वराह पुराण · अध्याय 206
अथ शुभकर्मफलोदय प्रकरणम् ॥
ऋषिरुवाच ॥
चित्रगुप्तस्य सन्देशो वदतो यो मया श्रुतः ॥
श्रूयतां वै महाभागास्तपःसिद्धा द्विजोत्तमाः
इमं सर्वातिथिं दान्तं सर्वभूतानुकम्पकम् ॥
समान्नदानदातारं शेषभोजनभोजिनम्
मुञ्च मुञ्च महाभृत्य चैष धर्मस्य निर्णयः ॥
अहं कालेन सार्द्धं हि मृत्युना प्रकृतस्तथा
मम स्थास्यन्ति पार्श्वेषु पापा वै विकृतास्तथा ॥
एनं गास्यन्ति गन्धर्वा गगनेऽप्सरसस्तथा
दीयतामासनं दिव्यं तथान्यद्यानमेव च ।
अन्यान्यान्कामयेत्कामान्मनसा यानि चेच्छति
तत्तु शीघ्रं प्रदातव्यं धर्मराजस्य शासनात् ॥
अक्रियाणि तु दानानि पूर्वं दत्तानि धीमता
प्रेक्षतां च महाभागो भोक्तुं चैव सहानुगः ॥
तिष्ठत्येषोऽत्र वै वीरो ममादेशान्महायशाः
।
यावत्स्वर्गाद्विमानानि समागच्छन्ति कृत्स्नशः ॥
ततः स प्रवरैर्यानैः सानुगः सपरिच्छदः
देवानां भवनं यातु दैवतैरभिपूजितः ॥
तत्रैव रमतां वीरो यावल्लोको हि धार्यते
स कृतार्थः सदा लोके यत्रैषोऽभिप्रयास्यति ॥
तत्र मेध्यं पवित्रं च यत्र स्थास्यत्ययं शुचिः
नैककन्याप्रदातारं नैकयज्ञकृतं तथा ॥
पूज्यतां सर्वकामैस्तु पदं गच्छतु वैष्णवम्
तत्रैष रमतां धीरः सहस्रमयुतं समाः ॥
ततो वै मानुषे लोके आद्ये वै जायतां कुले
भूतानुकम्पको ह्येष क्रियतामस्य चार्च्चनम् ॥
वर्षाणामयुतं चायं तत्र तिष्ठतु देववत्
जायते तु ततः पश्चात्सर्वमानुषपूजितः ॥
उपानहौ च छत्रं च जलभाजनमेव च
असकृद्येन दत्तानि तस्मै पूजां प्रयच्छथ ॥
सभा यत्र प्रवर्त्तन्ते यस्मिन्देशे सहस्रशः
हस्तेन संस्पृशत्येष मृदुना शीतलेन च ॥
विद्याधरस्तथा ह्येष नित्यं मुदितमानसः
महापद्मानि चत्वारि तस्मिंस्तिष्ठन्तु नित्यशः ॥
ततश्च्युतश्च कालेन मानुषं लोकमास्थितः
बहुसुन्दरनारीके कुले जन्म समाप्नुयात् ॥
दधि क्षीरं घृतं चैव येन दत्तं द्विजातिषु
एष वा यातु नः पार्श्वमस्मै पूजां प्रयच्छथ ॥
नीयतां नीयतां शीघ्रं यत्रयत्र न चालयेत्
गोरसस्य तु पूर्णानि भाजनानि सहस्रशः ॥
यत्र दत्त्वा च पीत्वा च बान्धवेभ्यो विभागशः
ततः पश्चादयं यातु यत्र लोकोऽनसूयकः ॥
तत्रैव रमतां धीरो बहुवर्षशतान्ययम्
बहुसुन्दरनारीभिः सेव्यमानो महातपाः ॥
अमराख्यो भवेत्तत्र गोलोकेषु समाहितः
इदमेवापरं चैव चित्रगुप्तस्य भाषितम् ॥
सर्वदेवमया देव्यः सर्ववेदमयास्तथा
अमृतं धारयन्त्यश्च प्रचरन्ति महीतले ॥
तीर्थानां परमं तीर्थमतस्तीर्थं न विद्यते
पवित्रं च पवित्राणां पुष्टीनां पुष्टिरेव च ॥
तस्मात्पुरस्तु दातव्यं गवां वै मेध्यकारणात्
दघ्ना हि त्रिदशाः सर्वे क्षीरेण च महेश्वरः ॥
घृतेन पावको नित्यं पायसेन पितामहः
सकृद्दत्तेन प्रीयन्ते वर्षाणां हि त्रयोदश ॥
तां दत्त्वा चैव पीत्वा च प्रीतो मेध्यस्तु जायते
पंचगव्येन पीतेन वाजिमेधफलं लभेत् ॥
गव्यं तु परमं मेध्यं गव्यादन्यन्न विद्यते
दन्तेषु मरुतो देवा जिह्वायां तु सरस्वती ॥
खुरमध्ये तु गन्धर्वाः खुराग्रेषु तु पन्नगाः
सर्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने ॥
ककुदे सर्वक्षत्राणि लांगूले धर्म आश्रितः
अपाने सर्वतीर्थानि प्रस्रावे जाह्नवी नदी ॥
नानाद्वीपसमाकीर्णाश्चत्वारः सागरास्तथा
ऋषयो रोमकूपेषु गोमये पद्मधारिणी ॥
रोमे वसन्ति विद्याश्च त्वक्केशेष्वयनद्वयम्
धैर्यं धृतिश्च शान्तिश्च पुष्टिर्वृद्धिस्तथैव च ॥
स्मृतिर्मेधा तथा लज्जा वपुः कीर्त्तिस्तथैव च
विद्या शान्तिर्मतिश्चैव सन्ततिः परमा तथा ॥
गच्छन्तमनुगच्छन्ति ह्येता गावो न संशयः
यत्र गावो जगत्तत्र देवदेवपुरोगमाः ॥
यत्र गावस्तत्र लक्ष्मीः सांख्यधर्मश्च शाश्वतः
सर्वरूपेषु ता गावस्तिष्ठन्त्यभिमतास्तथा ॥
भवनेषु विशालेषु सर्वप्रासादपङ्क्तिषु
स्त्रियश्च पुरुषाश्चैव रक्षन्तश्च सुयन्त्रिताः ॥
शयनासनपानेषु ह्युपविष्टाः सहस्रशः
क्रीडन्ति विविधैर्भोगैर्भोगेषु च सहस्रशः ॥
तत्र पानगृहेष्वन्ये पुष्पमालाविभूषिताः
भक्ष्याणां विविधानां च भोजनानां च संचयात् ॥
शयनासनपानानि वाजिनो वारणांस्तथा
अपश्यन्विविधास्तत्र स्त्रियश्च शुभलोचना ॥
शोभयन्ति स्त्रियः काश्चिज्जलक्रीडा गतास्तथा
उद्यानेषु तथा चान्या भवनेषु च पुण्यतः ॥
अनेन सदृशं नास्ति ह्यस्मादन्यन्न विद्यते
अहो सूत्रकृतं शिल्पमहोरत्नैरलंकृतम् ॥
एवं गृहाद्गृहं गच्छन्नहं तत्र ततस्तमः
ततस्तु निखिलं सम्यग्दृष्ट्वा कर्म महोदयम् ॥
पुनरेवागतः पार्श्वं यमस्य द्विजसत्तमाः
इति श्रीवराहपुराणे संसारचक्रे शुभकर्मफलोदयो नाम षडधिकद्विशततमोऽध्यायः
मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0