भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 199

199.1

पुनः संसारचक्रयातनास्वरूपवर्णनम् ॥
ऋषिपुत्र उवाच ॥
तस्मिन् क्षितितलं सर्वमायसैः कण्टकैश्चितम् ॥
प्रभवन्ति पुनः केचिद्विषमं तमसाश्रितम्

199.2

अथान्ये छिन्नपादास्तु छिन्नपाणिशिरोधराः ॥
पापाचारास्तथा देशादुपसर्पत मा चिरम्

199.3

ये तु धर्मरता दाता वपुष्मन्तो यथा गृहे ॥
परिपान्ति क्षितिं सर्वे पात्यन्ते पापकारिणः

199.4

याचमानाः स्थिता नित्यं सुशीतैस्तोयभोजनैः ॥
स्त्रियः श्रीरूपसंकाशाः सुकुमाराः सुभोजनाः

199.5

कृत्वा पूजां परां तत्र प्रतीक्षन्ते परं जनम्॥
अग्नितप्ते सुघोरे च निक्षिप्यन्ते शिलातले

199.6

आलोके च प्रदर्श्यन्ते वृक्षाश्च भुवनानि च॥
आयान्ति दह्यमानेषु पृष्ठपादोदरेषु च

199.7

तत्र गत्वा तु ते दूताः प्रविशन्ति सुदारुणाः॥
क्लिश्यन्ति बहवस्तत्र त्रातारं नाप्नुवन्ति ते

199.8

अथान्ये तु श्वभिर्घोरैरापादतलमस्तकम् ॥
भक्ष्यमाणा रुदन्तश्च क्रोशन्तश्च पुनःपुनः

199.9

अथान्ये तु महारूपा महादंष्ट्रा भयानकाः ॥
सूचीमुखं कृताः पापाः क्षुधितास्तृषितास्तथा

199.199.10

अन्नानि दीयमानानि भक्ष्याणि विविधानि च॥
भोज्यानि लेह्यचोष्याणि यैर्निषिद्धं दुरात्मभिः

199.11

अयःशरमयी नारी वह्नितप्ता सुदारुणा ॥
आलिङ्गति नरं तत्र धावन्तं चानुधावति

199.12

धावन्तं चानुधावंती त्विदं वचनमब्रवीत्॥
अहं ते भगिनी पाप ह्यहं भार्या सुतस्य ते

199.13

मातृष्वसा ते दुर्बुद्धे मातुलानी पितृष्वसा ॥
गुरुभार्या मित्रभार्या भ्रातृभार्या नृपस्य च

199.14

श्रोत्रियाणां द्विजातीनां जाया वै धर्षितास्त्वया॥
मोक्ष्यसे न हि पापात्त्वं रसातलगतो यथा

199.15

किं प्रधावसि निर्लज्ज व्यसनैश्चोपपादितः॥
हनिष्येऽहं ध्रुवं पाप यथा कर्म त्वया कृतम्

199.16

एवं वै बोधयन्तीह श्रावयन्ति पुनःपुनः॥
अभिद्रवन्ति तं पापं घोररूपा भयानकाः।

199.17

ज्ञानिनां च सहस्रेषु जातं जातं तथा स्त्रियः ॥
अनुपीड्य दुरात्मानं धर्षयंति सुदारुणम्

199.18

वृषलीर्बहुलैर्दुःखैः किं क्रन्दसि पुनः पुनः ॥
किं क्रन्दसि सुदुर्बुद्धे परिष्वक्तः स्वयं मया

199.19

दशधा त्वं मया पाप नीयमानः पुनःपुनः ॥
अञ्जलिं वापि कुर्वाणो याचमानो न लज्जसे

199.199.20

न मोक्ष्यसे मया पाप कुतो गच्छसि मूढ वै ॥
यत्र यत्र प्रयासि त्वमिति गत्वा यमालये

199.21

तत्र तत्रैव पाप त्वां न त्यक्ष्ये पारदारिकम् ॥
लोहयष्टिप्रहारैश्च ताडयन्ति पुनःपुनः

199.22

गोपाला इव दण्डेन कालयन्तो मुहुर्मुहुः ॥
व्याघ्रसिंहसृगालैश्च तथा गर्दभराक्षसैः

199.23

भक्ष्यन्ते श्वापदैरन्यैः श्वभिः काकैस्तथाऽपरे ॥
असिं तालवनं तत्र धूमज्वालासमाकुलम्

199.24

दावाग्निसदृशाकारं प्रदीप्तं सर्वतोऽर्चिषा ॥
तत्र क्षिप्त्वा ततः पापं यमदूतैः सुदारुणैः

199.29

दह्यमानान्सुतप्तांश्च संश्रयन्ते द्रुमान्पुनः ॥
असिपत्रैस्ततो वृक्षाच्छिन्दन्ति बहुशो नरान्

199.26

तत्र छिन्नाश्च दग्धाश्च हन्यमानाश्च सर्वशः ॥
विधृष्टा विकृताश्चैव दह्यमाना नदन्ति ते

199.27

असितालवनद्वारि ये तिष्ठन्ति महारथाः ॥
पापकर्मसमायुक्तास्तर्जयन्ति सुदारुणाः

199.28

भो भो पापसमाचारा धर्मसेतुविनाशकाः ॥
अतो निमित्तं पापिष्ठा यातनाभिः सहस्रशः

199.29

अनुभूयेह तत्सर्वं मानुष्यं यदि यास्यथ ॥
कुलेषु सुदरिद्राणां गर्भवासेन पीडिताः

199.199.30

भोगैश्च पीडिता नित्यं उत्पत्स्यथ सुदुर्गताः॥
अग्निज्वालानिभास्तत्र अग्निस्पर्शा महारवाः

199.31

पक्षिणश्चायसैस्तुण्डैर्व्याघ्राश्चैव सुदारुणाः ॥
तत्र घोरा बहुविधाः क्रव्यादाः श्वादयस्तथा

199.32

खादंति रुषितास्तत्र बहवो हिंसका नरान् ॥
ऋक्षद्वीपिसमाकीर्णे बहुकीटपिपीलिके

199.33

असितालवने विप्रा बहुदुःखसमाकुले ॥
तत्र क्षिप्ता मया दृष्टा यमदूतैर्महाबलैः

199.34

असिपत्र सुभग्नाङ्गाः शूललग्नास्तथाऽपरे ॥
तथाऽपरो महादेशो नानारूपो भयानकः

199.35

पुष्करिण्यश्च वाप्यश्च ह्रदा नद्यस्तथैव च ॥
तडागानि च कूपाश्च रुधिरस्य सहस्रशः

199.36

पूतिमांसकृमीणां च अमेध्यस्य तथैव च॥
अन्यानि च मया तत्र दृष्टानि मुनिसत्तमाः

199.37

तत्र क्लिश्यन्ति ते पापास्तस्मिन्मध्ये सहस्रशः ॥
जिघ्रन्तश्च तथा गन्धं मज्जन्तश्च सहस्रशः

199.38

अस्थिपाषाणवर्षाणि रुधिरस्य बलाहकाः ॥
अश्मवर्षाणि ते घोराः पातयन्ति सहस्रशः

199.39

धावतां प्लवतां चैव हा हतोऽस्मीति भाषिणाम् ॥
प्राहतानां पुनः शब्दो वध्यतां च सुदारुणः

199.199.40

क्रन्दतां करुणोन्मिश्रं दिशोऽपूर्यन्त सर्वशः॥
क्वचिद्बद्धः क्वचिद्रुद्धः क्वचिद्विद्धः सुदारुणैः

199.41

क्वचित्स्थूलैस्तथा बद्धः उद्बद्धश्च क्वचित्तथा ॥
हाहाभयानकोन्मिश्रः शब्दोऽश्रूयत दारुणः

199.42

अपश्यं पुनरन्यत्र यत्स्मृत्वा चोद्विजेन्नरः

199.199

इति श्रीवराहपुराणे संसारचक्रे यातनास्वरूप वर्णनं नाम नवनवत्यधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc