भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 163

163.1

अथ कपिलवराहमाहात्म्यम् ॥
श्रीवराह उवाच॥
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
वैकुण्ठतीर्थमासाद्य यद्वृत्तं हि पुरातनम्

163.2

मिथिलायां पुरी रम्या जनकेन च पालिता ॥
मिथिलावासिनो लोकास्तीर्थयात्रां समागताः

163.3

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चापि वसुन्धरे ॥
स्नात्वा सौकरवे तीर्थे आयाता मधुरां पुरीम्

163.4

तेषां च भक्तिरुत्पन्ना मथुरां प्रति सुन्दरि ॥
वैकुण्ठतीर्थमासाद्य सर्वे ते मनुजाः स्थिताः

163.5

तेषां तु ब्राह्मणः कश्चिद्ब्रह्महत्यासु चिह्नितः ॥
रुधिरस्य हि धारा च स्रवन्ती तस्य हस्ततः

163.6

प्रत्यक्षा दृश्यते सर्वैर्ब्रह्महत्यास्वरूपिणी ॥
सर्वतीर्थप्लुतस्यापि ब्राह्मणस्य हि सा तदा

163.7

न गता पूर्वमेवासीद्वैकुण्ठे स्नानमाचरत् ॥
न सा वै दृश्यते धारा ततस्ते विस्मयङ्गताः

163.8

किमेतत्किमिति प्राहुर्धारा प्रति वसुन्धरे ॥
देवो ब्राह्मणरूपेण लोकान्सर्वान् हि पृच्छति

163.9

केन कारणदोषेण धारा त्यक्त्वा गता द्विजम् ॥
तत्सर्वं कथयामासुर्ब्राह्मणस्य विचेष्टितम्

163.163.10

वैकुण्ठे तु निमग्नोऽयं ब्रह्महत्या गता ततः ॥
विस्मयो नात्र कर्त्तव्यस्तीर्थस्येदं महत्फलम्

163.11

इत्युक्तस्तैर्देवदेवस्तत्रैवान्तरधीयत ॥
एष प्रभावस्तीर्थस्य वैकुण्ठस्य वसुन्धरे

163.12

वैकुण्ठतीर्थे यः स्नाति मुच्यते सर्वपातकैः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

163.13

सूत उवाच ॥
पुनरन्यत् प्रवक्ष्यामि असिकुण्डेऽतिपुण्यदे ॥
नाम्ना गन्धर्वकुण्डं तु तीर्थानां तीर्थमुत्तमम्

163.14

तत्र स्नातो नरो देवि गन्धर्वैः सह मोदते ॥
तत्र यो मुंचते प्राणान्मम लोकं स गच्छति

163.15

विंशतिर्योजनानां तु माथुरं मम मण्डलम् ॥
इदं पद्मं महाभागे सर्वेषां मुक्तिदायि च

163.16

कर्णिकायां स्थितो देवि केशवः क्लेशनाशनः ॥
कर्णिकायां मृता ये तु तेऽमरा मुक्तिभागिनः

163.17

तत्र मध्ये मृता ये तु तेषां मुक्तिर्वसुन्धरे ॥
पश्चिमेन हरिं देवं गोवर्द्धननिवासिनम्

163.18

दृष्ट्वा तं देवदेवेशं किं मनः परितप्यते ॥
उत्तरेण तु गोविन्दं दृष्ट्वा देवं परं शुभम्

163.19

नासौ पतति संसारे यावदाभूतसंप्लवम् ॥
विश्रान्तिसंज्ञके देवं पूर्वपत्रे व्यवस्थितम्

163.163.20

यं दृष्ट्वा तु नरो याति मुक्तिं नास्त्यत्र संशयः ॥
दक्षिणेन तु मां विद्धि प्रतिमां दिव्यरूपिणीम्

163.21

महाकायां सुरूपां च केशवाकारसन्निभाम् ॥
तां दृष्ट्वा मनुजो देवि ब्रह्मणा सह मोदते

163.22

कृते युगे तु राजासीन्मान्धाता नाम नामतः ॥
तेनाहं तोषितो देवि भक्तियुक्तेन चेतसा

163.23

तस्य तुष्टेन हि मया प्रतिमेयं समर्पिता ॥
तेनेयं पूजिता नित्यमात्ममुक्तिमभीप्सता

163.24

यदा तु मथुरां प्राप्य लवणोऽयं निपातितः ॥
तदैव प्रतिमा दिव्या मथुरायां व्यवस्थिता

163.25

पुण्येयं प्रतिमा दिव्या तैजसी दिव्यरूपिणी ॥
कपिलो नाम विप्रर्षिर्मम भक्तिपरायणः

163.26

मनसा निर्मिता तेन वाराही प्रतिमा शुभा ॥
कपिलो ध्यायते नित्यमर्चति स्म दिने दिने

163.27

इन्द्रेणाराधितो देवि कपिलो मुनिसत्तमः ॥
तस्य प्रीतो ददौ देवं वराहं दिव्यरूपिणम्

163.28

देवे लब्धे वरारोहे शक्रो हर्षसमन्वितः ॥
ध्यायति स्म सदा देवं पूजां कृत्वा हि भक्तितः

163.29

इन्द्रेण तु तदा प्राप्तं दिव्यं ज्ञानमनुत्तमम् ॥
ततः कालेन महता रावणो नाम राक्षसः

163.163.30

इन्द्रलोकं गतः सोऽथ स्वर्गं जेतुं महाबलः ॥
शक्रेण सह सङ्गम्य ततो युद्धं प्रवर्तितम्

163.31

रावणेन जिता देवाः शक्रश्चैव महाबलः ॥
बद्ध्वा चेन्द्रं महाबाहुं शक्रस्य भवनं गतः

163.32

प्रविश्य रावणस्तत्र गृहे रत्नविभूषिते ॥
दृष्ट्वा कपिलवाराहं शिरसा धरणीं गतः

163.33

तेन संमोहितो देवि रावणो नाम राक्षसः ॥
त्रातुमर्हसि मे देव धरणीधर माधव

163.34

दामोदर हषीकेश हिरण्याक्षविदारण ॥
वेदगर्भ नमस्तेऽस्तु वासुदेव नमोऽस्तु ते

163.39

कूर्मरूप नमस्तेऽस्तु नारायण नमोस्तु ते ॥
मस्त्यरूपधरं देवं मधुकैटभनाशिनम्

163.36

निरीक्षितुं न शक्नोमि प्रष्टुं चैव गुणव्रत ॥
देवदेव नमस्तुभ्यं भक्तानामभयप्रद

163.37

मम त्वं भक्तिनम्रस्य प्रसादं कुरु सर्वदा ॥
इति स्तुतो रावणेन देवदेवो जगत्पतिः

163.38

सौम्यरूपोऽभवद्देवो लोक नाथो जनार्दनः ॥
सन्निधानमनुप्राप्य पुष्पकारोहणोत्सुकः

163.39

तदुद्धर्त्तुं न शक्नोति रावणो विस्मयङ्गतः ॥
शङ्करेण पुरा सार्द्धं कैलास स्तु मयोद्धृतः

163.163.40

देव त्वं स्वल्पकायोऽसि नाहमुद्धरणक्षमः ॥
प्रसीद देवदेवेश सुरनाथ नमोऽस्तु ते

163.41

अहं त्वां नेतुमिच्छामि पुरीं लङ्कामनुत्तमाम्

163.42

श्रीवराह उवाच ॥
अवैष्णवोऽसि रक्षस्त्वं कुतो भक्तिस्तवेदृशी ॥
कपिलस्य वचः श्रुत्वा रावणो वाक्य मब्रवीत्

163.43

त्वद्दर्शनात्समुत्पन्ना भक्तिरव्यभिचारिणी ॥
महात्मस्त्वां नयिष्यामि देवदेव नमोऽस्तु ते

163.44

भक्तिमुद्वहतस्तस्य लघु वेषोऽभवत्तदा ॥
पुष्पके तु समारोप्य देवं त्रैलोक्यविश्रुतम्

163.45

आनयामास लङ्कायां स्थापयित्वा स्वके गृहे ॥
तदा स्थितोऽहं लङ्कायां रावणेन प्रपूजितः

163.46

अयोध्याधिपती रामो हन्तुं राक्षसपुङ्गवम् ॥
गतोऽसौ विक्रमेणैव हत्त्वा राक्षसपुङ्गवम्

163.47

विभीषणश्च लङ्काया आधिपत्येऽभिषेचितः ॥
विभीषणेन रामस्य सर्वस्वं च निवेदितम्

163.48

श्रीराम उवाच ॥
अनेन नस्ति मे कार्यं तव रक्षा विभीषण ॥
देवो मे दीयतां रक्षः शक्रलोकाद्य आगतः

163.49

अहन्यहनि पूजामि देवं वाराहरूपिणम् ॥
अयोध्यां चैव नेष्यामि त्वया दत्तं हि राक्षस

163.163.50

ततः समर्पयामास कपिलं दिव्यरूपिणम् ॥
पुष्पके तु समारोप्य नीतवान्नगरीं प्रति

163.51

अयोध्यायां स्थापयित्वा पूजयामास तं तदा ॥
गतं वर्षसहस्रं तु दशोत्तरमतः परम्

163.52

लवणस्य वधार्थं हि शत्रुघ्नं प्रेषयत्तदा ॥
कृतप्रणामः शत्रुघ्नो राघवाय महात्मने

163.53

चतुरङ्गबलोपेतो जगाम मथुरां प्रति ॥
गत्वा तु राक्षसश्रेष्ठं लवणं रौद्ररूपिणम्

163.54

घातयित्वा तु शत्रुघ्नः प्रविश्य मथुरां पुरीम् ॥
ब्राह्मणान्स्थापयित्वा तु मया तुल्यान्महौजसः

163.55

षड्विंशतिसहस्राणि वेदवेदाङ्गपारगान् ॥
अनृचो माथुरो यत्र चतुर्वेदस्तथापरः

163.56

एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजितः ॥
लवणस्य यथावृत्तं कथितं ते वसुन्धरे

163.97

लवणस्य वधं श्रुत्वा राघवो वाक्यमब्रवीत् ॥
वरं वरय शत्रुघ्न यत्ते मनसि रोचते

163.58

राघवस्य वचः श्रुत्वा शत्रुघ्नो वाक्यमब्रवीत् ॥
यदि तुष्टोऽसि मे देव वरार्हो यदि वाप्यहम्

163.59

दीयतां मम देवोऽयं यदि मे वरदो भवान् ॥
शत्रुघ्नस्य वचः श्रुत्वा राघवो वाक्यमब्रवीत्

163.163.60

नय शत्रुघ्न देवं त्वं दिव्यं वाराहरूपिणम् ॥
धन्याऽसौ मण्डली लोके धन्या सा मथुरा पुरी

163.61

धन्यास्ते माथुरा लोकाः पश्यन्ति कपिलं सदा ॥
दृष्टः स्पृष्टः तदा ध्यातः स्नापितश्च दिने दिने

163.62

अनुलिप्तश्च शत्रुघ्न सर्वपापं व्यपोहति ॥
पूजितः स्नापितो देवो दृष्टो यैस्तु दिने दिने

163.63

सर्वं हरति वै पापं मोक्षं चैव प्रयच्छति ॥
इत्युक्त्वा राघवस्तस्मै देवं प्रादाद्वसुन्धरे

163.64

देवमादाय शत्रुघ्नो जगाम मथुरां पुरीम् ॥
ब्राह्मणं स्थापयित्वा तु आगच्छन्मम सन्निधौ

163.65

तत्र मध्ये तु संस्थाप्य पूजयामास राघवः ॥
अनेन क्रमयोगेण मथुरायां स्थितः प्रभुः

163.66

गयायां पिण्डदानेन यत्फलं ज्यष्ठेपुष्करे ॥
तत्फलं समवाप्नोति श्वेतं दृष्ट्वा सदा नरः

163.67

विश्रान्तिसंज्ञके तद्वद्गोविन्दे च तथा हरौ ॥
केशवे दीर्घविष्णौ च तदेव फलमश्नुते

163.68

उदये मामकं तेजः सदा विश्रांतिसंज्ञके ॥
मध्याह्ने मामकं तेजो दीर्घविष्णौ व्यवस्थितम् ॥
केशवे मामकं तेजो दिनभागे चतुर्थके

163.69

एषा विद्या पुरा देवि नित्यकालं सुगो पिता ॥
भक्ता त्वं मम शिष्या च कथिता ते वसुन्धरे

163.163

इति श्रीवराहपुराणे मथुरामाहात्म्ये कपिलवराहमाहात्म्यं नाम त्रिषष्ट्यधिकशत तमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc