भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 154

154.1

अथ यमुनातीर्थप्रभावः ॥
वराह उवाच ॥
एवंविधां च मथुरां दृष्ट्वा तौ मुदमापतुः ॥
एवं तु वसतस्तस्य राज्ञस्तत्र वसुन्धरे

154.2

पप्रच्छ च तदा भार्या यद्गुह्यं पूर्वभाषितम् ॥
पुरस्थेन तदा राज्ञा वक्ष्यामि मथुरां प्रति

154.3

॥
तन्मे वद महाराज यद्गोप्यं पूर्वभाषितम् ॥
राजाप्युवाच तां राज्ञीं त्वयाप्युक्तं पुरा मम

154.4

तद्वदस्व स्वकं गुह्यं पश्चाद्वक्ष्याम्यहं तव ॥
इत्युक्त्वा पीवरी ज्ञात्वा प्रहस्य तु गुणालया

154.5

प्रोवाच चैव राजानं मनसः प्रीतिकारणम् ॥
अहं तु पीवरी नाम गंगातीरनिवासिनी

154.6

आगतेमां पुरीं द्रष्टुं कुमुदस्य तु द्वादशीम् ॥
नावमारुह्य यान्तीह पतिता यमुनाजले

154.7

सद्यः प्राणैर्वियुक्ता च तत्तीर्थस्य प्रभावतः ॥
काशीराजपतेः कन्या यातास्मि वसुधाधिप

154.8

त्वया विवाहिता राजन्न च मां विजहात्स्मृतिः ॥
एतत्तीर्थप्रभावेण धर्मयुक्ता तथाऽनघ

154.9

धारापतनके तीर्थे त्यक्त्वा जीवितमात्मनः॥
एतच्छ्रुत्वा ततो राजा कथां प्राग्जन्मसम्भवाम्

154.154.10

स्वां चाप्यकथयत्तस्यै यथा संयमने मृतः ॥
एवं तौ मथुरां प्राप्य स्नात्वा यामुनतीर्थके

154.11

मां पश्यन्तौ नियमतस्तत्रैव निधनं गतौ ॥
मृतौ सर्वपरित्यक्तौ गतौ मम सलोकताम्

154.12

एतत्ते कथितं देवि आश्चर्यं यदभून्महत् ॥
त्यक्त्वा चात्मतनुं तीर्थे धारापतनसंज्ञके

154.13

नाकलोकमवाप्नोति त्यक्तपापो न संशयः ॥
यमुनेश्वरमासाद्य त्यक्त्वा जीवितमात्मनः

154.14

विष्णुलोकमवाप्नोति दिव्यमूर्तिश्चतुर्भुजः ॥
धारापतनके स्नात्वा नाकलोके स मोदते

154.15

अथात्र मुंचते प्राणान्मम लोकं स गच्छति ॥
अतः परं नागतीर्थं तीर्थानामुत्तमोत्तमम्

154.16

यत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
घण्टाभरणकं तीर्थं सर्वपापप्रमोचनम्

154.17

।
यस्मिन्स्नातो नरो याति सूर्यलोकं न संशयः ॥
अथाऽत्र मुंचते प्राणान्मम लोकं स गच्छति

154.18

पुनरन्यत् प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
तीर्थानामुत्तमं तीर्थं ब्रह्मलोकेषु विश्रुतम्

154.19

तत्र स्नात्वा च पीत्वा च नियतो नियताशनः ॥
ब्रह्मणा समनुज्ञातो मम लोकं स गच्छति

154.154.20

सोमतीर्थे तु वसुधे पवित्रे यमुनाम्भसि ॥
यत्र पश्यति मां सोमो द्वापरे युगसंस्थिते

154.21

तत्राभिषेकं कुर्वीत स्वकर्मपरिनिष्ठितः ॥
मोदते सोमलोके तु एवमेव न संशयः

154.22

अथात्र मुंचते प्राणान्मम लोकं स गच्छति ॥
सरस्वत्याश्च पतनं सर्वपापहरं शुभम्

154.23

तत्र स्नातो नरो देवि अवर्णोऽपि यतिर्भवेत् ॥
पुनरन्यत्प्रवक्ष्यामि माथुरे मम मण्डले

154.24

यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः॥
स्नानमात्रेण मनुजो मुच्यते ब्रह्महत्यया

154.25

अथात्र मुंचते प्राणान्मम लोकं स गच्छति ॥
दशाश्वमेधमृषिभिः पूजितं सर्वदा मुदा

154.26

तत्र ये स्नान्ति नियतास्तेषां स्वर्गो न दुर्लभः ॥
मथुरापश्चिमे पार्श्वे सततं त्वृषिपूजितम्

154.27

ब्रह्मणा सृष्टिकाले तु मनसा निर्मितं पुरा ॥
मानसं नाम तीर्थं तु ऋषिभिः पूजितं पुरा

154.28

तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
तीर्थं तु विघ्नराजस्य पुण्यं पापहरं शुभम्

154.29

यत्र स्नातान्मनुष्यांश्च विघ्नराजो न पीडयेत् ॥
अष्टम्यां च चतुर्दश्यां चतुर्थ्यां तु विशेषतः

154.154.30

तस्मिंस्तीर्थवरे स्नातं न पीडयति विघ्नराट् ॥
विद्यारम्भेषु सर्वेषु यज्ञदानक्रियासु च

154.31

अविघ्नं कुरुते तस्य सततं पार्वतीसुतः ॥
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति

154.32

ततः परे कोटितीर्थे पवित्रं परमं स्मृतम् ॥
तत्र वै स्नानमात्रेण गवां कोटिफलं लभेत्

154.33

तथात्र मुञ्चते प्राणाँल्लोभमोहविवर्जितः ॥
सोमलोकमतिक्रम्य मम लोकं च गच्छति

154.34

अतः परं शिवक्षेत्रमर्द्धक्रोशं तु दुष्करम् ॥
तत्र स्थितो हरो देवो मथुरां रक्षते सदा

154.35

तत्र स्नात्वा च पीत्वा च माथुरं लभते फलम् ॥
अथाऽत्र मुञ्चते प्राणान्मम लोकं स गच्छति

154.154

इति श्रीवराहपुराणे मथुरामाहात्म्ये यमुनातीर्थप्रभावो नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc