजिता राजन् हितमुक्त्वा गता पुनः

208.25

एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे ॥
एतन्मे सुमहाभाग कथयस्व समासतः

208.26

यम उवाच ॥
अहं ते कथयिष्यामि कथां परमशोभनाम् ॥
एषा मया यथा तात पूजितापि च कृत्स्नशः

208.27

पुरा कृतयुगे तात निमिर्नाम महायशाः ॥
आसीद्राजा महातेजाः सत्यसन्ध इति श्रुतः

208.28

तस्य पुत्रो मिथिर्नाम जननाज्जनकोऽभवत् ॥
तस्य रूपवती नाम पत्नी प्रियहिते रता

208.29

सा चाप शुभकर्माणि पतिभक्ता पतिव्रता ॥
प्रीत्या परमया युक्ता भर्त्तुर्वचनकारिणी

208.208.30

सोऽपि राजा महाभागः सर्वभूतहिते रतः ॥
धर्मात्मा च महात्मा च सत्यसन्धो महातपाः

208.31

य इमां पृथिवीं सर्वां धर्मेण परिपालयन् ॥
न व्याधिर्न जरा मृत्युस्तस्मिन्राजनि शासति

208.32

ववर्ष सततं देवस्तस्य राष्ट्रे महाद्युतेः ॥
एवं बहुगुणोपेतं तस्य राज्यं महात्मनः

208.33

न कश्चिद् दृश्यते मर्त्यो रुजार्त्तो दुःखितोऽपि वा ॥
अथात्र बहुकालस्य राजानं मिथिलाधिपम्

208.34

उवाच राज्ञी विप्रेन्द्र विनयात्प्रश्रितं वचः

208.35

राज्ञ्युवाच ॥
भृत्यानां च द्विजातीनां तथा परिजनस्य च ॥
यदस्ति द्रविणं किंचित्पृथिव्यां यद्गृहे च ते

208.36

विनियुक्तं तु तत्सर्वं सान्निध्यं तु तथा त्वया ॥
न च राजन्विजानासि भोजनस्य प्रशंससि

208.37

नास्ति तन्नियमः कश्चित्पुष्पमूल्यं च नास्ति नः ॥
न वा गवादिकं किंचिन्न च वस्त्राणि कर्हिचित्

208.38

न चैव वार्षिकः कश्चिद्विद्यते भाजनस्य च ॥
दृश्यते हि महाराज मम चैवाथ सुव्रत

208.39

यत्कर्तव्यं मया वापि तन्मे ब्रूहि नराधिप ॥
कर्त्र्यस्म्यहं विशेषेण यद्वाक्यमपि मन्यसे

208.208.40

राजोवाच ॥
न शक्यमुपरोधेन वक्तुं भामिनि विप्रियम् ॥
न च पश्याम्यहं देवि तव चैव जनस्य च

208.41

तद्ब्रवीमि यथाशक्त्या यदि मे मन्यसे प्रिये ॥
हविष्ये वर्त्तमानानामिदं वर्षशतं गतम्

208.42

कुद्दालेन हि काष्ठेन क्षेत्रं वै कुर्महे प्रिये ॥
ततो धर्मविधिं तत्त्वात्प्राप्नुयां मे न संशयः

208.43

।
भक्ष्यं भोज्यं च ये ये च ततस्त्वं सुखमाप्स्यसि ॥
एवमुक्ता ततो राज्ञी राजानमिदमब्रवीत्

208.44

देव्युवाच ॥
भृत्यानां तु सहस्राणि तव राजन्निवेशने ॥
अश्वानां च गजानां च सैरिभानां तथैव च

208.45

उष्ट्राणां महिषाणां च खराणां च महायशाः ॥
एते सर्वे कथं राजन्न कुर्वन्ति तवेप्सितम्

208.46

राजोवाच ॥
नियुक्तानि हि कर्माणि वार्षिकाणीतराणि च ॥
सर्वकर्माणि कुर्वन्ति ये भृत्या मे वरानने

208.47

बलीवर्दाः खरा अश्वा गजा उष्ट्रा ह्यनेकशः ॥
सर्वे नियुक्ता मे देवि सर्वकर्मसु शोभने

208.48

आयसं त्रापुषं ताम्रं राजतं कांचनं तथा ॥
नियुक्तानि तु सर्वाणि सर्व कर्मस्वनिन्दिते

208.49

ननु पश्याम्यहं देवि किंचिद्धैमं न चायसम् ॥
येन कुर्यामहं देवि कुद्दालं सुसमाहितः

208.208.50

एवमुक्ता महादेवी तेन राज्ञा सुशोभना ॥
हृष्टपुष्टमना देवी राजानमिदमब्रवीत्

208.51

गच्छ राजन्यथाकाममनुयास्यामि पृष्ठतः ॥
एवमुक्तः सुनिष्क्रान्तः सभार्यः स नरेश्वरः

208.52

ततो राजा च देवी च क्षेत्रं मृगयतस्तदा ॥
गतौ च परमाध्वानं ततो राजाब्रवीदिदम्

208.53

इदं भद्रं मम क्षेत्रमास्स्वात्र वरवर्णिनि ॥
यावद्गुल्मानिमान् भद्रे कण्टकांश्च वरानने

208.54

अहं छिनद्मि वै देवि त्वमेताञ्छोधय प्रिये ॥
एष ते कर्म योगस्तु ततः प्राप्स्यामि चेप्सितम्

208.55

एवमुक्ता महादेवी तेन राज्ञा तपोधन ॥
उवाच मधुरं वाक्यं प्रहसन्ती नृपाङ्गना

208.56

वृक्षोऽत्र दृश्यते पार्श्वे सौवर्णो गुल्म एव च ॥
पानीयस्य तु सान्निध्यं न किंचिदिह दृश्यते

208.57

कथं क्षेत्रं करिष्यावो हृद्रोगस्य तु कारकम् ॥
इयं नदी ह्ययं वृक्ष इयं भूमिः समांसला

208.58

अस्मिन्वापि कृतं कर्म कथं गुणकरं भवेत् ॥
तस्यास्तद्वचनं श्रुत्वा राजा वचनमब्रवीत्

208.59

शुभं सानुनयं वाक्यं भूतानां गुणवत्सलः ॥
पूर्वगृहे भवेत्पूर्वं विनियुक्तं तथा प्रिये

208.208.60

पानीयस्य तु पार्श्वेन सन्निकृष्टेन सुन्दरि ॥
चतुर्थं जनपर्यन्तं न किंचिदिह दृश्यते

208.61

अयं गृहो महादेवि न च बाधाऽत्र कस्यचित् ॥
ततस्तच्छोधयामास तत्क्षेत्रं भार्यया सह

208.62

वियन्मध्ये तथोग्रश्च सविता तपते सदा ॥
समृद्धश्च तदा तत्र निदाघः काल आगतः

208.63

प्रवृद्धो दारुणो घर्मः कालश्चैवातिदारुणः ॥
ततः सा तृषिता देवी क्षुधिता च तपस्विनी

208.64

स्निग्धौ ताम्रतलौ पादौ तस्यां सन्तापमागतौ ॥
गुणप्रवाहरक्तौ तु तस्याः पादौ च सुव्रत

208.65

सूर्यस्य पादा मध्याह्ने तापयन्त्यग्निसन्निभाः ॥
ततः सा व्यथिता देवी भर्त्तारमिदमब्रवीत्

208.66

तृषितास्मि महाराज भृशमुष्णेन पीडिता ॥
पानीयं दीयतां राजन्मम शीघ्रं प्रसादतः

208.67

इत्युक्त्वा पतिता देवी विह्वला दुःखपीडिता ॥
पतन्त्या च तया सूर्यो दृष्टो विह्वलया तथा

208.68

यदृच्छया पतन्त्या तु सूर्यः कोपेन वीक्षितः ॥
ततो विवस्वान् भगवान् सन्त्रस्तो गगने तदा

208.69

दिवं मुक्त्वा महातेजाः पतितो धरणीतले ॥
ततो दृष्ट्वा तु राजाऽसौ स्वभावेन च वर्जितम्

208.208.70

किमर्थमिह तेजस्विंस्त्यक्त्वा मण्डलमागतः ॥
किं करोमि महातेजाः सर्वलोकनमस्कृतः

208.71

एवं ब्रुवन्तं राजानं सूर्यः सानुनयोऽब्रवीत् ॥
पतिव्रता शुभाक्षी च ममैषा रुषिता भृशम्

208.72

ततोऽहं पतितो राजंस्तव कार्यानुशासनः ॥
अनया सदृशी नारी त्रैलोक्ये नैव विद्यते

208.73

पृथिव्यां स्वर्गलोके वा न काचिदिह दृश्यते ॥
अहोऽस्याः परमं सत्त्वमहोऽस्याः परमं तपः

208.74

अहो धैर्यं च शक्तिश्च तवैवं शंसिता गुणाः॥
तथेयं ते महाभाग तव चित्तानुसारिणी

208.79

अनुरूपा विशुद्धा च तपसा च वराङ्गना॥
पतिव्रता च साध्वी च नित्यं तव हिते रता

208.76

सदृशी ते महाभाग शक्रस्येव यथा शची ॥
पात्रं पात्रवता प्राप्तं सुकृतस्य महत्फलम्

208.77

अनुरूपः सुरूपो वा यतो जातः सुयन्त्रितः ॥
मा च ते वितथः कामो भवेच्चैव नराधिपः

208.78

कुरुष्व दयितं क्षेत्रं यथा मनसि वर्त्तते ॥
भोजनार्थं महाराज त्वदन्यो न हि विद्यते

208.79

फलदं च यशस्यं च भविष्यति हि कामदम्॥
एवमुक्त्वा ततः सूर्यः ससर्ज जलभाजनम्

208.208.80

उपानहौ च छत्रं च दिव्यालंकार भूषितम् ॥
ददौ च राज्ञे सविता प्रीत्या परमया युतः

208.81

उपभोक्तुं सुखस्यार्थं सुपुण्यस्य विशेषतः ॥
दत्त्वा तत्पुण्यकर्माणं ततः प्राह दिवाकरः

208.82

एवमुक्त्वा तु भगवांस्तथा तत्कृतवान् क्वचित् ॥
राज्ञा च जनकेनैव प्रियाया हितकाम्यया

208.83

ततः साप्यायिता देवी तोयेन शुभलक्षणा ॥
लब्धसंज्ञा गतभया राजानमिदमब्रवीत्

208.84

देवी दृष्ट्वा तदाश्चर्यं विस्मयोत्फुल्ललोचना ॥
केन दत्तं शुभं तोयं दिव्यं छत्रमुपानहौ

208.85

एतन्मे संशयं राजन्कथयस्व तपोधन ॥
राजोवाच ॥
एष देवो महादेवि विवस्वान्नाम नामतः

208.86

तवानुकम्पया देवि मुक्त्वाकाशमिहागतः ॥
एवमुक्ता तु सा देवी भर्त्तारमिदमब्रवीत्

208.87

करवाण्यस्य कां प्रीतिं ज्ञायतामस्य वाच्छितम् ॥
ततो राजा महातेजाः प्रणिपत्य कृताञ्जलिः

208.88

विज्ञापयामास तदा भगवन् किं करोमि ते ॥
एवमुक्तो नरेन्द्रेण सूर्यो वचनमब्रवीत्

208.89

अभयं मे महाराज स्त्रीभ्यो भवतु मानद ॥
तच्छ्रुत्वा वचनं तस्य भास्करस्य तु मानदः

208.208.90

तां प्रियां प्रीतहृदयां श्रावयंस्तस्य भाषितम् ॥
राज्ञस्तु वचनं श्रुत्वा देवी वचनमब्रवीत्

208.91

प्रीत्या परमया युक्ता तस्य राज्ञो मनःप्रिया ॥
रश्मीनां तारणार्थाय छत्रं दत्त्वा तु कुण्डिकाम्

208.92

इमौ चोपानहौ दत्त्वा चौभौ पादस्य शङ्करौ ॥
अभयं ते महाभाग यथा त्वं वृतवानसि

208.93

एवं पतिव्रतां विप्र पूजयामि नमामि च

208.208

इति श्रीवराहपुराणे संसारचक्रे पतिव्रतोपाख्यानं नाम अष्टाधिकद्विशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc