भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 187

187.1

अथ सृष्टिपितृयज्ञौ ॥
सूत उवाच ॥
एवं नारायणाच्छ्रुत्वा सा मही संशितव्रता ॥
कराभ्यामञ्जलिं कृत्वा माधवं पुनरब्रवीत्

187.2

धरण्युवाच ॥
श्रुतमेतन्मयाख्यानं क्षेत्रस्य च महत्फलम् ॥
एकं मे परमं गुह्यं तद्भवान्वक्तुमर्हति

187.3

पितृयज्ञस्य माहात्म्यं सोमदत्तो नराधिपः ॥
मृगयां समुपागम्य यत्त्वया पूर्वभाषितम्

187.4

को गुणः पितृयज्ञस्य कथमेव प्रयुज्यते ॥
केन चोत्पादितं श्राद्धं कस्मिन्नर्थे किमात्मकम्

187.5

एतदिच्छाम्यहं श्रोतुं विस्तरेण वदस्व मे॥
श्रीवराह उवाच ॥
साधु भूमे महाभागे यन्मां त्वं परिपृच्छसि

187.6

मोहितासि वरारोहे भाराक्रान्ता वसुन्धरे ॥
दिव्यां ददामि ते बुद्धिं शृणु सुन्दरि तत्त्वतः

187.7

कथयिष्यामि ते ह्येवं श्राद्धोत्पत्तिविनिश्चयम् ॥
आदौ स्वर्गस्य चोत्पत्तिं देवानां च वरानने

187.8

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ॥
स्रष्टुं वै बुद्धिरुत्पन्ना त्रैलोक्यं सचराचरम्

187.9

सोऽहं च शेषपर्यङ्के एकश्चैव पराङ्मुखः ॥
स्वपामि च वरारोहे अनन्तशयने ह्यहम्

187.187.10

निद्रां मायामयीं कृत्वा जागर्मि च स्वपामि वा ॥
विष्णुमायामयं कृत्वा जानासि त्वं न धारिणि

187.11

युगं युगसहस्राणि यास्यन्ति च गतानि च ॥
न त्वं मम विजानासि ज्ञातुं मायां यशस्विनि

187.12

धारितं मम सुश्रोणि दिवा पंचशतानि च ॥
वाराहं रूपमादाय न जानासि हि भामिनि

187.13

यन्मां पृच्छसि वै ज्ञातुमात्मानं च यशस्विनि ॥
एकमूर्त्तिस्त्रिधा जातो ब्रह्मविष्णु हरात्मकः

187.14

क्रोधहेतोर्मया सृष्ट ईश्वरोऽसुरनाशनः ॥
मम नाभ्यामभूत्पद्मं पद्मगर्भः पितामहः

187.15

एवं त्रयो वयं देवाः कृत्वा ह्येकार्णवां महीम् ॥
तिष्ठाम परमप्रीत्या मायां कृत्वा तु वैष्णवीम्

187.16

सर्वं तज्जलपूर्णं तु न चाज्ञायत किञ्चन ॥
वटमेकं वर्जयित्वा विष्णुमूलं यशोद्रुमम्

187.17

तिष्ठाम वटवृक्षेऽहं मायया बालरूपधृक् ॥
पश्यामि च जगत्सर्वं त्रैलोक्यं यन्मया कृतम्

187.18

वारयामि वरारोहे जानासि त्वं धरे शुभे ॥
कालेन तु तदा देवि कृत्वा वै वडवामुखम्

187.19

विनिस्सृतं जलं तत्र मायया तदनन्तरम् ॥
प्रलये च विनिर्वृत्ते ब्रह्मा लोकपितामहः

187.187.20

मुहूर्त्तं ध्यानमास्थाय भाषितो वचनं मया ॥
शीघ्रमुत्पादय ब्रह्मन्देवतासुरमानुषान्

187.21

एवमुक्तो मया देवि गृह्य तत्र कमण्डलुम् ॥
उपस्पृश्य शुचिर्भूत्वा ब्रह्मा चोत्पादयन्सुरान्

187.22

आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ॥
तारणार्थं च सर्वेषां ब्राह्मणान्भुवि दैवतान्

187.23

बाहुभ्यां क्षत्रमुत्पन्नं वैश्या ऊरुविनिःस्सृताः ॥
पद्भ्यां विनिःसृताः शूद्राः सर्ववर्णोपचारकाः

187.24

देवताश्चासुरा देवि जातास्ते ब्रह्मणस्तथा ॥
देवता ह्यसुराः सर्वे तपोवीर्यबलान्विताः

187.29

आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ॥
देवतास्तु त्रयस्त्रिंशददित्यां जनयन्पुरा

187.26

दित्यां च जनिताः पुत्रा असुराः सुरशत्रवः ॥
प्रजापतिश्चाजनयदृषींश्चैव तपोधनान्

187.27

तेजसा भास्कराकाराः सर्वे शास्त्रविदो द्विजाः ॥
तेषां पुत्राश्च पौत्राश्च जनिता ब्रह्मसूनुना

187.28

निमेस्तु वंशसम्भूतो आत्रेय इति विश्रुतः ॥
जातमात्रो महात्मा स श्रीमांश्चापि तपोनिधिः

187.29

एकचित्तं समाधाय तपश्चरति निश्चलः ॥
पंचाग्निर्वायुभक्षश्च एकपादोर्द्ध्वबाहुकः

187.187.30

शीर्णपर्णाम्बुभक्षश्च शिशिरे च जलेशयः ॥
स कृच्छ्रे फलभक्षश्च पुनश्चान्द्रायणं चरन्

187.31

वर्षाणां च सहस्राणि तपस्तप्त्वा वसुन्धरे ॥
मृत्युकालमनुप्राप्तस्ततः पञ्चत्वमागतः

187.32

नष्टं च तं सुतं दृष्ट्वा निमेः शोक उपाविशत् ॥
पुत्रशोकाभिसंयुक्तो दिवा रात्रौ च चिन्तयन्

187.33

निमिः कृत्वा ततः शोकं विधानात्तत्र माधवि ॥
तं मनोगतसंकल्पं त्रिरात्रे प्रत्यपद्यत

187.34

तस्य प्रतिविशुद्धस्य माघमासे तु द्वादशीम् ॥
मानसं सृज्य विषयं बुद्धिर्विस्तारगामिनी

187.35

स निमिश्चिन्तयामास श्राद्धकल्पं समाहितः ॥
यानि तस्यैव भोज्यानि मूलानि च फलानि च

187.36

यानि कानि च भक्ष्याणि नवश्च रससंभवः ॥
यानि तस्यैव चेष्टानि सर्वमेतदुदाहरेत्

187.37

आमन्त्र्य ब्राह्मणं पूर्वं शुचिर्भूत्वा समाहितः ॥
दक्षिणावर्ततः सर्वमकरोदृषिसत्तमः

187.38

सप्तकृत्वस्ततस्तत्र युगपत्समुपाविशत् ॥
दत्त्वा तु मांसशाकानि मूलानि च फलानि च

187.39

पूजयित्वा तु विप्रान्स सप्तकृत्वश्च सुन्दरि ॥
कृत्वा तु दक्षिणाग्रांश्च कुशांश्च प्रयतः शुचिः

187.187.40

प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥
तत्कृत्वा स मुनिश्रेष्ठो धर्मसंकल्पमात्मनः

187.41

एवं दिने गते भद्रे ह्यस्तं प्राप्ते दिवाकरे ॥
ब्रह्म कर्मोत्तमं दिव्यं भावसाध्यमुपासत

187.42

एकाकी यतचित्तात्मा निराशी निष्परिग्रहः ॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः

187.43

नात्युच्चं नातिनीचं च चेलाजिनकुशोत्तरम् ॥
तत्रैकाग्रं मनः कृत्वा यतचित्तो जितेन्द्रियः

187.44

उपविश्यासनेऽयुञ्जद्योगमात्मविशुद्धये ॥
समं कायशिरोग्रीवं धारयन्नचलं स्थितः

187.45

संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
प्रकाशात्मा विगतभीर्ब्रह्मचारी व्रते स्थितः

187.46

संयम्य मयि चित्तं यो युक्त आसीत मत्परः ॥
प्रयुञ्जीत तदात्मानं मद्भक्तो नान्यमानसः

187.47

एवं निवृत्तसंध्यायां ततो रात्रिरुपागता ॥
पुनश्चिन्तितुमारब्धः शोकसंविग्नमानसः

187.48

कृत्वा तु पिण्ड संकल्पं पश्चात्तापं चकार ह ॥
अकृतं मुनिभिः सर्वं किं मया तदनुष्ठितम्

187.49

निवापकर्म ह्यशुचि पुत्रार्थे विनियोजितम् ॥
अहो स्नेहप्रभावेण मया चाकृतबुद्धिना

187.187.50

कथं ते मुनयः शापात्प्रदहेयुर्न मामिति ॥
सदेवासुरगन्धर्वपिशाचोरगराक्षसाः

187.51

किं वक्ष्यन्ति च मां सर्वे ये वै पितृपदे स्थिताः ॥
एवं विचिन्त्यमानस्य गता रात्रिर्वसुन्धरे

187.52

पूर्वसन्ध्यानु सम्प्राप्ता उदिते च दिवाकरे ॥
सन्ध्याविधिं विनिर्वर्त्त्य हुत्वाग्नीन्द्विजसत्तमः

187.53

पुनश्चिन्तां प्रपन्नः स आत्रेयो ह्यतिदुःखितः ॥
एकाकी भाषते तत्र शोकपीडितमानसः

187.54

धिग्वयो धिक्च मे कर्म धिग्बलं धिक्च जीवितम् ॥
पुत्रं सर्वसुखैर्युक्तं जीवितं हि न दृश्यते

187.55

नरकं पूतिकाख्यातं हृदि दुःखं विदुर्बुधाः ॥
परित्राणं ततः पुत्रादिच्छन्तीह परत्र च

187.56

पूजयित्वा तु देवांश्च दत्त्वा दानं त्वनेकशः ॥
हुत्वाग्निं विधिवच्चैव स्वर्गं तु लभते नरः

187.57

पुत्रेण लभते येन पौत्रेण च पितामहाः ॥
अथ पुत्रस्य पौत्रेण मोदन्ते प्रपितामहाः

187.58

पुत्रेण श्रीमता हीनं नाहं जीवितुमुत्सहे ॥
एतस्मिन्नन्तरे देवि नारदो द्विजसत्तमः

187.59

जगाम तापसारण्यमृष्याश्रमविभूषितम् ॥
सर्वकामयुतं रम्यं बहुपुष्पफलोदकम्

187.187.60

तत्प्रविश्याश्रमपदं भ्राजमानं स्वतेजसा ॥
तं दृष्ट्वा पूजयामास स्वागतेनाथ धर्मवित्

187.61

तस्मै दत्त्वा पाद्यमर्घ्यं आसने चोपवेश्य च ॥
उपविश्यासने देवि नारदो वाक्यमब्रवीत

187.62

नारद उवाच ॥
निमे शृणु महाप्राज्ञ शोकमुत्सृज्य दूरतः ॥
अशोच्यानन्वशोचस्त्वं प्रज्ञावान्नावबुध्यसे

187.63

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥
मृतं वा यदि वा नष्टं यो यान्तमनुशोचति

187.64

अमित्रास्तस्य हृष्यन्ति स चापि न निवर्त्तते ॥
अमरत्वं न पश्यामि त्रैलोक्ये सचराचरे

187.65

देवतासुरगन्धर्वा मानुषा मृगपक्षिणः ॥
सर्वे कालवशं यान्ति सर्वे कालमुदीक्षते

187.66

जातस्य सर्वभूतस्य कालो मृत्युरुपस्थितः ॥
अवश्यं चैव गन्तव्यं कृतान्तविहितेन च

187.67

तव पुत्रो महात्मा वै श्रीमान्नाम श्रियो निधिः ॥
पूर्णं वर्षसहस्रं तु तपः कृत्वा सुदुश्चरम्

187.68

मृत्युकालमनुप्राप्य गतो दिव्यां परां गतिम् ॥
एतत्सर्वं विदित्वा तु नानुशोचितुमर्हति

187.69

नारदेनैवमुक्ते तु श्रुत्वा स द्विजसत्तमः ॥
प्रणम्य शिरसा पादौ निमिरुद्विग्नमानसः

187.187.70

भीतो गद्गदया वाचा निःश्वसंश्च मुहुर्मुहुः ॥
सव्रीडो भाषते विप्रः कारुण्येन समन्वितः

187.71

अहो मुनिवरश्रेष्ठ अहो धर्मविदां वर ॥
सान्त्वितोऽस्मि त्वया विप्र वचनैर्मधुराक्षरैः

187.72

प्रणयात्सौहृदाद्वापि स्नेहाद्वक्ष्यामि तच्छृणु ॥
शोको निरन्तरं चित्ते ममैतद्धृदि वर्त्तते

187.73

कृतस्नेहस्य पुत्रार्थे मया संकल्प्य यत्कृतम् ॥
तर्पयित्वा द्विजान्सप्त अन्नाद्येन फलेन च

187.74

पश्चाद्विसर्जितं पिण्डं दर्भानास्तीर्य भूतले ॥
उदकानयनं चैव ह्यपसव्येन वासितम्

187.75

शोकस्य तु प्रभावेण एतत्कर्म मया कृतम् ॥
अनार्यजुष्टमस्वर्ग्यमकीर्त्तिकरणं द्विज

187.76

नष्टबुद्धिस्मृतिसत्त्वो ह्यज्ञानेन विमोहितः ॥
न च श्रुतं मया पूर्वं न देवैरृषिभिः कृतम्

187.77

भयं तीव्रं प्रपश्यामि मुनिशापात्सुदारुणात् ॥
नारद उवाच ॥
न भेतव्यं द्विजश्रेष्ठ पितरं शरणं व्रज

187.78

अधर्मं न च पश्यामि धर्मो नैवात्र संशयः ॥
नारदेनैवमुक्तस्तु निमिर्ध्यानमुपाविशत्

187.79

कर्मणा मनसा वाचा पितरं शरणं गतः ॥
ततोऽतिचिन्तयामास वंशकर्त्तारमात्मनः

187.187.80

ध्यायमानस्ततोऽप्याशु आजगाम तपोधनम् ॥
पुत्रशोकेन सन्तप्तं पुत्रं दृष्ट्वा तपोधनम्

187.81

पुत्रमाश्वासयामास वाग्भिरिष्टाभिरव्ययैः ॥
निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधन

187.82

पितृयज्ञेति निर्दिष्टा धर्मोऽयं ब्रह्मणा स्वयम् ॥
ततो ह्यतितरो धर्मः क्रतुरेकः प्रतिष्ठितः

187.83

कृतः स्वयंभुवा पूर्वं श्राद्धं यो वित्त्वित्तमः ॥
शृण्वतो नारदस्यापि विधिं विधिविदां वरः

187.84

श्राद्धकर्मविधिं चैव प्रेतकर्म च या क्रिया॥
शृषु सुन्दरि तत्त्वेन यथा दाता सपुत्रकः

187.85

मम चैव प्रसादेन तस्य बुद्धिं ददाम्यहम् ॥
जातस्य सर्वभूतस्य कालमृत्युरुपस्थितः

187.86

अवश्यमेव गन्तव्यं धर्मराजस्य शासनात् ॥
अमरत्वं न पश्यामि पिपीलादीनि जन्तवः

187.87

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ॥
मोक्षः कर्मविशेषेण प्रायश्चित्तेन च ध्रुवम्

187.88

सत्त्वं रजस्तमश्चैव त्रयः शारीरजाः स्मृताः ॥
अल्पायुषो नराः पश्चाद्भविष्यन्ति युगक्षये

187.89

सात्त्विकं नावबुद्ध्यन्ति कर्मदोषेण तामसः ॥
तामसं नरकं विन्द्यात्तिर्यग्योनिं च राक्षसीम्

187.187.90

सात्त्विकं मुक्तियानाय यान्ति वेदविदो जनाः॥
धर्मज्ञानं तथैश्वर्यं वैराग्यमिति सात्विकम्

187.91

क्रूरो भीरुर्विषादि च हिंसको निरपत्रपः॥
अज्ञानान्धश्च पैशाचमेतेषां तामसा गुणाः

187.92

तामसं तद्विजानीयादुच्यमानो न बुद्ध्यति ॥
दुर्मदोऽश्रद्धधानश्च विज्ञेयास्तामसा नराः

187.93

।
प्रबलो वाचि युक्तश्चाचलबुद्धिः सदायतः ॥
शूरः सर्वेषु व्यक्तात्मा विज्ञेया राजसा नराः

187.94

क्षान्तो दान्तो विशुद्धात्मा विज्ञेयः श्रद्धयान्वितः॥
तपःस्वाध्याशीलश्च एतेषां सात्विका गुणाः

187.96

एवं सञ्चिन्तयानस्तु न शोकं कर्तुमर्हसि ॥
त्यज शोकं महाभाग शोकः सर्वविनाशनः ॥ ९५ ॥।
शोको दहति गात्राणि बुद्धिः शोकेन नश्यति ॥
लज्जा धृतिश्च धर्मश्च श्रीः कीर्तिश्च स्मृतिर्नयः

187.97

त्यजन्ति सर्वधर्मश्च शोकेनोपहतं नरम्॥
एवं शोकं त्यजित्वा तु निःशोको भव पुत्रक

187.98

मूढ: स्नेहप्रभावेण कृत्वा हिंसानृते तथा ॥
पच्यते नरके घोरे ह्यात्मदोषैर्वसुन्धरे

187.99

स्नेहं सर्वेषु संयम्य बुद्धिं धर्मे नियोजयेत् ॥
धर्मलोक हितार्थाय शृणु सत्यं ब्रवीम्यहम्

187.187.100

चातुर्वर्णस्य वक्ष्यामि यश्च स्वायंभुवोऽब्रवीत् ॥
नेमिप्रभृतिनामेवं येन श्राद्धं प्रवर्त्तते

187.102

कण्ठस्थानं गते जीवे भीतिविभ्रान्तमानसः ॥
ज्ञात्वा च विह्वलं तत्र शीघ्रं निःसारयेद्गृहात् ॥ १० १ ॥
कुशास्तरणशायी च दिशः सर्वा न पश्यति॥
लब्धस्मृतिर्मुहूर्तं तु यावज्जीवो न पश्यति

187.103

वाचयेत्स्नेहभावेन भूमिदेवा द्विजातयः ॥
सुवर्णं च हिरण्यं च यथोत्पन्नेन माधवि

187.105

परलोकहितार्थाय गोप्रदानं विशिष्यते ॥
सर्वदेवमया गाव ईश्वरेणावतारिताः ॥ १०४ ॥।
अमृतं क्षरयन्त्यश्च प्रचरन्ति महीतले ॥
एतासां चैव दानेन शीघ्रं मुच्येत किल्बिषात्

187.106

पश्चाछ्रुतिपथं दिव्यमुत्कर्णेन च श्रावयेत् ॥
यावत्प्राणान्प्रमुञ्चेत कृत्वा कर्म सुदुष्करम्

187.107

दृष्ट्वा सुविह्वलं ह्येनं मम मार्गानुसारिणम्॥
प्रयाणकाले तु नरो मन्त्रेण विधिपूर्वकम्

187.108

मंत्रेणानेन कर्तव्यं सर्वसंसारमोक्षणम् ॥
मधुपर्कं त्वरन् गृह्य चेमं मन्त्रमुदाहरेत्

187.109

मन्त्रः-
ॐ गृह्णीष्व मे सुविमलं मधुपर्कमाद्यं संसारनाशनकरं त्वमृतेन तुल्यम् ॥
नारायणेन रचितं भगवत्प्रियाणां दाहे च शान्तिकरणं सुरलोकपूज्यम्

187.187.110

तत एतेन मन्त्रेण दद्याद्वै मधुपर्ककम् ॥
मृत्युकाले तु पुरुषो परलोकसुखावहम्

187.111

एवं विनिस्सृते प्राणे संसारं च न गच्छति ॥
नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशङ्गतम्

187.112

महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥
घृततैलसमायुक्तं कृत्वा वै देहशोधनम्

187.113

।
तेजोऽव्ययकरं चास्य तत्सर्वं परिकल्प्य च ॥
दक्षिणायां शिरः कृत्वा सलिले सन्निधाप्य च

187.114

तीर्थाद्यावाह्नं कृत्वा स्नापनं तस्य कारयेत् ॥
गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः

187.115

कुरुक्षेत्रं च गङ्गा च यमुना च सरिद्वरा॥
कौशिकी च पयोष्णी च सर्वपापप्रणाशिनी

187.116

गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥
वनानि नव वाराहे तीर्थे पिण्डारके तथा

187.118

।
पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा ॥
सर्वाणि मनसा ध्यात्वा स्नानमेवं तु कारयेत् ॥ ११७ ॥।
प्राणैर्हृतं तु तं ज्ञात्वा चितां कृत्वा विधानतः ॥
तस्या उपरि संस्थाप्य दक्षिणाग्रं शिरस्तथा

187.119

दिव्यानग्निमुखान्ध्यात्वा गृह्य हस्ते हुताशनम् ॥
प्रज्वाल्य विधिवत्तत्र मन्त्रमेतमुदाहरेत्

187.187.120

।
कृत्वा सुदुष्करं कर्म जानता वाप्यजानता॥
मृत्युकालवशं प्राप्य नरः पंचत्वमागतः

187.122

धर्माधर्मसमायुक्तो लोभमोहसमावृतः ॥
दह चैतस्य गात्राणि देवलोकं स गच्छतु ॥ १२१ ॥।
एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणाम् ॥
ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत्

187.123

।
चातुर्वर्ण्येषु संस्कारमेवं भवति पुत्रक ॥
गात्राणि वाससी चैव प्रक्षाल्य विनिवर्तयेत्

187.124

मृतं नाम तथोद्दिश्य दद्यात्पिण्डं महीतले॥
तदाप्रभृति चाशेओचं देवकर्म न कारयेत्

187.187

इति श्रीवराहपुराणे भगवच्छास्त्रे श्राद्धोत्पतिनिरूपणं नाम सप्ताशीत्यधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc