भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 169

169.1

श्रीवराह उवाच ॥
मथुरायाः परं क्षेत्रं त्रैलोक्ये न च विद्यते ॥
तस्यां वसाम्यहं देवि मथुरायां च सर्वदा

169.2

सर्वेषामेव तीर्थानां मथुरा च परं महत् ॥
कृष्णेन क्रीडितं तत्र तच्छुद्धं हि पदे पदे

169.3

चक्रस्थितं हि तत्सर्वं कृष्णस्यैव पदेन तु ॥
तत्र मध्यं तु तत्स्थानमर्द्धचन्द्रे प्रतिष्ठितम्

169.4

तत्रैव वासिनो लोका मुक्तिं यान्ति न संशयः ॥
कृष्णस्य दक्षिणा कोटिरुत्तरा कोटिमध्यतः

169.9

तयोर्मध्ये स्थितो देव आकारात्सोमचक्रता ॥
तौ देवौ क्षेत्रफलदौ स्नानदानादिकर्मणि

169.6

तस्माद्धि मरणं चात्र द्वे कोटी सर्वकर्मसु ॥
अर्द्धचन्द्रे तु यः स्नानं करोति नियताशनः

169.7

तेन वै चाक्षया लोकाः प्राप्ताश्चैव न संशयः ॥
दक्षिणस्यां समारभ्य उत्तरस्यां समापयेत् ॥
यज्ञोपवीतमात्रेण त्रायन्ते च कुलं बहु

169.8

पृथिव्युवाच ॥
यज्ञोपवीत मात्राया विधानं कीदृशं प्रभो

169.9

यथामानं हि कर्तव्यं तत्सर्वं वक्तुमर्हसि ॥
श्रीवराह उवाच ॥
यज्ञोपवीतस्य विधिं शृणुष्व वरवर्णिनि

169.169.10

दक्षिणस्यां समारभ्य उत्तरस्यां समापयेत् ॥
यज्ञोपवीतस्य विधिरेष एव प्रकार्तितः

169.11

मनुजा येन विधिना मुक्तिं यान्ति न संशयः ॥
अनेन विधिना चैव उत्तरस्यां समापयेत् ॥
गृहान्निःसृत्य मौनेन यावत्स्नानं समाचरेत्

169.12

पूजां कृष्णस्य कृत्वा वै ततो ब्रूयाद्वसुन्धरे ॥
स्नाने समाप्ते विधिवद्देवदेवस्य चैव हि

169.13

कृष्णस्य कृत्वा तु मखं स्नानादीनि यथाक्रमम् ॥
गां वै पयस्विनीं दत्त्वा हिरण्यं वसु चैव हि

169.14

ब्राह्मणान्भोजयेत्पश्चाद्विधिरेष उदाहृतः ॥
तथा शयनमुद्दिश्य एवमेवं तु कारयेत्

169.15

न तस्य पुनरावृत्तिर्मम लोके महीयते ॥
अर्द्धचन्द्रे मृता देवि मम लोकं व्रजन्ति ते

169.16

अन्यत्र तु मृता ये च अर्धचन्द्रकृतक्रियाः ॥
तेऽपि स्वर्गं गमिष्यन्ति दाहादिकरणैर्युताः

169.17

यावदस्थीन्यर्द्धचन्द्रं यस्य तिष्ठन्ति देहिनः ॥
तावत्सुपुण्यकर्त्ता च स्वर्गलोके महीयते

169.18

अर्द्धचन्द्रे विशेषोऽस्ति तीर्थे विश्रान्तिसंज्ञके ॥
दाहादिकरणे तत्र गर्दभोऽपि चतुर्भुजः

169.19

गर्त्तेश्वरोऽथ भूतेशो द्वे कोटी तु वसुन्धरे ॥
मध्ये सदैव तिष्ठामि न त्यजामि कदाचन

169.169.20

माथुराणां च यद्रूपं तद्रूपं मे वसुन्धरे ॥
माथुरेण तु तृप्तेन तृप्तोऽहं नात्र संशयः

169.21

शृणु देवि यथावृत्तं गरुडस्य महात्मनः ॥
मथुरामागतो योऽसौ कृष्णदर्शनकांक्षया ॥
मथुरायां स्थितं देवं भिन्नरूपं न पश्यति

169.22

तदा गतोऽसौ वसुधे देवस्याग्रे विहंगमः ॥
कृष्णस्य दर्शनार्थाय दिव्यं स्तोत्रमुदीरयन्

169.23

गरुड उवाच ॥
विश्वरूप जयादित्य जय विष्णो जयाच्युत ॥
जय केशव ईशान जय कृष्ण नमोऽस्तु ते

169.24

जय मूर्त जयाचिन्त्य जय लोकविभूषण ॥
इत्येवं संस्तुतो देवो गरुडेन महात्मना

169.25

गरुडस्य पुरस्तत्र स्थितो देवः शरीरवान् ॥
सान्त्वयामास गरुडं प्रीतिपूर्वमुवाच ह

169.26

किं कुर्यात्स्तोत्रमेतन्मे किं वा तव चिकीर्षितम् ॥
मथुरागमकृत्ये ते सर्वं ब्रूहि ममाग्रतः

169.27

गरुड उवाच ॥
मथुरामागतश्चाहं तव दर्शनकांक्षया ॥
आगते तु मया देव न दृष्टं तव रूपकम्

169.28

माथुरैरेव लोकैस्तु समं दृष्टं हि रूपकम् ॥
एकीभूतमहं सर्वं दृष्ट्वा मां मोह आविशत्

169.29

तस्मात्स्तुतिस्तु देवेश कृतानुग्रहकाम्यया ॥
गरुडस्य वचः श्रुत्वा प्रहस्य मधुसूदनः

169.169.30

उवाच श्लक्ष्णया वाचा गरुडं प्रति भाविनि ॥
श्रीकृष्ण उवाच ॥
माथुराणां च यद्रूपं तद्रूपं मे विहंगम

169.31

ये पापास्ते न पश्यन्ति मद्रूपा माथुरा द्विजाः ॥
एवमुक्त्वा ततः कृष्णस्तत्रैवान्तरधीयत

169.32

गरुडोऽपि ततः स्थानाद्गतो देवि यथासुखम् ॥
एतत्ते कथितं देवि माथुराणां तु रूपकम्

169.33

येषां पूजितमात्रेण तुष्टोऽहं चैव सर्वदा ॥
मथुरायां मृता ये च मुक्तिं यान्ति न चान्यथा

169.34

अपि कीटः पतंगो वा तिर्यग्योनिगतोऽपि वा ॥
चतुर्भुजास्तु ते सर्वे भवन्तीति विनिश्चितम्

169.35

यः पश्येत्पद्मनाभं तु द्वादश्यामाश्विनस्य तु ॥
एकदेहधरौ देवौ शिवकेशवरूपिणौ

169.36

एकादश्यां चोपवासी कृतशौचः समाहितः ॥
कालिन्द्यां तु नरः स्नातो मुंचते योनिसंकटात्

169.37

चैत्रस्य शुक्लद्वादश्यामुपोष्य स्नानमाचरेत् ॥
चिन्ताविष्णुं समभ्यर्च्य कृत्वा वै जागरं निशि

169.38

यः करोति स मुच्येत नात्र कार्या विचारणा ॥
एकानंशां ततो देवीं यशोदां देवकीं तथा

169.39

महाविद्येश्वरीं देवि मुच्यते ब्रह्महत्यया ॥
या धारा धर्मराजस्य मथुरायाश्च पश्चिमे

169.169.40

स्नानं करोति तस्यां तु ग्रहदाषैर्न लिप्यते ॥
यं यं देवमभिध्यायेद्भक्तियुक्तेन चेतसा

169.41

विश्रान्तिसंज्ञकं दृष्ट्वा दीर्घविष्णुं च केशवम् ॥
सर्वेषां दर्शनं पुण्यं पूजनात्तु फलं भवेत्

169.42

इति जपविधिहोमध्यानकाले स सम्यक्सततमभिसमीक्ष्य ब्रह्मणा यत्प्रयुक्तम् ॥
सकलगुणगणानामास्पदं ब्रह्मसंज्ञं जननमरणहीनं विष्णुमेवाभियाति

169.169

इति श्रीवराहपुराणे प्रागितिहासे मथुरामाहात्म्यं नामैकोनसप्तत्यधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc