वराह पुराण · अध्याय 181
अथ मधुकाष्ठाप्रतिमायामर्चास्थापनम् ॥
सूत उवाच ॥
एवं श्रुत्वा परं स्थानं सा मही संशितव्रता॥
सर्वक्षेत्रविभागेषु यश्च वै परमो विधिः
संश्रुत्य विस्मयाविष्टा प्रत्युवाच वसुन्धरा ॥
धरण्युवाच ॥
अहो क्षेत्रप्रभावो वै यस्त्वया समुदाहृतः
यं श्रुत्वा देवतत्त्वेन जातास्मि विगतज्वरा ॥
एकं मे परमं गुह्यं यन्नित्यं हृदि वर्त्तते
मम प्रीत्यर्थमखिलं तद्विष्णो वक्तुमर्हसि ॥
कथं तिष्ठसि काष्ठेषु शैलमृन्मयजेषु च
ताम्रे कांस्ये च रौप्ये च तिष्ठसि स्थापितः कथम् ॥
सौवर्णेषु च सर्वेषु तिष्ठसि स्थापितः कथम्
ब्रह्मचारी समासाद्य कथं तिष्ठसि माधव ॥
दन्तरत्ने समासाद्य कथं सन्तिष्ठते भवान्
कथं तिष्ठसि वा सव्ये भित्तिसंस्थो जनार्दनः ॥
भूमिसंस्थो महाभाग विधिदृष्टेन कर्मणा
एवं धरावचः श्रुत्वा प्रत्युवाचादिसूकरः ॥
श्रीवराह उवाच ॥
प्रतिमा यस्य कर्त्तव्या तदानीय वसुन्धरे
प्रतिमां कारयेच्चैव लक्षणोक्तां वसुन्धरे ॥
अर्चाशुद्धिं ततः कृत्वा प्रतिष्ठाप्य विधानतः
ततः सम्पूजयेद्देवि संसारभवमुक्तये ॥
तत्र काष्ठेषु मधुकमानीय च वसुन्धरे
कृत्वा तत्प्रतिमां चैव प्रतिष्ठाविधिनार्च्चयेत् ॥
तांस्तु दद्यात्तु गन्धांश्च ये मया समुदाहृताः
कर्पूरं कुंकुमं चैव त्वचं चागुरुमेव च ॥
रसं च चन्दनं चैव सिल्हकोशीरकं तथा
एतैर्विलेपनं दद्यादर्चितस्तु विचक्षणः ॥
स्वस्तिकं वर्द्धमानं च श्रीवत्सं कौस्तुभं तथा
विधानपूर्वकं चैव मंगल्यं चैव पायसम् ॥
वर्त्तिस्तिलफलं चैव कर्मण्यानि न संशयः
एवं सर्वं ततो दद्यात्पूजायां विहितं शुभम् ॥
कर्मणा विधिदृष्टेन शुद्धो भागवतः शुचिः
प्राणायामं ततः कृत्वा इमं मन्त्रमुदीरयेत् ॥
योऽसौ भवांस्तिष्ठते च सर्वयोगप्रधानतः
ससम्भ्रमं लोके सुप्रतीतस्तिष्ठ काष्ठे स त्वं भुवि ॥
एवं संस्थापनं कृत्वा काष्ठस्य प्रतिमासु च
पुनः प्रदक्षिणीकृत्य शुद्धैर्भागवतैः सह ॥
प्रज्वाल्य दीपं तत्रैव चार्च्चायाः सम्मुखं स्थितः
नोर्द्ध्वं न तिर्यगीक्षेत कामक्रोधविवर्जितः ॥
नमो नारायणायेति इमं मन्त्रमुदीरयेत्
कुर्यात्संस्करणं तेषां विधिदृष्टेन कर्मणा
मन्त्रः –
योऽसौ भवान्सर्वजनप्रवीर गतिः प्रभुस्त्वं वससि ह्यमोघ ॥
अनेन मन्त्रेण च लोकनाथ संस्थापितस्तिष्ठ च वासुदेव
सर्वामेवं ततः कृत्वा मम संस्थापनक्रियाम् ॥
पूज्या भागवताः सर्वे ये तत्र समुपागताः
गन्धमाल्यैरर्चयित्वा उपलेपैश्च भोजनैः ॥
कुर्यात्संस्करणं तेषां विधिदृष्टेन कर्मणा
एतत्कर्मविधानेन मधुकाष्ठस्य सुन्दरि ॥
धर्मसंस्थापनार्थाय एतत्ते कथितं मया
यस्त्वनेन विधानेन अर्च्चां काष्ठस्य स्थापयेत् ॥
स न गच्छति संसारं मम लोकं च गच्छति
इति श्रीवराहपुराणे भगवच्छास्त्रे मधुकाष्ठायां प्रतिमार्च्चास्थापनं नाम एकाशीत्यधिकशततमोऽध्यायः
मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0